| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः वर्णाश्रमकुलाचारमकामात्मा समाचरेत् १
मया उदितेषु अवहितः स्वधर्मेषु मद्-आश्रयः वर्ण-आश्रम-कुलाचारम् अकाम-आत्मा समाचरेत्
mayā uditeṣu avahitaḥ svadharmeṣu mad-āśrayaḥ varṇa-āśrama-kulācāram akāma-ātmā samācaret
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् २
अन्वीक्षेत विशुद्ध-आत्मा देहिनाम् विषय-आत्मनाम् । गुणेषु तत्त्व-ध्यानेन सर्व-आरम्भ-विपर्ययम्
anvīkṣeta viśuddha-ātmā dehinām viṣaya-ātmanām . guṇeṣu tattva-dhyānena sarva-ārambha-viparyayam
सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद्विफलस्तथा भेदात्मधीर्गुणैः ३
सुप्तस्य विषय-आलोकः ध्यायतः वा मनोरथः । नाना आत्मक-त्वात् विफलः तथा भेद-आत्म-धीः गुणैः
suptasya viṣaya-ālokaḥ dhyāyataḥ vā manorathaḥ . nānā ātmaka-tvāt viphalaḥ tathā bheda-ātma-dhīḥ guṇaiḥ
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत्कर्मचोदनाम् ४
निवृत्तम् कर्म सेवेत प्रवृत्तम् मद्-परः त्यजेत् । जिज्ञासायाम् सम्प्रवृत्तः न आद्रियेत् कर्म-चोदनाम्
nivṛttam karma seveta pravṛttam mad-paraḥ tyajet . jijñāsāyām sampravṛttaḥ na ādriyet karma-codanām
यमानभीक्ष्णं सेवेत नियमान्मत्परः क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ५
यमान् अभीक्ष्णम् सेवेत नियमान् मद्-परः क्वचिद् । मद्-अभिज्ञम् गुरुम् शान्तम् उपासीत मद्-आत्मकम्
yamān abhīkṣṇam seveta niyamān mad-paraḥ kvacid . mad-abhijñam gurum śāntam upāsīta mad-ātmakam
अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ६
अमान्य-मत्सरः दक्षः निर्ममः दृढ-सौहृदः । अ स त्वरः अर्थ-जिज्ञासुः अनसूयुः अमोघ-वाच्
amānya-matsaraḥ dakṣaḥ nirmamaḥ dṛḍha-sauhṛdaḥ . a sa tvaraḥ artha-jijñāsuḥ anasūyuḥ amogha-vāc
जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु । उदासीनः समं पश्यन्सर्वेष्वर्थमिवात्मनः ७
जाया-अपत्य-गृह-क्षेत्र-स्व-जन-द्रविण-आदिषु । उदासीनः समम् पश्यन् सर्वेषु अर्थम् इव आत्मनः
jāyā-apatya-gṛha-kṣetra-sva-jana-draviṇa-ādiṣu . udāsīnaḥ samam paśyan sarveṣu artham iva ātmanaḥ
विलक्षणः स्थूलसूक्ष्माद्देहादात्मेक्षिता स्वदृक् । यथाग्निर्दारुणो दाह्याद्दाहकोऽन्यः प्रकाशकः ८
विलक्षणः स्थूल-सूक्ष्मात् देहात् आत्मा ईक्षिता स्वदृश् । यथा अग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः
vilakṣaṇaḥ sthūla-sūkṣmāt dehāt ātmā īkṣitā svadṛś . yathā agniḥ dāruṇaḥ dāhyāt dāhakaḥ anyaḥ prakāśakaḥ
निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान्गुणान् । अन्तः प्रविष्ट आधत्त एवं देहगुणान्परः ९
निरोध-उत्पत्ति-अणु-बृहत्-नानात्वम् तद्-कृतान् गुणान् । अन्तर् प्रविष्टः आधत्ते एवम् देह-गुणान् परः
nirodha-utpatti-aṇu-bṛhat-nānātvam tad-kṛtān guṇān . antar praviṣṭaḥ ādhatte evam deha-guṇān paraḥ
योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि । संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः १०
यः असौ गुणैः विरचितः देहः अयम् पुरुषस्य हि । संसारः तद्-निबन्धः अयम् पुंसः विद्यात् शिद्-आत्मनः
yaḥ asau guṇaiḥ viracitaḥ dehaḥ ayam puruṣasya hi . saṃsāraḥ tad-nibandhaḥ ayam puṃsaḥ vidyāt śid-ātmanaḥ
तस्माज्जिज्ञासयात्मानमात्मस्थं केवलं परम् । सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम् ११
तस्मात् जिज्ञासया आत्मानम् आत्म-स्थम् केवलम् परम् । सङ्गम्य निरसेत् एतत् वस्तु-बुद्धिम् यथाक्रमम्
tasmāt jijñāsayā ātmānam ātma-stham kevalam param . saṅgamya niraset etat vastu-buddhim yathākramam
आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः । तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः १२
आचार्यः अरणिः आद्यः स्यात् अन्तेवासी उत्तरारणिः । तद्-सन्धानम् प्रवचनम् विद्या-सन्धिः सुख-आवहः
ācāryaḥ araṇiḥ ādyaḥ syāt antevāsī uttarāraṇiḥ . tad-sandhānam pravacanam vidyā-sandhiḥ sukha-āvahaḥ
वैशारदी सातिविशुद्धबुद्धिर्धुनोति मायां गुणसम्प्रसूताम् । गुणांश्च सन्दह्य यदात्ममेतत्स्वयं च शाम्यत्यसमिद् यथाग्निः १३
वैशारदी सा अति विशुद्ध-बुद्धिः धुनोति मायाम् गुण-सम्प्रसूताम् । गुणान् च सन्दह्य यत् आत्मम् एतत् स्वयम् च शाम्यति अ समिध् यथा अग्निः
vaiśāradī sā ati viśuddha-buddhiḥ dhunoti māyām guṇa-samprasūtām . guṇān ca sandahya yat ātmam etat svayam ca śāmyati a samidh yathā agniḥ
अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । नानात्वमथ नित्यत्वं लोककालागमात्मनाम् १४
अथ एषाम् कर्म-कर्तॄणाम् भोक्तॄणाम् सुख-दुःखयोः । नानात्वम् अथ नित्य-त्वम् लोक-काल-आगम-आत्मनाम्
atha eṣām karma-kartṝṇām bhoktṝṇām sukha-duḥkhayoḥ . nānātvam atha nitya-tvam loka-kāla-āgama-ātmanām
मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा । तत्तदाकृतिभेदेन जायते भिद्यते च धीः १५
मन्यसे सर्व-भावानाम् संस्था हि औत्पत्तिकी यथा । तद्-तद्-आकृति-भेदेन जायते भिद्यते च धीः
manyase sarva-bhāvānām saṃsthā hi autpattikī yathā . tad-tad-ākṛti-bhedena jāyate bhidyate ca dhīḥ
एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः । कालावयवतः सन्ति भावा जन्मादयोऽसकृत् १६
एवम् अपि अङ्ग सर्वेषाम् देहिनाम् देह-योगतः । काल-अवयवतः सन्ति भावाः जन्म-आदयः असकृत्
evam api aṅga sarveṣām dehinām deha-yogataḥ . kāla-avayavataḥ santi bhāvāḥ janma-ādayaḥ asakṛt
तत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते । भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत् १७
तत्र अपि कर्मणाम् कर्तुः अस्वातन्त्र्यम् च लक्ष्यते । भोक्तुः च दुःख-सुखयोः कः नु अर्थः विवशम् भजेत्
tatra api karmaṇām kartuḥ asvātantryam ca lakṣyate . bhoktuḥ ca duḥkha-sukhayoḥ kaḥ nu arthaḥ vivaśam bhajet
न देहिनां सुखं किञ्चिद्विद्यते विदुषामपि । तथा च दुःखं मूढानां वृथाहङ्करणं परम् १८
न देहिनाम् सुखम् किञ्चिद् विद्यते विदुषाम् अपि । तथा च दुःखम् मूढानाम् वृथा अहङ्करणम् परम्
na dehinām sukham kiñcid vidyate viduṣām api . tathā ca duḥkham mūḍhānām vṛthā ahaṅkaraṇam param
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद्यथा १९
यदि प्राप्तिम् विघातम् च जानन्ति सुख-दुःखयोः । ते अपि अद्धा न विदुः योगम् मृत्युः न प्रभवेत् यथा
yadi prāptim vighātam ca jānanti sukha-duḥkhayoḥ . te api addhā na viduḥ yogam mṛtyuḥ na prabhavet yathā
कोऽन्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिदः २०
कः अन्वर्थः सुखयति एनम् कामः वा मृत्युः अन्तिके । आघातम् नीयमानस्य वध्यस्य इव न तुष्टि-दः
kaḥ anvarthaḥ sukhayati enam kāmaḥ vā mṛtyuḥ antike . āghātam nīyamānasya vadhyasya iva na tuṣṭi-daḥ
श्रुतं च दृष्टवद्दुष्टं स्पर्धासूयात्ययव्ययैः । बह्वन्तरायकामत्वात्कृषिवच्चापि निष्फलम् २१
श्रुतम् च दृष्ट-वत् दुष्टम् स्पर्धा-असूया-अत्यय-व्ययैः । बहु-अन्तराय-काम-त्वात् कृषि-वत् च अपि निष्फलम्
śrutam ca dṛṣṭa-vat duṣṭam spardhā-asūyā-atyaya-vyayaiḥ . bahu-antarāya-kāma-tvāt kṛṣi-vat ca api niṣphalam
अन्तरायैरविहितो यदि धर्मः स्वनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु २२
अन्तरायैः अविहितः यदि धर्मः सु अनुष्ठितः । तेन अपि निर्जितम् स्थानम् यथा गच्छति तत् शृणु
antarāyaiḥ avihitaḥ yadi dharmaḥ su anuṣṭhitaḥ . tena api nirjitam sthānam yathā gacchati tat śṛṇu
इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः । भुञ्जीत देववत्तत्र भोगान्दिव्यान्निजार्जितान् २३
इष्ट्वा इह देवताः यज्ञैः स्वर् लोकम् याति याज्ञिकः । भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निज-अर्जितान्
iṣṭvā iha devatāḥ yajñaiḥ svar lokam yāti yājñikaḥ . bhuñjīta deva-vat tatra bhogān divyān nija-arjitān
स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर्विहरन्मध्ये देवीनां हृद्यवेषधृक् २४
स्व-पुण्य-उपचिते शुभ्रे विमाने उपगीयते । गन्धर्वैः विहरन् मध्ये देवीनाम् हृद्य-वेष-धृक्
sva-puṇya-upacite śubhre vimāne upagīyate . gandharvaiḥ viharan madhye devīnām hṛdya-veṣa-dhṛk
स्त्रीभिः कामगयानेन किङ्किणीजालमालिना । क्रीडन्न वेदात्मपातं सुराक्रीडेषु निर्वृतः २५
स्त्रीभिः कामगया अनेन किङ्किणी-जाल-मालिना । क्रीडन् न वेद आत्मपातम् सुर-आक्रीडेषु निर्वृतः
strībhiḥ kāmagayā anena kiṅkiṇī-jāla-mālinā . krīḍan na veda ātmapātam sura-ākrīḍeṣu nirvṛtaḥ
तावत्स मोदते स्वर्गे यावत्पुण्यं समाप्यते । क्षीणपुण्यः पतत्यर्वागनिच्छन्कालचालितः २६
तावत् स मोदते स्वर्गे यावत् पुण्यम् समाप्यते । क्षीण-पुण्यः पतति अर्वाक् अन् इच्छन् काल-चालितः
tāvat sa modate svarge yāvat puṇyam samāpyate . kṣīṇa-puṇyaḥ patati arvāk an icchan kāla-cālitaḥ
यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः । कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः २७
यदि अधर्म-रतः सङ्गात् असताम् वा अजित-इन्द्रियः । काम-आत्मा कृपणः लुब्धः स्त्रैणः भूत-विहिंसकः
yadi adharma-rataḥ saṅgāt asatām vā ajita-indriyaḥ . kāma-ātmā kṛpaṇaḥ lubdhaḥ straiṇaḥ bhūta-vihiṃsakaḥ
पशूनविधिनालभ्य प्रेतभूतगणान्यजन् । नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः २८
पशून् अविधिना आलभ्य प्रेत-भूत-गणान् यजन् । नरकान् अवशः जन्तुः गत्वा याति उल्बणम् तमः
paśūn avidhinā ālabhya preta-bhūta-gaṇān yajan . narakān avaśaḥ jantuḥ gatvā yāti ulbaṇam tamaḥ
कर्माणि दुःखोदर्काणि कुर्वन्देहेन तैः पुनः । देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः २९
कर्माणि दुःख-उदर्काणि कुर्वन् देहेन तैः पुनर् । देहम् आभजते तत्र किम् सुखम् मर्त्य-धर्मिणः
karmāṇi duḥkha-udarkāṇi kurvan dehena taiḥ punar . deham ābhajate tatra kim sukham martya-dharmiṇaḥ
लोकानां लोकपालानां मद्भयं कल्पजीविनाम् । ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः ३०
लोकानाम् लोकपालानाम् मद्-भयम् कल्प-जीविनाम् । ब्रह्मणः अपि भयम् मत्तः द्वि-परार्ध-परायुषः
lokānām lokapālānām mad-bhayam kalpa-jīvinām . brahmaṇaḥ api bhayam mattaḥ dvi-parārdha-parāyuṣaḥ
गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान् । जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ ३१
गुणाः सृजन्ति कर्माणि गुणः अनुसृजते गुणान् । जीवः तु गुण-संयुक्तः भुङ्क्ते कर्म-फलानि असौ
guṇāḥ sṛjanti karmāṇi guṇaḥ anusṛjate guṇān . jīvaḥ tu guṇa-saṃyuktaḥ bhuṅkte karma-phalāni asau
यावत्स्याद्गुणवैषम्यं तावन्नानात्वमात्मनः । नानात्वमात्मनो यावत्पारतन्त्र्यं तदैव हि ३२
यावत् स्यात् गुण-वैषम्यम् तावत् नानात्वम् आत्मनः । नानात्वम् आत्मनः यावत् पारतन्त्र्यम् तदा एव हि
yāvat syāt guṇa-vaiṣamyam tāvat nānātvam ātmanaḥ . nānātvam ātmanaḥ yāvat pāratantryam tadā eva hi
यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम् । य एतत्समुपासीरंस्ते मुह्यन्ति शुचार्पिताः ३३
यावत् अस्य अस्वतन्त्र-त्वम् तावत् ईश्वरतः भयम् । ये एतत् समुपासीरन् ते मुह्यन्ति शुचा अर्पिताः
yāvat asya asvatantra-tvam tāvat īśvarataḥ bhayam . ye etat samupāsīran te muhyanti śucā arpitāḥ
काल आत्मागमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर्गुणव्यतिकरे सति ३४
कालः आत्म-आगमः लोकः स्वभावः धर्मः एव च । इति माम् बहुधा प्राहुः गुण-व्यतिकरे सति
kālaḥ ātma-āgamaḥ lokaḥ svabhāvaḥ dharmaḥ eva ca . iti mām bahudhā prāhuḥ guṇa-vyatikare sati
श्रीउद्धव उवाच
गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः । गुणैर्न बध्यते देही बध्यते वा कथं विभो ३५
गुणेषु वर्तमानः अपि देह-जेषु अनपावृतः । गुणैः न बध्यते देही बध्यते वा कथम् विभो
guṇeṣu vartamānaḥ api deha-jeṣu anapāvṛtaḥ . guṇaiḥ na badhyate dehī badhyate vā katham vibho
कथं वर्तेत विहरेत्कैर्वा ज्ञायेत लक्षणैः । किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा ३६
कथम् वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः । किम् भुञ्जीत उत विसृजेत् शयीत आसीत याति वा
katham varteta viharet kaiḥ vā jñāyeta lakṣaṇaiḥ . kim bhuñjīta uta visṛjet śayīta āsīta yāti vā
एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रमः ३७
एतत् अच्युत मे ब्रूहि प्रश्नम् प्रश्न-विदाम् वर । नित्य-बद्धः नित्य-मुक्तः एकः एव इति मे भ्रमः
etat acyuta me brūhi praśnam praśna-vidām vara . nitya-baddhaḥ nitya-muktaḥ ekaḥ eva iti me bhramaḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे भगवदुद्धवसंवादे दशमोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे भगवत्-उद्धव-संवादे दशमः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe bhagavat-uddhava-saṃvāde daśamaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In