| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः ॥ १ ॥
गोविन्द-भुज-गुप्तायाम् द्वारवत्याम् कुरु-उद्वह । अवात्सीत् नारदः अभीक्ष्णम् कृष्ण-उपासन-लालसः ॥ १ ॥
govinda-bhuja-guptāyām dvāravatyām kuru-udvaha . avātsīt nāradaḥ abhīkṣṇam kṛṣṇa-upāsana-lālasaḥ .. 1 ..
को नु राजन्निन्द्रियवान् मुकन्दचरणम्बुजम् । न भजेत् सर्वतोमृत्युः उपास्यममरोत्तमैः ॥ २ ॥
कः नु राजन् इन्द्रियवान् मुकन्द-चरण-अम्बुजम् । न भजेत् सर्वतस् मृत्युः उपास्यम् अमर-उत्तमैः ॥ २ ॥
kaḥ nu rājan indriyavān mukanda-caraṇa-ambujam . na bhajet sarvatas mṛtyuḥ upāsyam amara-uttamaiḥ .. 2 ..
तमेकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखमासीनमभिवाद्येदमब्रवीत् ॥ ३ ॥
तम् एकदा तु देवर्षिम् वसुदेवः गृह-आगतम् । अर्चितम् सुखम् आसीनम् अभिवाद्य इदम् अब्रवीत् ॥ ३ ॥
tam ekadā tu devarṣim vasudevaḥ gṛha-āgatam . arcitam sukham āsīnam abhivādya idam abravīt .. 3 ..
श्रीवसुदेव उवाच
भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम् । कृपणानां यथा पित्रोः उत्तमश्लोकवर्त्मनाम् ॥ ४ ॥
भगवन् भवतः यात्रा स्वस्तये सर्व-देहिनाम् । कृपणानाम् यथा पित्रोः उत्तमश्लोक-वर्त्मनाम् ॥ ४ ॥
bhagavan bhavataḥ yātrā svastaye sarva-dehinām . kṛpaṇānām yathā pitroḥ uttamaśloka-vartmanām .. 4 ..
भूतानां देवचरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम् ॥ ५ ॥
भूतानाम् देव-चरितम् दुःखाय च सुखाय च । सुखाय एव हि साधूनाम् त्वादृशाम् अच्युत-आत्मनाम् ॥ ५ ॥
bhūtānām deva-caritam duḥkhāya ca sukhāya ca . sukhāya eva hi sādhūnām tvādṛśām acyuta-ātmanām .. 5 ..
भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्मसचिवाः साधवो दीनवत्सलाः ॥ ६ ॥
भजन्ति ये यथा देवान् देवाः अपि तथा एव तान् । छाया इव कर्मसचिवाः साधवः दीन-वत्सलाः ॥ ६ ॥
bhajanti ye yathā devān devāḥ api tathā eva tān . chāyā iva karmasacivāḥ sādhavaḥ dīna-vatsalāḥ .. 6 ..
ब्रह्मन् तथापि पृच्छामो धर्मान् भागवतांस्तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ ७ ॥
ब्रह्मन् तथा अपि पृच्छामः धर्मान् भागवतान् तव । यान् श्रुत्वा श्रद्धया मर्त्यः मुच्यते सर्वतस् भयात् ॥ ७ ॥
brahman tathā api pṛcchāmaḥ dharmān bhāgavatān tava . yān śrutvā śraddhayā martyaḥ mucyate sarvatas bhayāt .. 7 ..
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम् । अपूजयं न मोक्षाय मोहितो देवमायया ॥ ८ ॥
अहम् किल पुरा अनन्तम् प्रजा-अर्थः भुवि मुक्ति-दम् । अपूजयम् न मोक्षाय मोहितः देव-मायया ॥ ८ ॥
aham kila purā anantam prajā-arthaḥ bhuvi mukti-dam . apūjayam na mokṣāya mohitaḥ deva-māyayā .. 8 ..
यथा विचित्रव्यसनाद् भवद्भिः विश्वतोभयात् । मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत ॥ ९ ॥
यथा विचित्र-व्यसनात् भवद्भिः विश्वतस् भयात् । मुच्येम हि अञ्जसा एव अद्धा तथा नः शाधि सुव्रत ॥ ९ ॥
yathā vicitra-vyasanāt bhavadbhiḥ viśvatas bhayāt . mucyema hi añjasā eva addhā tathā naḥ śādhi suvrata .. 9 ..
श्रीशुक उवाच -
राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता । प्रीतस्तमाह देवर्षिः हरेः संस्मारितो गुणैः ॥ १० ॥
राजन् एवम् कृत-प्रश्नः वसुदेवेन धीमता । प्रीतः तम् आह देवर्षिः हरेः संस्मारितः गुणैः ॥ १० ॥
rājan evam kṛta-praśnaḥ vasudevena dhīmatā . prītaḥ tam āha devarṣiḥ hareḥ saṃsmāritaḥ guṇaiḥ .. 10 ..
श्रीनारद उवाच -
सम्यगेतद्व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मान् त्वं विश्वभावनान् ॥ ११ ॥
सम्यक् एतत् व्यवसितम् भवता सात्वत-ऋषभ । यत् पृच्छसे भागवतान् धर्मान् त्वम् विश्व-भावनान् ॥ ११ ॥
samyak etat vyavasitam bhavatā sātvata-ṛṣabha . yat pṛcchase bhāgavatān dharmān tvam viśva-bhāvanān .. 11 ..
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि ॥ १२ ॥
श्रुतः अनुपठितः ध्यातः आदृतः वा अनुमोदितः । सद्यस् पुनाति सद्धर्मः देव विश्व-द्रुहः अपि हि ॥ १२ ॥
śrutaḥ anupaṭhitaḥ dhyātaḥ ādṛtaḥ vā anumoditaḥ . sadyas punāti saddharmaḥ deva viśva-druhaḥ api hi .. 12 ..
त्वया परमकल्याणः पुण्यश्रवणकीर्तनः । स्मारितो भगवानद्य देवो नारायणो मम ॥ १३ ॥
त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः । स्मारितः भगवान् अद्य देवः नारायणः मम ॥ १३ ॥
tvayā parama-kalyāṇaḥ puṇya-śravaṇa-kīrtanaḥ . smāritaḥ bhagavān adya devaḥ nārāyaṇaḥ mama .. 13 ..
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ १४ ॥
अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् । आर्षभाणाम् च संवादम् विदेहस्य महात्मनः ॥ १४ ॥
atra api udāharanti imam itihāsam purātanam . ārṣabhāṇām ca saṃvādam videhasya mahātmanaḥ .. 14 ..
प्रियव्रतो नाम सुतो मनोः स्वायंभुवस्य यः । तस्याग्नीध्रस्ततो नाभिः ऋषभस्तत्सुतस्स्मृतः ॥ १५ ॥
प्रियव्रतः नाम सुतः मनोः स्वायंभुवस्य यः । तस्य आग्नीध्रः ततस् नाभिः ऋषभः तद्-सुतः स्मृतः ॥ १५ ॥
priyavrataḥ nāma sutaḥ manoḥ svāyaṃbhuvasya yaḥ . tasya āgnīdhraḥ tatas nābhiḥ ṛṣabhaḥ tad-sutaḥ smṛtaḥ .. 15 ..
तमाहुः वासुदेवांशं मोक्षधर्मविवक्षया । अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम् ॥ १६ ॥
तम् आहुः वासुदेव-अंशम् मोक्ष-धर्म-विवक्षया । अवतीर्णम् सुत-शतम् तस्य आसीत् ब्रह्मपारगम् ॥ १६ ॥
tam āhuḥ vāsudeva-aṃśam mokṣa-dharma-vivakṣayā . avatīrṇam suta-śatam tasya āsīt brahmapāragam .. 16 ..
तेषां वै भरतो ज्येष्ठो नारायणपरायणः । विख्यातं वर्षमेतद्यत् नाम्ना भारतमद्भुतम् ॥ १७ ॥
तेषाम् वै भरतः ज्येष्ठः नारायण-परायणः । विख्यातम् वर्षम् एतत् यत् नाम्ना भारतम् अद्भुतम् ॥ १७ ॥
teṣām vai bharataḥ jyeṣṭhaḥ nārāyaṇa-parāyaṇaḥ . vikhyātam varṣam etat yat nāmnā bhāratam adbhutam .. 17 ..
स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम् । उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः ॥ १८ ॥
स भुक्त-भोगाम् त्यक्त्वा इमाम् निर्गतः तपसा हरिम् । उपासीनः तद्-पदवीम् लेभे वै जन्मभिः त्रिभिः ॥ १८ ॥
sa bhukta-bhogām tyaktvā imām nirgataḥ tapasā harim . upāsīnaḥ tad-padavīm lebhe vai janmabhiḥ tribhiḥ .. 18 ..
तेषां नव नवद्वीप-पतयोऽस्य समन्ततः । कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः ॥ १९ ॥
तेषाम् नव नवद्वीप-पतयः अस्य समन्ततः । कर्म-तन्त्र-प्रणेतारः एकाशीतिः द्विजातयः ॥ १९ ॥
teṣām nava navadvīpa-patayaḥ asya samantataḥ . karma-tantra-praṇetāraḥ ekāśītiḥ dvijātayaḥ .. 19 ..
नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः । श्रमणा वातरशना आत्मविद्याविशारदाः ॥ २० ॥
नव अभवन् महाभागाः मुनयः हि अर्थ-शंसिनः । श्रमणाः वातरशनाः आत्म-विद्या-विशारदाः ॥ २० ॥
nava abhavan mahābhāgāḥ munayaḥ hi artha-śaṃsinaḥ . śramaṇāḥ vātaraśanāḥ ātma-vidyā-viśāradāḥ .. 20 ..
कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविहोत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ २१ ॥
कविः हरिः अन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविहोत्रः अथ द्रुमिलः चमसः करभाजनः ॥ २१ ॥
kaviḥ hariḥ antarikṣaḥ prabuddhaḥ pippalāyanaḥ . āvihotraḥ atha drumilaḥ camasaḥ karabhājanaḥ .. 21 ..
त एते भगवद्रूपं विश्वं सदसदात्मकम् । आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ २२ ॥
ते एते भगवत्-रूपम् विश्वम् सदसत्-आत्मकम् । आत्मनः अ व्यतिरेकेण पश्यन्तः व्यचरन् महीम् ॥ २२ ॥
te ete bhagavat-rūpam viśvam sadasat-ātmakam . ātmanaḥ a vyatirekeṇa paśyantaḥ vyacaran mahīm .. 22 ..
( वसंततिलका )
अव्याहतेष्टगतयः सुरसिद्धसाध्य- गन्धर्वयक्षनरकिन्नरनागलोकान् ।
अव्याहत-इष्ट-गतयः सुर-सिद्ध-साध्य-गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् ।
avyāhata-iṣṭa-gatayaḥ sura-siddha-sādhya-gandharva-yakṣa-nara-kinnara-nāga-lokān .
मुक्ताश्चरन्ति मुनि-चारण-भूतनाथ- विद्याधर-द्विज-गवां भुवनानि कामम् ॥ २३ ॥
मुक्ताः चरन्ति मुनि-चारण-भूतनाथ-विद्याधर-द्विज-गवाम् भुवनानि कामम् ॥ २३ ॥
muktāḥ caranti muni-cāraṇa-bhūtanātha-vidyādhara-dvija-gavām bhuvanāni kāmam .. 23 ..
( अनुष्टुप् )
त एकदा निमेः सत्रं उपजग्मुः यदृच्छया । वितायमानं ऋषिभिः अजनाभेर्महात्मनः ॥ २४ ॥
ते एकदा निमेः सत्रम् उपजग्मुः यदृच्छया । वितायमानम् ऋषिभिः अज-नाभेः महात्मनः ॥ २४ ॥
te ekadā nimeḥ satram upajagmuḥ yadṛcchayā . vitāyamānam ṛṣibhiḥ aja-nābheḥ mahātmanaḥ .. 24 ..
तान् दृष्ट्वा सूर्यसङ्काशान् महाभागवतान् नृप । यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ २५ ॥
तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप । यजमानः अग्नयः विप्राः सर्वे एव उपतस्थिरे ॥ २५ ॥
tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa . yajamānaḥ agnayaḥ viprāḥ sarve eva upatasthire .. 25 ..
विदेहस्तानभिप्रेत्य नारायणपरायणान् । प्रीतः संपूजयाञ्चक्रे आसनस्थान् यथार्हतः ॥ २६ ॥
विदेहः तान् अभिप्रेत्य नारायण-परायणान् । प्रीतः संपूजयाञ्चक्रे आसन-स्थान् यथार्हतः ॥ २६ ॥
videhaḥ tān abhipretya nārāyaṇa-parāyaṇān . prītaḥ saṃpūjayāñcakre āsana-sthān yathārhataḥ .. 26 ..
तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव । पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः ॥ २७ ॥
तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्र-उपमान् नव । पप्रच्छ परम-प्रीतः प्रश्रय-अवनतः नृपः ॥ २७ ॥
tān rocamānān sva-rucā brahma-putra-upamān nava . papraccha parama-prītaḥ praśraya-avanataḥ nṛpaḥ .. 27 ..
श्रीविदेह उवाच -
मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः । विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि ॥ २८ ॥
मन्ये भगवतः साक्षात् पार्षदान् वः मधुद्विषः । विष्णोः भूतानि लोकानाम् पावनाय चरन्ति हि ॥ २८ ॥
manye bhagavataḥ sākṣāt pārṣadān vaḥ madhudviṣaḥ . viṣṇoḥ bhūtāni lokānām pāvanāya caranti hi .. 28 ..
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रियदर्शनम् ॥ २९ ॥
दुर्लभः मानुषः देहः देहिनाम् क्षण-भङ्गुरः । तत्र अपि दुर्लभम् मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ २९ ॥
durlabhaḥ mānuṣaḥ dehaḥ dehinām kṣaṇa-bhaṅguraḥ . tatra api durlabham manye vaikuṇṭha-priya-darśanam .. 29 ..
अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः । संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम् ॥ ३० ॥
अतस् आत्यन्तिकम् क्षेमम् पृच्छामः भवतः अनघाः । संसारे अस्मिन् क्षण-अर्धः अपि सत्-सङ्गः शेवधिः नृणाम् ॥ ३० ॥
atas ātyantikam kṣemam pṛcchāmaḥ bhavataḥ anaghāḥ . saṃsāre asmin kṣaṇa-ardhaḥ api sat-saṅgaḥ śevadhiḥ nṛṇām .. 30 ..
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः ॥ ३१ ॥
धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय, दास्यति आत्मानम् अपि अजः ॥ ३१ ॥
dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam . yaiḥ prasannaḥ prapannāya, dāsyati ātmānam api ajaḥ .. 31 ..
श्रीनारद उवाच -
एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम् ॥ ३२ ॥
एवम् ते निमिना पृष्टाः वसुदेव महत्तमाः । प्रतिपूज्य अब्रुवन् प्रीत्या ससदस्यर्त्विजम् नृपम् ॥ ३२ ॥
evam te niminā pṛṣṭāḥ vasudeva mahattamāḥ . pratipūjya abruvan prītyā sasadasyartvijam nṛpam .. 32 ..
श्रीकविरुवाच - ( इंद्रवज्रा )
मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम् । उद्विग्नबुद्धेः असदात्मभावात् विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
मन्ये अकुतश्चिद्भयम् अच्युतस्य पाद-अम्बुज-उपासनम् अत्र नित्यम् । उद्विग्न-बुद्धेः असत्-आत्मभावात् विश्वात्मना यत्र निवर्तते भीः ॥ ३३ ॥
manye akutaścidbhayam acyutasya pāda-ambuja-upāsanam atra nityam . udvigna-buddheḥ asat-ātmabhāvāt viśvātmanā yatra nivartate bhīḥ .. 33 ..
( अनुष्टुप् )
ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान् ॥ ३४ ॥
ये वै भगवता प्रोक्ताः उपायाः हि आत्म-लब्धये । अञ्जस् पुंसाम् अविदुषाम् विद्धि भागवतान् हि तान् ॥ ३४ ॥
ye vai bhagavatā proktāḥ upāyāḥ hi ātma-labdhaye . añjas puṃsām aviduṣām viddhi bhāgavatān hi tān .. 34 ..
यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह ॥ ३५ ॥
यान् आस्थाय नरः राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेत् न पतेत् इह ॥ ३५ ॥
yān āsthāya naraḥ rājan na pramādyeta karhicit . dhāvan nimīlya vā netre na skhalet na patet iha .. 35 ..
( मिश्र )
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ ३६ ॥
कायेन वाचा मनसा इन्द्रियैः वा बुद्धि-आत्मना वा अनुसृत-स्वभावात् । करोति यत् यत् सकलम् परस्मै नारायणाय इति समर्पयेत् तत् ॥ ३६ ॥
kāyena vācā manasā indriyaiḥ vā buddhi-ātmanā vā anusṛta-svabhāvāt . karoti yat yat sakalam parasmai nārāyaṇāya iti samarpayet tat .. 36 ..
भयं द्वितीयाभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययोऽस्मृतिः । तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ॥ ३७ ॥
भयम् द्वितीय-अभिनिवेशतः स्यात् ईशात् अपेतस्य विपर्ययः अस्मृतिः । तद्-मायया अतस् बुधः आभजेत् तम् भक्त्या एकया ईशम् गुरु-देवता-आत्मा ॥ ३७ ॥
bhayam dvitīya-abhiniveśataḥ syāt īśāt apetasya viparyayaḥ asmṛtiḥ . tad-māyayā atas budhaḥ ābhajet tam bhaktyā ekayā īśam guru-devatā-ātmā .. 37 ..
अविद्यमानोऽप्यवभाति हि द्वयोः ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुंध्याद् अभयं ततः स्यात् ॥ ३८ ॥
अ विद्यमानः अपि अवभाति हि द्वयोः ध्यातुः धिया स्वप्न-मनोरथौ यथा । तद्-कर्म-सङ्कल्प-विकल्पकम् मनः बुधः निरुंध्यात् अभयम् ततस् स्यात् ॥ ३८ ॥
a vidyamānaḥ api avabhāti hi dvayoḥ dhyātuḥ dhiyā svapna-manorathau yathā . tad-karma-saṅkalpa-vikalpakam manaḥ budhaḥ niruṃdhyāt abhayam tatas syāt .. 38 ..
श्रृण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः ॥ ३९ ॥
श्रृण्वन् सु भद्राणि रथाङ्ग-पाणेः जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जः विचरेत् असङ्गः ॥ ३९ ॥
śrṛṇvan su bhadrāṇi rathāṅga-pāṇeḥ janmāni karmāṇi ca yāni loke . gītāni nāmāni tad-arthakāni gāyan vilajjaḥ vicaret asaṅgaḥ .. 39 ..
एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः । हसत्यथो रोदिति रौति गाय- त्युन्मादवत् नृत्यति लोकबाह्यः ॥ ४० ॥
एवंव्रतः स्व-प्रिय-नाम-कीर्त्या जात-अनुरागः द्रुत-चित्तः उच्चैस् । हसति अथो रोदिति रौति गायति उन्मादवान् नृत्यति लोक-बाह्यः ॥ ४० ॥
evaṃvrataḥ sva-priya-nāma-kīrtyā jāta-anurāgaḥ druta-cittaḥ uccais . hasati atho roditi rauti gāyati unmādavān nṛtyati loka-bāhyaḥ .. 40 ..
खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥ ४१ ॥
खम् वायुम् अग्निम् सलिलम् महीम् च ज्योतींषि सत्त्वानि दिशः द्रुम-आदीन् । सरित्-समुद्रान् च हरेः शरीरम् यत् किम् च भूतम् प्रणमेत् अनन्यः ॥ ४१ ॥
kham vāyum agnim salilam mahīm ca jyotīṃṣi sattvāni diśaḥ druma-ādīn . sarit-samudrān ca hareḥ śarīram yat kim ca bhūtam praṇamet ananyaḥ .. 41 ..
भक्तिः परेशानुभवो विरक्तिः अन्यत्र चैष त्रिक एककालः । प्रपद्यमानस्य यथाश्नतस्स्युः तुष्टिः पुष्टिः क्षुदपायोऽनुघासम् ॥ ४२ ॥
भक्तिः परेश अनुभवः विरक्तिः अन्यत्र च एष त्रिकः एक-कालः । प्रपद्यमानस्य यथा अश्नतः स्युः तुष्टिः पुष्टिः क्षुध्-अपायः अनुघासम् ॥ ४२ ॥
bhaktiḥ pareśa anubhavaḥ viraktiḥ anyatra ca eṣa trikaḥ eka-kālaḥ . prapadyamānasya yathā aśnataḥ syuḥ tuṣṭiḥ puṣṭiḥ kṣudh-apāyaḥ anughāsam .. 42 ..
इति अच्युताङ्घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः । भवन्ति वै भागवतस्य राजन् ततः परां शान्तिमुपैति साक्षात् ॥ ४३ ॥
इति अच्युत-अङ्घ्रिम् भजतः अनुवृत्त्या भक्तिः विरक्तिः भगवत्-प्रबोधः । भवन्ति वै भागवतस्य राजन् ततस् पराम् शान्तिम् उपैति साक्षात् ॥ ४३ ॥
iti acyuta-aṅghrim bhajataḥ anuvṛttyā bhaktiḥ viraktiḥ bhagavat-prabodhaḥ . bhavanti vai bhāgavatasya rājan tatas parām śāntim upaiti sākṣāt .. 43 ..
श्रीराजोवाच -
अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम् । यथाचरति यद् ब्रूते यैर्लिङ्गैः भगवत्प्रियः ॥ ४४ ॥
अथ भागवतम् ब्रूत यद्-धर्मः यादृशः नृणाम् । यथा आचरति यत् ब्रूते यैः लिङ्गैः भगवत्-प्रियः ॥ ४४ ॥
atha bhāgavatam brūta yad-dharmaḥ yādṛśaḥ nṛṇām . yathā ācarati yat brūte yaiḥ liṅgaiḥ bhagavat-priyaḥ .. 44 ..
श्रीहरिरुवाच -
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ४५ ॥
सर्व-भूतेषु यः पश्येत् भगवत्-भावम् आत्मनः । भूतानि भगवति आत्मनि एष भागवत-उत्तमः ॥ ४५ ॥
sarva-bhūteṣu yaḥ paśyet bhagavat-bhāvam ātmanaḥ . bhūtāni bhagavati ātmani eṣa bhāgavata-uttamaḥ .. 45 ..
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ४६ ॥
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपा-उपेक्षाः यः करोति स मध्यमः ॥ ४६ ॥
īśvare tad-adhīneṣu bāliśeṣu dviṣatsu ca . prema-maitrī-kṛpā-upekṣāḥ yaḥ karoti sa madhyamaḥ .. 46 ..
अर्चायामेव हरये पूजां यः श्रद्धयेहते । न तद्भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
अर्चायाम् एव हरये पूजाम् यः श्रद्धया ईहते । न तद्-भक्तेषु च अन्येषु स भक्तः प्राकृतः स्मृतः ॥ ४७ ॥
arcāyām eva haraye pūjām yaḥ śraddhayā īhate . na tad-bhakteṣu ca anyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ .. 47 ..
गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः ॥ ४८ ॥
गृहीत्वा अपि इन्द्रियैः अर्थान् यः न द्वेष्टि न हृष्यति । विष्णोः मायाम् इदम् पश्यन् स वै भागवत-उत्तमः ॥ ४८ ॥
gṛhītvā api indriyaiḥ arthān yaḥ na dveṣṭi na hṛṣyati . viṣṇoḥ māyām idam paśyan sa vai bhāgavata-uttamaḥ .. 48 ..
( इन्द्रवज्रा )
देहेन्द्रिप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः । संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः ॥ ४९ ॥
देह-इन्द्रि-प्राण-मनः-धियाम् यः जन्म-अप्यय-क्षुध्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैः अविमुह्यमानः स्मृत्या हरेः भागवत-प्रधानः ॥ ४९ ॥
deha-indri-prāṇa-manaḥ-dhiyām yaḥ janma-apyaya-kṣudh-bhaya-tarṣa-kṛcchraiḥ . saṃsāra-dharmaiḥ avimuhyamānaḥ smṛtyā hareḥ bhāgavata-pradhānaḥ .. 49 ..
( अनुष्टुप् )
न कामकर्मबीजानां यस्य चेतसि संभवः । वासुदेवैकनिलयः स वै भागवतोत्तमः ॥ ५० ॥
न काम-कर्म-बीजानाम् यस्य चेतसि संभवः । वासुदेव-एक-निलयः स वै भागवत-उत्तमः ॥ ५० ॥
na kāma-karma-bījānām yasya cetasi saṃbhavaḥ . vāsudeva-eka-nilayaḥ sa vai bhāgavata-uttamaḥ .. 50 ..
न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्नहं भावो देहे वै स हरेः प्रियः ॥ ५१ ॥
न यस्य जन्म-कर्मभ्याम् न वर्ण-आश्रम-जातिभिः । सज्जते अस्मिन् अहम् भावः देहे वै स हरेः प्रियः ॥ ५१ ॥
na yasya janma-karmabhyām na varṇa-āśrama-jātibhiḥ . sajjate asmin aham bhāvaḥ dehe vai sa hareḥ priyaḥ .. 51 ..
न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा । सर्वभूतसमश्शान्तः स वै भागवतोत्तमः ॥ ५२ ॥
न यस्य स्वः परः इति वित्तेषु आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवत-उत्तमः ॥ ५२ ॥
na yasya svaḥ paraḥ iti vitteṣu ātmani vā bhidā . sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavata-uttamaḥ .. 52 ..
( पुष्पिताग्रा )
त्रिभुवन-विभवहेतवेऽप्यकुण्ठ- स्मृतिरजितात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पादारविन्दात् । लव निमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ५३ ॥
त्रिभुवन-विभव-हेतवे अपि अकुण्ठ-स्मृतिः अजित-आत्म-सुर-आदिभिः विमृग्यात् । न चलति भगवत्-पाद-अरविन्दात् । निमिष-अर्धम् अपि यः स वैष्णव-अग्र्यः ॥ ५३ ॥
tribhuvana-vibhava-hetave api akuṇṭha-smṛtiḥ ajita-ātma-sura-ādibhiḥ vimṛgyāt . na calati bhagavat-pāda-aravindāt . nimiṣa-ardham api yaḥ sa vaiṣṇava-agryaḥ .. 53 ..
भगवत उरुविक्रमाङ्घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे । हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः ॥ ५४ ॥
भगवतः उरु-विक्रम-अङ्घ्रि-शाखा-नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदताम् पुनर् स प्रभवति चन्द्रे इव उदिते अर्क-तापः ॥ ५४ ॥
bhagavataḥ uru-vikrama-aṅghri-śākhā-nakha-maṇi-candrikayā nirasta-tāpe . hṛdi katham upasīdatām punar sa prabhavati candre iva udite arka-tāpaḥ .. 54 ..
विसृजति हृदयं न यस्य साक्षाद् हरिः अवशाभिहितोऽप्यघौघनाशः । प्रणयरशनया घृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्तः ॥ ५५ ॥
विसृजति हृदयम् न यस्य साक्षात् हरिः अवश-अभिहितः अपि अघ-ओघ-नाशः । प्रणय-रशनया घृत-अङ्घ्रि-पद्मः स भवति भागवत-प्रधानः उक्तः ॥ ५५ ॥
visṛjati hṛdayam na yasya sākṣāt hariḥ avaśa-abhihitaḥ api agha-ogha-nāśaḥ . praṇaya-raśanayā ghṛta-aṅghri-padmaḥ sa bhavati bhāgavata-pradhānaḥ uktaḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe dvitīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In