| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच।
त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् । सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः १ ।
tvaṃ brahma paramaṃ sākṣādanādyantamapāvṛtam . sarveṣāmapi bhāvānāṃ trāṇasthityapyayodbhavaḥ 1 .
उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः । उपासते त्वां भगवन्याथातथ्येन ब्राह्मणाः २ ।
uccāvaceṣu bhūteṣu durjñeyamakṛtātmabhiḥ . upāsate tvāṃ bhagavanyāthātathyena brāhmaṇāḥ 2 .
येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ३ ।
yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ . upāsīnāḥ prapadyante saṃsiddhiṃ tadvadasva me 3 .
गूढश्चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ४ ।
gūḍhaścarasi bhūtātmā bhūtānāṃ bhūtabhāvana . na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te 4 .
याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ५ ।
yāḥ kāśca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte . tā mahyamākhyāhyanubhāvitāste namāmi te tīrthapadāṅghripadmam 5 .
श्रीभगवानुवाच।
एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैरर्जुनेन वै ६ ।
evametadahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara . yuyutsunā vinaśane sapatnairarjunena vai 6 .
ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् । ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ७ ।
jñātvā jñātivadhaṃ garhyamadharmaṃ rājyahetukam . tato nivṛtto hantāhaṃ hato'yamiti laukikaḥ 7 .
स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः । अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ८ ।
sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ . abhyabhāṣata māmevaṃ yathā tvaṃ raṇamūrdhani 8 .
अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ९ ।
ahamātmoddhavāmīṣāṃ bhūtānāṃ suhṛdīśvaraḥ . ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ 9 .
अहं गतिर्गतिमतां कालः कलयतामहम् । गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः १० ।
ahaṃ gatirgatimatāṃ kālaḥ kalayatāmaham . guṇānāṃ cāpyahaṃ sāmyaṃ guṇinyautpattiko guṇaḥ 10 .
गुणिनामप्यहं सूत्रं महतां च महानहम् । सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ११ ।
guṇināmapyahaṃ sūtraṃ mahatāṃ ca mahānaham . sūkṣmāṇāmapyahaṃ jīvo durjayānāmahaṃ manaḥ 11 .
हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् । अक्षराणामकारोऽस्मि पदानि च्छन्दुसामहम् १२ ।
hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavastrivṛt . akṣarāṇāmakāro'smi padāni cchandusāmaham 12 .
इन्द्रो ऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् । आदित्यानामहं विष्णू रुद्राणां नीललोहितः १३ ।
indro 'haṃ sarvadevānāṃ vasūnāmasmi havyavāṭ . ādityānāmahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ 13 .
ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः । देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु १४ ।
brahmarṣīṇāṃ bhṛgurahaṃ rājarṣīṇāmahaṃ manuḥ . devarṣīṇāṃ nārado'haṃ havirdhānyasmi dhenuṣu 14 .
सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् । प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा १५ ।
siddheśvarāṇāṃ kapilaḥ suparṇo'haṃ patatriṇām . prajāpatīnāṃ dakṣo'haṃ pitṝṇāmahamaryamā 15 .
मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् १६ ।
māṃ viddhyuddhava daityānāṃ prahlādamasureśvaram . somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām 16 .
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् १७ ।
airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum . tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim 17 .
उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् । यमः संयमतां चाहम्सर्पाणामस्मि वासुकिः १८ ।
uccaiḥśravāsturaṅgāṇāṃ dhātūnāmasmi kāñcanam . yamaḥ saṃyamatāṃ cāhamsarpāṇāmasmi vāsukiḥ 18 .
नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ १९ ।
nāgendrāṇāmananto'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām . āśramāṇāmahaṃ turyo varṇānāṃ prathamo'nagha 19 .
तीर्थानां स्रोतसां गङ्गा समुद्र ः! सरसामहम् । आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् २० ।
tīrthānāṃ srotasāṃ gaṅgā samudra ḥ! sarasāmaham . āyudhānāṃ dhanurahaṃ tripuraghno dhanuṣmatām 20 .
धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः । वनस्पतीनामश्वत्थ ओषधीनामहं यवः २१ ।
dhiṣṇyānāmasmyahaṃ merurgahanānāṃ himālayaḥ . vanaspatīnāmaśvattha oṣadhīnāmahaṃ yavaḥ 21 .
पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः २२ ।
purodhasāṃ vasiṣṭho'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ . skando'haṃ sarvasenānyāmagraṇyāṃ bhagavānajaḥ 22 .
यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् । वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः २३ ।
yajñānāṃ brahmayajño'haṃ vratānāmavihiṃsanam . vāyvagnyarkāmbuvāgātmā śucīnāmapyahaṃ śuciḥ 23 .
योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् २४ ।
yogānāmātmasaṃrodho mantro'smi vijigīṣatām . ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām 24 .
स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् २५ ।
strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ . nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām 25 .
धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः । गुह्यानां सुनृतं मौनं मिथुनानामजस्त्वहम् २६ ।
dharmāṇāmasmi sannyāsaḥ kṣemāṇāmabahirmatiḥ . guhyānāṃ sunṛtaṃ maunaṃ mithunānāmajastvaham 26 .
संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ । मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् २७ ।
saṃvatsaro'smyanimiṣāmṛtūnāṃ madhumādhavau . māsānāṃ mārgaśīrṣo'haṃ nakṣatrāṇāṃ tathābhijit 27 .
अहं युगानां च कृतं धीराणां देवलोऽसितः । द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् २८ ।
ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo'sitaḥ . dvaipāyano'smi vyāsānāṃ kavīnāṃ kāvya ātmavān 28 .
वासुदेवो भगवतां त्वं तु भागवतेष्वहम् । किम्पुरुषानां हनुमान्विद्याध्राणां सुदर्शनः २९ ।
vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣvaham . kimpuruṣānāṃ hanumānvidyādhrāṇāṃ sudarśanaḥ 29 .
रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् । कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ३० ।
ratnānāṃ padmarāgo'smi padmakośaḥ supeśasām . kuśo'smi darbhajātīnāṃ gavyamājyaṃ haviḥṣvaham 30 .
व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ३१ ।
vyavasāyināmahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ . titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatāmaham 31 .
ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ३२ ।
ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām . sātvatāṃ navamūrtīnāmādimūrtirahaṃ parā 32 .
विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् । भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ३३ ।
viśvāvasuḥ pūrvacittirgandharvāpsarasāmaham . bhūdharāṇāmahaṃ sthairyaṃ gandhamātramahaṃ bhuvaḥ 33 .
अपां रसश्च परमस्तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ३४ ।
apāṃ rasaśca paramastejiṣṭhānāṃ vibhāvasuḥ . prabhā sūryendutārāṇāṃ śabdo'haṃ nabhasaḥ paraḥ 34 .
ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः । भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ३५ ।
brahmaṇyānāṃ balirahaṃ vīrāṇāmahamarjunaḥ . bhūtānāṃ sthitirutpattirahaṃ vai pratisaṅkramaḥ 35 .
गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् । आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ३६ ।
gatyuktyutsargopādānamānandasparśalakṣaṇam . āsvādaśrutyavaghrāṇamahaṃ sarvendriyendriyam 36 .
पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् । अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ३७ ।
pṛthivī vāyurākāśa āpo jyotirahaṃ mahān . vikāraḥ puruṣo'vyaktaṃ rajaḥ sattvaṃ tamaḥ param . ahametatprasaṅkhyānaṃ jñānaṃ tattvaviniścayaḥ 37 .
मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ३८ ।
mayeśvareṇa jīvena guṇena guṇinā vinā . sarvātmanāpi sarveṇa na bhāvo vidyate kvacit 38 .
सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ३९ ।
saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā . na tathā me vibhūtīnāṃ sṛjato'ṇḍāni koṭiśaḥ 39 .
तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ४० ।
tejaḥ śrīḥ kīrtiraiśvaryaṃ hrīstyāgaḥ saubhagaṃ bhagaḥ . vīryaṃ titikṣā vijñānaṃ yatra yatra sa meṃ'śakaḥ 40 .
एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनोविकारा एवैते यथा वाचाभिधीयते ४१ ।
etāste kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ . manovikārā evaite yathā vācābhidhīyate 41 .
वाचं यच्छ मनो यच्छ प्राणान्यच्छेन्द्रियाणि च । आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ४२ ।
vācaṃ yaccha mano yaccha prāṇānyacchendriyāṇi ca . ātmānamātmanā yaccha na bhūyaḥ kalpase'dhvane 42 .
यो वै वाङ्मनसी संयगसंयच्छन्धिया यतिः । तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ४३ ।
yo vai vāṅmanasī saṃyagasaṃyacchandhiyā yatiḥ . tasya vrataṃ tapo dānaṃ sravatyāmaghaṭāmbuvat 43 .
तस्माद्वचो मनः प्राणान्नियच्छेन्मत्परायणः । मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ४४ ।
tasmādvaco manaḥ prāṇānniyacchenmatparāyaṇaḥ . madbhaktiyuktayā buddhyā tataḥ parisamāpyate 44 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षोडशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe ṣoḍaśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In