| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः । मयि धारयतश्चेत उपतिष्ठन्ति सिद्धयः १ ।
जित-इन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः । मयि धारयतः चेतः उपतिष्ठन्ति सिद्धयः ।
jita-indriyasya yuktasya jita-śvāsasya yoginaḥ . mayi dhārayataḥ cetaḥ upatiṣṭhanti siddhayaḥ .
श्रीउद्धव उवाच।
कया धारणया का स्वित्कथं वा सिद्धिरच्युत । कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् २ ।
कया धारणया का स्विद् कथम् वा सिद्धिः अच्युत । कति वा सिद्धयः ब्रूहि योगिनाम् सिद्धि-दः भवान् ।
kayā dhāraṇayā kā svid katham vā siddhiḥ acyuta . kati vā siddhayaḥ brūhi yoginām siddhi-daḥ bhavān .
श्रीभगवानुवाच।
सिद्धयोऽष्टादश प्रोक्ता धारणा योगपारगैः । तासामष्टौ मत्प्रधाना दशैव गुणहेतवः ३ ।
सिद्धयः अष्टादश प्रोक्ताः धारणाः योग-पारगैः । तासाम् अष्टौ मद्-प्रधानाः दश एव गुण-हेतवः ।
siddhayaḥ aṣṭādaśa proktāḥ dhāraṇāḥ yoga-pāragaiḥ . tāsām aṣṭau mad-pradhānāḥ daśa eva guṇa-hetavaḥ .
अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीशिता ४ ।
अणिमा महिमा मूर्तेः लघिमा प्राप्तिः इन्द्रियैः । प्राकाम्यम् श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता ।
aṇimā mahimā mūrteḥ laghimā prāptiḥ indriyaiḥ . prākāmyam śruta-dṛṣṭeṣu śakti-preraṇam īśitā .
गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति । एता मे सिद्धयः सौम्य अष्टावौत्पत्तिका मताः ५ ।
गुणेषु असङ्गः वशिता यत् कामः तत् अवस्यति । एताः मे सिद्धयः सौम्य अष्टावौत्पत्तिकाः औत्पत्तिकाः मताः ।
guṇeṣu asaṅgaḥ vaśitā yat kāmaḥ tat avasyati . etāḥ me siddhayaḥ saumya aṣṭāvautpattikāḥ autpattikāḥ matāḥ .
अनूर्मिमत्त्वं देहेऽस्मिन्दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ६ ।
अनूर्मिमत्त्वम् देहे अस्मिन् दूर-श्रवण-दर्शनम् । मनोजवः कामरूपम् परकायप्रवेशनम् ।
anūrmimattvam dehe asmin dūra-śravaṇa-darśanam . manojavaḥ kāmarūpam parakāyapraveśanam .
स्वच्छन्दमृत्युर्देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिराज्ञाप्रतिहता गतिः ७ ।
स्वच्छन्द-मृत्युः देवानाम् सह क्रीडा-अनुदर्शनम् । यथा सङ्कल्प-संसिद्धिः आज्ञा-अ प्रतिहता गतिः ।
svacchanda-mṛtyuḥ devānām saha krīḍā-anudarśanam . yathā saṅkalpa-saṃsiddhiḥ ājñā-a pratihatā gatiḥ .
त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता । अग्न्यर्काम्बुविषादीनां प्रतिष्टम्भोऽपराजयः ८ ।
। अग्नि-अर्क-अम्बु-विष-आदीनाम् प्रतिष्टम्भः अपराजयः ।
. agni-arka-ambu-viṣa-ādīnām pratiṣṭambhaḥ aparājayaḥ .
एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्याद्यथा वा स्यान्निबोध मे ९ ।
एताः च उद्देशतः प्रोक्ताः योग-धारण-सिद्धयः । यया धारणया या स्यात् यथा वा स्यात् निबोध मे ।
etāḥ ca uddeśataḥ proktāḥ yoga-dhāraṇa-siddhayaḥ . yayā dhāraṇayā yā syāt yathā vā syāt nibodha me .
भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः । अणिमानमवाप्नोति तन्मात्रोपासको मम १० ।
भूत-सूक्ष्म-आत्मनि मयि तन्मात्रम् धारयेत् मनः । अणिमानम् अवाप्नोति तन्मात्र-उपासकः मम ।
bhūta-sūkṣma-ātmani mayi tanmātram dhārayet manaḥ . aṇimānam avāpnoti tanmātra-upāsakaḥ mama .
महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत् । महिमानमवाप्नोति भूतानां च पृथक्पृथक् ११ ।
महत्-तत्त्व-आत्मनि मयि यथासंस्थम् मनः दधत् । महिमानम् अवाप्नोति भूतानाम् च पृथक् पृथक् ।
mahat-tattva-ātmani mayi yathāsaṃstham manaḥ dadhat . mahimānam avāpnoti bhūtānām ca pṛthak pṛthak .
परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात् १२ ।
परमाणु-मये चित्तम् भूतानाम् मयि रञ्जयन् । काल-सूक्ष्म-अर्थताम् योगी लघिमानम् अवाप्नुयात् ।
paramāṇu-maye cittam bhūtānām mayi rañjayan . kāla-sūkṣma-arthatām yogī laghimānam avāpnuyāt .
धारयन्मय्यहंतत्त्वे मनो वैकारिकेऽखिलम् । सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः १३ ।
धारयत् मयि अहम् तत्त्वे मनः वैकारिके अखिलम् । सर्व-इन्द्रियाणाम् आत्म-त्वम् प्राप्तिम् प्राप्नोति मन्मनाः ।
dhārayat mayi aham tattve manaḥ vaikārike akhilam . sarva-indriyāṇām ātma-tvam prāptim prāpnoti manmanāḥ .
महत्यात्मनि यः सूत्रे धारयेन्मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दतेऽव्यक्तजन्मनः १४ ।
महति आत्मनि यः सूत्रे धारयेत् मयि मानसम् । प्राकाम्यम् पारमेष्ठ्यम् मे विन्दते अव्यक्त-जन्मनः ।
mahati ātmani yaḥ sūtre dhārayet mayi mānasam . prākāmyam pārameṣṭhyam me vindate avyakta-janmanaḥ .
विष्णौ त्र्यधीश्वरे चित्तं धारयेत्कालविग्रहे । स ईशित्वमवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् १५ ।
विष्णौ त्रि-अधीश्वरे चित्तम् धारयेत् काल-विग्रहे । सः ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् ।
viṣṇau tri-adhīśvare cittam dhārayet kāla-vigrahe . saḥ īśitvam avāpnoti kṣetrajña-kṣetra-codanām .
नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते । मनो मय्यादधद्योगी मद्धर्मा वशितामियात् १६ ।
नारायणे तुरीय-आख्ये भगवत्-शब्द-शब्दिते । मनः मयि आदधत् योगी मद्-धर्मा वशिताम् इयात् ।
nārāyaṇe turīya-ākhye bhagavat-śabda-śabdite . manaḥ mayi ādadhat yogī mad-dharmā vaśitām iyāt .
निर्गुणे ब्रह्मणि मयि धारयन्विशदं मनः । परमानन्दमाप्नोति यत्र कामोऽवसीयते १७ ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदम् मनः । परम-आनन्दम् आप्नोति यत्र कामः अवसीयते ।
nirguṇe brahmaṇi mayi dhārayan viśadam manaḥ . parama-ānandam āpnoti yatra kāmaḥ avasīyate .
श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयञ्छ्वेततां याति षडूर्मिरहितो नरः १८ ।
श्वेतद्वीप-पतौ चित्तम् शुद्धे धर्म-मये मयि । धारयन् श्वेत-ताम् याति षडूर्मि-रहितः नरः ।
śvetadvīpa-patau cittam śuddhe dharma-maye mayi . dhārayan śveta-tām yāti ṣaḍūrmi-rahitaḥ naraḥ .
मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन् । तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्यसौ १९ ।
मयि आकाश-आत्मनि प्राणे मनसा घोषम् उद्वहन् । तत्र उपलब्धाः भूतानाम् हंसः वाचः शृणोति असौ ।
mayi ākāśa-ātmani prāṇe manasā ghoṣam udvahan . tatra upalabdhāḥ bhūtānām haṃsaḥ vācaḥ śṛṇoti asau .
चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि । मां तत्र मनसा ध्यायन्विश्वं पश्यति दूरतः २० ।
चक्षुः त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि । माम् तत्र मनसा ध्यायन् विश्वम् पश्यति दूरतस् ।
cakṣuḥ tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi . mām tatra manasā dhyāyan viśvam paśyati dūratas .
मनो मयि सुसंयोज्य देहं तदनुवायुना । मद्धारणानुभावेन तत्रात्मा यत्र वै मनः २१ ।
मनः मयि सु संयोज्य देहम् तदनु वायुना । मद्-धारण-अनुभावेन तत्र आत्मा यत्र वै मनः ।
manaḥ mayi su saṃyojya deham tadanu vāyunā . mad-dhāraṇa-anubhāvena tatra ātmā yatra vai manaḥ .
यदा मन उपादाय यद्यद्रूपं बुभूषति । तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः २२ ।
यदा मनः उपादाय यत् यत् रूपम् बुभूषति । तत् तत् भवेत् मनः-रूपम् मद्-योग-बलम् आश्रयः ।
yadā manaḥ upādāya yat yat rūpam bubhūṣati . tat tat bhavet manaḥ-rūpam mad-yoga-balam āśrayaḥ .
परकायं विशन्सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् २३ ।
पर-कायम् विशन् सिद्धः आत्मानम् तत्र भावयेत् । पिण्डम् हित्वा विशेत् प्राणः वायु-भूतः षडङ्घ्रि-वत् ।
para-kāyam viśan siddhaḥ ātmānam tatra bhāvayet . piṇḍam hitvā viśet prāṇaḥ vāyu-bhūtaḥ ṣaḍaṅghri-vat .
पार्ष्ण्यापीड्य गुदं प्राणं हृदुरःकण्ठमूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत्तनुम् २४ ।
पार्ष्ण्या आपीड्य गुदम् प्राणम् हृद्-उरः-कण्ठ-मूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वा उत्सृजेत् तनुम् ।
pārṣṇyā āpīḍya gudam prāṇam hṛd-uraḥ-kaṇṭha-mūrdhasu . āropya brahmarandhreṇa brahma nītvā utsṛjet tanum .
विहरिष्यन्सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः २५ ।
विहरिष्यन् सुर-आक्रीडे मद्-स्थम् सत्त्वम् विभावयेत् । विमानेन उपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः ।
vihariṣyan sura-ākrīḍe mad-stham sattvam vibhāvayet . vimānena upatiṣṭhanti sattva-vṛttīḥ sura-striyaḥ .
यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनो युञ्जंस्तथा तत्समुपाश्नुते २६ ।
यथा सङ्कल्पयेत् बुद्ध्या यदा वा मद्-परः पुमान् । मयि सत्ये मनः युञ्जन् तथा तत् समुपाश्नुते ।
yathā saṅkalpayet buddhyā yadā vā mad-paraḥ pumān . mayi satye manaḥ yuñjan tathā tat samupāśnute .
यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान् । कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम २७ ।
यः वै मद्-भावम् आपन्नः ईशितुः वशितुः पुमान् । कुतश्चिद् न विहन्येत तस्य च आज्ञा यथा मम ।
yaḥ vai mad-bhāvam āpannaḥ īśituḥ vaśituḥ pumān . kutaścid na vihanyeta tasya ca ājñā yathā mama .
मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः । तस्य त्रैकालिकी बुद्धिर्जन्ममृत्यूपबृंहिता २८ ।
मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनः धारणा-विदः । तस्य त्रैकालिकी बुद्धिः जन्म-मृत्यु-उपबृंहिता ।
mad-bhaktyā śuddha-sattvasya yoginaḥ dhāraṇā-vidaḥ . tasya traikālikī buddhiḥ janma-mṛtyu-upabṛṃhitā .
अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः । मद्योगशान्तचित्तस्य यादसामुदकं यथा २९ ।
अग्नि-आदिभिः न मुनेः योग-मयम् वपुः । मद्-योग-शान्त-चित्तस्य यादसाम् उदकम् यथा ।
agni-ādibhiḥ na muneḥ yoga-mayam vapuḥ . mad-yoga-śānta-cittasya yādasām udakam yathā .
मद्विभूतीरभिध्यायन्श्रीवत्सास्त्रविभूषिताः । ध्वजातपत्रव्यजनैः स भवेदपराजितः ३० ।
मद्-विभूतीः अभिध्यायन् श्रीवत्स-अस्त्र-विभूषिताः । ध्वज-आत-पत्र-व्यजनैः स भवेत् अपराजितः ।
mad-vibhūtīḥ abhidhyāyan śrīvatsa-astra-vibhūṣitāḥ . dhvaja-āta-patra-vyajanaiḥ sa bhavet aparājitaḥ .
उपासकस्य मामेवं योगधारणया मुनेः । सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः ३१ ।
उपासकस्य माम् एवम् योग-धारणया मुनेः । सिद्धयः पूर्व-कथिताः उपतिष्ठन्ति अशेषतस् ।
upāsakasya mām evam yoga-dhāraṇayā muneḥ . siddhayaḥ pūrva-kathitāḥ upatiṣṭhanti aśeṣatas .
जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ३२ ।
जित-इन्द्रियस्य दान्तस्य जित-श्वास-आत्मनः मुनेः । मद्-धारणाम् धारयतः का सा सिद्धिः सु दुर्लभा ।
jita-indriyasya dāntasya jita-śvāsa-ātmanaḥ muneḥ . mad-dhāraṇām dhārayataḥ kā sā siddhiḥ su durlabhā .
अन्तरायान्वदन्त्येता युञ्जतो योगमुत्तमम् । मया सम्पद्यमानस्य कालक्षपणहेतवः ३३ ।
अन्तरायान् वदन्ति एताः युञ्जतः योगम् उत्तमम् । मया सम्पद्यमानस्य काल-क्षपण-हेतवः ।
antarāyān vadanti etāḥ yuñjataḥ yogam uttamam . mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ .
जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः । योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ३४ ।
जन्म-औषधि-तपः-मन्त्रैः यावतीः इह सिद्धयः । योगेन आप्नोति ताः सर्वाः न अन्यैः योग-गतिम् व्रजेत् ।
janma-auṣadhi-tapaḥ-mantraiḥ yāvatīḥ iha siddhayaḥ . yogena āpnoti tāḥ sarvāḥ na anyaiḥ yoga-gatim vrajet .
सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ३५ ।
सर्वासाम् अपि सिद्धीनाम् हेतुः पतिः अहम् प्रभुः । अहम् योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् ।
sarvāsām api siddhīnām hetuḥ patiḥ aham prabhuḥ . aham yogasya sāṅkhyasya dharmasya brahma-vādinām .
अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ३६ ।
अहम् आत्मा अन्तरः बाह्यः अनावृतः सर्व-देहिनाम् । यथा भूतानि भूतेषु बहिस् अन्तर् स्वयम् तथा ।
aham ātmā antaraḥ bāhyaḥ anāvṛtaḥ sarva-dehinām . yathā bhūtāni bhūteṣu bahis antar svayam tathā .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चदशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे पञ्चदशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe pañcadaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In