| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
यो विद्याश्रुतसम्पन्नः आत्मवान्नानुमानिकः। मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् १।
यः विद्या-श्रुत-सम्पन्नः आत्मवान् न आनुमानिकः। माया-मात्रम् इदम् ज्ञात्वा ज्ञानम् च मयि सन् न्यसेत्।
yaḥ vidyā-śruta-sampannaḥ ātmavān na ānumānikaḥ. māyā-mātram idam jñātvā jñānam ca mayi san nyaset.
ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः। स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः २।
ज्ञानिनः तु अहम् एव इष्टः स्वार्थः हेतुः च सम्मतः। स्वर्गः च एव अपवर्गः च न अन्यः अर्थः मत् ऋते प्रियः।
jñāninaḥ tu aham eva iṣṭaḥ svārthaḥ hetuḥ ca sammataḥ. svargaḥ ca eva apavargaḥ ca na anyaḥ arthaḥ mat ṛte priyaḥ.
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम। ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ३।
ज्ञान-विज्ञान-संसिद्धाः पदम् श्रेष्ठम् विदुः मम। ज्ञानी प्रियतमः अतस् मे ज्ञानेन असौ बिभर्ति माम्।
jñāna-vijñāna-saṃsiddhāḥ padam śreṣṭham viduḥ mama. jñānī priyatamaḥ atas me jñānena asau bibharti mām.
तपस्तीर्थं जपो दानं पवित्राणीतराणि च। नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ४।
तपः तीर्थम् जपः दानम् पवित्राणि इतराणि च। न अलम् कुर्वन्ति ताम् सिद्धिम् या ज्ञान-कलया कृता।
tapaḥ tīrtham japaḥ dānam pavitrāṇi itarāṇi ca. na alam kurvanti tām siddhim yā jñāna-kalayā kṛtā.
तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव। ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ५।
तस्मात् ज्ञानेन सहितम् ज्ञात्वा स्वात्मानम् उद्धव। ज्ञान-विज्ञान-सम्पन्नः भज माम् भक्ति-भावतः।
tasmāt jñānena sahitam jñātvā svātmānam uddhava. jñāna-vijñāna-sampannaḥ bhaja mām bhakti-bhāvataḥ.
ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि। सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ६।
ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वा आत्मानम् आत्मनि। सर्व-यज्ञपतिम् माम् वै संसिद्धिम् मुनयः अगमन्।
jñāna-vijñāna-yajñena mām iṣṭvā ātmānam ātmani. sarva-yajñapatim mām vai saṃsiddhim munayaḥ agaman.
त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो। मायान्तरापतति नाद्यपवर्गयोर्यत्। जन्मादयोऽस्य यदमी तव तस्य किं स्युर्। आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ७।
त्वयि उद्धव आश्रयति यः त्रिविधः। माया-अन्तरा आपतति न आदि-अपवर्गयोः यत्। जन्म-आदयः अस्य यत् अमी तव तस्य किम् स्युः। आदि-अन्तयोः यत् असतः अस्ति तत् एव मध्ये।
tvayi uddhava āśrayati yaḥ trividhaḥ. māyā-antarā āpatati na ādi-apavargayoḥ yat. janma-ādayaḥ asya yat amī tava tasya kim syuḥ. ādi-antayoḥ yat asataḥ asti tat eva madhye.
श्रीउद्धव उवाच।
ज्ञानं विशुद्धं विपुलं यथैतद्वैराग्यविज्ञानयुतं पुराणम्। आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ८।
ज्ञानम् विशुद्धम् विपुलम् यथा एतत् वैराग्य-विज्ञान-युतम् पुराणम्। आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्-भक्ति-योगम् च महत्-विमृग्यम्।
jñānam viśuddham vipulam yathā etat vairāgya-vijñāna-yutam purāṇam. ākhyāhi viśveśvara viśvamūrte tvad-bhakti-yogam ca mahat-vimṛgyam.
तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश। पश्यामि नान्यच्छरणं तवाङ्घ्रि द्वन्द्वातपत्रादमृताभिवर्षात् ९।
ताप-त्रयेण अभिहतस्य घोरे सन्तप्यमानस्य भव अध्वनि ईश। पश्यामि ना अन्यत् शरणम् तव अङ्घ्रि द्वन्द्व-आतपत्रात् अमृत-अभिवर्षात्।
tāpa-trayeṇa abhihatasya ghore santapyamānasya bhava adhvani īśa. paśyāmi nā anyat śaraṇam tava aṅghri dvandva-ātapatrāt amṛta-abhivarṣāt.
दष्टं जनं सम्पतितं बिलेऽस्मिन्कालाहिना क्षुद्र सुखोरुतर्षम्। समुद्धरैनं कृपयापवर्ग्यैर्वचोभिरासिञ्च महानुभाव १०।
दष्टम् जनम् सम्पतितम् बिले अस्मिन् काल-अहिना क्षुद्र सुख-उरु-तर्षम्। समुद्धर एनम् कृपया आपवर्ग्यैः वचोभिः आसिञ्च महा-अनुभाव।
daṣṭam janam sampatitam bile asmin kāla-ahinā kṣudra sukha-uru-tarṣam. samuddhara enam kṛpayā āpavargyaiḥ vacobhiḥ āsiñca mahā-anubhāva.
श्रीभगवानुवाच।
इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम्। अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुशृण्वताम् ११।
इत्थम् एतत् पुरा राजा भीष्मम् धर्म-भृताम् वरम्। अजातशत्रुः पप्रच्छ सर्वेषाम् नः अनुशृण्वताम्।
ittham etat purā rājā bhīṣmam dharma-bhṛtām varam. ajātaśatruḥ papraccha sarveṣām naḥ anuśṛṇvatām.
निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः। श्रुत्वा धर्मान्बहून्पश्चान्मोक्षधर्मानपृच्छत १२।
निवृत्ते भारते युद्धे सुहृद् निधन-विह्वलः। श्रुत्वा धर्मान् बहून् पश्चात् मोक्ष-धर्मान् अपृच्छत।
nivṛtte bhārate yuddhe suhṛd nidhana-vihvalaḥ. śrutvā dharmān bahūn paścāt mokṣa-dharmān apṛcchata.
तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान्। ज्ञानवैराग्यविज्ञान श्रद्धाभक्त्युपबृंहितान् १३।
तान् अहम् ते अभिधास्यामि देवव्रत-मुखात् श्रुतान्। ज्ञान-वैराग्य-विज्ञान-श्रद्धा-भक्ति-उपबृंहितान्।
tān aham te abhidhāsyāmi devavrata-mukhāt śrutān. jñāna-vairāgya-vijñāna-śraddhā-bhakti-upabṛṃhitān.
नवैकादश पञ्च त्रीन्भावान्भूतेषु येन वै। ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् १४।
नव एकादश पञ्च त्रीन् भावान् भूतेषु येन वै। ईक्षेत अथ एकम् अपि एषु तत् ज्ञानम् मम निश्चितम्।
nava ekādaśa pañca trīn bhāvān bhūteṣu yena vai. īkṣeta atha ekam api eṣu tat jñānam mama niścitam.
एतदेव हि विज्ञानं न तथैकेन येन यत्। स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् १५।
एतत् एव हि विज्ञानम् न तथा एकेन येन यत्। स्थिति-उत्पत्ति-अप्ययान् पश्येत् भावानाम् त्रिगुण-आत्मनाम्।
etat eva hi vijñānam na tathā ekena yena yat. sthiti-utpatti-apyayān paśyet bhāvānām triguṇa-ātmanām.
आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात्। पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् १६।
आदौ अन्ते च मध्ये च सृज्यात् सृज्यम् यत् अन्वियात्। पुनर् तद्-प्रतिसङ्क्रामे यत् शिष्येत तत् एव सत्।
ādau ante ca madhye ca sṛjyāt sṛjyam yat anviyāt. punar tad-pratisaṅkrāme yat śiṣyeta tat eva sat.
श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्। प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते १७।
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानम् चतुष्टयम्। प्रमाणेषु अनवस्थानात् विकल्पात् स विरज्यते।
śrutiḥ pratyakṣam aitihyam anumānam catuṣṭayam. pramāṇeṣu anavasthānāt vikalpāt sa virajyate.
कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम्। विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् १८।
कर्मणाम् परिणामि-त्वात् आ विरिञ्च्यात् अमङ्गलम्। विपश्चित् नश्वरम् पश्येत् अदृष्टम् अपि दृष्ट-वत्।
karmaṇām pariṇāmi-tvāt ā viriñcyāt amaṅgalam. vipaścit naśvaram paśyet adṛṣṭam api dṛṣṭa-vat.
भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ। पुनश्च कथयिष्यामि मद्भक्तेः कारणं परं १९।
भक्ति-योगः पुरा एव उक्तः प्रीयमाणाय ते अनघ। पुनर् च कथयिष्यामि मद्-भक्तेः कारणम् परम्।
bhakti-yogaḥ purā eva uktaḥ prīyamāṇāya te anagha. punar ca kathayiṣyāmi mad-bhakteḥ kāraṇam param.
श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम्। परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम २०।
श्रद्धा-अमृत-कथायाम् मे शश्वत् मद्-अनुकीर्तनम्। परिनिष्ठा च पूजायाम् स्तुतिभिः स्तवनम् मम।
śraddhā-amṛta-kathāyām me śaśvat mad-anukīrtanam. pariniṣṭhā ca pūjāyām stutibhiḥ stavanam mama.
आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम्। मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः २१।
आदरः परिचर्यायाम् सर्व-अङ्गैः अभिवन्दनम्। मद्-भक्त-पूजा अभ्यधिका सर्व-भूतेषु मद्-मतिः।
ādaraḥ paricaryāyām sarva-aṅgaiḥ abhivandanam. mad-bhakta-pūjā abhyadhikā sarva-bhūteṣu mad-matiḥ.
मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम्। मय्यर्पणं च मनसः सर्वकामविवर्जनम् २२।
मद्-अर्थेषु अङ्ग-चेष्टा च वचसा मद्-गुण-ईरणम्। मयि अर्पणम् च मनसः सर्व-काम-विवर्जनम्।
mad-artheṣu aṅga-ceṣṭā ca vacasā mad-guṇa-īraṇam. mayi arpaṇam ca manasaḥ sarva-kāma-vivarjanam.
मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च। इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः २३।
मद्-अर्थे अर्थ-परित्यागः भोगस्य च सुखस्य च। इष्टम् दत्तम् हुतम् जप्तम् मद्-अर्थम् यत् व्रतम् तपः।
mad-arthe artha-parityāgaḥ bhogasya ca sukhasya ca. iṣṭam dattam hutam japtam mad-artham yat vratam tapaḥ.
एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम्। मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते २४।
एवम् धर्मैः मनुष्याणाम् उद्धव आत्म-निवेदिनाम्। मयि सञ्जायते भक्तिः कः अन्यः अर्थः अस्य अवशिष्यते।
evam dharmaiḥ manuṣyāṇām uddhava ātma-nivedinām. mayi sañjāyate bhaktiḥ kaḥ anyaḥ arthaḥ asya avaśiṣyate.
यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम्। धर्मं ज्ञानं स वैराग्यमैश्वर्यं चाभिपद्यते २५।
यदा आत्मनि अर्पितम् चित्तम् शान्तम् सत्त्व-उपबृंहितम्। धर्मम् ज्ञानम् स वैराग्यम् ऐश्वर्यम् च अभिपद्यते।
yadā ātmani arpitam cittam śāntam sattva-upabṛṃhitam. dharmam jñānam sa vairāgyam aiśvaryam ca abhipadyate.
यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति। रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् २६।
यत् अर्पितम् तत् विकल्पे इन्द्रियैः परिधावति। रजस्वलम् च असत्-निष्ठम् चित्तम् विद्धि विपर्ययम्।
yat arpitam tat vikalpe indriyaiḥ paridhāvati. rajasvalam ca asat-niṣṭham cittam viddhi viparyayam.
धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम्। गुणेस्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः २७।
धर्मः मद्-भक्ति-कृत् प्रोक्तः ज्ञानम् च ऐकात्म्य-दर्शनम्। वैराग्यम् ऐश्वर्यम् च अणिम-आदयः।
dharmaḥ mad-bhakti-kṛt proktaḥ jñānam ca aikātmya-darśanam. vairāgyam aiśvaryam ca aṇima-ādayaḥ.
श्रीउद्धव उवाच ।
यमः कतिविधः प्रोक्तो नियमो वारिकर्षण। । कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो॥ २८।
यमः कतिविधः प्रोक्तः नियमः वा अरिकर्षण। । कः शमः कः दमः कृष्ण का तितिक्षा धृतिः प्रभो॥ २८।
yamaḥ katividhaḥ proktaḥ niyamaḥ vā arikarṣaṇa. . kaḥ śamaḥ kaḥ damaḥ kṛṣṇa kā titikṣā dhṛtiḥ prabho.. 28.
किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते। । कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥ २९।
किम् दानम् किम् तपः शौर्यम् किम् सत्यम् ऋतम् उच्यते। । कः त्यागः किम् धनम् च इष्टम् कः यज्ञः का च दक्षिणा ॥ २९।
kim dānam kim tapaḥ śauryam kim satyam ṛtam ucyate. . kaḥ tyāgaḥ kim dhanam ca iṣṭam kaḥ yajñaḥ kā ca dakṣiṇā .. 29.
पुंसः किं स्विद्बलं श्रीमन् भगो लाभश्च केशव॥ का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च॥ ३०।
पुंसः किम् स्विद् बलम् श्रीमन् भगः लाभः च केशव॥ का विद्या ह्रीः परा का श्रीः किम् सुखम् दुःखम् एव च॥ ३०।
puṃsaḥ kim svid balam śrīman bhagaḥ lābhaḥ ca keśava.. kā vidyā hrīḥ parā kā śrīḥ kim sukham duḥkham eva ca.. 30.
कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः॥ कः स्वर्गो नरकः कः स्वित् को बन्धुरुत किं गृहम्॥ ३१।
कः पण्डितः कः च मूर्खः कः पन्थाः उत्पथः च कः॥ कः स्वर्गः नरकः कः स्विद् कः बन्धुः उत किम् गृहम्॥ ३१।
kaḥ paṇḍitaḥ kaḥ ca mūrkhaḥ kaḥ panthāḥ utpathaḥ ca kaḥ.. kaḥ svargaḥ narakaḥ kaḥ svid kaḥ bandhuḥ uta kim gṛham.. 31.
आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ॥ एतान्प्रश्नान्मम ब्रूहि विपरीतांश्च सत्पते॥ ३२।
आढ्यः कः दरिद्रः वा कृपणः कः कः ईश्वरः ॥ एतान् प्रश्नान् मम ब्रूहि विपरीतान् च सत्पते॥ ३२।
āḍhyaḥ kaḥ daridraḥ vā kṛpaṇaḥ kaḥ kaḥ īśvaraḥ .. etān praśnān mama brūhi viparītān ca satpate.. 32.
श्रीभगवानुवाच।
अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः। आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ३३।
अहिंसा सत्यम् अस्तेयम् असङ्गः ह्रीः अ सञ्चयः। आस्तिक्यम् ब्रह्मचर्यम् च मौनम् स्थैर्यम् क्षमा-अभयम्।
ahiṃsā satyam asteyam asaṅgaḥ hrīḥ a sañcayaḥ. āstikyam brahmacaryam ca maunam sthairyam kṣamā-abhayam.
शौचं जपस्तपो होमः श्रद्धातिथ्यं मदर्चनम्। तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ३४।
शौचम् जपः तपः होमः श्रद्धा आतिथ्यम् मद्-अर्चनम्। तीर्थ-अटनम् परार्थ-ईहा तुष्टिः आचार्य-सेवनम्।
śaucam japaḥ tapaḥ homaḥ śraddhā ātithyam mad-arcanam. tīrtha-aṭanam parārtha-īhā tuṣṭiḥ ācārya-sevanam.
एते यमाः सनियमा उभयोर्द्वादश स्मृताः। पुंसामुपासितास्तात यथाकामं दुहन्ति हि ३५।
एते यमाः स नियमाः उभयोः द्वादश स्मृताः। पुंसाम् उपासिताः तात यथाकामम् दुहन्ति हि।
ete yamāḥ sa niyamāḥ ubhayoḥ dvādaśa smṛtāḥ. puṃsām upāsitāḥ tāta yathākāmam duhanti hi.
शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः। तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ३६।
शमः मन्निष्ठ-ता बुद्धेः दमः इन्द्रिय-संयमः। तितिक्षा दुःख-सम्मर्षः जिह्वा-उपस्थ-जयः धृतिः।
śamaḥ manniṣṭha-tā buddheḥ damaḥ indriya-saṃyamaḥ. titikṣā duḥkha-sammarṣaḥ jihvā-upastha-jayaḥ dhṛtiḥ.
दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम्। स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ३७।
दण्ड-न्यासः परम् दानम् काम-त्यागः तपः स्मृतम्। स्वभाव-विजयः शौर्यम् सत्यम् च सम-दर्शनम्।
daṇḍa-nyāsaḥ param dānam kāma-tyāgaḥ tapaḥ smṛtam. svabhāva-vijayaḥ śauryam satyam ca sama-darśanam.
अन्यच्च सुनृता वाणी कविभिः परिकीर्तिता। कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ३८।
अन्यत् च सु नृता वाणी कविभिः परिकीर्तिता। कर्मसु असङ्गमः शौचम् त्यागः सन्न्यासः उच्यते।
anyat ca su nṛtā vāṇī kavibhiḥ parikīrtitā. karmasu asaṅgamaḥ śaucam tyāgaḥ sannyāsaḥ ucyate.
धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः। दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ३९।
धर्मः इष्टम् धनम् नॄणाम् यज्ञः अहम् भगवत्तमः। ।
dharmaḥ iṣṭam dhanam nṝṇām yajñaḥ aham bhagavattamaḥ. .
भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः। विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ४०।
भगः ऐश्वरः भावः लाभः मद्-भक्तिः उत्तमः। विद्या-आत्मनि भिदा-अबाधः जुगुप्सा ह्रीः अकर्मसु।
bhagaḥ aiśvaraḥ bhāvaḥ lābhaḥ mad-bhaktiḥ uttamaḥ. vidyā-ātmani bhidā-abādhaḥ jugupsā hrīḥ akarmasu.
श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः। दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ४१।
श्रीः गुणाः नैरपेक्ष्य-आद्याः सुखम् दुःख-सुख-अत्ययः। दुःखम् काम-सुख-अपेक्षा पण्डितः बन्ध-मोक्ष-विद्।
śrīḥ guṇāḥ nairapekṣya-ādyāḥ sukham duḥkha-sukha-atyayaḥ. duḥkham kāma-sukha-apekṣā paṇḍitaḥ bandha-mokṣa-vid.
मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः। उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ४२।
मूर्खः देह-आदि-अहम् बुद्धिः पन्थाः मत् निगमः स्मृतः। उत्पथः चित्त-विक्षेपः स्वर्गः सत्त्व-गुण-उदयः।
mūrkhaḥ deha-ādi-aham buddhiḥ panthāḥ mat nigamaḥ smṛtaḥ. utpathaḥ citta-vikṣepaḥ svargaḥ sattva-guṇa-udayaḥ.
नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे। गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ४३।
नरकः तमौन्नाहः बन्धुः गुरुः अहम् सखे। गृहम् शरीरम् मानुष्यम् गुण-आढ्यः हि आढ्यः उच्यते।
narakaḥ tamaunnāhaḥ bandhuḥ guruḥ aham sakhe. gṛham śarīram mānuṣyam guṇa-āḍhyaḥ hi āḍhyaḥ ucyate.
दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः। गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ४४।
दरिद्रः यः तु असन्तुष्टः कृपणः यः अजित-इन्द्रियः। गुणेषु असक्त-धीः ईशः गुण-सङ्गः विपर्ययः।
daridraḥ yaḥ tu asantuṣṭaḥ kṛpaṇaḥ yaḥ ajita-indriyaḥ. guṇeṣu asakta-dhīḥ īśaḥ guṇa-saṅgaḥ viparyayaḥ.
एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः। किं वर्णितेन बहुना लक्षणं गुणदोषयोः। गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ४५।
एते उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः। किम् वर्णितेन बहुना लक्षणम् गुण-दोषयोः। गुण-दोष-दृशिः दोषः गुणः तु उभय-वर्जितः।
ete uddhava te praśnāḥ sarve sādhu nirūpitāḥ. kim varṇitena bahunā lakṣaṇam guṇa-doṣayoḥ. guṇa-doṣa-dṛśiḥ doṣaḥ guṇaḥ tu ubhaya-varjitaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकोनविंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे एकोनविंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ekonaviṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In