| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
य एतान्मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान्कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते १ ।
यः एतान् मद्-पथः हित्वा भक्ति-ज्ञान-क्रिया-आत्मकान् । क्षुद्रान् कामान् चलैः प्राणैः जुषन्तः संसरन्ति ते ।
yaḥ etān mad-pathaḥ hitvā bhakti-jñāna-kriyā-ātmakān . kṣudrān kāmān calaiḥ prāṇaiḥ juṣantaḥ saṃsaranti te .
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः २ ।
स्वे स्वे अधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययः तु दोषः स्यात् उभयोः एष निश्चयः ।
sve sve adhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ . viparyayaḥ tu doṣaḥ syāt ubhayoḥ eṣa niścayaḥ .
शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ।
शुद्धि-अशुद्धी विधीयेते समानेषु अपि वस्तुषु । द्रव्यस्य विचिकित्सा-अर्थम् गुण-दोषौ शुभ-अशुभौ ।
śuddhi-aśuddhī vidhīyete samāneṣu api vastuṣu . dravyasya vicikitsā-artham guṇa-doṣau śubha-aśubhau .
धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ३ । दर्शितोऽयं मयाचारो धर्ममुद्वहतां धुरम् ४ ।
धर्म-अर्थम् व्यवहार-अर्थम् यात्रा-अर्थम् इति च अनघ । दर्शितः अयम् मया आचारः धर्मम् उद्वहताम् धुरम् ।
dharma-artham vyavahāra-artham yātrā-artham iti ca anagha . darśitaḥ ayam mayā ācāraḥ dharmam udvahatām dhuram .
भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः । आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ५ ।
भूमि-अम्बु-अग्नि-अनिल-आकाशाः भूतानाम् पञ्च-धातवः । आ ब्रह्म-स्थावर-आदीनाम् शारीराः आत्म-संयुताः ।
bhūmi-ambu-agni-anila-ākāśāḥ bhūtānām pañca-dhātavaḥ . ā brahma-sthāvara-ādīnām śārīrāḥ ātma-saṃyutāḥ .
वेदेन नामरूपाणि विषमाणि समेष्वपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ६ ।
वेदेन नाम-रूपाणि विषमाणि समेषु अपि । धातुषु उद्धव कल्प्यन्ते एतेषाम् स्व-अर्थ-सिद्धये ।
vedena nāma-rūpāṇi viṣamāṇi sameṣu api . dhātuṣu uddhava kalpyante eteṣām sva-artha-siddhaye .
देशकालादिभावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ७ ।
देश-काल-आदि-भावानाम् वस्तूनाम् मम सत्तम । गुण-दोषौ विधीयेते नियम-अर्थम् हि कर्मणाम् ।
deśa-kāla-ādi-bhāvānām vastūnām mama sattama . guṇa-doṣau vidhīyete niyama-artham hi karmaṇām .
अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् । कृष्णसारोऽप्यसौवीर कीकटासंस्कृतेरिणम् ८ ।
अ कृष्ण-सारः देशानाम् अब्रह्मण्यः अशुचिः भवेत् । कृष्णसारः अपि असौवीर कीकटा-संस्कृत-इरिणम् ।
a kṛṣṇa-sāraḥ deśānām abrahmaṇyaḥ aśuciḥ bhavet . kṛṣṇasāraḥ api asauvīra kīkaṭā-saṃskṛta-iriṇam .
कर्मण्यो गुणवान्कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ९ ।
कर्मण्यः गुणवान् कालः द्रव्यतः स्वतस् एव वा । यतस् निवर्तते कर्म स दोषः अकर्मकः स्मृतः ।
karmaṇyaḥ guṇavān kālaḥ dravyataḥ svatas eva vā . yatas nivartate karma sa doṣaḥ akarmakaḥ smṛtaḥ .
द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथ वा १० ।
द्रव्यस्य शुद्धि-अशुद्धी च द्रव्येण वचनेन च । संस्कारेण अथ कालेन महत्व-अल्पतया अथ वा ।
dravyasya śuddhi-aśuddhī ca dravyeṇa vacanena ca . saṃskāreṇa atha kālena mahatva-alpatayā atha vā .
शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ११ ।
शक्त्या अशक्त्या अथ वा बुद्ध्या समृद्ध्या च यत् आत्मने । अघम् कुर्वन्ति हि यथा देश-अवस्था-अनुसारतः ।
śaktyā aśaktyā atha vā buddhyā samṛddhyā ca yat ātmane . agham kurvanti hi yathā deśa-avasthā-anusārataḥ .
धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् । कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः १२ ।
धान्य-दारु-अस्थि-तन्तूनाम् रस-तैजस-चर्मणाम् । काल-वायु-अग्नि-मृद्-तोयैः पार्थिवानाम् युत-अयुतैः ।
dhānya-dāru-asthi-tantūnām rasa-taijasa-carmaṇām . kāla-vāyu-agni-mṛd-toyaiḥ pārthivānām yuta-ayutaiḥ .
अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति । भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते १३ ।
अमेध्य-लिप्तम् यत् येन गन्ध-लेपम् व्यपोहति । भजते प्रकृतिम् तस्य तत् शौचम् तावत् इष्यते ।
amedhya-liptam yat yena gandha-lepam vyapohati . bhajate prakṛtim tasya tat śaucam tāvat iṣyate .
स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः । मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः १४ ।
स्नान-दान-तपः-अवस्थाः वीर्य-संस्कार-कर्मभिः । मद्-स्मृत्या च आत्मनः शौचम् शुद्धः कर्म आचरेत् द्विजः ।
snāna-dāna-tapaḥ-avasthāḥ vīrya-saṃskāra-karmabhiḥ . mad-smṛtyā ca ātmanaḥ śaucam śuddhaḥ karma ācaret dvijaḥ .
मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् । धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः १५ ।
मन्त्रस्य च परिज्ञानम् कर्म-शुद्धिः मद्-अर्पणम् । धर्मः सम्पद्यते षड्भिः अधर्मः तु विपर्ययः ।
mantrasya ca parijñānam karma-śuddhiḥ mad-arpaṇam . dharmaḥ sampadyate ṣaḍbhiḥ adharmaḥ tu viparyayaḥ .
क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः । गुणदोषार्थनियमस्तद्भिदामेव बाधते १६ ।
क्वचिद् गुणः अपि दोषः स्यात् दोषः अपि विधिना गुणः । गुण-दोष-अर्थ-नियमः तद्-भिदाम् एव बाधते ।
kvacid guṇaḥ api doṣaḥ syāt doṣaḥ api vidhinā guṇaḥ . guṇa-doṣa-artha-niyamaḥ tad-bhidām eva bādhate .
समानकर्माचरणं पतितानां न पातकम् । औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः १७ ।
समान-कर्म-आचरणम् पतितानाम् न पातकम् । औत्पत्तिकः गुणः सङ्गः न शयानः पतति अधस् ।
samāna-karma-ācaraṇam patitānām na pātakam . autpattikaḥ guṇaḥ saṅgaḥ na śayānaḥ patati adhas .
यतो यतो निवर्तेत विमुच्येत ततस्ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः १८ ।
यतस् यतस् निवर्तेत विमुच्येत ततस् ततस् । एष धर्मः नृणाम् क्षेमः शोक-मोह-भय-अपहः ।
yatas yatas nivarteta vimucyeta tatas tatas . eṣa dharmaḥ nṛṇām kṣemaḥ śoka-moha-bhaya-apahaḥ .
विषयेषु गुणाध्यासात्पुंसः सङ्गस्ततो भवेत् । सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् १९ ।
विषयेषु गुण-अध्यासात् पुंसः सङ्गः ततस् भवेत् । सङ्गात् तत्र भवेत् कामः कामात् एव कलिः नृणाम् ।
viṣayeṣu guṇa-adhyāsāt puṃsaḥ saṅgaḥ tatas bhavet . saṅgāt tatra bhavet kāmaḥ kāmāt eva kaliḥ nṛṇām .
कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते । तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् २० ।
कलेः दुर्विषहः क्रोधः तमः तम् अनुवर्तते । तमसा ग्रस्यते पुंसः चेतना व्यापिनी द्रुतम् ।
kaleḥ durviṣahaḥ krodhaḥ tamaḥ tam anuvartate . tamasā grasyate puṃsaḥ cetanā vyāpinī drutam .
तया विरहितः साधो जन्तुः शून्याय कल्पते । ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च २१ ।
तया विरहितः साधो जन्तुः शून्याय कल्पते । ततस् अस्य स्व-अर्थ-विभ्रंशः मूर्च्छितस्य मृतस्य च ।
tayā virahitaḥ sādho jantuḥ śūnyāya kalpate . tatas asya sva-artha-vibhraṃśaḥ mūrcchitasya mṛtasya ca .
विषयाभिनिवेशेन नात्मानं वेद नापरम् । वृक्ष जीविकया जीवन्व्यर्थं भस्त्रेव यः श्वसन् २२ ।
विषय-अभिनिवेशेन न आत्मानम् वेद न अपरम् । वृक्ष जीविकया जीवन् व्यर्थम् भस्त्रा इव यः श्वसन् ।
viṣaya-abhiniveśena na ātmānam veda na aparam . vṛkṣa jīvikayā jīvan vyartham bhastrā iva yaḥ śvasan .
फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् २३ ।
फल-श्रुतिः इयम् नॄणाम् न श्रेयः रोचनम् परम् । श्रेयः-विवक्षया प्रोक्तम् यथा भैषज्यरोचनम् ।
phala-śrutiḥ iyam nṝṇām na śreyaḥ rocanam param . śreyaḥ-vivakṣayā proktam yathā bhaiṣajyarocanam .
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु २४ ।
उत्पत्त्या एव हि कामेषु प्राणेषु स्व-जनेषु च । आसक्त-मनसः मर्त्याः आत्मनः अनर्थ-हेतुषु ।
utpattyā eva hi kāmeṣu prāṇeṣu sva-janeṣu ca . āsakta-manasaḥ martyāḥ ātmanaḥ anartha-hetuṣu .
न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः २५ ।
न तान् अ विदुषः स्व-अर्थम् भ्राम्यतः वृजिन-अध्वनि । कथम् युञ्ज्यात् पुनर् तेषु तान् तमः विशतः बुधः ।
na tān a viduṣaḥ sva-artham bhrāmyataḥ vṛjina-adhvani . katham yuñjyāt punar teṣu tān tamaḥ viśataḥ budhaḥ .
एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि २६ ।
एवम् व्यवसितम् केचिद् अ विज्ञाय कुबुद्धयः । फल-श्रुतिम् कुसुमिताम् न वेद-ज्ञाः वदन्ति हि ।
evam vyavasitam kecid a vijñāya kubuddhayaḥ . phala-śrutim kusumitām na veda-jñāḥ vadanti hi .
कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते २७ ।
कामिनः कृपणाः लुब्धाः पुष्पेषु फल-बुद्धयः । अग्नि-मुग्धाः धूम-तान्ताः स्वम् लोकम् न विदन्ति ते ।
kāminaḥ kṛpaṇāḥ lubdhāḥ puṣpeṣu phala-buddhayaḥ . agni-mugdhāḥ dhūma-tāntāḥ svam lokam na vidanti te .
न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः २८ ।
न ते माम् अङ्ग जानन्ति हृदिस्थम् यः इदम् यतस् । उक्थ-शस्त्राः हि असुतृपः यथा नीहार-चक्षुषः ।
na te mām aṅga jānanti hṛdistham yaḥ idam yatas . uktha-śastrāḥ hi asutṛpaḥ yathā nīhāra-cakṣuṣaḥ .
ते मे मतमविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना २९ ।
ते मे मतम् अ विज्ञाय परोक्षम् विषय-आत्मकाः । हिंसायाम् यदि रागः स्यात् यज्ञः एव न चोदना ।
te me matam a vijñāya parokṣam viṣaya-ātmakāḥ . hiṃsāyām yadi rāgaḥ syāt yajñaḥ eva na codanā .
हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवता यज्ञैः पितृभूतपतीन्खलाः ३० ।
हिंसा-विहाराः हि आलब्धैः पशुभिः स्व-सुख-इच्छया । यजन्ते देवताः यज्ञैः पितृ-भूत-पतीन् खलाः ।
hiṃsā-vihārāḥ hi ālabdhaiḥ paśubhiḥ sva-sukha-icchayā . yajante devatāḥ yajñaiḥ pitṛ-bhūta-patīn khalāḥ .
स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् । आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान्यथा वणिक् ३१ ।
स्वप्न-उपमम् अमुम् लोकम् असन्तम् श्रवण-प्रियम् । आशिषः हृदि सङ्कल्प्य त्यजन्ती अर्थान् यथा वणिज् ।
svapna-upamam amum lokam asantam śravaṇa-priyam . āśiṣaḥ hṛdi saṅkalpya tyajantī arthān yathā vaṇij .
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासत इन्द्र मुख्यान्देवादीन्न यथैव माम् ३२ ।
रजः-सत्त्व-तमः-निष्ठाः रजः-सत्त्व-तमः-जुषः । उपासते इन्द्र मुख्यान् देव-आदीन् न यथा एव माम् ।
rajaḥ-sattva-tamaḥ-niṣṭhāḥ rajaḥ-sattva-tamaḥ-juṣaḥ . upāsate indra mukhyān deva-ādīn na yathā eva mām .
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महाशाला महाकुलाः ३३ ।
इष्ट्वा इह देवताः यज्ञैः गत्वा रंस्यामहे दिवि । तस्य अन्ते इह भूयास्म महा-शालाः महा-कुलाः ।
iṣṭvā iha devatāḥ yajñaiḥ gatvā raṃsyāmahe divi . tasya ante iha bhūyāsma mahā-śālāḥ mahā-kulāḥ .
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् । मानिनां चातिलुब्धानां मद्वार्तापि न रोचते ३४ ।
एवम् पुष्पितया वाचा व्याक्षिप्त-मनसाम् नृणाम् । मानिनाम् च अति लुब्धानाम् मद्-वार्ता अपि न रोचते ।
evam puṣpitayā vācā vyākṣipta-manasām nṛṇām . māninām ca ati lubdhānām mad-vārtā api na rocate .
वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे । परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ३५ ।
वेदाः ब्रह्म-आत्म-विषयाः त्रिकाण्ड-विषयाः इमे । परोक्ष-वादाः ऋषयः परोक्षम् मम च प्रियम् ।
vedāḥ brahma-ātma-viṣayāḥ trikāṇḍa-viṣayāḥ ime . parokṣa-vādāḥ ṛṣayaḥ parokṣam mama ca priyam .
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ३६ ।
शब्दब्रह्म सु दुर्बोधम् प्राण-इन्द्रिय-मनः-मयम् । अनन्त-पारम् गम्भीरम् दुर्विगाह्यम् समुद्र-वत् ।
śabdabrahma su durbodham prāṇa-indriya-manaḥ-mayam . ananta-pāram gambhīram durvigāhyam samudra-vat .
मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना । भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ३७ ।
मया उपबृंहितम् भूम्ना ब्रह्मणा अनन्त-शक्तिना । भूतेषु घोष-रूपेण बिसेषु ऊर्णा इव लक्ष्यते ।
mayā upabṛṃhitam bhūmnā brahmaṇā ananta-śaktinā . bhūteṣu ghoṣa-rūpeṇa biseṣu ūrṇā iva lakṣyate .
यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् । आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा ३८ ।
यथा ऊर्णनाभिः हृदयात् ऊर्णाम् उद्वमते मुखात् । आकाशात् घोषवान् प्राणः मनसा स्पर्श-रूपिणा ।
yathā ūrṇanābhiḥ hṛdayāt ūrṇām udvamate mukhāt . ākāśāt ghoṣavān prāṇaḥ manasā sparśa-rūpiṇā .
छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः । ॐकाराद्व्यञ्जितस्पर्श स्वरोष्मान्तस्थभूषिताम् ३९ ।
छन्दः-मयः अमृत-मयः सहस्र-पदवीम् प्रभुः । ओंकारात् व्यञ्जित-स्पर्श स्वर-ऊष्म-अन्त-स्थ-भूषिताम् ।
chandaḥ-mayaḥ amṛta-mayaḥ sahasra-padavīm prabhuḥ . oṃkārāt vyañjita-sparśa svara-ūṣma-anta-stha-bhūṣitām .
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः । अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ४० ।
विचित्र-भाषा-वितताम् छन्दोभिः चतुर्-उत्तरैः । अनन्त-पाराम् बृहतीम् सृजति आक्षिपते स्वयम् ।
vicitra-bhāṣā-vitatām chandobhiḥ catur-uttaraiḥ . ananta-pārām bṛhatīm sṛjati ākṣipate svayam .
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च । त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ४१ ।
गायत्री उष्णिह् अनुष्टुभ् च बृहती पङ्क्तिः एव च । त्रिष्टुभ्-जगती-अतिच्छन्दः हि अत्यष्टि-अतिजगत् विराज् ।
gāyatrī uṣṇih anuṣṭubh ca bṛhatī paṅktiḥ eva ca . triṣṭubh-jagatī-aticchandaḥ hi atyaṣṭi-atijagat virāj .
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् । इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ४२ ।
किम् विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इति अस्याः हृदयम् लोके न अन्यः मत् वेद कश्चन ।
kim vidhatte kim ācaṣṭe kim anūdya vikalpayet . iti asyāḥ hṛdayam loke na anyaḥ mat veda kaścana .
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् । एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ४३ ।
माम् विधत्ते अभिधत्ते माम् विकल्प्य अपोह्यते तु अहम् । एतावान् सर्व-वेद-अर्थः शब्दः आस्थाय माम् भिदाम् । माया-मात्रम् अनूद्य अन्ते प्रतिषिध्य प्रसीदति ।
mām vidhatte abhidhatte mām vikalpya apohyate tu aham . etāvān sarva-veda-arthaḥ śabdaḥ āsthāya mām bhidām . māyā-mātram anūdya ante pratiṣidhya prasīdati .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे एकविंशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे एकविंशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ekaviṃśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In