| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यं उताहो एकमुख्यता ॥ १ ॥
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः । तेषाम् विकल्प-प्राधान्यम् उत अहो एक-मुख्य-ता ॥ १ ॥
vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ . teṣām vikalpa-prādhānyam uta aho eka-mukhya-tā .. 1 ..
भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः ॥ २ ॥
भवता उदाहृतः स्वामिन् भक्ति-योगः अन् अपेक्षितः । निरस्य सर्वतस् सङ्गम् येन त्वयि आविशेत् मनः ॥ २ ॥
bhavatā udāhṛtaḥ svāmin bhakti-yogaḥ an apekṣitaḥ . nirasya sarvatas saṅgam yena tvayi āviśet manaḥ .. 2 ..
कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः ॥ ३ ॥
कालेन नष्टा प्रलये वाणी इयम् वेद-संज्ञिता । मया आदौ ब्रह्मणे प्रोक्ता धर्मः यस्याम् मद्-आत्मकः ॥ ३ ॥
kālena naṣṭā pralaye vāṇī iyam veda-saṃjñitā . mayā ādau brahmaṇe proktā dharmaḥ yasyām mad-ātmakaḥ .. 3 ..
तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा । ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ ४ ॥
तेन प्रोक्ता स्व-पुत्राय मनवे पूर्वजाय सा । ततस् भृगु-आदयः अगृह्णन् सप्त ब्रह्म-महा-ऋषयः ॥ ४ ॥
tena proktā sva-putrāya manave pūrvajāya sā . tatas bhṛgu-ādayaḥ agṛhṇan sapta brahma-mahā-ṛṣayaḥ .. 4 ..
तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः । मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ ५ ॥
तेभ्यः पितृभ्यः तद्-पुत्राः देव-दानव-गुह्यकाः । मनुष्याः सिद्ध-गन्धर्वाः सविद्याधर-चारणाः ॥ ५ ॥
tebhyaḥ pitṛbhyaḥ tad-putrāḥ deva-dānava-guhyakāḥ . manuṣyāḥ siddha-gandharvāḥ savidyādhara-cāraṇāḥ .. 5 ..
किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः । बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ ६ ॥
किन्देवाः किन्नराः नागाः रक्षः किम्पुरुष-आदयः । बह्व्यः तेषाम् प्रकृतयः रजः-सत्त्व-तमः-भुवः ॥ ६ ॥
kindevāḥ kinnarāḥ nāgāḥ rakṣaḥ kimpuruṣa-ādayaḥ . bahvyaḥ teṣām prakṛtayaḥ rajaḥ-sattva-tamaḥ-bhuvaḥ .. 6 ..
याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा । यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ ७ ॥
याभिः भूतानि भिद्यन्ते भूतानाम् मतयः तथा । यथाप्रकृति सर्वेषाम् चित्राः वाचः स्रवन्ति हि ॥ ७ ॥
yābhiḥ bhūtāni bhidyante bhūtānām matayaḥ tathā . yathāprakṛti sarveṣām citrāḥ vācaḥ sravanti hi .. 7 ..
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे ॥ ८ ॥
एवम् प्रकृति-वैचित्र्यात् भिद्यन्ते मतयः नृणाम् । पारम्पर्येण केषाञ्चिद् पाषण्ड-मतयः अपरे ॥ ८ ॥
evam prakṛti-vaicitryāt bhidyante matayaḥ nṛṇām . pāramparyeṇa keṣāñcid pāṣaṇḍa-matayaḥ apare .. 8 ..
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि ॥ ९ ॥
मद्-माया-मोहित-धियः पुरुषाः पुरुष-ऋषभ । श्रेयः वदंति अनेकान्तम् यथाकर्म यथारुचि ॥ ९ ॥
mad-māyā-mohita-dhiyaḥ puruṣāḥ puruṣa-ṛṣabha . śreyaḥ vadaṃti anekāntam yathākarma yathāruci .. 9 ..
धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् । अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् ॥ १० ॥
धर्मम् एके यशः च अन्ये कामम् सत्यम् दमम् शमम् । अन्ये वदंति स्व-अर्थम् वै ऐश्वर्यम् त्याग-भोजनम् ॥ १० ॥
dharmam eke yaśaḥ ca anye kāmam satyam damam śamam . anye vadaṃti sva-artham vai aiśvaryam tyāga-bhojanam .. 10 ..
केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् । आद्यंतवंत एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः शुचार्पिताः ॥ ११ ॥
केचिद् यज्ञ-तपः दानम् व्रतानि नियमान् यमान् । आदि-अंतवंतः एव एषाम् लोकाः कर्म-विनिर्मिताः । दुःख-उदर्काः तमः-निष्ठाः क्षुद्र-आनंदाः शुचा अर्पिताः ॥ ११ ॥
kecid yajña-tapaḥ dānam vratāni niyamān yamān . ādi-aṃtavaṃtaḥ eva eṣām lokāḥ karma-vinirmitāḥ . duḥkha-udarkāḥ tamaḥ-niṣṭhāḥ kṣudra-ānaṃdāḥ śucā arpitāḥ .. 11 ..
मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयाऽऽत्मना सुखं यत्तत् कुतः स्याद् विषयात्मनाम् ॥ १२ ॥
मयि अर्पित-आत्मनः सभ्य निरपेक्षस्य सर्वतस् । सुखम् यत् तत् कुतस् स्यात् विषय-आत्मनाम् ॥ १२ ॥
mayi arpita-ātmanaḥ sabhya nirapekṣasya sarvatas . sukham yat tat kutas syāt viṣaya-ātmanām .. 12 ..
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः । मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ १३ ॥
अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः । मया सन्तुष्ट-मनसः सर्वाः सुख-मयाः दिशः ॥ १३ ॥
akiñcanasya dāntasya śāntasya sama-cetasaḥ . mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayāḥ diśaḥ .. 13 ..
( उपेंद्रवज्रा )
न पारमेष्ठ्यं न महेंद्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीः अपुनर्भवं वा मय्यर्पितात्मेच्छति मद् विनान्यत् ॥ १४ ॥
न पारमेष्ठ्यम् न महेंद्र-धिष्ण्यम् न सार्वभौमम् न रस-आधिपत्यम् । न योग-सिद्धीः अपुनर्भवम् वा मयि अर्पित-आत्मा इच्छति मत् विना अन्यत् ॥ १४ ॥
na pārameṣṭhyam na maheṃdra-dhiṣṇyam na sārvabhaumam na rasa-ādhipatyam . na yoga-siddhīḥ apunarbhavam vā mayi arpita-ātmā icchati mat vinā anyat .. 14 ..
( अनुष्टुप् )
न तथा मे प्रियतम आत्मयोनिर्न शङ्करः । न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान् ॥ १५ ॥
न तथा मे प्रियतमः आत्मयोनिः न शङ्करः । न च सङ्कर्षणः न श्रीः न एव आत्मा च यथा भवान् ॥ १५ ॥
na tathā me priyatamaḥ ātmayoniḥ na śaṅkaraḥ . na ca saṅkarṣaṇaḥ na śrīḥ na eva ātmā ca yathā bhavān .. 15 ..
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः ॥ १६ ॥
निरपेक्षम् मुनिम् शान्तम् निर्वैरम् समदर्शनम् । अनुव्रजामि अहम् नित्यम् ॥ १६ ॥
nirapekṣam munim śāntam nirvairam samadarśanam . anuvrajāmi aham nityam .. 16 ..
( इंद्रवंशा )
निष्किञ्चना मय्यनुरक्तचेतसः शांता महांतोऽखिलजीववत्सलाः ॥१७॥
निष्किञ्चनाः मयि अनुरक्त-चेतसः शांताः महांतः अखिल-जीव-वत्सलाः ॥१७॥
niṣkiñcanāḥ mayi anurakta-cetasaḥ śāṃtāḥ mahāṃtaḥ akhila-jīva-vatsalāḥ ..17..
( अनुष्टुप् )
बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते ॥ १८ ॥
बाध्यमानः अपि मद्-भक्तः विषयैः अजित-इन्द्रियः । प्रायस् प्रगल्भया भक्त्या विषयैः न अभिभूयते ॥ १८ ॥
bādhyamānaḥ api mad-bhaktaḥ viṣayaiḥ ajita-indriyaḥ . prāyas pragalbhayā bhaktyā viṣayaiḥ na abhibhūyate .. 18 ..
यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् । तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः ॥ १९ ॥
यथा अग्निः सु समृद्ध-अर्चिः करोति एधांसि भस्मसात् । तथा मद्-विषया भक्तिः उद्धव-एनांसि कृत्स्नशस् ॥ १९ ॥
yathā agniḥ su samṛddha-arciḥ karoti edhāṃsi bhasmasāt . tathā mad-viṣayā bhaktiḥ uddhava-enāṃsi kṛtsnaśas .. 19 ..
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ २० ॥
न साधयति माम् योगः न साङ्ख्यम् धर्मः उद्धव । न स्वाध्यायः तपः त्यागः यथा भक्तिः मम ऊर्जिता ॥ २० ॥
na sādhayati mām yogaḥ na sāṅkhyam dharmaḥ uddhava . na svādhyāyaḥ tapaḥ tyāgaḥ yathā bhaktiḥ mama ūrjitā .. 20 ..
भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१ ॥
भक्त्या अहम् एकया ग्राह्यः श्रद्धया आत्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात् ॥ २१ ॥
bhaktyā aham ekayā grāhyaḥ śraddhayā ātmā priyaḥ satām . bhaktiḥ punāti manniṣṭhā śvapākān api saṃbhavāt .. 21 ..
धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ २२ ॥
धर्मः सत्य-दया-उपेतः विद्या वा तपसा अन्विता । मद्-भक्त्या अपेतम् आत्मानम् न सम्यक् प्रपुनाति हि ॥ २२ ॥
dharmaḥ satya-dayā-upetaḥ vidyā vā tapasā anvitā . mad-bhaktyā apetam ātmānam na samyak prapunāti hi .. 22 ..
कथं विना रोमहर्षं द्रवता चेतसा विना । विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः ॥ २३ ॥
कथम् विना रोमहर्षम् द्रवता चेतसा विना । विना आनन्द-अश्रु-कलया शुध्येत् भक्त्या विना आशयः ॥ २३ ॥
katham vinā romaharṣam dravatā cetasā vinā . vinā ānanda-aśru-kalayā śudhyet bhaktyā vinā āśayaḥ .. 23 ..
( मिश्र )
वाग्-गद्-गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचित्-च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
वाच्-गद् गदा द्रवते यस्य चित्तम् रुदति अभीक्ष्णम् हसति क्वचिद् च । विलज्जः उद्गायति नृत्यते च मद्-भक्ति-युक्तः भुवनम् पुनाति ॥ २४ ॥
vāc-gad gadā dravate yasya cittam rudati abhīkṣṇam hasati kvacid ca . vilajjaḥ udgāyati nṛtyate ca mad-bhakti-yuktaḥ bhuvanam punāti .. 24 ..
यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ २५ ॥
यथा अग्निना हेम मलम् जहाति ध्मातम् पुनर् स्वम् भजते च रूपम् । आत्मा च कर्म-अनुशयम् विधूय मद्-भक्ति-योगेन भजति अथो माम् ॥ २५ ॥
yathā agninā hema malam jahāti dhmātam punar svam bhajate ca rūpam . ātmā ca karma-anuśayam vidhūya mad-bhakti-yogena bhajati atho mām .. 25 ..
यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथा श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ॥ २६ ॥
यथा यथा आत्मा परिमृज्यते असौ मद्-पुण्य-गाथा श्रवण-अभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मम् चक्षुः यथा एव अञ्जन-संप्रयुक्तम् ॥ २६ ॥
yathā yathā ātmā parimṛjyate asau mad-puṇya-gāthā śravaṇa-abhidhānaiḥ . tathā tathā paśyati vastu sūkṣmam cakṣuḥ yathā eva añjana-saṃprayuktam .. 26 ..
( अनुष्टुप् )
विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते । मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥ २७ ॥
विषयान् ध्यायतः चित्तम् विषयेषु विषज्जते । माम् अनुस्मरतः चित्तम् मयि एव प्रविलीयते ॥ २७ ॥
viṣayān dhyāyataḥ cittam viṣayeṣu viṣajjate . mām anusmarataḥ cittam mayi eva pravilīyate .. 27 ..
तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ २८ ॥
तस्मात् असत्-अभिध्यानम् यथा स्वप्न-मनोरथम् । हित्वा मयि समाधत्स्व मनः मद्-भाव-भावितम् ॥ २८ ॥
tasmāt asat-abhidhyānam yathā svapna-manoratham . hitvā mayi samādhatsva manaḥ mad-bhāva-bhāvitam .. 28 ..
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः ॥ २९ ॥
स्त्रीणाम् स्त्री-सङ्गिनाम् सङ्गम् त्यक्त्वा दूरतस् आत्मवान् । क्षेमे विविक्त-आसीनः चिन्तयेत् माम् अतन्द्रितः ॥ २९ ॥
strīṇām strī-saṅginām saṅgam tyaktvā dūratas ātmavān . kṣeme vivikta-āsīnaḥ cintayet mām atandritaḥ .. 29 ..
न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः । योषित् सङ्गात् यथा पुंसो यथा तत् सङ्गिसङ्गतः ॥ ३० ॥
न तथा अस्य भवेत् क्लेशः बन्धः च अन्य-प्रसङ्गतः । योषित्-सङ्गात् यथा पुंसः यथा तत् सङ्गि-सङ्गतः ॥ ३० ॥
na tathā asya bhavet kleśaḥ bandhaḥ ca anya-prasaṅgataḥ . yoṣit-saṅgāt yathā puṃsaḥ yathā tat saṅgi-saṅgataḥ .. 30 ..
श्रीउद्धव उवाच -
यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं वक्तुमर्हसि ॥ ३१ ॥
यथा त्वाम् अरविन्द-अक्ष यादृशम् वा यद्-आत्मकम् । ध्यायेत् मुमुक्षुः एतत् मे ध्यानम् त्वम् वक्तुम् अर्हसि ॥ ३१ ॥
yathā tvām aravinda-akṣa yādṛśam vā yad-ātmakam . dhyāyet mumukṣuḥ etat me dhyānam tvam vaktum arhasi .. 31 ..
श्रीभगवानुवाच -
सम आसन आसीनः समकायो यथासुखम् । हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ ३२ ॥
समे आसने आसीनः सम-कायः यथासुखम् । हस्तौ उत्सङ्गे आधाय स्व-नासाग्र-कृत-ईक्षणः ॥ ३२ ॥
same āsane āsīnaḥ sama-kāyaḥ yathāsukham . hastau utsaṅge ādhāya sva-nāsāgra-kṛta-īkṣaṇaḥ .. 32 ..
प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः । विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः ॥ ३३ ॥
प्राणस्य शोधयेत् मार्गम् पूर-कुम्भक-रेचकैः । विपर्ययेण अपि शनैस् अभ्यसेत् निर्जित-इन्द्रियः ॥ ३३ ॥
prāṇasya śodhayet mārgam pūra-kumbhaka-recakaiḥ . viparyayeṇa api śanais abhyaset nirjita-indriyaḥ .. 33 ..
हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् । प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ ३४ ॥
हृदि अविच्छिन्न-मोंकारम् घण्टा-नादम् विसोर्ण-वत् । प्राणेन उदीर्य तत्र अथ पुनर् संवेशयेत् स्वरम् ॥ ३४ ॥
hṛdi avicchinna-moṃkāram ghaṇṭā-nādam visorṇa-vat . prāṇena udīrya tatra atha punar saṃveśayet svaram .. 34 ..
एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् । दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः ॥ ३५ ॥
एवम् प्रणव-संयुक्तम् प्राणम् एव समभ्यसेत् । दश-कृत्वस् त्रिषवणम् मासात् अर्वाक् जित-अनिलः ॥ ३५ ॥
evam praṇava-saṃyuktam prāṇam eva samabhyaset . daśa-kṛtvas triṣavaṇam māsāt arvāk jita-anilaḥ .. 35 ..
हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् । ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम् ॥ ३६ ॥
हृद्-पुण्डरीकम् अन्तस्थम् ऊर्ध्व-नालम् अधोमुखम् । ध्यात्वा ऊर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रम् स कर्णिकम् ॥ ३६ ॥
hṛd-puṇḍarīkam antastham ūrdhva-nālam adhomukham . dhyātvā ūrdhva-mukham unnidram aṣṭa-patram sa karṇikam .. 36 ..
कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ॥ ३७ ॥
कर्णिकायाम् न्यसेत् सूर्य-सोम-अग्नीन् उत्तरोत्तरम् । वह्नि-मध्ये स्मरेत् रूपम् मम एतत् ध्यान-मङ्गलम् ॥ ३७ ॥
karṇikāyām nyaset sūrya-soma-agnīn uttarottaram . vahni-madhye smaret rūpam mama etat dhyāna-maṅgalam .. 37 ..
समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ ३८ ॥
समम् प्रशान्तम् सुमुखम् दीर्घ-चारु-चतुर्-भुजम् । सु चारु-सुन्दर-ग्रीवम् सु कपोलम् शुचि-स्मितम् ॥ ३८ ॥
samam praśāntam sumukham dīrgha-cāru-catur-bhujam . su cāru-sundara-grīvam su kapolam śuci-smitam .. 38 ..
समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम् ॥ ३९ ॥
समान-कर्ण-विन्यस्त-स्फुरत्-मकर-कुण्डलम् । हेम-अम्बरम् घनश्यामम् श्रीवत्स श्रीनिकेतनम् ॥ ३९ ॥
samāna-karṇa-vinyasta-sphurat-makara-kuṇḍalam . hema-ambaram ghanaśyāmam śrīvatsa śrīniketanam .. 39 ..
शङ्खचक्रगदापद्म वनमालाविभूषितम् । नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम् ॥ ४० ॥
शङ्ख-चक्र-गदा-पद्म वनमाला-विभूषितम् । नूपुरैः विलसत्-पादम् कौस्तुभ-प्रभया युतम् ॥ ४० ॥
śaṅkha-cakra-gadā-padma vanamālā-vibhūṣitam . nūpuraiḥ vilasat-pādam kaustubha-prabhayā yutam .. 40 ..
द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् । सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् । सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत् ॥ ४१ ॥
द्युमत् किरीट-कटक कटिसूत्र-अङ्गद-आयुतम् । सर्व-अङ्ग-सुन्दरम् हृद्यम् प्रसाद सुमुख-ईक्षणम् । सुकुमारम् अभिध्यायेत् सर्व-अङ्गेषु मनः दधत् ॥ ४१ ॥
dyumat kirīṭa-kaṭaka kaṭisūtra-aṅgada-āyutam . sarva-aṅga-sundaram hṛdyam prasāda sumukha-īkṣaṇam . sukumāram abhidhyāyet sarva-aṅgeṣu manaḥ dadhat .. 41 ..
इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः । बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ ४२ ॥
इन्द्रियाणि इन्द्रियार्थेभ्यः मनसा आकृष्य तत् मनः । बुद्ध्या सारथिना धीरः प्रणयेत् मयि सर्वतस् ॥ ४२ ॥
indriyāṇi indriyārthebhyaḥ manasā ākṛṣya tat manaḥ . buddhyā sārathinā dhīraḥ praṇayet mayi sarvatas .. 42 ..
तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम् ॥ ४३ ॥
तद्-सर्व-व्यापकम् चित्तम् आकृष्य एकत्र धारयेत् । न अन्यानि चिन्तयेत् भूयस् सु स्मितम् भावयेत् मुखम् ॥ ४३ ॥
tad-sarva-vyāpakam cittam ākṛṣya ekatra dhārayet . na anyāni cintayet bhūyas su smitam bhāvayet mukham .. 43 ..
तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् । तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
तत्र लब्ध-पदम् चित्तम् आकृष्य व्योम्नि धारयेत् । तत् च त्यक्त्वा मद्-आरोहः न किञ्चिद् अपि चिन्तयेत् ॥ ४४ ॥
tatra labdha-padam cittam ākṛṣya vyomni dhārayet . tat ca tyaktvā mad-ārohaḥ na kiñcid api cintayet .. 44 ..
एवं समाहितमतिः मां एवात्मानमात्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
एवम् समाहित-मतिः माम् एव आत्मानम् आत्मनि । विचष्टे मयि सर्व-आत्मन् ज्योतिः ज्योतिषि संयुतम् ॥ ४५ ॥
evam samāhita-matiḥ mām eva ātmānam ātmani . vicaṣṭe mayi sarva-ātman jyotiḥ jyotiṣi saṃyutam .. 45 ..
ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः । संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः ॥ ४६ ॥
ध्यानेन इत्थम् सु तीव्रेण युञ्जतः योगिनः मनः । संयास्यति आशु निर्वाणम् ज्ञान-क्रिया-भ्रमः ॥ ४६ ॥
dhyānena ittham su tīvreṇa yuñjataḥ yoginaḥ manaḥ . saṃyāsyati āśu nirvāṇam jñāna-kriyā-bhramaḥ .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In