| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
सत्त्वं रजस्तम इति गुणा बुद्धेर्न च आत्मनः । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ १ ॥
सत्त्वम् रजः तमः इति गुणाः बुद्धेः न च आत्मनः । सत्त्वेन अन्यतमौ हन्यात् सत्त्वम् सत्त्वेन च एव हि ॥ १ ॥
sattvam rajaḥ tamaḥ iti guṇāḥ buddheḥ na ca ātmanaḥ . sattvena anyatamau hanyāt sattvam sattvena ca eva hi .. 1 ..
सत्त्वात् धर्मो भवेद् वृद्धात् पुंसो मद्भक्तिलक्षणः । सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ २ ॥
सत्त्वात् धर्मः भवेत् वृद्धात् पुंसः मद्-भक्ति-लक्षणः । सात्त्विक-उपासया सत्त्वम् ततस् धर्मः प्रवर्तते ॥ २ ॥
sattvāt dharmaḥ bhavet vṛddhāt puṃsaḥ mad-bhakti-lakṣaṇaḥ . sāttvika-upāsayā sattvam tatas dharmaḥ pravartate .. 2 ..
धर्मो रजस्तमो हन्यात् सत्त्ववृद्धिः अनुत्तमः । आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ ३ ॥
धर्मः रजः तमः हन्यात् सत्त्व-वृद्धिः अनुत्तमः । आशु नश्यति तद्-मूलः हि अधर्मः उभये हते ॥ ३ ॥
dharmaḥ rajaḥ tamaḥ hanyāt sattva-vṛddhiḥ anuttamaḥ . āśu naśyati tad-mūlaḥ hi adharmaḥ ubhaye hate .. 3 ..
आगमोपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मंत्रोऽथ संस्कारो दशैते गुणहेतवः ॥ ४ ॥
प्रजाः देशः कालः कर्म च जन्म च । ध्यानम् मंत्रः अथ संस्कारः दशा एते गुण-हेतवः ॥ ४ ॥
prajāḥ deśaḥ kālaḥ karma ca janma ca . dhyānam maṃtraḥ atha saṃskāraḥ daśā ete guṇa-hetavaḥ .. 4 ..
तत् तत् सात्त्विकमेवैषां यद् यद् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत्तद् राजसं तद् उपेक्षितम् ॥ ५ ॥
तत् तत् सात्त्विकम् एव एषाम् यत् यत् वृद्धाः प्रचक्षते । निन्दन्ति तामसम् तत् तत् राजसम् तत् उपेक्षितम् ॥ ५ ॥
tat tat sāttvikam eva eṣām yat yat vṛddhāḥ pracakṣate . nindanti tāmasam tat tat rājasam tat upekṣitam .. 5 ..
सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये । ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम् ॥ ६ ॥
सात्त्विकानि एव सेवेत पुमान् सत्त्व-विवृद्धये । ततस् धर्मः ततस् ज्ञानम् यावत् स्मृतिः अपोहनम् ॥ ६ ॥
sāttvikāni eva seveta pumān sattva-vivṛddhaye . tatas dharmaḥ tatas jñānam yāvat smṛtiḥ apohanam .. 6 ..
वेणुसङ्घर्षजो वह्निः दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो, देहः शाम्यति तत्क्रियः ॥ ७ ॥
वेणु-सङ्घर्ष-जः वह्निः दग्ध्वा शाम्यति तत् वनम् । एवम् गुण-व्यत्यय-जः, शाम्यति ॥ ७ ॥
veṇu-saṅgharṣa-jaḥ vahniḥ dagdhvā śāmyati tat vanam . evam guṇa-vyatyaya-jaḥ, śāmyati .. 7 ..
श्रीउद्धव उवाच -
विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् । तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ ८ ॥
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् । तथा अपि भुञ्जते कृष्ण तत् कथम् श्व-ख-राजवत् ॥ ८ ॥
vidanti martyāḥ prāyeṇa viṣayān padam āpadām . tathā api bhuñjate kṛṣṇa tat katham śva-kha-rājavat .. 8 ..
श्रीभगवानुवाच -
अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ ९ ॥
अहम् इति अन्यथा बुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजः घोरम् ततस् वैकारिकम् मनः ॥ ९ ॥
aham iti anyathā buddhiḥ pramattasya yathā hṛdi . utsarpati rajaḥ ghoram tatas vaikārikam manaḥ .. 9 ..
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततः कामो गुणध्यानाद् दुःसहः स्याद् हि दुर्मतेः ॥ १० ॥
रजः-युक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततस् कामः गुण-ध्यानात् दुःसहः स्यात् हि दुर्मतेः ॥ १० ॥
rajaḥ-yuktasya manasaḥ saṅkalpaḥ savikalpakaḥ . tatas kāmaḥ guṇa-dhyānāt duḥsahaḥ syāt hi durmateḥ .. 10 ..
करोति कामवशगः कर्माण्यविजितेन्द्रियः । दुःखोदर्काणि संपश्यन् रजोवेग विमोहितः ॥ ११ ॥
करोति काम-वशगः कर्माणि अविजित-इन्द्रियः । दुःख-उदर्काणि संपश्यन् रजः-वेग विमोहितः ॥ ११ ॥
karoti kāma-vaśagaḥ karmāṇi avijita-indriyaḥ . duḥkha-udarkāṇi saṃpaśyan rajaḥ-vega vimohitaḥ .. 11 ..
रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः । अतंद्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते ॥ १२ ॥
रजः-तमोभ्याम् यत् अपि विद्वान् विक्षिप्त-धीः पुनर् । अतंद्रितः मनः युञ्जन् दोषदृष्टिः न सज्जते ॥ १२ ॥
rajaḥ-tamobhyām yat api vidvān vikṣipta-dhīḥ punar . ataṃdritaḥ manaḥ yuñjan doṣadṛṣṭiḥ na sajjate .. 12 ..
अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयन् शनैः । अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३ ॥
अप्रमत्तः अनुयुञ्जीत मनः मयि अर्पयन् शनैस् । अनिर्विण्णः यथाकालम् जित-श्वासः जित-आसनः ॥ १३ ॥
apramattaḥ anuyuñjīta manaḥ mayi arpayan śanais . anirviṇṇaḥ yathākālam jita-śvāsaḥ jita-āsanaḥ .. 13 ..
एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा ॥ १४ ॥
एतावान् योगः आदिष्टः मद्-शिष्यैः सनक-आदिभिः । सर्वतस् मनः आकृष्य मयि अद्धा आवेश्यते यथा ॥ १४ ॥
etāvān yogaḥ ādiṣṭaḥ mad-śiṣyaiḥ sanaka-ādibhiḥ . sarvatas manaḥ ākṛṣya mayi addhā āveśyate yathā .. 14 ..
श्रीउद्धव उवाच -
यदा त्वं सनकादिभ्यो येन रूपेण केशव । योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम् ॥ १५ ॥
यदा त्वम् सनक-आदिभ्यः येन रूपेण केशव । योगम् आदिष्टवान् एतत् रूपम् इच्छामि वेदितुम् ॥ १५ ॥
yadā tvam sanaka-ādibhyaḥ yena rūpeṇa keśava . yogam ādiṣṭavān etat rūpam icchāmi veditum .. 15 ..
श्रीभगवानुवाच -
पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः । पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १६ ॥
पुत्राः हिरण्यगर्भस्य मानसाः सनक-आदयः । पप्रच्छुः पितरम् सूक्ष्माम् योगस्य ऐकान्तिकीम् गतिम् ॥ १६ ॥
putrāḥ hiraṇyagarbhasya mānasāḥ sanaka-ādayaḥ . papracchuḥ pitaram sūkṣmām yogasya aikāntikīm gatim .. 16 ..
सनकादय ऊचुः -
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो । कथमन्योन्य संत्यागो मुमुक्षोः अतितितीर्षोः ॥ १७ ॥
गुणेषु आविशते चेतः गुणाः चेतसि च प्रभो । कथम् अन्योन्य-संत्यागः मुमुक्षोः अतितितीर्षोः ॥ १७ ॥
guṇeṣu āviśate cetaḥ guṇāḥ cetasi ca prabho . katham anyonya-saṃtyāgaḥ mumukṣoḥ atititīrṣoḥ .. 17 ..
श्रीभगवानुवाच -
एवं पृष्टो महादेवः स्वयंभूः भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १८ ॥
एवम् पृष्टः महादेवः स्वयंभूः भूतभावनः । ध्यायमानः प्रश्न-बीजम् न अभ्यपद्यत कर्म-धीः ॥ १८ ॥
evam pṛṣṭaḥ mahādevaḥ svayaṃbhūḥ bhūtabhāvanaḥ . dhyāyamānaḥ praśna-bījam na abhyapadyata karma-dhīḥ .. 18 ..
स मामचिन्तयद् देवः प्रश्नपारतितीर्षया । तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १९ ॥
स माम् अचिन्तयत् देवः प्रश्न-पार-तितीर्षया । तस्य अहम् हंस-रूपेण सकाशम् अगमम् तदा ॥ १९ ॥
sa mām acintayat devaḥ praśna-pāra-titīrṣayā . tasya aham haṃsa-rūpeṇa sakāśam agamam tadā .. 19 ..
दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् । ब्रह्मामग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ २० ॥
दृष्ट्वा माम् ते उपव्रज्य कृत्वा पादाभिवन्दनम् । ब्रह्माम् अग्रतस् कृत्वा पप्रच्छुः कः भवान् इति ॥ २० ॥
dṛṣṭvā mām te upavrajya kṛtvā pādābhivandanam . brahmām agratas kṛtvā papracchuḥ kaḥ bhavān iti .. 20 ..
इत्यहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिस्तदा । यदवोचमहं तेभ्यः तद् उद्धव निबोध मे ॥ २१ ॥
इति अहम् मुनिभिः पृष्टः तत्त्व-जिज्ञासुभिः तदा । यत् अवोचम् अहम् तेभ्यः तत् उद्धव निबोध मे ॥ २१ ॥
iti aham munibhiḥ pṛṣṭaḥ tattva-jijñāsubhiḥ tadā . yat avocam aham tebhyaḥ tat uddhava nibodha me .. 21 ..
वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ २२ ॥
वस्तुनः यदि अनानात्वम् आत्मनः प्रश्नः ईदृशः । कथम् घटेत वः विप्राः वक्तुः वा मे कः आश्रयः ॥ २२ ॥
vastunaḥ yadi anānātvam ātmanaḥ praśnaḥ īdṛśaḥ . katham ghaṭeta vaḥ viprāḥ vaktuḥ vā me kaḥ āśrayaḥ .. 22 ..
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ २३ ॥
पञ्च-आत्मकेषु भूतेषु समानेषु च वस्तुतस् । कः भवान् इति वः प्रश्नः वाचा-आरम्भः हि अनर्थकः ॥ २३ ॥
pañca-ātmakeṣu bhūteṣu samāneṣu ca vastutas . kaḥ bhavān iti vaḥ praśnaḥ vācā-ārambhaḥ hi anarthakaḥ .. 23 ..
मनसा वचसा दृष्ट्या गृह्यतेऽन्यैः अपीन्द्रियैः । अहमेव न मत्तोऽन्यत् इति बुध्यध्वमञ्जसा ॥ २४ ॥
मनसा वचसा दृष्ट्या गृह्यते अन्यैः अपि इन्द्रियैः । अहम् एव न मत्तः अन्यत् इति बुध्यध्वम् अञ्जसा ॥ २४ ॥
manasā vacasā dṛṣṭyā gṛhyate anyaiḥ api indriyaiḥ . aham eva na mattaḥ anyat iti budhyadhvam añjasā .. 24 ..
गुणेषु आविशते चेतो गुणाश्चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ २५ ॥
गुणेषु आविशते चेतः गुणाः चेतसि च प्रजाः । जीवस्य देहः उभयम् गुणाः चेतः मद्-आत्मनः ॥ २५ ॥
guṇeṣu āviśate cetaḥ guṇāḥ cetasi ca prajāḥ . jīvasya dehaḥ ubhayam guṇāḥ cetaḥ mad-ātmanaḥ .. 25 ..
गुणेषु च आविशत् चित्तमभीक्ष्णं गुणसेवया । गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ २६ ॥
गुणेषु च आविशत् चित्तम् अभीक्ष्णम् गुण-सेवया । गुणाः च चित्त-प्रभवाः मद्-रूपे उभयम् त्यजेत् ॥ २६ ॥
guṇeṣu ca āviśat cittam abhīkṣṇam guṇa-sevayā . guṇāḥ ca citta-prabhavāḥ mad-rūpe ubhayam tyajet .. 26 ..
जाग्रत् स्वप्नः सुषुप्तं च, गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ २७ ॥
जाग्रत् स्वप्नः सुषुप्तम् च, गुणतः बुद्धि-वृत्तयः । तासाम् विलक्षणः जीवः साक्षि-त्वेन विनिश्चितः ॥ २७ ॥
jāgrat svapnaḥ suṣuptam ca, guṇataḥ buddhi-vṛttayaḥ . tāsām vilakṣaṇaḥ jīvaḥ sākṣi-tvena viniścitaḥ .. 27 ..
यर्हि संसृतिबन्धोऽयं आत्मनो गुणवृत्तिदः । मयि तुर्ये स्थितो जह्यात् त्यागः तद् गुणचेतसाम् ॥ २८ ॥
यर्हि संसृति-बन्धः अयम् आत्मनः गुण-वृत्ति-दः । मयि तुर्ये स्थितः जह्यात् त्यागः तत् गुण-चेतसाम् ॥ २८ ॥
yarhi saṃsṛti-bandhaḥ ayam ātmanaḥ guṇa-vṛtti-daḥ . mayi turye sthitaḥ jahyāt tyāgaḥ tat guṇa-cetasām .. 28 ..
अहङ्कारकृतं बन्धं आत्मनोऽर्थविपर्ययम् । विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत् ॥ २९ ॥
अहङ्कार-कृतम् बन्धम् आत्मनः अर्थ-विपर्ययम् । विद्वान् निर्विद्य संसार-चिन्ताम् तुर्ये स्थितः त्यजेत् ॥ २९ ॥
ahaṅkāra-kṛtam bandham ātmanaḥ artha-viparyayam . vidvān nirvidya saṃsāra-cintām turye sthitaḥ tyajet .. 29 ..
यावत् नानार्थधीः पुंसो, न निवर्तेत युक्तिभिः । जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा ॥ ३० ॥
यावत् नाना अर्थ-धीः पुंसः, न निवर्तेत युक्तिभिः । जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणम् यथा ॥ ३० ॥
yāvat nānā artha-dhīḥ puṃsaḥ, na nivarteta yuktibhiḥ . jāgarti api svapan ajñaḥ svapne jāgaraṇam yathā .. 30 ..
असत्त्वाद् आत्मनोऽन्येषां भावानां तत्कृता भिदा । गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ ३१ ॥
असत्त्वात् आत्मनः अन्येषाम् भावानाम् तद्-कृताः भिदा । गतयः हेतवः च अस्य मृषा स्वप्न-दृशः यथा ॥ ३१ ॥
asattvāt ātmanaḥ anyeṣām bhāvānām tad-kṛtāḥ bhidā . gatayaḥ hetavaḥ ca asya mṛṣā svapna-dṛśaḥ yathā .. 31 ..
( वसंततिलका )
यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैहृदि तत्सदृक्षान् । स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ ३२ ॥
यः जागरे बहिस् अनु क्षण-धर्मिणः अर्थान् भुङ्क्ते समस्त-करणैः हृदि तद्-सदृक्षान् । स्वप्ने सुषुप्ते उपसंहरते सः एकः स्मृति-अन्वयात् त्रिगुण-वृत्ति-दृश्-इन्द्रिय-ईशः ॥ ३२ ॥
yaḥ jāgare bahis anu kṣaṇa-dharmiṇaḥ arthān bhuṅkte samasta-karaṇaiḥ hṛdi tad-sadṛkṣān . svapne suṣupte upasaṃharate saḥ ekaḥ smṛti-anvayāt triguṇa-vṛtti-dṛś-indriya-īśaḥ .. 32 ..
एवं विमृश्य गुणतो मनसः त्र्यवस्था । मन्मायया मयि कृता इति निश्चितार्थाः । संछिद्य हार्दमनुमानसदुक्तितीक्ष्ण । ज्ञानासिना भजत माखिलसंशयाधिम् ॥ ३३ ॥
एवम् विमृश्य गुणतः मनसः त्रि-अवस्था । मद्-मायया मयि कृताः इति निश्चित-अर्थाः । संछिद्य हार्दम् अनुमान-सत्-उक्ति-तीक्ष्ण । ज्ञान-असिना भजत मा अखिल-संशय-आधिम् ॥ ३३ ॥
evam vimṛśya guṇataḥ manasaḥ tri-avasthā . mad-māyayā mayi kṛtāḥ iti niścita-arthāḥ . saṃchidya hārdam anumāna-sat-ukti-tīkṣṇa . jñāna-asinā bhajata mā akhila-saṃśaya-ādhim .. 33 ..
ईक्षेत विभ्रममिदं मनसो विलासं । दृष्टं विनष्टमतिलोलमलातचक्रम् । विज्ञानमेकं उरुधेव विभाति माया । स्वप्नः त्रिधा गुणविसर्गकृतो विकल्पः ॥ ३४ ॥
ईक्षेत विभ्रमम् इदम् मनसः विलासम् । दृष्टम् विनष्टम् अति लोलम् अलात-चक्रम् । विज्ञानम् एकम् उरुधा इव विभाति माया । स्वप्नः त्रिधा गुण-विसर्ग-कृतः विकल्पः ॥ ३४ ॥
īkṣeta vibhramam idam manasaḥ vilāsam . dṛṣṭam vinaṣṭam ati lolam alāta-cakram . vijñānam ekam urudhā iva vibhāti māyā . svapnaḥ tridhā guṇa-visarga-kṛtaḥ vikalpaḥ .. 34 ..
दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः । तूष्णीं भवेत् निजसुखानुभवो निरीहः । संदृश्यते क्व च यदीदमवस्तुबुद्ध्या । त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात् ॥ ३५ ॥
दृष्टिम् ततस् प्रतिनिवर्त्य निवृत्त-तृष्णः । तूष्णीम् भवेत् निज-सुख-अनुभवः निरीहः । संदृश्यते क्व च यदि इदम् अवस्तु-बुद्ध्या । त्यक्तम् भ्रमाय न भवेत् स्मृतिः आ निपातात् ॥ ३५ ॥
dṛṣṭim tatas pratinivartya nivṛtta-tṛṣṇaḥ . tūṣṇīm bhavet nija-sukha-anubhavaḥ nirīhaḥ . saṃdṛśyate kva ca yadi idam avastu-buddhyā . tyaktam bhramāya na bhavet smṛtiḥ ā nipātāt .. 35 ..
देहं च नश्वरमवस्थितमुत्थितं वा । सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् । दैवाद्-अपेतमथ दैववशाद् उपेतं । वासो यथा परिकृतं मदिरा-मदान्धः ॥ ३६ ॥
देहम् च नश्वरम् अवस्थितम् उत्थितम् वा । सिद्धः न पश्यति यतस् अध्यगमत् स्व-रूपम् । दैवात् अपेतम् अथ दैव-वशात् उपेतम् । वासः यथा परिकृतम् मदिरा-मद-अन्धः ॥ ३६ ॥
deham ca naśvaram avasthitam utthitam vā . siddhaḥ na paśyati yatas adhyagamat sva-rūpam . daivāt apetam atha daiva-vaśāt upetam . vāsaḥ yathā parikṛtam madirā-mada-andhaḥ .. 36 ..
देहोऽपि दैववशगः खलु कर्म यावत् । स्वारंभकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः । स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३७ ॥
देहः अपि दैव-वशगः खलु कर्म यावत् । स्व-आरंभकम् प्रतिसमीक्षते एव सासुः । तम् स प्रपञ्चम् अधिरूढ-समाधि-योगः । स्वाप्नम् पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ ३७ ॥
dehaḥ api daiva-vaśagaḥ khalu karma yāvat . sva-āraṃbhakam pratisamīkṣate eva sāsuḥ . tam sa prapañcam adhirūḍha-samādhi-yogaḥ . svāpnam punar na bhajate pratibuddha-vastuḥ .. 37 ..
( अनुष्टुप् )
मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः । जानीत माऽऽगतं यज्ञं युष्मद्-धर्मविवक्षया ॥ ३८ ॥
मया एतत् उक्तम् वः विप्राः गुह्यम् यत् साङ्ख्य-योगयोः । जानीत मा आगतम् यज्ञम् युष्मद्-धर्म-विवक्षया ॥ ३८ ॥
mayā etat uktam vaḥ viprāḥ guhyam yat sāṅkhya-yogayoḥ . jānīta mā āgatam yajñam yuṣmad-dharma-vivakṣayā .. 38 ..
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९ ॥
अहम् योगस्य साङ्ख्यस्य सत्यस्य ऋतस्य तेजसः । परायणम् द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च ॥ ३९ ॥
aham yogasya sāṅkhyasya satyasya ṛtasya tejasaḥ . parāyaṇam dvijaśreṣṭhāḥ śriyaḥ kīrteḥ damasya ca .. 39 ..
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः ॥ ४० ॥
माम् भजन्ति गुणाः सर्वे निर्गुणम् निरपेक्षकम् । सुहृदम् प्रियम् आत्मानम् साम्य-आसङ्ग-आदयः गुणाः ॥ ४० ॥
mām bhajanti guṇāḥ sarve nirguṇam nirapekṣakam . suhṛdam priyam ātmānam sāmya-āsaṅga-ādayaḥ guṇāḥ .. 40 ..
इति मे छिन्नसन्देहा मुनयः सनकादयः । सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ ४१ ॥
इति मे छिन्न-सन्देहाः मुनयः सनक-आदयः । सभाजयित्वा परया भक्त्या अगृणत संस्तवैः ॥ ४१ ॥
iti me chinna-sandehāḥ munayaḥ sanaka-ādayaḥ . sabhājayitvā parayā bhaktyā agṛṇata saṃstavaiḥ .. 41 ..
तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ ४२ ॥
तैः अहम् पूजितः सम्यक् संस्तुतः परम-ऋषिभिः । प्रत्येयाय स्वकम् धाम पश्यतः परमेष्ठिनः ॥ ४२ ॥
taiḥ aham pūjitaḥ samyak saṃstutaḥ parama-ṛṣibhiḥ . pratyeyāya svakam dhāma paśyataḥ parameṣṭhinaḥ .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe trayodaśaḥ adhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In