| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः । वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
यः त्वया अभिहितः पूर्वम् धर्मः त्वद्-भक्ति-लक्षणः । वर्ण-आश्रम-आचारवताम् सर्वेषाम् द्विपदाम् अपि ॥ १ ॥
yaḥ tvayā abhihitaḥ pūrvam dharmaḥ tvad-bhakti-lakṣaṇaḥ . varṇa-āśrama-ācāravatām sarveṣām dvipadām api .. 1 ..
यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् । स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि ॥ २ ॥
यथा अनुष्ठीयमानेन त्वयि भक्तिः नृणाम् भवेत् । स्वधर्मेण अरविन्द-अक्ष तत् समाख्यातुम् अर्हसि ॥ २ ॥
yathā anuṣṭhīyamānena tvayi bhaktiḥ nṛṇām bhavet . svadharmeṇa aravinda-akṣa tat samākhyātum arhasi .. 2 ..
पुरा किल महाबाहो धर्मं परमकं प्रभो । यत्तेन हंसरूपेण ब्राह्मणेऽभ्यात्थ माधव ॥ ३ ॥
पुरा किल महा-बाहो धर्मम् परमकम् प्रभो । यत् तेन हंस-रूपेण ब्राह्मणे अभ्यात्थ माधव ॥ ३ ॥
purā kila mahā-bāho dharmam paramakam prabho . yat tena haṃsa-rūpeṇa brāhmaṇe abhyāttha mādhava .. 3 ..
स इदानीं सुमहता कालेनामित्रकर्शन । न प्रायो भविता मर्त्य लोके प्राक् अनुशासितः ॥ ४ ॥
सः इदानीम् सु महता कालेन अमित्र-कर्शन । न प्रायो भविता मर्त्य-लोके प्राक् अनुशासितः ॥ ४ ॥
saḥ idānīm su mahatā kālena amitra-karśana . na prāyo bhavitā martya-loke prāk anuśāsitaḥ .. 4 ..
वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
वक्ता कर्ता अविता ना अन्यः धर्मस्य अच्युत ते भुवि । सभायाम् अपि वैरिञ्च्याम् यत्र मूर्ति-धराः कलाः ॥ ५ ॥
vaktā kartā avitā nā anyaḥ dharmasya acyuta te bhuvi . sabhāyām api vairiñcyām yatra mūrti-dharāḥ kalāḥ .. 5 ..
कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥
कर्त्रा अवित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते मही-तले देव विनष्टम् कः प्रवक्ष्यति ॥ ६ ॥
kartrā avitrā pravaktrā ca bhavatā madhusūdana . tyakte mahī-tale deva vinaṣṭam kaḥ pravakṣyati .. 6 ..
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वद्भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥
तत्त्वम् नः सर्व-धर्म-ज्ञ धर्मः त्वद्-भक्ति-लक्षणः । यथा यस्य तथा वर्णय मे प्रभो ॥ ७ ॥
tattvam naḥ sarva-dharma-jña dharmaḥ tvad-bhakti-lakṣaṇaḥ . yathā yasya tathā varṇaya me prabho .. 7 ..
श्रीशुक उवाच -
इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८ ॥
इत्थम् स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानाम् धर्मान् आह सनातनान् ॥ ८ ॥
ittham sva-bhṛtya-mukhyena pṛṣṭaḥ sa bhagavān hariḥ . prītaḥ kṣemāya martyānām dharmān āha sanātanān .. 8 ..
श्रीभगवानुवाच -
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् । वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
धर्म्यः एष तव प्रश्नः नैःश्रेयस-करः नृणाम् । वर्ण-आश्रम-आचारवताम् तम् उद्धव निबोध मे ॥ ९ ॥
dharmyaḥ eṣa tava praśnaḥ naiḥśreyasa-karaḥ nṛṇām . varṇa-āśrama-ācāravatām tam uddhava nibodha me .. 9 ..
आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
आदौ कृत-युगे वर्णः नृणाम् हंसः इति स्मृतः । कृतकृत्याः प्रजाः जात्या तस्मात् कृत-युगम् विदुः ॥ १० ॥
ādau kṛta-yuge varṇaḥ nṛṇām haṃsaḥ iti smṛtaḥ . kṛtakṛtyāḥ prajāḥ jātyā tasmāt kṛta-yugam viduḥ .. 10 ..
वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥
वेदः प्रणवः एव अग्रे धर्मः अहम् वृष-रूपधृक् । उपासते तपः-निष्ठाः हंसम् माम् मुक्त-किल्बिषाः ॥ ११ ॥
vedaḥ praṇavaḥ eva agre dharmaḥ aham vṛṣa-rūpadhṛk . upāsate tapaḥ-niṣṭhāḥ haṃsam mām mukta-kilbiṣāḥ .. 11 ..
त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥
त्रेता-मुखे महाभाग प्राणात् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्याः अहम् आसम् त्रिवृत्-मखः ॥ १२ ॥
tretā-mukhe mahābhāga prāṇāt me hṛdayāt trayī . vidyā prādurabhūt tasyāḥ aham āsam trivṛt-makhaḥ .. 12 ..
विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः । वैराजात् पुरुषात् जाता य आत्माचारलक्षणाः ॥ १३ ॥
विप्र-क्षत्रिय-विश्-शूद्राः मुख-बाहु-ऊरु-पाद-जाः । वैराजात् पुरुषात् जाताः य-आत्म-आचार-लक्षणाः ॥ १३ ॥
vipra-kṣatriya-viś-śūdrāḥ mukha-bāhu-ūru-pāda-jāḥ . vairājāt puruṣāt jātāḥ ya-ātma-ācāra-lakṣaṇāḥ .. 13 ..
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षःस्थलाद् वने वासो न्यासः शीर्षणि संस्थितः ॥ १४ ॥*
गृहाश्रमः जघनतः ब्रह्मचर्यम् हृदः मम । वक्षःस्थलात् वने वासः न्यासः शीर्षणि संस्थितः ॥ १४ ॥
gṛhāśramaḥ jaghanataḥ brahmacaryam hṛdaḥ mama . vakṣaḥsthalāt vane vāsaḥ nyāsaḥ śīrṣaṇi saṃsthitaḥ .. 14 ..
वर्णानां आश्रमाणां च जन्मभूम्यनुसारिणीः । आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः ॥ १५ ॥
वर्णानाम् आश्रमाणाम् च जन्म-भूमि-अनुसारिणीः । आसन् प्रकृतयः नॄणाम् नीचैस् नीच-उत्तमोत्तमाः ॥ १५ ॥
varṇānām āśramāṇām ca janma-bhūmi-anusāriṇīḥ . āsan prakṛtayaḥ nṝṇām nīcais nīca-uttamottamāḥ .. 15 ..
शमो दमस्तपः शौचं संतोषः क्षांतिरार्जवम् । मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
शमः दमः तपः शौचम् संतोषः क्षांतिः आर्जवम् । मद्-भक्तिः च दया सत्यम् ब्रह्म-प्रकृतयः तु इमाः ॥ १६ ॥
śamaḥ damaḥ tapaḥ śaucam saṃtoṣaḥ kṣāṃtiḥ ārjavam . mad-bhaktiḥ ca dayā satyam brahma-prakṛtayaḥ tu imāḥ .. 16 ..
तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः । स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्र प्रकृतयस्त्विमाः ॥ १७ ॥
तेजः बलम् धृतिः शौर्यम् तितिक्षा औदार्यम् उद्यमः । स्थैर्यम् क्षत्र प्रकृतयः तु इमाः ॥ १७ ॥
tejaḥ balam dhṛtiḥ śauryam titikṣā audāryam udyamaḥ . sthairyam kṣatra prakṛtayaḥ tu imāḥ .. 17 ..
आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् । अतुष्टिः अर्थोपचयैः वैश्य प्रकृतयस्त्विमाः ॥ १८ ॥
आस्तिक्यम् दान-निष्ठा च अदंभः ब्रह्म-सेवनम् । अतुष्टिः अर्थ-उपचयैः वैश्य प्रकृतयः तु इमाः ॥ १८ ॥
āstikyam dāna-niṣṭhā ca adaṃbhaḥ brahma-sevanam . atuṣṭiḥ artha-upacayaiḥ vaiśya prakṛtayaḥ tu imāḥ .. 18 ..
शुश्रूषणं द्विजगवां देवानां चापि अमायया । तत्र लब्धेन संतोषः शूद्र प्रकृतयस्त्विमाः ॥ १९ ॥
शुश्रूषणम् द्विज-गवाम् देवानाम् च अपि अमायया । तत्र लब्धेन संतोषः शूद्र प्रकृतयः तु इमाः ॥ १९ ॥
śuśrūṣaṇam dvija-gavām devānām ca api amāyayā . tatra labdhena saṃtoṣaḥ śūdra prakṛtayaḥ tu imāḥ .. 19 ..
अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधश्च तर्षश्च स्वभावोन्त्यावसायिनाम् ॥ २० ॥
अशौचम् अनृतम् स्तेयम् नास्तिक्यम् शुष्क-विग्रहः । कामः क्रोधः च तर्षः च ॥ २० ॥
aśaucam anṛtam steyam nāstikyam śuṣka-vigrahaḥ . kāmaḥ krodhaḥ ca tarṣaḥ ca .. 20 ..
अहिंसा सत्यमस्तेयं अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
अहिंसा सत्यम् अस्तेयम् अ काम-क्रोध-लोभ-ता । भूत-प्रिय-हित-ईहा च धर्मः अयम् सार्ववर्णिकः ॥ २१ ॥
ahiṃsā satyam asteyam a kāma-krodha-lobha-tā . bhūta-priya-hita-īhā ca dharmaḥ ayam sārvavarṇikaḥ .. 21 ..
द्वितीयं प्राप्यानुपूर्व्यात् जन्मोपानयनं द्विजः । वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥
द्वितीयम् प्राप्य आनुपूर्व्यात् जन्म-उपानयनम् द्विजः । वसन् गुरु-कुले दान्तः ब्रह्म अधीयीत च आहूतः ॥ २२ ॥
dvitīyam prāpya ānupūrvyāt janma-upānayanam dvijaḥ . vasan guru-kule dāntaḥ brahma adhīyīta ca āhūtaḥ .. 22 ..
मेखला अजिन दण्डाक्ष ब्रह्मसूत्रकमण्डलून् । जटिलो अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३ ॥
मेखला-अजिन-दण्ड-अक्ष-ब्रह्मसूत्र-कमण्डलून् । जटिलः अ रक्त-पीठः कुशान् दधत् ॥ २३ ॥
mekhalā-ajina-daṇḍa-akṣa-brahmasūtra-kamaṇḍalūn . jaṭilaḥ a rakta-pīṭhaḥ kuśān dadhat .. 23 ..
स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः । न च्छिंद्यान् नखरोमाणि कक्ष-उपस्थगतान्यपि ॥ २४ ॥
स्नान-भोजन-होमेषु जप-उच्चारे च वाग्यतः । न छिंद्यात् नख-रोमाणि कक्ष-उपस्थ-गतानि अपि ॥ २४ ॥
snāna-bhojana-homeṣu japa-uccāre ca vāgyataḥ . na chiṃdyāt nakha-romāṇi kakṣa-upastha-gatāni api .. 24 ..
रेतो न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५ ॥
रेतः न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यत-असुः त्रिपदीम् जपेत् ॥ २५ ॥
retaḥ na avakiret jātu brahmavratadharaḥ svayam . avakīrṇe avagāhya apsu yata-asuḥ tripadīm japet .. 25 ..
अग्न्यर्काचार्य-गो-विप्र गुरु-वृद्ध-सुरान् शुचिः । समाहित उपासीत संध्ये च यतवाग्-जपन् ॥ २६ ॥
अग्नि-अर्क-आचार्य-गो-विप्र-गुरु-वृद्ध-सुरान् शुचिः । समाहितः उपासीत संध्ये च यत-वाच् जपन् ॥ २६ ॥
agni-arka-ācārya-go-vipra-guru-vṛddha-surān śuciḥ . samāhitaḥ upāsīta saṃdhye ca yata-vāc japan .. 26 ..
आचार्यं मां विजानीयात् न-अवमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
आचार्यम् माम् विजानीयात् न अवमन्येत कर्हिचित् । न मर्त्य-बुद्ध्या असूयेत सर्व-देव-मयः गुरुः ॥ २७ ॥
ācāryam mām vijānīyāt na avamanyeta karhicit . na martya-buddhyā asūyeta sarva-deva-mayaḥ guruḥ .. 27 ..
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच्चान्यद् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ २८ ॥
सायम् प्रातर् उपानीय भैक्ष्यम् तस्मै निवेदयेत् । यत् च अन्यत् अपि अनुज्ञातम् उपयुञ्जीत संयतः ॥ २८ ॥
sāyam prātar upānīya bhaikṣyam tasmai nivedayet . yat ca anyat api anujñātam upayuñjīta saṃyataḥ .. 28 ..
शुश्रूषमाण आचार्यं सदा-उपासीत नीचवत् । यान शय्यासनस्थानैः नातिदूरे कृताञ्जलिः ॥ २९ ॥
शुश्रूषमाणः आचार्यम् सदा उपासीत नीच-वत् । यान-शय्या-आसन-स्थानैः न अतिदूरे कृताञ्जलिः ॥ २९ ॥
śuśrūṣamāṇaḥ ācāryam sadā upāsīta nīca-vat . yāna-śayyā-āsana-sthānaiḥ na atidūre kṛtāñjaliḥ .. 29 ..
एवंवृत्तो गुरुकुले वसेद् भोगविवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतं अखण्डितम् ॥ ३० ॥
एवंवृत्तः गुरु-कुले वसेत् भोग-विवर्जितः । विद्या समाप्यते यावत् बिभ्रत् व्रतम् अखण्डितम् ॥ ३० ॥
evaṃvṛttaḥ guru-kule vaset bhoga-vivarjitaḥ . vidyā samāpyate yāvat bibhrat vratam akhaṇḍitam .. 30 ..
यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१ ॥
यदि असौ छंदसाम् लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् । गुरवे विन्यसेत् देहम् स्वाध्याय-अर्थम् बृहत्-व्रतः ॥ ३१ ॥
yadi asau chaṃdasām lokam ārokṣyan brahma-viṣṭapam . gurave vinyaset deham svādhyāya-artham bṛhat-vrataḥ .. 31 ..
अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् । अपृथग्धीः उपसीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२ ॥
अग्नौ गुरौ आत्मनि च सर्व-भूतेषु माम् परम् । अपृथग्धीः उपसीत ब्रह्म-वर्चस्वी अकल्मषः ॥ ३२ ॥
agnau gurau ātmani ca sarva-bhūteṣu mām param . apṛthagdhīḥ upasīta brahma-varcasvī akalmaṣaḥ .. 32 ..
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलनादिकम् । प्राणिनो मिथुनीभूतान् अगृहस्थो अग्रतस्त्यजेत् ॥ ३३ ॥
स्त्रीणाम् निरीक्षण-स्पर्श-संलाप-क्ष्वेलन-आदिकम् । प्राणिनः मिथुनीभूतान् अ गृह-स्थः अग्रतस् त्यजेत् ॥ ३३ ॥
strīṇām nirīkṣaṇa-sparśa-saṃlāpa-kṣvelana-ādikam . prāṇinaḥ mithunībhūtān a gṛha-sthaḥ agratas tyajet .. 33 ..
शौचं आचमनं स्नानं संध्योपासनमार्जवम् । तीर्थसेवा जपोऽस्पृश्या अभक्ष्य संभाष्यवर्जनम् ॥ ३४ ॥
शौचम् आचमनम् स्नानम् संध्या-उपासनम् आर्जवम् । तीर्थसेवा जपः अस्पृश्याः अ भक्ष्य संभाष्य-वर्जनम् ॥ ३४ ॥
śaucam ācamanam snānam saṃdhyā-upāsanam ārjavam . tīrthasevā japaḥ aspṛśyāḥ a bhakṣya saṃbhāṣya-varjanam .. 34 ..
सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनंदन । मद्भवः सर्वभूतेषु मनोवाक्-कायसंयमः ॥ ३५ ॥
सर्व-आश्रम-प्रयुक्तः अयम् नियमः कुल-नंदन । मद्-भवः सर्व-भूतेषु मनः-वाच्-काय-संयमः ॥ ३५ ॥
sarva-āśrama-prayuktaḥ ayam niyamaḥ kula-naṃdana . mad-bhavaḥ sarva-bhūteṣu manaḥ-vāc-kāya-saṃyamaḥ .. 35 ..
एवं बृहद्व्रतधरो ब्राह्मणोऽग्निः इव ज्वलन् । मद्भक्तः तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥
एवम् बृहत्-व्रत-धरः ब्राह्मणः अग्निः इव ज्वलन् । मद्-भक्तः तीव्र-तपसा दग्ध-कर्म-आशयः अमलः ॥ ३६ ॥
evam bṛhat-vrata-dharaḥ brāhmaṇaḥ agniḥ iva jvalan . mad-bhaktaḥ tīvra-tapasā dagdha-karma-āśayaḥ amalaḥ .. 36 ..
अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥
अथ अनन्तरम् आवेक्ष्यन् यथा जिज्ञासित-आगमः । गुरवे दक्षिणाम् दत्त्वा स्नायात् गुरु-अनुमोदितः ॥ ३७ ॥
atha anantaram āvekṣyan yathā jijñāsita-āgamaḥ . gurave dakṣiṇām dattvā snāyāt guru-anumoditaḥ .. 37 ..
गृहं वनं वोपविशेत् प्रव्रजे द्वा द्विजोत्तमः । आश्रमादाश्रमं गच्छेत् नान्यथा मत्परश्चरेत् ॥ ३८ ॥
गृहम् वनम् वा उपविशेत् प्रव्रजे द्वा द्विजोत्तमः । आश्रमात् आश्रमम् गच्छेत् न अन्यथा मद्-परः चरेत् ॥ ३८ ॥
gṛham vanam vā upaviśet pravraje dvā dvijottamaḥ . āśramāt āśramam gacchet na anyathā mad-paraḥ caret .. 38 ..
गृहार्थी सदृशीं भार्यां उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ ३९ ॥
गृह-अर्थी सदृशीम् भार्याम् उद्वहेत् अ जुगुप्सिताम् । यवीयसीम् तु वयसा याम् सवर्णाम् अनुक्रमात् ॥ ३९ ॥
gṛha-arthī sadṛśīm bhāryām udvahet a jugupsitām . yavīyasīm tu vayasā yām savarṇām anukramāt .. 39 ..
इज्य-अध्ययन-दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहो-अध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
इज्य-अध्ययन-दानानि सर्वेषाम् च द्विजन्मनाम् । प्रतिग्रहः अध्यापनम् च ब्राह्मणस्य एव याजनम् ॥ ४० ॥
ijya-adhyayana-dānāni sarveṣām ca dvijanmanām . pratigrahaḥ adhyāpanam ca brāhmaṇasya eva yājanam .. 40 ..
प्रतिग्रहं मन्यमानः तपस्तेजोयशोनुदम् । अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥
प्रतिग्रहम् मन्यमानः तपः-तेजः-यशः-नुदम् । अन्याभ्याम् एव जीवेत शिलैः वा दोष-दृश् तयोः ॥ ४१ ॥
pratigraham manyamānaḥ tapaḥ-tejaḥ-yaśaḥ-nudam . anyābhyām eva jīveta śilaiḥ vā doṣa-dṛś tayoḥ .. 41 ..
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
ब्राह्मणस्य हि देहः अयम् क्षुद्र-कामाय न इष्यते । कृच्छ्राय तपसे च इह प्रेत्य अनन्त-सुखाय च ॥ ४२ ॥
brāhmaṇasya hi dehaḥ ayam kṣudra-kāmāya na iṣyate . kṛcchrāya tapase ca iha pretya ananta-sukhāya ca .. 42 ..
( इंद्रवज्रा )
शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महांतं विरजं जुषाणः । मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शांतिम् ॥ ४३ ॥
शिल-उञ्छ-वृत्त्या परितुष्ट-चित्तः धर्मम् महांतम् विरजम् जुषाणः । मयि अर्पित-आत्मा गृहे एव तिष्ठन् न अति प्रसक्तः समुपैति शांतिम् ॥ ४३ ॥
śila-uñcha-vṛttyā parituṣṭa-cittaḥ dharmam mahāṃtam virajam juṣāṇaḥ . mayi arpita-ātmā gṛhe eva tiṣṭhan na ati prasaktaḥ samupaiti śāṃtim .. 43 ..
( अनुष्टुप् )
समुद्धरंति ये विप्रं सीदंतं मत्परायणम् । तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौः इवार्णवात् ॥ ४४ ॥
समुद्धरंति ये विप्रम् सीदंतम् मद्-परायणम् । तान् उद्धरिष्ये न चिरात् आपद्भ्यः नौः इव अर्णवात् ॥ ४४ ॥
samuddharaṃti ye vipram sīdaṃtam mad-parāyaṇam . tān uddhariṣye na cirāt āpadbhyaḥ nauḥ iva arṇavāt .. 44 ..
सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानं आत्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
सर्वाः समुद्धरेत् राजा पिता इव व्यसनात् प्रजाः । आत्मानम् आत्मना धीरः यथा गजपतिः गजान् ॥ ४५ ॥
sarvāḥ samuddharet rājā pitā iva vyasanāt prajāḥ . ātmānam ātmanā dhīraḥ yathā gajapatiḥ gajān .. 45 ..
एवंविधो नरपतिः विमानेनार्कवर्चसा । विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ ४६ ॥
एवंविधः नरपतिः विमानेन अर्क-वर्चसा । विधूय इह अशुभम् कृत्स्नम् इंद्रेण सह मोदते ॥ ४६ ॥
evaṃvidhaḥ narapatiḥ vimānena arka-varcasā . vidhūya iha aśubham kṛtsnam iṃdreṇa saha modate .. 46 ..
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् । खड्गेन वा आपदाक्रांतो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
सीदन् विप्रः वणिज् वृत्त्या पण्यैः एव आपदम् तरेत् । खड्गेन वा आपद् आक्रांतः न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
sīdan vipraḥ vaṇij vṛttyā paṇyaiḥ eva āpadam taret . khaḍgena vā āpad ākrāṃtaḥ na śvavṛttyā kathañcana .. 47 ..
वैश्यवृत्त्या तु राजन्यो जीवेत् मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
वैश्य-वृत्त्या तु राजन्यः जीवेत् मृगयया आपदि । चरेत् वा विप्र-रूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
vaiśya-vṛttyā tu rājanyaḥ jīvet mṛgayayā āpadi . caret vā vipra-rūpeṇa na śvavṛttyā kathañcana .. 48 ..
शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
शूद्र-वृत्तिम् भजेत् वैश्यः शूद्रः कारु-कट-क्रियाम् । कृच्छ्रात् मुक्तः न गर्ह्येण वृत्तिम् लिप्सेत कर्मणा ॥ ४९ ॥
śūdra-vṛttim bhajet vaiśyaḥ śūdraḥ kāru-kaṭa-kriyām . kṛcchrāt muktaḥ na garhyeṇa vṛttim lipseta karmaṇā .. 49 ..
वेदाध्याय स्वधा स्वाहा बलि अन्नाद्यैः यथोदयम् । देवर्षिपितृभूतानि मद् रूपाणि अन्वहं यजेत् ॥ ५० ॥
वेदाध्याय-स्वधा स्वाहा बलि-अन्नाद्यैः यथोदयम् । देव-ऋषि-पितृ-भूतानि मत् रूपाणि अन्वहम् यजेत् ॥ ५० ॥
vedādhyāya-svadhā svāhā bali-annādyaiḥ yathodayam . deva-ṛṣi-pitṛ-bhūtāni mat rūpāṇi anvaham yajet .. 50 ..
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१ ॥
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१ ॥
yadṛcchayā upapannena śuklena upārjitena vā . dhanena apīḍayan bhṛtyān nyāyena eva āharet kratūn .. 51 ..
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि । विपश्चित् नश्वरं पश्येद् अदृष्टमपि दृष्टवत् ॥ ५२ ॥
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि । विपश्चित् नश्वरम् पश्येत् अदृष्टम् अपि दृष्ट-वत् ॥ ५२ ॥
kuṭuṃbeṣu na sajjeta na pramādyet kuṭuṃbī api . vipaścit naśvaram paśyet adṛṣṭam api dṛṣṭa-vat .. 52 ..
पुत्रदारा आप्तबंधूनां संगमः पांथसङ्गमः । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
पुत्र-दाराः आप्त-बंधूनाम् संगमः पांथ-सङ्गमः । अनुदेहम् वियन्ति एते स्वप्नः निद्रा-अनुगः यथा ॥ ५३ ॥
putra-dārāḥ āpta-baṃdhūnām saṃgamaḥ pāṃtha-saṅgamaḥ . anudeham viyanti ete svapnaḥ nidrā-anugaḥ yathā .. 53 ..
इत्थं परिमृशन् मुक्तो गृहेषु अतिथिवद् वसन् । न गृहैः अनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४ ॥
इत्थम् परिमृशन् मुक्तः गृहेषु अतिथि-वत् वसन् । न गृहैः अनुबध्येत निर्ममः निरहङ्कृतः ॥ ५४ ॥
ittham parimṛśan muktaḥ gṛheṣu atithi-vat vasan . na gṛhaiḥ anubadhyeta nirmamaḥ nirahaṅkṛtaḥ .. 54 ..
कर्मभिः गृहमेधीयैः इष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
कर्मभिः गृहमेधीयैः इष्ट्वा माम् एव भक्तिमान् । तिष्ठेत् वनम् वा उपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
karmabhiḥ gṛhamedhīyaiḥ iṣṭvā mām eva bhaktimān . tiṣṭhet vanam vā upaviśet prajāvān vā parivrajet .. 55 ..
यस्तु आसक्तमतिः गेहे पुत्रवित्तैषणा आतुरः । स्त्रैणः कृपणधीः मूढो मम अहं इति बध्यते ॥ ५६ ॥
यः तु आसक्त-मतिः गेहे पुत्र-वित्त-एषणाः आतुरः । स्त्रैणः कृपण-धीः मूढः मम अहम् इति बध्यते ॥ ५६ ॥
yaḥ tu āsakta-matiḥ gehe putra-vitta-eṣaṇāḥ āturaḥ . straiṇaḥ kṛpaṇa-dhīḥ mūḍhaḥ mama aham iti badhyate .. 56 ..
अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥
अहो मे पितरौ वृद्धौ भार्याः । अनाथाः माम् ऋते दीनाः कथम् जीवन्ति दुःखिताः ॥ ५७ ॥
aho me pitarau vṛddhau bhāryāḥ . anāthāḥ mām ṛte dīnāḥ katham jīvanti duḥkhitāḥ .. 57 ..
एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् । अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥
एवम् गृह-आशय-आक्षिप्त हृदयः मूढ-धीः अयम् । अतृप्तः तान् अनुध्यायन् मृतः अन्धम् विशते तमः ॥ ५८ ॥
evam gṛha-āśaya-ākṣipta hṛdayaḥ mūḍha-dhīḥ ayam . atṛptaḥ tān anudhyāyan mṛtaḥ andham viśate tamaḥ .. 58 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe saptadaśaḥ adhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In