| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच।
कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो । नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम १ ।
कति तत्त्वानि विश्वेश सङ्ख्यातानि ऋषिभिः प्रभो । नव एकादश पञ्च त्रीणि आत्थ त्वम् इह शुश्रुम ।
kati tattvāni viśveśa saṅkhyātāni ṛṣibhiḥ prabho . nava ekādaśa pañca trīṇi āttha tvam iha śuśruma .
केचित्षड्विंशतिं प्राहुरपरे पञ्चविंशतिं । सप्तैके नव षट्केचिच्चत्वार्येकादशापरे । केचित्सप्तदश प्राहुः षोडशैके त्रयोदश २ ।
केचिद् षड्विंशतिम् प्राहुः अपरे पञ्चविंशतिम् । सप्त एके नव षष् केचिद् चत्वारि एकादश अपरे । केचिद् सप्तदश प्राहुः षोडश एके त्रयोदश ।
kecid ṣaḍviṃśatim prāhuḥ apare pañcaviṃśatim . sapta eke nava ṣaṣ kecid catvāri ekādaśa apare . kecid saptadaśa prāhuḥ ṣoḍaśa eke trayodaśa .
केचित्सप्तदश प्राहुः षोडशैके त्रयोदश २ । एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया ।
केचिद् सप्तदश प्राहुः षोडश एके त्रयोदश । एतावत्-त्वम् हि सङ्ख्यानाम् ऋषयः यत् विवक्षया ।
kecid saptadaśa prāhuḥ ṣoḍaśa eke trayodaśa . etāvat-tvam hi saṅkhyānām ṛṣayaḥ yat vivakṣayā .
एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया । गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ३ ।
एतावत्-त्वम् हि सङ्ख्यानाम् ऋषयः यत् विवक्षया । गायन्ति पृथक् आयुष्मन् इदम् नः वक्तुम् अर्हसि ।
etāvat-tvam hi saṅkhyānām ṛṣayaḥ yat vivakṣayā . gāyanti pṛthak āyuṣman idam naḥ vaktum arhasi .
श्रीभगवानुवाच।
युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ४ ।
युक्तम् च सन्ति सर्वत्र भाषन्ते ब्राह्मणाः यथा । मायाम् मदीयाम् उद्गृह्य वदताम् किम् नु दुर्घटम् ।
yuktam ca santi sarvatra bhāṣante brāhmaṇāḥ yathā . māyām madīyām udgṛhya vadatām kim nu durghaṭam .
नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ५ ।
न एतत् एवम् यथा आत्थ त्वम् यत् अहम् वच्मि तत् तथा । एवम् विवदताम् हेतुम् शक्तयः मे दुरत्ययाः ।
na etat evam yathā āttha tvam yat aham vacmi tat tathā . evam vivadatām hetum śaktayaḥ me duratyayāḥ .
यासां व्यतिकरादासीद्विकल्पो वदतां पदम् । प्राप्ते शमदमेऽप्येति वादस्तमनु शाम्यति ६ ।
यासाम् व्यतिकरात् आसीत् विकल्पः वदताम् पदम् । प्राप्ते शम-दमे अपि एति वादः तम् अनु शाम्यति ।
yāsām vyatikarāt āsīt vikalpaḥ vadatām padam . prāpte śama-dame api eti vādaḥ tam anu śāmyati .
परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ । पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ७ ।
परस्पर-अनुप्रवेशात् तत्त्वानाम् पुरुष-ऋषभ । पौर्वापर्य-प्रसङ्ख्यानम् यथा वक्तुः विवक्षितम् ।
paraspara-anupraveśāt tattvānām puruṣa-ṛṣabha . paurvāparya-prasaṅkhyānam yathā vaktuḥ vivakṣitam .
एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन्वा परस्मिन्वा तत्त्वे तत्त्वानि सर्वशः ८ ।
एकस्मिन् अपि दृश्यन्ते प्रविष्टानि इतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशस् ।
ekasmin api dṛśyante praviṣṭāni itarāṇi ca . pūrvasmin vā parasmin vā tattve tattvāni sarvaśas .
पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् । यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ९ ।
पौर्वापर्यम् अतस् अमीषाम् प्रसङ्ख्यानम् अभीप्सताम् । यथा विविक्तम् यत् वक्त्रम् गृह्णीमः युक्ति-सम्भवात् ।
paurvāparyam atas amīṣām prasaṅkhyānam abhīpsatām . yathā viviktam yat vaktram gṛhṇīmaḥ yukti-sambhavāt .
अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् १० ।
अनाद्य-विद्या-युक्तस्य पुरुषस्य आत्म-वेदनम् । स्वतस् न सम्भवात् अन्यः तत्त्व-ज्ञः ज्ञान-दः भवेत् ।
anādya-vidyā-yuktasya puruṣasya ātma-vedanam . svatas na sambhavāt anyaḥ tattva-jñaḥ jñāna-daḥ bhavet .
पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि । तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ११ ।
पुरुष-ईश्वरयोः अत्र न वैलक्षण्यम् अणु अपि । तद्-अन्य-कल्पना-पार्था ज्ञानम् च प्रकृतेः गुणः ।
puruṣa-īśvarayoḥ atra na vailakṣaṇyam aṇu api . tad-anya-kalpanā-pārthā jñānam ca prakṛteḥ guṇaḥ .
प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः । सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः १२ ।
प्रकृतिः गुण-साम्यम् वै प्रकृतेः न आत्मनः गुणाः । सत्त्वम् रजः तमः इति स्थिति-उत्पत्ति-अन्त-हेतवः ।
prakṛtiḥ guṇa-sāmyam vai prakṛteḥ na ātmanaḥ guṇāḥ . sattvam rajaḥ tamaḥ iti sthiti-utpatti-anta-hetavaḥ .
सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रमेव च १३ ।
सत्त्वम् ज्ञानम् रजः कर्म तमः अज्ञानम् इह उच्यते । गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च ।
sattvam jñānam rajaḥ karma tamaḥ ajñānam iha ucyate . guṇa-vyatikaraḥ kālaḥ svabhāvaḥ sūtram eva ca .
पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः । ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव १४ ।
पुरुषः प्रकृतिः व्यक्तम् अहङ्कारः नभः अनिलः । ज्योतिः आपः क्षितिः इति तत्त्वानि उक्तानि मे नव ।
puruṣaḥ prakṛtiḥ vyaktam ahaṅkāraḥ nabhaḥ anilaḥ . jyotiḥ āpaḥ kṣitiḥ iti tattvāni uktāni me nava .
श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्युपस्थपाय्वङ्घ्रिः कर्माण्यङ्गोभयं मनः १५ ।
श्रोत्रम् त्वच् दर्शनम् घ्राणः जिह्वा इति ज्ञान-शक्तयः । वाच्-पाणि-उपस्थ-पायु-अङ्घ्रिः कर्माणि अङ्ग-उभयम् मनः ।
śrotram tvac darśanam ghrāṇaḥ jihvā iti jñāna-śaktayaḥ . vāc-pāṇi-upastha-pāyu-aṅghriḥ karmāṇi aṅga-ubhayam manaḥ .
शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः । गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः १६ ।
शब्दः स्पर्शः रसः गन्धः रूपम् च इति अर्थ-जातयः । गति-उक्ति-उत्सर्ग-शिल्पानि कर्म-आयतन-सिद्धयः ।
śabdaḥ sparśaḥ rasaḥ gandhaḥ rūpam ca iti artha-jātayaḥ . gati-ukti-utsarga-śilpāni karma-āyatana-siddhayaḥ .
सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी । सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते १७ ।
सर्ग-आदौ प्रकृतिः हि अस्य कार्य-कारण-रूपिणी । सत्त्व-आदिभिः गुणैः धत्ते पुरुषः अव्यक्तः ईक्षते ।
sarga-ādau prakṛtiḥ hi asya kārya-kāraṇa-rūpiṇī . sattva-ādibhiḥ guṇaiḥ dhatte puruṣaḥ avyaktaḥ īkṣate .
व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् १८ ।
व्यक्त-आदयः विकुर्वाणाः धातवः पुरुष-ईक्षया । लब्ध-वीर्याः सृजन्ति अण्डम् संहताः प्रकृतेः बलात् ।
vyakta-ādayaḥ vikurvāṇāḥ dhātavaḥ puruṣa-īkṣayā . labdha-vīryāḥ sṛjanti aṇḍam saṃhatāḥ prakṛteḥ balāt .
सप्तैव धातव इति तत्रार्थाः पञ्च खादयः । ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः १९ ।
सप्त एव धातवः इति तत्र अर्थाः पञ्च ख-आदयः । ज्ञानम् आत्मा उभय-आधारः ततस् देह-इन्द्रिय-असवः ।
sapta eva dhātavaḥ iti tatra arthāḥ pañca kha-ādayaḥ . jñānam ātmā ubhaya-ādhāraḥ tatas deha-indriya-asavaḥ .
षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान् । तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समपाविशत् २० ।
षष् इति अत्र अपि भूतानि पञ्च षष्ठः परः पुमान् । तैः युक्तः आत्म-सम्भूतैः सृष्ट्वा इदम् समपाविशत् ।
ṣaṣ iti atra api bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān . taiḥ yuktaḥ ātma-sambhūtaiḥ sṛṣṭvā idam samapāviśat .
चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः । जातानि तैरिदं जातं जन्मावयविनः खलु २१ ।
चत्वारि एव इति तत्र अपि तेजः आपः अन्नम् आत्मनः । जातानि तैः इदम् जातम् जन्म अवयविनः खलु ।
catvāri eva iti tatra api tejaḥ āpaḥ annam ātmanaḥ . jātāni taiḥ idam jātam janma avayavinaḥ khalu .
सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च । पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः २२ ।
सङ्ख्याने सप्तदशके भूतमात्र-इन्द्रियाणि च । पञ्च पञ्च एकमनसा आत्मा सप्तदशः स्मृतः ।
saṅkhyāne saptadaśake bhūtamātra-indriyāṇi ca . pañca pañca ekamanasā ātmā saptadaśaḥ smṛtaḥ .
तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश २३ ।
तद्वत् षोडश-सङ्ख्याने आत्मा एव मनः उच्यते । भूत-इन्द्रियाणि पञ्च एव मनः आत्मा त्रयोदश ।
tadvat ṣoḍaśa-saṅkhyāne ātmā eva manaḥ ucyate . bhūta-indriyāṇi pañca eva manaḥ ātmā trayodaśa .
एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च । अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ २४ ।
एकादश-त्वे आत्मा असौ महाभूत-इन्द्रियाणि च । अष्टौ प्रकृतयः च एव पुरुषः च नवा इति अथ ।
ekādaśa-tve ātmā asau mahābhūta-indriyāṇi ca . aṣṭau prakṛtayaḥ ca eva puruṣaḥ ca navā iti atha .
इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् २५ ।
इति नाना प्रसङ्ख्यानम् तत्त्वानाम् ऋषिभिः कृतम् । सर्वम् न्याय्यम् युक्तिमत्-त्वात् विदुषाम् किम् अशोभनम् ।
iti nānā prasaṅkhyānam tattvānām ṛṣibhiḥ kṛtam . sarvam nyāyyam yuktimat-tvāt viduṣām kim aśobhanam .
श्रीउद्धव उवाच।
प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ । अन्योन्यापाश्रयात्कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथात्मनि २६ ।
प्रकृतिः पुरुषः च उभौ यदि अपि आत्म-विलक्षणौ । अन्योन्य-अपाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते हि आत्मा प्रकृतिः च तथा आत्मनि ।
prakṛtiḥ puruṣaḥ ca ubhau yadi api ātma-vilakṣaṇau . anyonya-apāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ . prakṛtau lakṣyate hi ātmā prakṛtiḥ ca tathā ātmani .
एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः २७ ।
एवम् मे पुण्डरीकाक्ष महान्तम् संशयम् हृदि । छेत्तुम् अर्हसि सर्वज्ञ वचोभिः नय-नैपुणैः ।
evam me puṇḍarīkākṣa mahāntam saṃśayam hṛdi . chettum arhasi sarvajña vacobhiḥ naya-naipuṇaiḥ .
त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः । त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः २८ ।
त्वत्तः ज्ञानम् हि जीवानाम् प्रमोषः ते अत्र शक्तितः । त्वम् एव हि आत्म-मायायाः गतिम् वेत्थ न च अपरः ।
tvattaḥ jñānam hi jīvānām pramoṣaḥ te atra śaktitaḥ . tvam eva hi ātma-māyāyāḥ gatim vettha na ca aparaḥ .
श्रीभगवानुवाच।
प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः २९ ।
प्रकृतिः पुरुषः च इति विकल्पः पुरुष-ऋषभ । एष वैकारिकः सर्गः गुण-व्यतिकर-आत्मकः ।
prakṛtiḥ puruṣaḥ ca iti vikalpaḥ puruṣa-ṛṣabha . eṣa vaikārikaḥ sargaḥ guṇa-vyatikara-ātmakaḥ .
ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीश्च गुणैर्विधत्ते । वैकारिकस्त्रिविधोऽध्यात्ममेकमथाधिदैवमधिभूतमन्यत् ३० ।
मम अङ्ग माया गुण-मयी अनेकधा विकल्प-बुद्धीः च गुणैः विधत्ते । वैकारिकः त्रिविधः अध्यात्मम् एकम् अथ अधिदैवम् अधिभूतम् अन्यत् ।
mama aṅga māyā guṇa-mayī anekadhā vikalpa-buddhīḥ ca guṇaiḥ vidhatte . vaikārikaḥ trividhaḥ adhyātmam ekam atha adhidaivam adhibhūtam anyat .
दृग्रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः ३१ ।
दृश्-रूप-मार्कम् वपुः अत्र रन्ध्रे परस्परम् सिध्यति यः स्वतस् खे । आत्मा यत् एषाम् अपरः यः आद्यः स्वया अनुभूत्या अखिल-सिद्ध-सिद्धिः ।
dṛś-rūpa-mārkam vapuḥ atra randhre parasparam sidhyati yaḥ svatas khe . ātmā yat eṣām aparaḥ yaḥ ādyaḥ svayā anubhūtyā akhila-siddha-siddhiḥ .
एवं त्वगादि श्रवणादि चक्षुर् । जिह्वादि नासादि च चित्तयुक्तम् ३२ ।
एवम् त्वच्-आदि श्रवण-आदि चक्षुः । जिह्वा-आदि नासा-आदि च चित्त-युक्तम् ।
evam tvac-ādi śravaṇa-ādi cakṣuḥ . jihvā-ādi nāsā-ādi ca citta-yuktam .
योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः । अहं त्रिवृन्मोहविकल्पहेतुर्वैकारिकस्तामस ऐन्द्रियश्च ३३ ।
यः असौ गुण-क्षोभ-कृतः विकारः प्रधान-मूलात् महतः प्रसूतः । अहम् त्रिवृत् मोह-विकल्प-हेतुः वैकारिकः तामसः ऐन्द्रियः च ।
yaḥ asau guṇa-kṣobha-kṛtaḥ vikāraḥ pradhāna-mūlāt mahataḥ prasūtaḥ . aham trivṛt moha-vikalpa-hetuḥ vaikārikaḥ tāmasaḥ aindriyaḥ ca .
आत्मापरिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदार्थनिष्ठः । व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ३४ ।
आत्म-अपरिज्ञान-मयः विवादः हि अस्ति इति न अस्ति इति भिदा-अर्थ-निष्ठः । व्यर्थः अपि ना एवा उपरमेत पुंसाम् मत्तः परावृत्त-धियाम् स्व-लोकात् ।
ātma-aparijñāna-mayaḥ vivādaḥ hi asti iti na asti iti bhidā-artha-niṣṭhaḥ . vyarthaḥ api nā evā uparameta puṃsām mattaḥ parāvṛtta-dhiyām sva-lokāt .
श्रीउद्धव उवाच।
त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्चावचान्यथा देहान्गृह्णन्ति विसृजन्ति च ३५ ।
त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो । उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ।
tvattaḥ parāvṛtta-dhiyaḥ sva-kṛtaiḥ karmabhiḥ prabho . uccāvacān yathā dehān gṛhṇanti visṛjanti ca .
तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः । न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ३६ ।
तत् मम आख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः । न हि एतत् प्रायशस् लोके विद्वांसः सन्ति वञ्चिताः ।
tat mama ākhyāhi govinda durvibhāvyam anātmabhiḥ . na hi etat prāyaśas loke vidvāṃsaḥ santi vañcitāḥ .
श्रीभगवानुवाच।
मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम् । लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते ३७ ।
मनः कर्म-मयम् नॄणाम् इन्द्रियैः पञ्चभिः युतम् । लोकात् लोकम् प्रयाति अन्यः आत्मा तत् अनुवर्तते ।
manaḥ karma-mayam nṝṇām indriyaiḥ pañcabhiḥ yutam . lokāt lokam prayāti anyaḥ ātmā tat anuvartate .
ध्यायन्मनोऽनु विषयान्दृष्टान्वानुश्रुतानथ । उद्यत्सीदत्कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ३८ ।
ध्यायन् मनः अनु विषयान् दृष्टान् वा अनुश्रुतान् अथ । उद्यत्-सीदत्-कर्म-तन्त्रम् स्मृतिः तदनु शाम्यति ।
dhyāyan manaḥ anu viṣayān dṛṣṭān vā anuśrutān atha . udyat-sīdat-karma-tantram smṛtiḥ tadanu śāmyati .
विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः । जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ३९ ।
विषय-अभिनिवेशेन न आत्मानम् यत् स्मरेत् पुनर् । जन्तोः वै कस्यचिद् हेतोः मृत्युः अत्यन्त-विस्मृतिः ।
viṣaya-abhiniveśena na ātmānam yat smaret punar . jantoḥ vai kasyacid hetoḥ mṛtyuḥ atyanta-vismṛtiḥ .
जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद । विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः ४० ।
जन्म तु आत्म-तया पुंसः सर्व-भावेन भूरि-द । विषय-स्वीकृतिम् प्राहुः यथा स्वप्न-मनोरथः ।
janma tu ātma-tayā puṃsaḥ sarva-bhāvena bhūri-da . viṣaya-svīkṛtim prāhuḥ yathā svapna-manorathaḥ .
स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ । तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति ४१ ।
स्वप्नम् मनोरथम् च इत्थम् प्राक्तनम् न स्मरति असौ । तत्र पूर्वम् इव आत्मानम् अपूर्वम् च अनुपश्यति ।
svapnam manoratham ca ittham prāktanam na smarati asau . tatra pūrvam iva ātmānam apūrvam ca anupaśyati .
इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि । बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद्यथा ४२ ।
इन्द्रियायन-सृष्ट्या इदम् त्रैविध्यम् भाति वस्तुनि । बहिस् अन्तर् भिदा-हेतुः जनः असत्-जन-कृत् यथा ।
indriyāyana-sṛṣṭyā idam traividhyam bhāti vastuni . bahis antar bhidā-hetuḥ janaḥ asat-jana-kṛt yathā .
नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ४३ ।
नित्यदा हि अङ्ग भूतानि भवन्ति न भवन्ति च । कालेन अलक्ष्य-वेगेन सूक्ष्म-त्वात् तत् न दृश्यते ।
nityadā hi aṅga bhūtāni bhavanti na bhavanti ca . kālena alakṣya-vegena sūkṣma-tvāt tat na dṛśyate .
यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथैव सर्वभूतानां वयोऽवस्थादयः कृताः ४४ ।
यथा अर्चिषाम् स्रोतसाम् च फलानाम् वा वनस्पतेः । तथा एव सर्व-भूतानाम् वयः-अवस्था-आदयः कृताः ।
yathā arciṣām srotasām ca phalānām vā vanaspateḥ . tathā eva sarva-bhūtānām vayaḥ-avasthā-ādayaḥ kṛtāḥ .
सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् । सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ४५ ।
सः अयम् दीपः अर्चिषाम् यद्वत् स्रोतसाम् तत् इदम् जलम् । सः अयम् पुमान् इति नृणाम् मृषा गीः धीः मृषा आयुषाम् ।
saḥ ayam dīpaḥ arciṣām yadvat srotasām tat idam jalam . saḥ ayam pumān iti nṛṇām mṛṣā gīḥ dhīḥ mṛṣā āyuṣām .
मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् । म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ४६ ।
मा स्वस्य कर्म-बीजेन जायते सः अपि अयम् पुमान् । म्रियते वा अमरः भ्रान्त्या यथा अग्निः दारु-संयुतः ।
mā svasya karma-bījena jāyate saḥ api ayam pumān . mriyate vā amaraḥ bhrāntyā yathā agniḥ dāru-saṃyutaḥ .
निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ४७ ।
निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् । वयः-मध्यम् जरा मृत्युः इति अवस्थाः तनोः नव ।
niṣeka-garbha-janmāni bālya-kaumāra-yauvanam . vayaḥ-madhyam jarā mṛtyuḥ iti avasthāḥ tanoḥ nava .
एता मनोरथमयीर्हान्यस्योच्चावचास्तनूः । गुणसङ्गादुपादत्ते क्वचित्कश्चिज्जहाति च ४८ ।
एताः मनोरथ-मयीः हानि अस्य उच्चावचाः तनूः । गुण-सङ्गात् उपादत्ते क्वचिद् कश्चिद् जहाति च ।
etāḥ manoratha-mayīḥ hāni asya uccāvacāḥ tanūḥ . guṇa-saṅgāt upādatte kvacid kaścid jahāti ca .
आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः ४९ ।
आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भव-अप्ययौ । न भव-अप्यय-वस्तूनाम् अभिज्ञः द्वय-लक्षणः ।
ātmanaḥ pitṛ-putrābhyām anumeyau bhava-apyayau . na bhava-apyaya-vastūnām abhijñaḥ dvaya-lakṣaṇaḥ .
तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ । तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ५० ।
तरोः बीज-विपाकाभ्याम् यः विद्वान् जन्म-संयमौ । तरोः विलक्षणः द्रष्टा एवम् द्रष्टा तनोः पृथक् ।
taroḥ bīja-vipākābhyām yaḥ vidvān janma-saṃyamau . taroḥ vilakṣaṇaḥ draṣṭā evam draṣṭā tanoḥ pṛthak .
प्रकृतेरेवमात्मानमविविच्याबुधः पुमान् । तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ५१ ।
प्रकृतेः एवम् आत्मानम् अ विविच्य अबुधः पुमान् । तत्त्वेन स्पर्श-सम्मूढः संसारम् प्रतिपद्यते ।
prakṛteḥ evam ātmānam a vivicya abudhaḥ pumān . tattvena sparśa-sammūḍhaḥ saṃsāram pratipadyate .
सत्त्वसङ्गादृषीन्देवान्रजसासुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ५२ ।
सत्त्व-सङ्गात् ऋषीन् देवान् रजसा असुर-मानुषान् । तमसा भूत-तिर्यक्त्वम् भ्रामितः याति कर्मभिः ।
sattva-saṅgāt ṛṣīn devān rajasā asura-mānuṣān . tamasā bhūta-tiryaktvam bhrāmitaḥ yāti karmabhiḥ .
नृत्यतो गायतः पश्यन्यथैवानुकरोति तान् । एवं बुद्धिगुणान्पश्यन्ननीहोऽप्यनुकार्यते ५३ ।
नृत्यतः गायतः पश्यन् यथा एव अनुकरोति तान् । एवम् बुद्धि-गुणान् पश्यन् अनीहः अपि अनुकार्यते ।
nṛtyataḥ gāyataḥ paśyan yathā eva anukaroti tān . evam buddhi-guṇān paśyan anīhaḥ api anukāryate .
यथाम्भसा प्रचलता तरवोऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ५४ ।
यथा अम्भसा प्रचलता तरवः अपि चलाः इव । चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमति इव भूः ।
yathā ambhasā pracalatā taravaḥ api calāḥ iva . cakṣuṣā bhrāmyamāṇena dṛśyate bhramati iva bhūḥ .
यथा मनोरथधियो विषयानुभवो मृषा । स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः ५५ ।
यथा मनोरथ-धियः विषय-अनुभवः मृषा । स्वप्न-दृष्टाः च दाशार्ह तथा संसारः आत्मनः ।
yathā manoratha-dhiyaḥ viṣaya-anubhavaḥ mṛṣā . svapna-dṛṣṭāḥ ca dāśārha tathā saṃsāraḥ ātmanaḥ .
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ५६ ।
अर्थे हि अ विद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः स्वप्ने अनर्थ-आगमः यथा ।
arthe hi a vidyamāne api saṃsṛtiḥ na nivartate . dhyāyataḥ svapne anartha-āgamaḥ yathā .
तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः । आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ५७ ।
तस्मात् उद्धव मा भुङ्क्ष्व विषयान् असत्-इन्द्रियैः । आत्म-अग्रहण-निर्भातम् पश्य वैकल्पिकम् भ्रमम् ।
tasmāt uddhava mā bhuṅkṣva viṣayān asat-indriyaiḥ . ātma-agrahaṇa-nirbhātam paśya vaikalpikam bhramam .
क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा । ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ५८ ।
क्षिप्तः अवमानितः असद्भिः प्रलब्धः असूयितः अथ वा । ताडितः सन् निरुद्धः वा वृत्त्या वा परिहापितः ।
kṣiptaḥ avamānitaḥ asadbhiḥ pralabdhaḥ asūyitaḥ atha vā . tāḍitaḥ san niruddhaḥ vā vṛttyā vā parihāpitaḥ .
निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् ५९ ।
निष्ठ्युतः मूत्रितः वा अज्ञैः बहुधा एवम् प्रकम्पितः । श्रेयस्कामः कृच्छ्र-गतः आत्मना आत्मानम् उद्धरेत् ।
niṣṭhyutaḥ mūtritaḥ vā ajñaiḥ bahudhā evam prakampitaḥ . śreyaskāmaḥ kṛcchra-gataḥ ātmanā ātmānam uddharet .
श्रीउद्धव उवाच।
यथैवमनुबुध्येयं वद नो वदतां वर ६०। सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम्। विदुषामपि विश्वात्मन्प्रकृतिर्हि बलीयसी। ऋते त्वद्धर्मनिरतान्शान्तास्ते चरणालयान् ६१।
यथा एवम् अनुबुध्येयम् वद नः वदताम् वर। सु दुःसहम् इमम् मन्ये आत्मनि असत्-अतिक्रमम्। विदुषाम् अपि विश्वात्मन् प्रकृतिः हि बलीयसी। ऋते त्वद्-धर्म-निरतान् शान्ताः ते चरण-आलयान्।
yathā evam anubudhyeyam vada naḥ vadatām vara. su duḥsaham imam manye ātmani asat-atikramam. viduṣām api viśvātman prakṛtiḥ hi balīyasī. ṛte tvad-dharma-niratān śāntāḥ te caraṇa-ālayān.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वाविंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे द्वाविंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe dvāviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In