| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच।
त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् । सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः १ ।
त्वम् ब्रह्म परमम् साक्षात् अनादि-अन्तम् अपावृतम् । सर्वेषाम् अपि भावानाम् त्राण-स्थिति-अप्यय-उद्भवः ।
tvam brahma paramam sākṣāt anādi-antam apāvṛtam . sarveṣām api bhāvānām trāṇa-sthiti-apyaya-udbhavaḥ .
उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः । उपासते त्वां भगवन्याथातथ्येन ब्राह्मणाः २ ।
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः । उपासते त्वाम् भगवन् याथातथ्येन ब्राह्मणाः ।
uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ . upāsate tvām bhagavan yāthātathyena brāhmaṇāḥ .
येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ३ ।
येषु येषु च भूतेषु भक्त्या त्वाम् परम-ऋषयः । उपासीनाः प्रपद्यन्ते संसिद्धिम् तत् वदस्व मे ।
yeṣu yeṣu ca bhūteṣu bhaktyā tvām parama-ṛṣayaḥ . upāsīnāḥ prapadyante saṃsiddhim tat vadasva me .
गूढश्चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ४ ।
गूढः चरसि भूत-आत्मा भूतानाम् भूत-भावन । न त्वाम् पश्यन्ति भूतानि पश्यन्तम् मोहितानि ते ।
gūḍhaḥ carasi bhūta-ātmā bhūtānām bhūta-bhāvana . na tvām paśyanti bhūtāni paśyantam mohitāni te .
याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ५ ।
याः काः च भूमौ दिवि वै रसायाम् विभूतयः दिक्षु महा-विभूते । ताः मह्यम् आख्याहि अनुभाविताः ते नमामि ते तीर्थ-पद-अङ्घ्रि-पद्मम् ।
yāḥ kāḥ ca bhūmau divi vai rasāyām vibhūtayaḥ dikṣu mahā-vibhūte . tāḥ mahyam ākhyāhi anubhāvitāḥ te namāmi te tīrtha-pada-aṅghri-padmam .
श्रीभगवानुवाच।
एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैरर्जुनेन वै ६ ।
एवम् एतत् अहम् पृष्टः प्रश्नम् प्रश्न-विदाम् वर । युयुत्सुना विनशने सपत्नैः अर्जुनेन वै ।
evam etat aham pṛṣṭaḥ praśnam praśna-vidām vara . yuyutsunā vinaśane sapatnaiḥ arjunena vai .
ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् । ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ७ ।
ज्ञात्वा ज्ञाति-वधम् गर्ह्यम् अधर्मम् राज्य-हेतुकम् । ततस् निवृत्तः हन्ता अहम् हतः अयम् इति लौकिकः ।
jñātvā jñāti-vadham garhyam adharmam rājya-hetukam . tatas nivṛttaḥ hantā aham hataḥ ayam iti laukikaḥ .
स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः । अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ८ ।
स तदा पुरुष-व्याघ्रः युक्त्या मे प्रतिबोधितः । अभ्यभाषत माम् एवम् यथा त्वम् रण-मूर्धनि ।
sa tadā puruṣa-vyāghraḥ yuktyā me pratibodhitaḥ . abhyabhāṣata mām evam yathā tvam raṇa-mūrdhani .
अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ९ ।
अहम् आत्मा उद्धव अमीषाम् भूतानाम् सुहृद् ईश्वरः । अहम् सर्वाणि भूतानि तेषाम् स्थिति-उद्भव-अप्ययः ।
aham ātmā uddhava amīṣām bhūtānām suhṛd īśvaraḥ . aham sarvāṇi bhūtāni teṣām sthiti-udbhava-apyayaḥ .
अहं गतिर्गतिमतां कालः कलयतामहम् । गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः १० ।
अहम् गतिः गतिमताम् कालः कलयताम् अहम् । गुणानाम् च अपि अहम् साम्यम् गुणिनी औत्पत्तिकः गुणः ।
aham gatiḥ gatimatām kālaḥ kalayatām aham . guṇānām ca api aham sāmyam guṇinī autpattikaḥ guṇaḥ .
गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ११ ।
गुणिनाम् अपि अहम् सूत्रम् महताम् च महान् अहम् । सूक्ष्माणाम् अपि अहम् जीवः दुर्जयानाम् अहम् मनः ।
guṇinām api aham sūtram mahatām ca mahān aham . sūkṣmāṇām api aham jīvaḥ durjayānām aham manaḥ .
हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् । अक्षराणामकारोऽस्मि पदानि च्छन्दुसामहम् १२ ।
हिरण्यगर्भः वेदानाम् मन्त्राणाम् प्रणवः त्रिवृत् । अक्षराणाम् अकारः अस्मि पदानि छन्दु-साम् अहम् ।
hiraṇyagarbhaḥ vedānām mantrāṇām praṇavaḥ trivṛt . akṣarāṇām akāraḥ asmi padāni chandu-sām aham .
इन्द्रो ऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानामहं विष्णू रुद्राणां नीललोहितः १३ ।
इन्द्रः अहम् सर्व-देवानाम् वसूनाम् अस्मि हव्यवाट् । आदित्यानाम् अहम् विष्णुः रुद्राणाम् नीललोहितः ।
indraḥ aham sarva-devānām vasūnām asmi havyavāṭ . ādityānām aham viṣṇuḥ rudrāṇām nīlalohitaḥ .
ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः । देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु १४ ।
ब्रह्मर्षीणाम् भृगुः अहम् राजर्षीणाम् अहम् मनुः । देवर्षीणाम् नारदः अहम् हविर्धानी अस्मि धेनुषु ।
brahmarṣīṇām bhṛguḥ aham rājarṣīṇām aham manuḥ . devarṣīṇām nāradaḥ aham havirdhānī asmi dhenuṣu .
सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् । प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा १५ ।
सिद्ध-ईश्वराणाम् कपिलः सुपर्णः अहम् पतत्रिणाम् । प्रजापतीनाम् दक्षः अहम् पितॄणाम् अहम् अर्यमा ।
siddha-īśvarāṇām kapilaḥ suparṇaḥ aham patatriṇām . prajāpatīnām dakṣaḥ aham pitṝṇām aham aryamā .
मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् १६ ।
माम् विद्धि उद्धव दैत्यानाम् प्रह्लादम् असुर-ईश्वरम् । सोमम् नक्षत्र-ओषधीनाम् धन-ईशम् यक्ष-रक्षसाम् ।
mām viddhi uddhava daityānām prahlādam asura-īśvaram . somam nakṣatra-oṣadhīnām dhana-īśam yakṣa-rakṣasām .
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् १७ ।
ऐरावतम् गज-इन्द्राणाम् यादसाम् वरुणम् प्रभुम् । तपताम् द्युमताम् सूर्यम् मनुष्याणाम् च भूपतिम् ।
airāvatam gaja-indrāṇām yādasām varuṇam prabhum . tapatām dyumatām sūryam manuṣyāṇām ca bhūpatim .
उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । यमः संयमतां चाहम्सर्पाणामस्मि वासुकिः १८ ।
उच्चैःश्रवाः तुरङ्गाणाम् धातूनाम् अस्मि काञ्चनम् । यमः संयमताम् च अहम् सर्पाणाम् अस्मि वासुकिः ।
uccaiḥśravāḥ turaṅgāṇām dhātūnām asmi kāñcanam . yamaḥ saṃyamatām ca aham sarpāṇām asmi vāsukiḥ .
नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ १९ ।
नाग-इन्द्राणाम् अनन्तः अहम् मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् । आश्रमाणाम् अहम् तुर्यः वर्णानाम् प्रथमः अनघ ।
nāga-indrāṇām anantaḥ aham mṛgendraḥ śṛṅgi-daṃṣṭriṇām . āśramāṇām aham turyaḥ varṇānām prathamaḥ anagha .
तीर्थानां स्रोतसां गङ्गा समुद्र ः! सरसामहम् । आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् २० ।
तीर्थानाम् स्रोतसाम् गङ्गा समुद्रः! सरसाम् अहम् । आयुधानाम् धनुः अहम् त्रिपुर-घ्नः धनुष्मताम् ।
tīrthānām srotasām gaṅgā samudraḥ! sarasām aham . āyudhānām dhanuḥ aham tripura-ghnaḥ dhanuṣmatām .
धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः । वनस्पतीनामश्वत्थ ओषधीनामहं यवः २१ ।
धिष्ण्यानाम् अस्मि अहम् मेरुः गहनानाम् हिमालयः । वनस्पतीनाम् अश्वत्थः ओषधीनाम् अहम् यवः ।
dhiṣṇyānām asmi aham meruḥ gahanānām himālayaḥ . vanaspatīnām aśvatthaḥ oṣadhīnām aham yavaḥ .
पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः २२ ।
पुरोधसाम् वसिष्ठः अहम् ब्रह्मिष्ठानाम् बृहस्पतिः । स्कन्दः अहम् सर्व-सेनान्याम् अग्रण्याम् भगवान् अजः ।
purodhasām vasiṣṭhaḥ aham brahmiṣṭhānām bṛhaspatiḥ . skandaḥ aham sarva-senānyām agraṇyām bhagavān ajaḥ .
यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् । वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः २३ ।
यज्ञानाम् ब्रह्मयज्ञः अहम् व्रतानाम् अविहिंसनम् । वायु-अग्नि-अर्क-अम्बु-वाच्-आत्मा शुचीनाम् अपि अहम् शुचिः ।
yajñānām brahmayajñaḥ aham vratānām avihiṃsanam . vāyu-agni-arka-ambu-vāc-ātmā śucīnām api aham śuciḥ .
योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् २४ ।
योगानाम् आत्म-संरोधः मन्त्रः अस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानाम् विकल्पः ख्याति-वादिनाम् ।
yogānām ātma-saṃrodhaḥ mantraḥ asmi vijigīṣatām . ānvīkṣikī kauśalānām vikalpaḥ khyāti-vādinām .
स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् २५ ।
स्त्रीणाम् तु शतरूपा अहम् पुंसाम् स्वायम्भुवः मनुः । नारायणः मुनीनाम् च कुमारः ब्रह्मचारिणाम् ।
strīṇām tu śatarūpā aham puṃsām svāyambhuvaḥ manuḥ . nārāyaṇaḥ munīnām ca kumāraḥ brahmacāriṇām .
धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः । गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् २६ ।
धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्मतिः । गुह्यानाम् सु नृतम् मौनम् मिथुनानाम् अजः तु अहम् ।
dharmāṇām asmi sannyāsaḥ kṣemāṇām abahirmatiḥ . guhyānām su nṛtam maunam mithunānām ajaḥ tu aham .
संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ । मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् २७ ।
संवत्सरः अस्मि अनिमिषाम् ऋतूनाम् मधु-माधवौ । मासानाम् मार्गशीर्षः अहम् नक्षत्राणाम् तथा अभिजित् ।
saṃvatsaraḥ asmi animiṣām ṛtūnām madhu-mādhavau . māsānām mārgaśīrṣaḥ aham nakṣatrāṇām tathā abhijit .
अहं युगानां च कृतं धीराणां देवलोऽसितः । द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् २८ ।
अहम् युगानाम् च कृतम् धीराणाम् देवलः असितः । द्वैपायनः अस्मि व्यासानाम् कवीनाम् काव्यः आत्मवान् ।
aham yugānām ca kṛtam dhīrāṇām devalaḥ asitaḥ . dvaipāyanaḥ asmi vyāsānām kavīnām kāvyaḥ ātmavān .
वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । किम्पुरुषानां हनुमान्विद्याध्राणां सुदर्शनः २९ ।
वासुदेवः भगवताम् त्वम् तु भागवतेषु अहम् । किम्पुरुषानाम् हनुमान् विद्याध्राणाम् सुदर्शनः ।
vāsudevaḥ bhagavatām tvam tu bhāgavateṣu aham . kimpuruṣānām hanumān vidyādhrāṇām sudarśanaḥ .
रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् । कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ३० ।
रत्नानाम् पद्मरागः अस्मि पद्मकोशः सुपेशसाम् । कुशः अस्मि दर्भ-जातीनाम् गव्यम् आज्यम् हविःषु अहम् ।
ratnānām padmarāgaḥ asmi padmakośaḥ supeśasām . kuśaḥ asmi darbha-jātīnām gavyam ājyam haviḥṣu aham .
व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ३१ ।
व्यवसायिनाम् अहम् लक्ष्मीः कितवानाम् छलग्रहः । तितिक्षा अस्मि तितिक्षूणाम् सत्त्वम् सत्त्ववताम् अहम् ।
vyavasāyinām aham lakṣmīḥ kitavānām chalagrahaḥ . titikṣā asmi titikṣūṇām sattvam sattvavatām aham .
ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ३२ ।
ओजः सहः बलवताम् कर्म अहम् विद्धि सात्वताम् । सात्वताम् नव-मूर्तीनाम् आदि-मूर्तिः अहम् परा ।
ojaḥ sahaḥ balavatām karma aham viddhi sātvatām . sātvatām nava-mūrtīnām ādi-mūrtiḥ aham parā .
विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ३३ ।
विश्वावसुः पूर्वचित्तिः गन्धर्व-अप्सरसाम् अहम् । भूधराणाम् अहम् स्थैर्यम् गन्ध-मात्रम् अहम् भुवः ।
viśvāvasuḥ pūrvacittiḥ gandharva-apsarasām aham . bhūdharāṇām aham sthairyam gandha-mātram aham bhuvaḥ .
अपां रसश्च परमस्तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ३४ ।
अपाम् रसः च परमः तेजिष्ठानाम् विभावसुः । प्रभा सूर्य-इन्दु-ताराणाम् शब्दः अहम् नभसः परः ।
apām rasaḥ ca paramaḥ tejiṣṭhānām vibhāvasuḥ . prabhā sūrya-indu-tārāṇām śabdaḥ aham nabhasaḥ paraḥ .
ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः । भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ३५ ।
ब्रह्मण्यानाम् बलिः अहम् वीराणाम् अहम् अर्जुनः । भूतानाम् स्थितिः उत्पत्तिः अहम् वै प्रतिसङ्क्रमः ।
brahmaṇyānām baliḥ aham vīrāṇām aham arjunaḥ . bhūtānām sthitiḥ utpattiḥ aham vai pratisaṅkramaḥ .
गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् । आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ३६ ।
। आस्वाद-श्रुति-अवघ्राणम् अहम् सर्व-इन्द्रिय-इन्द्रियम् ।
. āsvāda-śruti-avaghrāṇam aham sarva-indriya-indriyam .
पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ३७ ।
पृथिवी वायुः आकाशः आपः ज्योतिः अहम् महान् । विकारः पुरुषः अव्यक्तम् रजः सत्त्वम् तमः परम् । अहम् एतत् प्रसङ्ख्यानम् ज्ञानम् तत्त्व-विनिश्चयः ।
pṛthivī vāyuḥ ākāśaḥ āpaḥ jyotiḥ aham mahān . vikāraḥ puruṣaḥ avyaktam rajaḥ sattvam tamaḥ param . aham etat prasaṅkhyānam jñānam tattva-viniścayaḥ .
मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ३८ ।
मया ईश्वरेण जीवेन गुणेन गुणिना विना । सर्व-आत्मना अपि सर्वेण न भावः विद्यते क्वचिद् ।
mayā īśvareṇa jīvena guṇena guṇinā vinā . sarva-ātmanā api sarveṇa na bhāvaḥ vidyate kvacid .
सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ३९ ।
सङ्ख्यानम् परमाणूनाम् कालेन क्रियते मया । न तथा मे विभूतीनाम् सृजतः अण्डानि कोटिशस् ।
saṅkhyānam paramāṇūnām kālena kriyate mayā . na tathā me vibhūtīnām sṛjataḥ aṇḍāni koṭiśas .
तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ४० ।
तेजः श्रीः कीर्तिः ऐश्वर्यम् ह्रीः त्यागः सौभगम् भगः । वीर्यम् तितिक्षा विज्ञानम् यत्र यत्र स मे अशकः ।
tejaḥ śrīḥ kīrtiḥ aiśvaryam hrīḥ tyāgaḥ saubhagam bhagaḥ . vīryam titikṣā vijñānam yatra yatra sa me aśakaḥ .
एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनोविकारा एवैते यथा वाचाभिधीयते ४१ ।
एताः ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनः-विकाराः एव एते यथा वाचा अभिधीयते ।
etāḥ te kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ . manaḥ-vikārāḥ eva ete yathā vācā abhidhīyate .
वाचं यच्छ मनो यच्छ प्राणान्यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ४२ ।
वाचम् यच्छ मनः यच्छ प्राणान् यच्छ इन्द्रियाणि च । आत्मानम् आत्मना यच्छ न भूयस् कल्पसे अध्वने ।
vācam yaccha manaḥ yaccha prāṇān yaccha indriyāṇi ca . ātmānam ātmanā yaccha na bhūyas kalpase adhvane .
यो वै वाङ्मनसी संयगसंयच्छन्धिया यतिः । तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ४३ ।
यः वै वाच्-मनसी संयक् अ संयच्छन् धिया यतिः । तस्य व्रतम् तपः दानम् स्रवति आम-घट-अम्बु-वत् ।
yaḥ vai vāc-manasī saṃyak a saṃyacchan dhiyā yatiḥ . tasya vratam tapaḥ dānam sravati āma-ghaṭa-ambu-vat .
तस्माद्वचो मनः प्राणान्नियच्छेन्मत्परायणः । मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ४४ ।
तस्मात् वचः मनः प्राणान् नियच्छेत् मद्-परायणः । मद्-भक्ति-युक्तया बुद्ध्या ततस् परिसमाप्यते ।
tasmāt vacaḥ manaḥ prāṇān niyacchet mad-parāyaṇaḥ . mad-bhakti-yuktayā buddhyā tatas parisamāpyate .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षोडशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे षोडशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ṣoḍaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In