| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा १ ।
न रोधयति माम् योगः न साङ्ख्यम् धर्मः एव च । न स्वाध्यायः तपः त्यागः न इष्टापूर्तम् न दक्षिणा ।
na rodhayati mām yogaḥ na sāṅkhyam dharmaḥ eva ca . na svādhyāyaḥ tapaḥ tyāgaḥ na iṣṭāpūrtam na dakṣiṇā .
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् २ ।
व्रतानि यज्ञः छन्दांसि तीर्थानि नियमाः यमाः । यथा अवरुन्धे सत्-सङ्गः सर्व-सङ्ग-अपहः हि माम् ।
vratāni yajñaḥ chandāṃsi tīrthāni niyamāḥ yamāḥ . yathā avarundhe sat-saṅgaḥ sarva-saṅga-apahaḥ hi mām .
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ३ ।
सत्-सङ्गेन हि दैतेयाः यातुधानाः मृगाः खगाः । गन्धर्व-अप्सरसः नागाः सिद्धाः चारण-गुह्यकाः ।
sat-saṅgena hi daiteyāḥ yātudhānāḥ mṛgāḥ khagāḥ . gandharva-apsarasaḥ nāgāḥ siddhāḥ cāraṇa-guhyakāḥ .
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः । रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन्युगे युगे ४ ।
विद्याधराः मनुष्येषु वैश्याः शूद्राः स्त्रियः अन्त्यजाः । रजः-तमः-प्रकृतयः तस्मिन् तस्मिन् युगे युगे ।
vidyādharāḥ manuṣyeṣu vaiśyāḥ śūdrāḥ striyaḥ antyajāḥ . rajaḥ-tamaḥ-prakṛtayaḥ tasmin tasmin yuge yuge .
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ५ ।
बहवः मद्-पदम् प्राप्ताः त्वाष्ट्र-कायाधव-आदयः । वृषपर्वा बलिः बाणः मयः च अथ विभीषणः ।
bahavaḥ mad-padam prāptāḥ tvāṣṭra-kāyādhava-ādayaḥ . vṛṣaparvā baliḥ bāṇaḥ mayaḥ ca atha vibhīṣaṇaḥ .
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ६ ।
सुग्रीवः हनुमान् ऋक्षः गजः गृध्रः वणिक्पथः । व्याधः कुब्जाः व्रजे गोप्यः यज्ञपत्न्यः तथा अपरे ।
sugrīvaḥ hanumān ṛkṣaḥ gajaḥ gṛdhraḥ vaṇikpathaḥ . vyādhaḥ kubjāḥ vraje gopyaḥ yajñapatnyaḥ tathā apare .
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः ७ ।
ते न अधीत-श्रुति-गणाः न उपासित-महत्तमाः । अव्रत-अ तप्त-तपसः मद्-सङ्गात् माम् उपागताः ।
te na adhīta-śruti-gaṇāḥ na upāsita-mahattamāḥ . avrata-a tapta-tapasaḥ mad-saṅgāt mām upāgatāḥ .
केवलेन हि भावेन गोप्यो गावो नगा मृगाः । येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा ८ ।
केवलेन हि भावेन गोप्यः गावः नगाः मृगाः । ये अन्ये मूढ-धियः नागाः सिद्धाः मामीयुः अञ्जसा ।
kevalena hi bhāvena gopyaḥ gāvaḥ nagāḥ mṛgāḥ . ye anye mūḍha-dhiyaḥ nāgāḥ siddhāḥ māmīyuḥ añjasā .
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि ९ ।
यम् न योगेन साङ्ख्येन दान-व्रत-तपः-अध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयात् यत्नवान् अपि ।
yam na yogena sāṅkhyena dāna-vrata-tapaḥ-adhvaraiḥ . vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyāt yatnavān api .
रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः । विगाढभावेन न मे वियोग तीव्राधयोऽन्यं ददृशुः सुखाय १० ।
रामेण सार्धम् मथुराम् प्रणीते श्वाफल्किना मयि अनुरक्त-चित्ताः । विगाढ-भावेन न मे वियोग तीव्र-आधयः अन्यम् ददृशुः सुखाय ।
rāmeṇa sārdham mathurām praṇīte śvāphalkinā mayi anurakta-cittāḥ . vigāḍha-bhāvena na me viyoga tīvra-ādhayaḥ anyam dadṛśuḥ sukhāya .
तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः ११ ।
ताः ताः क्षपाः प्रेष्ठतमेन नीताः मया एव वृन्दावन-गोचरेण । क्षणार्ध-वत्ताः पुनर् अङ्ग तासाम् हीनाः मया कल्प-समाः बभूवुः ।
tāḥ tāḥ kṣapāḥ preṣṭhatamena nītāḥ mayā eva vṛndāvana-gocareṇa . kṣaṇārdha-vattāḥ punar aṅga tāsām hīnāḥ mayā kalpa-samāḥ babhūvuḥ .
ता नाविदन्मय्यनुषङ्गबद्ध धियः स्वमात्मानमदस्तथेदम् । यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे १२ ।
ताः न अविदत् मयि अनुषङ्ग-बद्ध धियः स्वम् आत्मानम् अदः तथा इदम् । यथा समाधौ मुनयः अब्धि-तोये नद्यः प्रविष्टाः इव नाम-रूपे ।
tāḥ na avidat mayi anuṣaṅga-baddha dhiyaḥ svam ātmānam adaḥ tathā idam . yathā samādhau munayaḥ abdhi-toye nadyaḥ praviṣṭāḥ iva nāma-rūpe .
मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः १३ ।
मद्-कामाः रमणम् जारम् अस्वरूप-विदः अबलाः । ब्रह्म माम् परमम् प्रापुः सङ्गात् शत-सहस्रशस् ।
mad-kāmāḥ ramaṇam jāram asvarūpa-vidaḥ abalāḥ . brahma mām paramam prāpuḥ saṅgāt śata-sahasraśas .
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च १४ ।
तस्मात् त्वम् उद्धव उत्सृज्य चोदनाम् प्रतिचोदनाम् । प्रवृत्तिम् च निवृत्तिम् च श्रोतव्यम् श्रुतम् एव च ।
tasmāt tvam uddhava utsṛjya codanām praticodanām . pravṛttim ca nivṛttim ca śrotavyam śrutam eva ca .
मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः १५ ।
माम् एकम् एव शरणम् आत्मानम् सर्व-देहिनाम् । याहि सर्व-आत्म-भावेन मया स्याः हि अकुतोभयः ।
mām ekam eva śaraṇam ātmānam sarva-dehinām . yāhi sarva-ātma-bhāvena mayā syāḥ hi akutobhayaḥ .
श्रीउद्धव उवाच।
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः १६ ।
संशयः शृण्वतः वाचम् तव योग-ईश्वर-ईश्वर । न निवर्तते आत्म-स्थः येन भ्राम्यति मे मनः ।
saṃśayaḥ śṛṇvataḥ vācam tava yoga-īśvara-īśvara . na nivartate ātma-sthaḥ yena bhrāmyati me manaḥ .
श्रीभगवानुवाच।
स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः १७ ।
सः एष जीवः विवर-प्रसूतिः प्राणेन घोषेण गुहाम् प्रविष्टः । मनः-मयम् सूक्ष्मम् उपेत्य रूपम् मात्रा स्वरः वर्णः इति स्थविष्ठः ।
saḥ eṣa jīvaḥ vivara-prasūtiḥ prāṇena ghoṣeṇa guhām praviṣṭaḥ . manaḥ-mayam sūkṣmam upetya rūpam mātrā svaraḥ varṇaḥ iti sthaviṣṭhaḥ .
यथानलः खेऽनिलबन्धुरुष्मा बलेन दारुण्यधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी १८ ।
यथा अनलः खे अनिल-बन्धुः उष्मा बलेन दारुणि अधिमथ्यमानः । अणुः प्रजातः हविषा समेधते तथा एव मे व्यक्तिः इयम् हि वाणी ।
yathā analaḥ khe anila-bandhuḥ uṣmā balena dāruṇi adhimathyamānaḥ . aṇuḥ prajātaḥ haviṣā samedhate tathā eva me vyaktiḥ iyam hi vāṇī .
एवं गदिः कर्म गतिर्विसर्गो घ्राणो रसो दृक्स्पर्शः श्रुतिश्च । सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजःसत्त्वतमोविकारः १९ ।
एवम् गदिः कर्म गतिः विसर्गः घ्राणः रसः दृश्-स्पर्शः श्रुतिः च । सङ्कल्प-विज्ञानम् अथ अभिमानः सूत्रम् रजः-सत्त्व-तमः-विकारः ।
evam gadiḥ karma gatiḥ visargaḥ ghrāṇaḥ rasaḥ dṛś-sparśaḥ śrutiḥ ca . saṅkalpa-vijñānam atha abhimānaḥ sūtram rajaḥ-sattva-tamaḥ-vikāraḥ .
अयं हि जीवस्त्रिवृदब्जयोनिरव्यक्त एको वयसा स आद्यः । विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् २० ।
अयम् हि जीवः त्रिवृत् अब्जयोनिः अव्यक्तः एकः वयसा सः आद्यः । विश्लिष्ट-शक्तिः बहुधा इव भाति बीजानि योनिम् प्रतिपद्य यद्वत् ।
ayam hi jīvaḥ trivṛt abjayoniḥ avyaktaḥ ekaḥ vayasā saḥ ādyaḥ . viśliṣṭa-śaktiḥ bahudhā iva bhāti bījāni yonim pratipadya yadvat .
यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते २१ ।
यस्मिन् इदम् प्रोतम् अशेषम् ओतम् पटः यथा तन्तु-वितान-संस्थः । यः एष संसार-तरुः पुराणः कर्म-आत्मकः पुष्प-फले प्रसूते ।
yasmin idam protam aśeṣam otam paṭaḥ yathā tantu-vitāna-saṃsthaḥ . yaḥ eṣa saṃsāra-taruḥ purāṇaḥ karma-ātmakaḥ puṣpa-phale prasūte .
द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीडस्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः २२ ।
द्वे अस्य बीजे शत-मूलः त्रि-नालः पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः । दश-एक-शाखः द्वि-सुपर्ण-नीडः त्रि-वल्कलः द्वि-फलः अर्कम् प्रविष्टः ।
dve asya bīje śata-mūlaḥ tri-nālaḥ pañca-skandhaḥ pañca-rasa-prasūtiḥ . daśa-eka-śākhaḥ dvi-suparṇa-nīḍaḥ tri-valkalaḥ dvi-phalaḥ arkam praviṣṭaḥ .
अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः । हंसा य एकं बहुरूपमिज्यैर्मायामयं वेद स वेद वेदम् २३ ।
अदन्ति च एकम् फलम् अस्य गृध्राः ग्रामेचराः एकम् अरण्य-वासाः । हंसाः ये एकम् बहु-रूपम् इज्यैः माया-मयम् वेद स वेद वेदम् ।
adanti ca ekam phalam asya gṛdhrāḥ grāmecarāḥ ekam araṇya-vāsāḥ . haṃsāḥ ye ekam bahu-rūpam ijyaiḥ māyā-mayam veda sa veda vedam .
एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् २४ ।
एवम् गुरु-उपासनया एकभक्त्या विद्या-कुठारेण शितेन धीरः । विवृश्च्य जीव-आशयम् अप्रमत्तः सम्पद्य च आत्मानम् अथ त्यज अस्त्रम् ।
evam guru-upāsanayā ekabhaktyā vidyā-kuṭhāreṇa śitena dhīraḥ . vivṛścya jīva-āśayam apramattaḥ sampadya ca ātmānam atha tyaja astram .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वादशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे द्वादशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe dvādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In