| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः । वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १ ॥
yastvayābhihitaḥ pūrvaṃ dharmastvadbhaktilakṣaṇaḥ . varṇāśramācāravatāṃ sarveṣāṃ dvipadāmapi .. 1 ..
यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् । स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि ॥ २ ॥
yathānuṣṭhīyamānena tvayi bhaktirnṛṇāṃ bhavet . svadharmeṇāravindākṣa tat samākhyātumarhasi .. 2 ..
पुरा किल महाबाहो धर्मं परमकं प्रभो । यत्तेन हंसरूपेण ब्राह्मणेऽभ्यात्थ माधव ॥ ३ ॥
purā kila mahābāho dharmaṃ paramakaṃ prabho . yattena haṃsarūpeṇa brāhmaṇe'bhyāttha mādhava .. 3 ..
स इदानीं सुमहता कालेनामित्रकर्शन । न प्रायो भविता मर्त्य लोके प्राक् अनुशासितः ॥ ४ ॥
sa idānīṃ sumahatā kālenāmitrakarśana . na prāyo bhavitā martya loke prāk anuśāsitaḥ .. 4 ..
वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५ ॥
vaktā kartāvitā nānyo dharmasyācyuta te bhuvi . sabhāyāmapi vairiñcyāṃ yatra mūrtidharāḥ kalāḥ .. 5 ..
कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६ ॥
kartrāvitrā pravaktrā ca bhavatā madhusūdana . tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati .. 6 ..
तत्त्वं नः सर्वधर्मज्ञ धर्मः त्वद्भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७ ॥
tattvaṃ naḥ sarvadharmajña dharmaḥ tvadbhaktilakṣaṇaḥ . yathā yasya vidhīyeta tathā varṇaya me prabho .. 7 ..
श्रीशुक उवाच -
इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ ८ ॥
itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ . prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān .. 8 ..
श्रीभगवानुवाच -
धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् । वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९ ॥
dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām . varṇāśramācāravatāṃ tamuddhava nibodha me .. 9 ..
आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ १० ॥
ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ . kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ .. 10 ..
वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११ ॥
vedaḥ praṇava evāgre dharmo'haṃ vṛṣarūpadhṛk . upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ .. 11 ..
त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहमासं त्रिवृन्मखः ॥ १२ ॥
tretāmukhe mahābhāga prāṇān me hṛdayāt trayī . vidyā prādurabhūt tasyā ahamāsaṃ trivṛnmakhaḥ .. 12 ..
विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः । वैराजात् पुरुषात् जाता य आत्माचारलक्षणाः ॥ १३ ॥
viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ . vairājāt puruṣāt jātā ya ātmācāralakṣaṇāḥ .. 13 ..
गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षःस्थलाद् वने वासो न्यासः शीर्षणि संस्थितः ॥ १४ ॥*
gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama . vakṣaḥsthalād vane vāso nyāsaḥ śīrṣaṇi saṃsthitaḥ .. 14 ..*
वर्णानां आश्रमाणां च जन्मभूम्यनुसारिणीः । आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः ॥ १५ ॥
varṇānāṃ āśramāṇāṃ ca janmabhūmyanusāriṇīḥ . āsan prakṛtayo nṝṇāṃ nīcaiḥ nīcottamottamāḥ .. 15 ..
शमो दमस्तपः शौचं संतोषः क्षांतिरार्जवम् । मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६ ॥
śamo damastapaḥ śaucaṃ saṃtoṣaḥ kṣāṃtirārjavam . madbhaktiśca dayā satyaṃ brahmaprakṛtayastvimāḥ .. 16 ..
तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः । स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्र प्रकृतयस्त्विमाः ॥ १७ ॥
tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryamudyamaḥ . sthairyaṃ brahmaṇyataiśvaryaṃ kṣatra prakṛtayastvimāḥ .. 17 ..
आस्तिक्यं दाननिष्ठा च अदंभो ब्रह्मसेवनम् । अतुष्टिः अर्थोपचयैः वैश्य प्रकृतयस्त्विमाः ॥ १८ ॥
āstikyaṃ dānaniṣṭhā ca adaṃbho brahmasevanam . atuṣṭiḥ arthopacayaiḥ vaiśya prakṛtayastvimāḥ .. 18 ..
शुश्रूषणं द्विजगवां देवानां चापि अमायया । तत्र लब्धेन संतोषः शूद्र प्रकृतयस्त्विमाः ॥ १९ ॥
śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpi amāyayā . tatra labdhena saṃtoṣaḥ śūdra prakṛtayastvimāḥ .. 19 ..
अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधश्च तर्षश्च स्वभावोन्त्यावसायिनाम् ॥ २० ॥
aśaucamanṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ . kāmaḥ krodhaśca tarṣaśca svabhāvontyāvasāyinām .. 20 ..
अहिंसा सत्यमस्तेयं अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१ ॥
ahiṃsā satyamasteyaṃ akāmakrodhalobhatā . bhūtapriyahitehā ca dharmo'yaṃ sārvavarṇikaḥ .. 21 ..
द्वितीयं प्राप्यानुपूर्व्यात् जन्मोपानयनं द्विजः । वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ २२ ॥
dvitīyaṃ prāpyānupūrvyāt janmopānayanaṃ dvijaḥ . vasan gurukule dānto brahmādhīyīta cāhūtaḥ .. 22 ..
मेखला अजिन दण्डाक्ष ब्रह्मसूत्रकमण्डलून् । जटिलो अधौतदद्वासः अरक्तपीठः कुशान् दधत् ॥ २३ ॥
mekhalā ajina daṇḍākṣa brahmasūtrakamaṇḍalūn . jaṭilo adhautadadvāsaḥ araktapīṭhaḥ kuśān dadhat .. 23 ..
स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः । न च्छिंद्यान् नखरोमाणि कक्ष-उपस्थगतान्यपि ॥ २४ ॥
snānabhojanahomeṣu japoccāre ca vāgyataḥ . na cchiṃdyān nakharomāṇi kakṣa-upasthagatānyapi .. 24 ..
रेतो न अवकिरेत् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे अवगाह्य अप्सु यतासुः त्रिपदीं जपेत् ॥ २५ ॥
reto na avakiret jātu brahmavratadharaḥ svayam . avakīrṇe avagāhya apsu yatāsuḥ tripadīṃ japet .. 25 ..
अग्न्यर्काचार्य-गो-विप्र गुरु-वृद्ध-सुरान् शुचिः । समाहित उपासीत संध्ये च यतवाग्-जपन् ॥ २६ ॥
agnyarkācārya-go-vipra guru-vṛddha-surān śuciḥ . samāhita upāsīta saṃdhye ca yatavāg-japan .. 26 ..
आचार्यं मां विजानीयात् न-अवमन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७ ॥
ācāryaṃ māṃ vijānīyāt na-avamanyeta karhicit . na martyabuddhyāsūyeta sarvadevamayo guruḥ .. 27 ..
सायं प्रातः उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच्चान्यद् अपि अनुज्ञातं उपयुञ्जीत संयतः ॥ २८ ॥
sāyaṃ prātaḥ upānīya bhaikṣyaṃ tasmai nivedayet . yaccānyad api anujñātaṃ upayuñjīta saṃyataḥ .. 28 ..
शुश्रूषमाण आचार्यं सदा-उपासीत नीचवत् । यान शय्यासनस्थानैः नातिदूरे कृताञ्जलिः ॥ २९ ॥
śuśrūṣamāṇa ācāryaṃ sadā-upāsīta nīcavat . yāna śayyāsanasthānaiḥ nātidūre kṛtāñjaliḥ .. 29 ..
एवंवृत्तो गुरुकुले वसेद् भोगविवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतं अखण्डितम् ॥ ३० ॥
evaṃvṛtto gurukule vased bhogavivarjitaḥ . vidyā samāpyate yāvad bibhrad vrataṃ akhaṇḍitam .. 30 ..
यदि असौ छंदसां लोकं आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१ ॥
yadi asau chaṃdasāṃ lokaṃ ārokṣyan brahmaviṣṭapam . gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ .. 31 ..
अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् । अपृथग्धीः उपसीत ब्रह्मवर्चस्वी अकल्मषः ॥ ३२ ॥
agnau gurāvātmani ca sarvabhūteṣu māṃ param . apṛthagdhīḥ upasīta brahmavarcasvī akalmaṣaḥ .. 32 ..
स्त्रीणां निरीक्षण स्पर्श संलाप क्ष्वेलनादिकम् । प्राणिनो मिथुनीभूतान् अगृहस्थो अग्रतस्त्यजेत् ॥ ३३ ॥
strīṇāṃ nirīkṣaṇa sparśa saṃlāpa kṣvelanādikam . prāṇino mithunībhūtān agṛhastho agratastyajet .. 33 ..
शौचं आचमनं स्नानं संध्योपासनमार्जवम् । तीर्थसेवा जपोऽस्पृश्या अभक्ष्य संभाष्यवर्जनम् ॥ ३४ ॥
śaucaṃ ācamanaṃ snānaṃ saṃdhyopāsanamārjavam . tīrthasevā japo'spṛśyā abhakṣya saṃbhāṣyavarjanam .. 34 ..
सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनंदन । मद्भवः सर्वभूतेषु मनोवाक्-कायसंयमः ॥ ३५ ॥
sarvāśramaprayukto'yaṃ niyamaḥ kulanaṃdana . madbhavaḥ sarvabhūteṣu manovāk-kāyasaṃyamaḥ .. 35 ..
एवं बृहद्व्रतधरो ब्राह्मणोऽग्निः इव ज्वलन् । मद्भक्तः तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६ ॥
evaṃ bṛhadvratadharo brāhmaṇo'gniḥ iva jvalan . madbhaktaḥ tīvratapasā dagdhakarmāśayo'malaḥ .. 36 ..
अथ अनंतरं आवेक्ष्यन् यथा जिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ ३७ ॥
atha anaṃtaraṃ āvekṣyan yathā jijñāsitāgamaḥ . gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ .. 37 ..
गृहं वनं वोपविशेत् प्रव्रजे द्वा द्विजोत्तमः । आश्रमादाश्रमं गच्छेत् नान्यथा मत्परश्चरेत् ॥ ३८ ॥
gṛhaṃ vanaṃ vopaviśet pravraje dvā dvijottamaḥ . āśramādāśramaṃ gacchet nānyathā matparaścaret .. 38 ..
गृहार्थी सदृशीं भार्यां उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यां सवर्णां अनुक्रमात् ॥ ३९ ॥
gṛhārthī sadṛśīṃ bhāryāṃ udvahed ajugupsitām . yavīyasīṃ tu vayasā yāṃ savarṇāṃ anukramāt .. 39 ..
इज्य-अध्ययन-दानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहो-अध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४० ॥
ijya-adhyayana-dānāni sarveṣāṃ ca dvijanmanām . pratigraho-adhyāpanaṃ ca brāhmaṇasyaiva yājanam .. 40 ..
प्रतिग्रहं मन्यमानः तपस्तेजोयशोनुदम् । अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१ ॥
pratigrahaṃ manyamānaḥ tapastejoyaśonudam . anyābhyāmeva jīveta śilairvā doṣadṛk tayoḥ .. 41 ..
ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२ ॥
brāhmaṇasya hi deho'yaṃ kṣudrakāmāya neṣyate . kṛcchrāya tapase ceha pretyānantasukhāya ca .. 42 ..
( इंद्रवज्रा )
शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महांतं विरजं जुषाणः । मय्यर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शांतिम् ॥ ४३ ॥
śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāṃtaṃ virajaṃ juṣāṇaḥ . mayyarpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāṃtim .. 43 ..
( अनुष्टुप् )
समुद्धरंति ये विप्रं सीदंतं मत्परायणम् । तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौः इवार्णवात् ॥ ४४ ॥
samuddharaṃti ye vipraṃ sīdaṃtaṃ matparāyaṇam . tān uddhariṣye na cirād āpadbhyo nauḥ ivārṇavāt .. 44 ..
सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानं आत्मना धीरो यथा गजपतिर्गजान् ॥ ४५ ॥
sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ . ātmānaṃ ātmanā dhīro yathā gajapatirgajān .. 45 ..
एवंविधो नरपतिः विमानेनार्कवर्चसा । विधूय इह अशुभं कृत्स्नं इंद्रेण सह मोदते ॥ ४६ ॥
evaṃvidho narapatiḥ vimānenārkavarcasā . vidhūya iha aśubhaṃ kṛtsnaṃ iṃdreṇa saha modate .. 46 ..
सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् । खड्गेन वा आपदाक्रांतो न श्ववृत्त्या कथञ्चन ॥ ४७ ॥
sīdan vipraḥ vaṇik vṛttyā paṇyaiḥ evāpadaṃ taret . khaḍgena vā āpadākrāṃto na śvavṛttyā kathañcana .. 47 ..
वैश्यवृत्त्या तु राजन्यो जीवेत् मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८ ॥
vaiśyavṛttyā tu rājanyo jīvet mṛgayayāpadi . cared vā viprarūpeṇa na śvavṛttyā kathañcana .. 48 ..
शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९ ॥
śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām . kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā .. 49 ..
वेदाध्याय स्वधा स्वाहा बलि अन्नाद्यैः यथोदयम् । देवर्षिपितृभूतानि मद् रूपाणि अन्वहं यजेत् ॥ ५० ॥
vedādhyāya svadhā svāhā bali annādyaiḥ yathodayam . devarṣipitṛbhūtāni mad rūpāṇi anvahaṃ yajet .. 50 ..
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून् ॥ ५१ ॥
yadṛcchayā upapannena śuklena upārjitena vā . dhanena apīḍayan bhṛtyān nyāyena eva āharet kratūn .. 51 ..
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि । विपश्चित् नश्वरं पश्येद् अदृष्टमपि दृष्टवत् ॥ ५२ ॥
kuṭuṃbeṣu na sajjeta na pramādyet kuṭuṃbī api . vipaścit naśvaraṃ paśyed adṛṣṭamapi dṛṣṭavat .. 52 ..
पुत्रदारा आप्तबंधूनां संगमः पांथसङ्गमः । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३ ॥
putradārā āptabaṃdhūnāṃ saṃgamaḥ pāṃthasaṅgamaḥ . anudehaṃ viyantyete svapno nidrānugo yathā .. 53 ..
इत्थं परिमृशन् मुक्तो गृहेषु अतिथिवद् वसन् । न गृहैः अनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४ ॥
itthaṃ parimṛśan mukto gṛheṣu atithivad vasan . na gṛhaiḥ anubadhyeta nirmamo nirahaṅkṛtaḥ .. 54 ..
कर्मभिः गृहमेधीयैः इष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ ५५ ॥
karmabhiḥ gṛhamedhīyaiḥ iṣṭvā māmeva bhaktimān . tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet .. 55 ..
यस्तु आसक्तमतिः गेहे पुत्रवित्तैषणा आतुरः । स्त्रैणः कृपणधीः मूढो मम अहं इति बध्यते ॥ ५६ ॥
yastu āsaktamatiḥ gehe putravittaiṣaṇā āturaḥ . straiṇaḥ kṛpaṇadhīḥ mūḍho mama ahaṃ iti badhyate .. 56 ..
अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७ ॥
aho me pitarau vṛddhau bhāryā bālātmaja''tmajāḥ . anāthā māmṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ .. 57 ..
एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् । अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८ ॥
evaṃ gṛhāśayākṣipta hṛdayo mūḍhadhīḥ ayam . atṛptastān anudhyāyan mṛto'ndhaṃ viśate tamaḥ .. 58 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe saptadaśo'dhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In