| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच। ( अनुष्टुप् ) ।
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् १ ।
बद्धः मुक्तः इति व्याख्या गुणतः मे न वस्तुतस् । गुणस्य माया-मूल-त्वात् न मे मोक्षः न बन्धनम् ।
baddhaḥ muktaḥ iti vyākhyā guṇataḥ me na vastutas . guṇasya māyā-mūla-tvāt na me mokṣaḥ na bandhanam .
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया । स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी २ ।
शोक-मोहौ सुखम् दुःखम् देहापत्तिः च मायया । स्वप्नः यथा आत्मनः ख्यातिः संसृतिः न तु वास्तवी ।
śoka-mohau sukham duḥkham dehāpattiḥ ca māyayā . svapnaḥ yathā ātmanaḥ khyātiḥ saṃsṛtiḥ na tu vāstavī .
विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ३ ।
विद्या-अविद्ये मम तनू विद्धि उद्धव शरीरिणाम् । मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ।
vidyā-avidye mama tanū viddhi uddhava śarīriṇām . mokṣa-bandha-karī ādye māyayā me vinirmite .
एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः ४ ।
एकस्य एव मम अंशस्य जीवस्य एव महामते । बन्धः अस्य अविद्यया अनादिः विद्यया च तथा इतरः ।
ekasya eva mama aṃśasya jīvasya eva mahāmate . bandhaḥ asya avidyayā anādiḥ vidyayā ca tathā itaraḥ .
अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि ५ ।
अथ बद्धस्य मुक्तस्य वैलक्षण्यम् वदामि ते । विरुद्ध-धर्मिणोः तात स्थितयोः एक-धर्मिणि ।
atha baddhasya muktasya vailakṣaṇyam vadāmi te . viruddha-dharmiṇoḥ tāta sthitayoḥ eka-dharmiṇi .
सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे । एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ६ ।
सुपर्णौ एतौ सदृशौ सखायौ यदृच्छया एतौ कृत-नीडौ च वृक्षे । एकः तयोः खादति पिप्पल-अन्नम् अन्यः निरन्नः अपि बलेन भूयान् ।
suparṇau etau sadṛśau sakhāyau yadṛcchayā etau kṛta-nīḍau ca vṛkṣe . ekaḥ tayoḥ khādati pippala-annam anyaḥ nirannaḥ api balena bhūyān .
आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः । योऽविद्यया युक्स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ७ ।
आत्मानम् अन्यम् च स वेद विद्वान् अ पिप्पलादः न तु पिप्पलादः । यः अविद्यया युज् स तु नित्य-बद्धः विद्या-मयः यः स तु नित्य-मुक्तः ।
ātmānam anyam ca sa veda vidvān a pippalādaḥ na tu pippalādaḥ . yaḥ avidyayā yuj sa tu nitya-baddhaḥ vidyā-mayaḥ yaḥ sa tu nitya-muktaḥ .
देहस्थोऽपि न देहस्थो विद्वान्स्वप्नाद्यथोत्थितः । अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग्यथा ८ ।
देह-स्थः अपि न देह-स्थः विद्वान् स्वप्नात् यथा उत्थितः । अदेह-स्थः अपि देह-स्थः कुमतिः स्वप्न-दृश् यथा ।
deha-sthaḥ api na deha-sthaḥ vidvān svapnāt yathā utthitaḥ . adeha-sthaḥ api deha-sthaḥ kumatiḥ svapna-dṛś yathā .
इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च । गृह्यमाणेष्वहं कुर्यान्न विद्वान्यस्त्वविक्रियः ९ ।
इन्द्रियैः इन्द्रिय-अर्थेषु गुणैः अपि गुणेषु च । गृह्यमाणेषु अहम् कुर्यात् न विद्वान् यः तु अविक्रियः ।
indriyaiḥ indriya-artheṣu guṇaiḥ api guṇeṣu ca . gṛhyamāṇeṣu aham kuryāt na vidvān yaḥ tu avikriyaḥ .
दैवाधीने शरीरेऽस्मिन्गुणभाव्येन कर्मणा । वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते १० ।
दैव-अधीने शरीरे अस्मिन् गुण-भाव्येन कर्मणा । वर्तमानः अबुधः तत्र कर्तास्मि इति निबध्यते ।
daiva-adhīne śarīre asmin guṇa-bhāvyena karmaṇā . vartamānaḥ abudhaḥ tatra kartāsmi iti nibadhyate .
एवं विरक्तः शयन आसनाटनमज्जने । दर्शनस्पर्शनघ्राण भोजनश्रवणादिषु । न तथा बध्यते विद्वान्तत्र तत्रादयन्गुणान् ११ ।
एवम् विरक्तः शयने आसन-अटन-मज्जने । दर्शन-स्पर्शन-घ्राण-भोजन-श्रवण-आदिषु । न तथा बध्यते विद्वान् तत्र तत्र अदयन् गुणान् ।
evam viraktaḥ śayane āsana-aṭana-majjane . darśana-sparśana-ghrāṇa-bhojana-śravaṇa-ādiṣu . na tathā badhyate vidvān tatra tatra adayan guṇān .
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः । वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः । प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते १२ ।
प्रकृति-स्थः अपि असंसक्तः यथा खम् सविता अनिलः । वैशारद्य-ईक्षया असङ्ग शितया छिन्न-संशयः । प्रतिबुद्धः इव स्वप्नात् नानात्वात् विनिवर्तते ।
prakṛti-sthaḥ api asaṃsaktaḥ yathā kham savitā anilaḥ . vaiśāradya-īkṣayā asaṅga śitayā chinna-saṃśayaḥ . pratibuddhaḥ iva svapnāt nānātvāt vinivartate .
यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रि यर्ननोधियाम् । वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः १४ ।
यस्य स्युः वीत-सङ्कल्पाः प्राण-इन्द्रि यद्-ऋन-नः-धियाम् । वृत्तयः स विनिर्मुक्तः देह-स्थः अपि हि तद्-गुणैः ।
yasya syuḥ vīta-saṅkalpāḥ prāṇa-indri yad-ṛna-naḥ-dhiyām . vṛttayaḥ sa vinirmuktaḥ deha-sthaḥ api hi tad-guṇaiḥ .
यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद्यदृच्छया । अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः १५ ।
यस्य आत्मा हिंस्यते हिंस्रैः येन किञ्चिद् यदृच्छया । अर्च्यते वा क्वचिद् तत्र न व्यतिक्रियते बुधः ।
yasya ātmā hiṃsyate hiṃsraiḥ yena kiñcid yadṛcchayā . arcyate vā kvacid tatra na vyatikriyate budhaḥ .
न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा । वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः १६ ।
न स्तुवीत न निन्देत कुर्वतः साधु असाधु वा । वदतः गुण-दोषाभ्याम् वर्जितः समदृश् मुनिः ।
na stuvīta na nindeta kurvataḥ sādhu asādhu vā . vadataḥ guṇa-doṣābhyām varjitaḥ samadṛś muniḥ .
न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः १७ ।
न कुर्यात् न वदेत् किञ्चिद् न ध्यायेत् साधु असाधु वा । आत्म-आरामः अनया वृत्त्या विचरेत् जड-वत् मुनिः ।
na kuryāt na vadet kiñcid na dhyāyet sādhu asādhu vā . ātma-ārāmaḥ anayā vṛttyā vicaret jaḍa-vat muniḥ .
शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि । श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः १८ ।
शब्दब्रह्मणि निष्णातः न निष्णायात् परे यदि । श्रमः तस्य श्रम-फलः हि अधेनुम् इव रक्षतः ।
śabdabrahmaṇi niṣṇātaḥ na niṣṇāyāt pare yadi . śramaḥ tasya śrama-phalaḥ hi adhenum iva rakṣataḥ .
गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च । वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी १९ ।
गाम् दुग्ध-दोहाम् असतीम् च भार्याम् देहम् पर-अधीनम् असत्-प्रजाम् च । वित्तम् तु अतीर्थीकृतम् अङ्ग वाचम् हीनाम् मया रक्षति दुःख-दुःखी ।
gām dugdha-dohām asatīm ca bhāryām deham para-adhīnam asat-prajām ca . vittam tu atīrthīkṛtam aṅga vācam hīnām mayā rakṣati duḥkha-duḥkhī .
यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य । लीलावतारेप्सितजन्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः २० ।
यस्याम् न मे पावनम् अङ्ग कर्म स्थिति-उद्भव-प्राण-निरोधम् अस्य । लीलावतार-ईप्सित-जन्म वा स्यात् वन्ध्याम् गिरम् ताम् बिभृयात् न धीरः ।
yasyām na me pāvanam aṅga karma sthiti-udbhava-prāṇa-nirodham asya . līlāvatāra-īpsita-janma vā syāt vandhyām giram tām bibhṛyāt na dhīraḥ .
एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि । उपारमेत विरजं मनो मय्यर्प्य सर्वगे २१ ।
एवम् जिज्ञासया अपोह्य नानात्व-भ्रमम् आत्मनि । उपारमेत विरजम् मनः मयि अर्प्य सर्वगे ।
evam jijñāsayā apohya nānātva-bhramam ātmani . upārameta virajam manaḥ mayi arpya sarvage .
यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर २२ ।
यदि अनीशः धारयितुम् मनः ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ।
yadi anīśaḥ dhārayitum manaḥ brahmaṇi niścalam . mayi sarvāṇi karmāṇi nirapekṣaḥ samācara .
श्रद्धालुर्मत्कथाः शृण्वन्सुभद्रा लोकपावनीः । गायन्ननुस्मरन्कर्म जन्म चाभिनयन्मुहुः २३ ।
श्रद्धालुः मद्-कथाः शृण्वन् सु भद्राः लोक-पावनीः । गायन् अनुस्मरन् कर्म जन्म च अभिनयन् मुहुर् ।
śraddhāluḥ mad-kathāḥ śṛṇvan su bhadrāḥ loka-pāvanīḥ . gāyan anusmaran karma janma ca abhinayan muhur .
मदर्थे धर्मकामार्थानाचरन्मदपाश्रयः । लभते निश्चलां भक्तिं मय्युद्धव सनातने २४ ।
मद्-अर्थे धर्म-काम-अर्थान् आचरन् मद्-अपाश्रयः । लभते निश्चलाम् भक्तिम् मयि उद्धव सनातने ।
mad-arthe dharma-kāma-arthān ācaran mad-apāśrayaḥ . labhate niścalām bhaktim mayi uddhava sanātane .
सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम् २५ ।
सत्-सङ्ग-लब्धया भक्त्या मयि माम् सः उपासिता । स वै मे दर्शितम् सद्भिः अञ्जसा विन्दते पदम् ।
sat-saṅga-labdhayā bhaktyā mayi mām saḥ upāsitā . sa vai me darśitam sadbhiḥ añjasā vindate padam .
श्रीउद्धव उवाच।
साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता २६ ।
साधुः तव उत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिः त्वयि उपयुज्येत कीदृशी सद्भिः आदृता ।
sādhuḥ tava uttamaśloka mataḥ kīdṛgvidhaḥ prabho . bhaktiḥ tvayi upayujyeta kīdṛśī sadbhiḥ ādṛtā .
एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् २७ ।
एतत् मे पुरुषाध्यक्ष लोक-अध्यक्ष जगत्प्रभो । प्रणताय अनुरक्ताय प्रपन्नाय च कथ्यताम् ।
etat me puruṣādhyakṣa loka-adhyakṣa jagatprabho . praṇatāya anuraktāya prapannāya ca kathyatām .
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्णोऽसि भगवन्स्वेच्छोपात्तपृथग्वपुः २८ ।
त्वम् ब्रह्म परमम् व्योम पुरुषः प्रकृतेः परः । अवतीर्णः असि भगवन् स्व-इच्छा-उपात्त-पृथक् वपुः ।
tvam brahma paramam vyoma puruṣaḥ prakṛteḥ paraḥ . avatīrṇaḥ asi bhagavan sva-icchā-upātta-pṛthak vapuḥ .
श्रीभगवानुवाच।
कृपालुरकृतद्रो हस्तितिक्षुः सर्वदेहिनाम् । सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः २९ ।
कृपालुः अकृतद्रः ह स्तितिक्षुः सर्व-देहिनाम् । सत्य-सारः अनवद्य-आत्मा समः सर्व-उपकारकः ।
kṛpāluḥ akṛtadraḥ ha stitikṣuḥ sarva-dehinām . satya-sāraḥ anavadya-ātmā samaḥ sarva-upakārakaḥ .
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक्शान्तः स्थिरो मच्छरणो मुनिः ३० ।
कामैः अहत-धीः दान्तः मृदुः शुचिः अकिञ्चनः । अनीहः मित-भुज् शान्तः स्थिरः मद्-शरणः मुनिः ।
kāmaiḥ ahata-dhīḥ dāntaḥ mṛduḥ śuciḥ akiñcanaḥ . anīhaḥ mita-bhuj śāntaḥ sthiraḥ mad-śaraṇaḥ muniḥ .
अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ३१ ।
अप्रमत्तः गभीर-आत्मा धृतिमान् जित-षड्गुणः । अमानी मानदः कल्यः मैत्रः कारुणिकः कविः ।
apramattaḥ gabhīra-ātmā dhṛtimān jita-ṣaḍguṇaḥ . amānī mānadaḥ kalyaḥ maitraḥ kāruṇikaḥ kaviḥ .
आज्ञायैवं गुणान्दोषान्मयादिष्टानपि स्वकान् । धर्मान्सन्त्यज्य यः सर्वान्मां भजेत स तु सत्तमः ३२ ।
आज्ञाय एवम् गुणान् दोषान् मया आदिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् माम् भजेत स तु सत्तमः ।
ājñāya evam guṇān doṣān mayā ādiṣṭān api svakān . dharmān santyajya yaḥ sarvān mām bhajeta sa tu sattamaḥ .
ज्ञात्वाज्ञात्वाथ ये वै मां यावान्यश्चास्मि यादृशः । भजन्त्यनन्यभावेन ते मे भक्ततमा मताः ३३ ।
ज्ञात्वा अ ज्ञात्वा अथ ये वै माम् यावान् यः च अस्मि यादृशः । भजन्ति अनन्य-भावेन ते मे भक्ततमाः मताः ।
jñātvā a jñātvā atha ye vai mām yāvān yaḥ ca asmi yādṛśaḥ . bhajanti ananya-bhāvena te me bhaktatamāḥ matāḥ .
मल्लिङ्गमद्भक्तजन दर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व गुणकर्मानुकीर्तनम् ३४ ।
मद्-लिङ्ग-मद्-भक्त-जन दर्शन-स्पर्शन-अर्चनम् । परिचर्या स्तुतिः गुण-कर्म-अनुकीर्तनम् ।
mad-liṅga-mad-bhakta-jana darśana-sparśana-arcanam . paricaryā stutiḥ guṇa-karma-anukīrtanam .
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ३५ ।
मद्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव । सर्व-लाभ-उपहरणम् दास्येन आत्म-निवेदनम् ।
mad-kathā-śravaṇe śraddhā mad-anudhyānam uddhava . sarva-lābha-upaharaṇam dāsyena ātma-nivedanam .
मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्र गोष्ठीभिर्मद्गृहोत्सवः ३६ ।
मद्-जन्म-कर्म-कथनम् मम पर्व-अनुमोदनम् । गीत-ताण्डव-वादित्र गोष्ठीभिः मद्-गृह-उत्सवः ।
mad-janma-karma-kathanam mama parva-anumodanam . gīta-tāṇḍava-vāditra goṣṭhībhiḥ mad-gṛha-utsavaḥ .
यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ३७ ।
यात्रा बलि-विधानम् च सर्व-वार्षिक-पर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ।
yātrā bali-vidhānam ca sarva-vārṣika-parvasu . vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam .
ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड पुरमन्दिरकर्मणि ३८ ।
मम अर्चा-स्थापने श्रद्धा स्वतस् संहत्य च उद्यमः । उद्यान-उपवन-आक्रीड पुर-मन्दिर-कर्मणि ।
mama arcā-sthāpane śraddhā svatas saṃhatya ca udyamaḥ . udyāna-upavana-ākrīḍa pura-mandira-karmaṇi .
सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद्यदमायया ३९ ।
सम्मार्जन-उपलेपाभ्याम् सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणम् मह्यम् दास-वत् यत् अमायया ।
sammārjana-upalepābhyām seka-maṇḍala-vartanaiḥ . gṛha-śuśrūṣaṇam mahyam dāsa-vat yat amāyayā .
अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ४० ।
अमानि-त्वम् अदम्भि-त्वम् कृतस्य अ परिकीर्तनम् । अपि दीप-अवलोकम् मे ना उपयुञ्ज्यात् निवेदितम् ।
amāni-tvam adambhi-tvam kṛtasya a parikīrtanam . api dīpa-avalokam me nā upayuñjyāt niveditam .
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ४१ ।
यत् यत् इष्टतमम् लोके यत् च अति प्रियम् आत्मनः । तत् तत् निवेदयेत् मह्यम् तत् आनन्त्याय कल्पते ।
yat yat iṣṭatamam loke yat ca ati priyam ātmanaḥ . tat tat nivedayet mahyam tat ānantyāya kalpate .
सूर्योऽग्निर्ब्राह्मणा गावो वैष्णवः खं मरुज्जलम् । भूरात्मा सर्वभूतानि भद्र पूजापदानि मे ४२ ।
सूर्यः अग्निः ब्राह्मणाः गावः वैष्णवः खम् मरुत् जलम् । भूः आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ।
sūryaḥ agniḥ brāhmaṇāḥ gāvaḥ vaiṣṇavaḥ kham marut jalam . bhūḥ ātmā sarva-bhūtāni bhadra pūjā-padāni me .
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना ४३ ।
सूर्ये तु विद्यया त्रय्या हविषा अग्नौ यजेत माम् । आतिथ्येन तु विप्र-अग्र्ये गोषु अङ्ग यवस-आदिना ।
sūrye tu vidyayā trayyā haviṣā agnau yajeta mām . ātithyena tu vipra-agrye goṣu aṅga yavasa-ādinā .
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरःसरैः ४४ ।
। वायौ मुख्य-धिया तोये द्रव्यैः तोय-पुरःसरैः ।
. vāyau mukhya-dhiyā toye dravyaiḥ toya-puraḥsaraiḥ .
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ४५ ।
स्थण्डिले मन्त्र-हृदयैः भोगैः आत्मानम् आत्मनि । क्षेत्रज्ञम् सर्व-भूतेषु सम-त्वेन यजेत माम् ।
sthaṇḍile mantra-hṛdayaiḥ bhogaiḥ ātmānam ātmani . kṣetrajñam sarva-bhūteṣu sama-tvena yajeta mām .
धिष्ण्येष्वित्येषु मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत्समाहितः ४६ ।
धिष्ण्येषु इति एषु मद्-रूपम् शङ्ख-चक्र-गदा-अम्बुजैः । युक्तम् चतुर्भुजम् शान्तम् ध्यायन् अर्चेत् समाहितः ।
dhiṣṇyeṣu iti eṣu mad-rūpam śaṅkha-cakra-gadā-ambujaiḥ . yuktam caturbhujam śāntam dhyāyan arcet samāhitaḥ .
इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ४७ ।
इष्टापूर्तेन माम् एवम् यः यजेत समाहितः । लभते मयि सत्-भक्तिम् मद्-स्मृतिः साधु-सेवया ।
iṣṭāpūrtena mām evam yaḥ yajeta samāhitaḥ . labhate mayi sat-bhaktim mad-smṛtiḥ sādhu-sevayā .
प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक्प्रायणं हि सतामहम् ४८ ।
प्रायेण भक्ति-योगेन सत्-सङ्गेन विना उद्धव । न उपायः विद्यते सम्यक् प्रायणम् हि सताम् अहम् ।
prāyeṇa bhakti-yogena sat-saṅgena vinā uddhava . na upāyaḥ vidyate samyak prāyaṇam hi satām aham .
अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखा ४९ ।
अथा एतत् परमम् गुह्यम् शृण्वतः यदुनन्दन । सु गोप्यम् अपि वक्ष्यामि त्वम् मे भृत्यः सुहृद्-सखा ।
athā etat paramam guhyam śṛṇvataḥ yadunandana . su gopyam api vakṣyāmi tvam me bhṛtyaḥ suhṛd-sakhā .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकादशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे एकादशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ekādaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In