| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीबादरायणिरुवाच।
स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन्भृत्यवचो मुकुन्दस्तमाबभाषे श्रवणीयवीर्यः १ ।
सः एवम् आशंसितः उद्धवेन भागवत-मुख्येन दाशार्ह-मुख्यः । सभाजयन् भृत्य-वचः मुकुन्दः तम् आबभाषे श्रवणीय-वीर्यः ।
saḥ evam āśaṃsitaḥ uddhavena bhāgavata-mukhyena dāśārha-mukhyaḥ . sabhājayan bhṛtya-vacaḥ mukundaḥ tam ābabhāṣe śravaṇīya-vīryaḥ .
श्रीभगवानुवाच।
बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितैः । दुरक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः २ ।
बार्हस्पत्य स ना अस्ति अत्र साधुः वै दुर्जन-ईरितैः । दुरक्तैः भिन्नम् आत्मानम् यः समाधातुम् ईश्वरः ।
bārhaspatya sa nā asti atra sādhuḥ vai durjana-īritaiḥ . duraktaiḥ bhinnam ātmānam yaḥ samādhātum īśvaraḥ .
न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः । यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ३ ।
न तथा तप्यते विद्धः पुमान् बाणैः तु मर्म-गैः । यथा तुदन्ति मर्म-स्थाः हि असताम् परुष-इषवः ।
na tathā tapyate viddhaḥ pumān bāṇaiḥ tu marma-gaiḥ . yathā tudanti marma-sthāḥ hi asatām paruṣa-iṣavaḥ .
कथयन्ति महत्पुण्यमितिहासमिहोद्धव । तमहं वर्णयिष्यामि निबोध सुसमाहितः ४ ।
कथयन्ति महत् पुण्यम् इतिहासम् इह उद्धव । तम् अहम् वर्णयिष्यामि निबोध सु समाहितः ।
kathayanti mahat puṇyam itihāsam iha uddhava . tam aham varṇayiṣyāmi nibodha su samāhitaḥ .
केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ५ ।
केनचिद् भिक्षुणा गीतम् परिभूतेन दुर्जनैः । स्मरता धृति-युक्तेन विपाकम् निज-कर्मणाम् ।
kenacid bhikṣuṇā gītam paribhūtena durjanaiḥ . smaratā dhṛti-yuktena vipākam nija-karmaṇām .
अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया । वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ६ ।
अवन्तिषु द्विजः कश्चिद् आसीत् आढ्यतमः श्रिया । वार्ता-वृत्तिः कदर्यः तु कामी लुब्धः अतिकोपनः ।
avantiṣu dvijaḥ kaścid āsīt āḍhyatamaḥ śriyā . vārtā-vṛttiḥ kadaryaḥ tu kāmī lubdhaḥ atikopanaḥ .
ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः । शून्यावसथ आत्मापि काले कामैरनर्चितः ७ ।
ज्ञातयः अतिथयः तस्य वाच्-मात्रेण अपि ना अर्चिताः । शून्य-आवसथः आत्मा अपि काले कामैः अनर्चितः ।
jñātayaḥ atithayaḥ tasya vāc-mātreṇa api nā arcitāḥ . śūnya-āvasathaḥ ātmā api kāle kāmaiḥ anarcitaḥ .
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः । दारा दुहितरो भृत्या विषण्णा नाचरन्प्रियम् ८ ।
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः । दाराः दुहितरः भृत्याः विषण्णाः न आचरन् प्रियम् ।
duḥśīlasya kadaryasya druhyante putra-bāndhavāḥ . dārāḥ duhitaraḥ bhṛtyāḥ viṣaṇṇāḥ na ācaran priyam .
तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ९ ।
तस्य एवम् यक्ष-वित्तस्य च्युतस्य उभय-लोकतः । धर्म-काम-विहीनस्य चुक्रुधुः पञ्चभागिनः ।
tasya evam yakṣa-vittasya cyutasya ubhaya-lokataḥ . dharma-kāma-vihīnasya cukrudhuḥ pañcabhāginaḥ .
तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिद । अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः १० ।
तद्-अवध्यान-विस्रस्त पुण्य-स्कन्धस्य भूरि-द । अर्थः अपि अगच्छत् निधनम् बहु-आयास-परिश्रमः ।
tad-avadhyāna-visrasta puṇya-skandhasya bhūri-da . arthaḥ api agacchat nidhanam bahu-āyāsa-pariśramaḥ .
ज्ञात्यो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव । दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ११ ।
ज्ञात्यः जगृहुः किञ्चिद् किञ्चिद् दस्यवः उद्धव । दैवतः कालतः किञ्चिद् ब्रह्मबन्धोः नृप-अर्थिवात् ।
jñātyaḥ jagṛhuḥ kiñcid kiñcid dasyavaḥ uddhava . daivataḥ kālataḥ kiñcid brahmabandhoḥ nṛpa-arthivāt .
स एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् १२ ।
सः एवम् द्रविणे नष्टे धर्म-काम-विवर्जितः । उपेक्षितः च स्व-जनैः चिन्ताम् आप दुरत्ययाम् ।
saḥ evam draviṇe naṣṭe dharma-kāma-vivarjitaḥ . upekṣitaḥ ca sva-janaiḥ cintām āpa duratyayām .
तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः । खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् १३ ।
तस्य एवम् ध्यायतः दीर्घम् नष्ट-रायः तपस्विनः । खिद्यतः बाष्प-कण्ठस्य निर्वेदः सु महान् अभूत् ।
tasya evam dhyāyataḥ dīrgham naṣṭa-rāyaḥ tapasvinaḥ . khidyataḥ bāṣpa-kaṇṭhasya nirvedaḥ su mahān abhūt .
स चाहेदमहो कष्टं वृथात्मा मेऽनुतापितः । न धर्माय न कामाय यस्यार्थायास ईदृशः १४ ।
स च आह इदम् अहो कष्टम् वृथा आत्मा मे अनुतापितः । न धर्माय न कामाय यस्य अर्थ-आयासः ईदृशः ।
sa ca āha idam aho kaṣṭam vṛthā ātmā me anutāpitaḥ . na dharmāya na kāmāya yasya artha-āyāsaḥ īdṛśaḥ .
प्रायेणाथाः कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च १५ ।
प्रायेण अथाः कदर्याणाम् न सुखाय कदाचन । इह च आत्म-उपतापाय मृतस्य नरकाय च ।
prāyeṇa athāḥ kadaryāṇām na sukhāya kadācana . iha ca ātma-upatāpāya mṛtasya narakāya ca .
यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः । लोभः स्वल्पोऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् १६ ।
यशः यशस्विनाम् शुद्धम् श्लाघ्याः ये गुणिनाम् गुणाः । लोभः सु अल्पः अपि तान् हन्ति श्वित्रः रूपम् इव ईप्सितम् ।
yaśaḥ yaśasvinām śuddham ślāghyāḥ ye guṇinām guṇāḥ . lobhaḥ su alpaḥ api tān hanti śvitraḥ rūpam iva īpsitam .
अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् १७ ।
अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाश-उपभोगः आयासः त्रासः चिन्ता भ्रमः नृणाम् ।
arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye . nāśa-upabhogaḥ āyāsaḥ trāsaḥ cintā bhramaḥ nṛṇām .
स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च १८ ।
स्तेयम् हिंसा अनृतम् दम्भः कामः क्रोधः स्मयः मदः । भेदः वैरम् अविश्वासः संस्पर्धा व्यसनानि च ।
steyam hiṃsā anṛtam dambhaḥ kāmaḥ krodhaḥ smayaḥ madaḥ . bhedaḥ vairam aviśvāsaḥ saṃspardhā vyasanāni ca .
एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् । तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् १९ ।
एते पञ्चदश अनर्थाः हि अर्थ-मूलाः मताः नृणाम् । तस्मात् अनर्थम् अर्थ-आख्यम् श्रेयः-अर्थी दूरतस् त्यजेत् ।
ete pañcadaśa anarthāḥ hi artha-mūlāḥ matāḥ nṛṇām . tasmāt anartham artha-ākhyam śreyaḥ-arthī dūratas tyajet .
भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा । एका स्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः २० ।
भिद्यन्ते भ्रातरः दाराः पितरः सुहृदः तथा । एका स्निग्धाः काकिणिना सद्यस् सर्वे अरयः कृताः ।
bhidyante bhrātaraḥ dārāḥ pitaraḥ suhṛdaḥ tathā . ekā snigdhāḥ kākiṇinā sadyas sarve arayaḥ kṛtāḥ .
अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः । त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् २१ ।
अर्थेन अल्पीयसा हि एते संरब्धाः दीप्त-मन्यवः । त्यजन्ति आशु स्पृधः घ्नन्ति सहसा उत्सृज्य सौहृदम् ।
arthena alpīyasā hi ete saṃrabdhāḥ dīpta-manyavaḥ . tyajanti āśu spṛdhaḥ ghnanti sahasā utsṛjya sauhṛdam .
लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम् । तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् २२ ।
लब्ध्वा जन्म अमर-प्रार्थ्यम् मानुष्यम् तद्-द्विजाग्र्य-ताम् । तत् अन् आदृत्य ये स्व-अर्थम् घ्नन्ति यान्ति अशुभाम् गतिम् ।
labdhvā janma amara-prārthyam mānuṣyam tad-dvijāgrya-tām . tat an ādṛtya ye sva-artham ghnanti yānti aśubhām gatim .
स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् । द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि २३ ।
स्वर्ग-अपवर्गयोः द्वारम् प्राप्य लोकम् इमम् पुमान् । द्रविणे कः अनुषज्जेत मर्त्यः अनर्थस्य धामनि ।
svarga-apavargayoḥ dvāram prāpya lokam imam pumān . draviṇe kaḥ anuṣajjeta martyaḥ anarthasya dhāmani .
देवर्षिपितृभूतानि ज्ञातीन्बन्धूंश्च भागिनः । असंविभज्य चात्मानं यक्षवित्तः पतत्यधः २४ ।
देव-ऋषि-पितृ-भूतानि ज्ञातीन् बन्धून् च भागिनः । अ संविभज्य च आत्मानम् यक्ष-वित्तः पतति अधस् ।
deva-ṛṣi-pitṛ-bhūtāni jñātīn bandhūn ca bhāginaḥ . a saṃvibhajya ca ātmānam yakṣa-vittaḥ patati adhas .
व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठः किं नु साधये २५ ।
व्यर्थया अर्थ-ईहया वित्तम् प्रमत्तस्य वयः बलम् । कुशलाः येन सिध्यन्ति जरठः किम् नु साधये ।
vyarthayā artha-īhayā vittam pramattasya vayaḥ balam . kuśalāḥ yena sidhyanti jaraṭhaḥ kim nu sādhaye .
कस्मात्सङ्क्लिश्यते विद्वान्व्यर्थयार्थेहयासकृत् । कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः २६ ।
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थया अर्थेहया असकृत् । कस्यचिद् मायया नूनम् लोकः अयम् सु विमोहितः ।
kasmāt saṅkliśyate vidvān vyarthayā arthehayā asakṛt . kasyacid māyayā nūnam lokaḥ ayam su vimohitaḥ .
किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत । मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः २७ ।
किम् धनैः धन-दैः वा किम् कामैः वा काम-दैः उत । मृत्युना ग्रस्यमानस्य कर्मभिः वा उत जन्म-दैः ।
kim dhanaiḥ dhana-daiḥ vā kim kāmaiḥ vā kāma-daiḥ uta . mṛtyunā grasyamānasya karmabhiḥ vā uta janma-daiḥ .
नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः । येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः २८ ।
नूनम् मे भगवान् तुष्टः सर्व-देव-मयः हरिः । येन नीतः दशाम् एताम् निर्वेदः च आत्मनः प्लवः ।
nūnam me bhagavān tuṣṭaḥ sarva-deva-mayaḥ hariḥ . yena nītaḥ daśām etām nirvedaḥ ca ātmanaḥ plavaḥ .
सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः । अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि २९ ।
सः अहम् काल-अवशेषेण शोषयिष्ये अङ्गम् आत्मनः । अप्रमत्तः अखिल-स्व-अर्थे यदि स्यात् सिद्धः आत्मनि ।
saḥ aham kāla-avaśeṣeṇa śoṣayiṣye aṅgam ātmanaḥ . apramattaḥ akhila-sva-arthe yadi syāt siddhaḥ ātmani .
तत्र मामनुमोदेरन्देवास्त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ३० ।
तत्र माम् अनुमोदेरन् देवाः त्रिभुवन-ईश्वराः । मुहूर्तेन ब्रह्म-लोकम् खट्वाङ्गः समसाधयत् ।
tatra mām anumoderan devāḥ tribhuvana-īśvarāḥ . muhūrtena brahma-lokam khaṭvāṅgaḥ samasādhayat .
श्रीभगवानुवाच।
इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः । उन्मुच्य हृदयग्रन्थीन्शान्तो भिक्षुरभून्मुनिः ३१ ।
इति अभिप्रेत्य मनसा हि आवन्त्यः द्विजसत्तमः । उन्मुच्य हृदय-ग्रन्थीन् शान्तः भिक्षुः अभूत् मुनिः ।
iti abhipretya manasā hi āvantyaḥ dvijasattamaḥ . unmucya hṛdaya-granthīn śāntaḥ bhikṣuḥ abhūt muniḥ .
स चचार महीमेतां संयतात्मेन्द्रियानिलः । भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ३२ ।
स चचार महीम् एताम् संयत-आत्म-इन्द्रिय-अनिलः । भिक्षा-अर्थम् नगर-ग्रामान् असङ्गः अलक्षितः अविशत् ।
sa cacāra mahīm etām saṃyata-ātma-indriya-anilaḥ . bhikṣā-artham nagara-grāmān asaṅgaḥ alakṣitaḥ aviśat .
तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः । दृष्ट्वा पर्यभवन्भद्र बह्वीभिः परिभूतिभिः ३३ ।
तम् वै प्रवयसम् भिक्षुम् अवधूतम् असत्-जनाः । दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ।
tam vai pravayasam bhikṣum avadhūtam asat-janāḥ . dṛṣṭvā paryabhavan bhadra bahvībhiḥ paribhūtibhiḥ .
केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् । पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ३४ ।
केचिद् त्रिवेणुम् जगृहुः एके पात्रम् कमण्डलुम् । पीठम् च एके अक्ष-सूत्रम् च कन्थाम् चीराणि केचन । प्रदाय च पुनर् तानि दर्शितानि आददुः मुनेः ।
kecid triveṇum jagṛhuḥ eke pātram kamaṇḍalum . pīṭham ca eke akṣa-sūtram ca kanthām cīrāṇi kecana . pradāya ca punar tāni darśitāni ādaduḥ muneḥ .
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि ३५ ।
अन्नम् च भैक्ष्य-सम्पन्नम् भुञ्जानस्य सरित्-तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्ति अस्य च मूर्धनि ।
annam ca bhaikṣya-sampannam bhuñjānasya sarit-taṭe . mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanti asya ca mūrdhani .
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् । तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः । बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ३६ ।
यत-वाचम् वाचयन्ति ताडयन्ति न वक्ति चेद् । तर्जयन्ति अपरे वाग्भिः स्तेनः अयम् इति वादिनः । बध्नन्ति रज्ज्वा तम् केचिद् बध्यताम् बध्यताम् इति ।
yata-vācam vācayanti tāḍayanti na vakti ced . tarjayanti apare vāgbhiḥ stenaḥ ayam iti vādinaḥ . badhnanti rajjvā tam kecid badhyatām badhyatām iti .
क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः । क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ३७ ।
क्षिपन्ति एके अवजानन्तः एष धर्म-ध्वजः शठः । क्षीण-वित्तः इमाम् वृत्तिम् अग्रहीत् स्व-जन-उज्झितः ।
kṣipanti eke avajānantaḥ eṣa dharma-dhvajaḥ śaṭhaḥ . kṣīṇa-vittaḥ imām vṛttim agrahīt sva-jana-ujjhitaḥ .
अहो एष महासारो धृतिमान्गिरिराडिव । मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ३८ ।
अहो एष महा-सारः धृतिमान् गिरि-राज् इव । मौनेन साधयति अर्थम् बक-वत् दृढ-निश्चयः ।
aho eṣa mahā-sāraḥ dhṛtimān giri-rāj iva . maunena sādhayati artham baka-vat dṛḍha-niścayaḥ .
इत्येके विहसन्त्येनमेके दुर्वातयन्ति च । तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ३९ ।
इति एके विहसन्ति एनम् एके दुर्वातयन्ति च । तम् बबन्धुः निरुरुधुः यथा क्रीडनकम् द्विजम् ।
iti eke vihasanti enam eke durvātayanti ca . tam babandhuḥ nirurudhuḥ yathā krīḍanakam dvijam .
एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ४० ।
एवम् स भौतिकम् दुःखम् दैविकम् दैहिकम् च यत् । भोक्तव्यम् आत्मनः दिष्टम् प्राप्तम् प्राप्तम् अबुध्यत ।
evam sa bhautikam duḥkham daivikam daihikam ca yat . bhoktavyam ātmanaḥ diṣṭam prāptam prāptam abudhyata .
परिभूत इमां गाथामगायत नराधमैः । पातयद्भिः स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् ४१ ।
परिभूतः इमाम् गाथाम् अगायत नर-अधमैः । पातयद्भिः धर्म-स्थः धृतिम् आस्थाय सात्त्विकीम् ।
paribhūtaḥ imām gāthām agāyata nara-adhamaiḥ . pātayadbhiḥ dharma-sthaḥ dhṛtim āsthāya sāttvikīm .
द्विज उवाच।
नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ४२ ।
न अयम् जनः मे सुख-दुःख-हेतुः न देवता-आत्मा ग्रह-कर्म-कालाः । मनः परम् कारणम् आमनन्ति संसार-चक्रम् परिवर्तयेत् यत् ।
na ayam janaḥ me sukha-duḥkha-hetuḥ na devatā-ātmā graha-karma-kālāḥ . manaḥ param kāraṇam āmananti saṃsāra-cakram parivartayet yat .
मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ४३ ।
मनः गुणान् वै सृजते बलीयः ततस् च कर्माणि विलक्षणानि । शुक्लानि कृष्णानि अथ लोहितानि तेभ्यः सवर्णाः सृतयः भवन्ति ।
manaḥ guṇān vai sṛjate balīyaḥ tatas ca karmāṇi vilakṣaṇāni . śuklāni kṛṣṇāni atha lohitāni tebhyaḥ savarṇāḥ sṛtayaḥ bhavanti .
अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामान्जुषन्निबद्धो गुणसङ्गतोऽसौ ४४ ।
अनीहः आत्मा मनसा समीहता हिरण्मयः मद्-सखः उद्विचष्टे । मनः स्व-लिङ्गम् परिगृह्य कामान् जुषन् निबद्धः गुण-सङ्गतः असौ ।
anīhaḥ ātmā manasā samīhatā hiraṇmayaḥ mad-sakhaḥ udvicaṣṭe . manaḥ sva-liṅgam parigṛhya kāmān juṣan nibaddhaḥ guṇa-saṅgataḥ asau .
दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ४५ ।
दानम् स्वधर्मः नियमः यमः च श्रुतम् च कर्माणि च सत्-व्रतानि । सर्वे मनः-निग्रह-लक्षण-अन्ताः परः हि योगः मनसः समाधिः ।
dānam svadharmaḥ niyamaḥ yamaḥ ca śrutam ca karmāṇi ca sat-vratāni . sarve manaḥ-nigraha-lakṣaṇa-antāḥ paraḥ hi yogaḥ manasaḥ samādhiḥ .
समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद्दानादिभिश्चेदपरं किमेभिः ४६ ।
समाहितम् यस्य मनः प्रशान्तम् दान-आदिभिः किम् वद तस्य कृत्यम् । असंयतम् यस्य मनः विनश्यत् दान-आदिभिः चेद् अपरम् किम् एभिः ।
samāhitam yasya manaḥ praśāntam dāna-ādibhiḥ kim vada tasya kṛtyam . asaṃyatam yasya manaḥ vinaśyat dāna-ādibhiḥ ced aparam kim ebhiḥ .
मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ४७ ।
मनः-वशे अन्ये हि अभवन् स्म देवाः मनः च न अन्यस्य वशम् समेति । भीष्मः हि देवः सहसः सहीयान् युञ्ज्यात् वशे तम् स हि देवदेवः ।
manaḥ-vaśe anye hi abhavan sma devāḥ manaḥ ca na anyasya vaśam sameti . bhīṣmaḥ hi devaḥ sahasaḥ sahīyān yuñjyāt vaśe tam sa hi devadevaḥ .
तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ४८ ।
तम् दुर्जयम् शत्रुम् असह्य-वेगम् अरुन्तुदम् तत् न विजित्य केचिद् । कुर्वन्ति असत्-विग्रहम् अत्र मर्त्यैः मित्राणि उदासीन-रिपून् विमूढाः ।
tam durjayam śatrum asahya-vegam aruntudam tat na vijitya kecid . kurvanti asat-vigraham atra martyaiḥ mitrāṇi udāsīna-ripūn vimūḍhāḥ .
देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ४९ ।
देहम् मनः-मात्रम् इमम् गृहीत्वा मम अहम् इति अन्ध-धियः मनुष्याः । एषः अहम् अन्यः अयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति ।
deham manaḥ-mātram imam gṛhītvā mama aham iti andha-dhiyaḥ manuṣyāḥ . eṣaḥ aham anyaḥ ayam iti bhrameṇa duranta-pāre tamasi bhramanti .
जनस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ५० ।
जनः तु हेतुः सुख-दुःखयोः चेद् किम् आत्मनः च अत्र हि भौमयोः तत् । जिह्वाम् क्वचिद् सन्दशति स्वदद्भिः तद्-वेदनायाम् कतमाय कुप्येत् ।
janaḥ tu hetuḥ sukha-duḥkhayoḥ ced kim ātmanaḥ ca atra hi bhaumayoḥ tat . jihvām kvacid sandaśati svadadbhiḥ tad-vedanāyām katamāya kupyet .
दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे ५१ ।
दुःखस्य हेतुः यदि देवता अस्तु किम् आत्मनः तत्र विकारयोः तत् । यत् अङ्गम् अङ्गेन निहन्यते क्वचिद् क्रुध्येत कस्मै पुरुषः स्व-देहे ।
duḥkhasya hetuḥ yadi devatā astu kim ātmanaḥ tatra vikārayoḥ tat . yat aṅgam aṅgena nihanyate kvacid krudhyeta kasmai puruṣaḥ sva-dehe .
आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः । न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्क्रुध्येत कस्मान्न सुखं न दुःखम्५२ ।
आत्मा यदि स्यात् सुख-दुःख-हेतुः किम् अन्यतस् तत्र निज-स्वभावः । न हि आत्मनः अन्यत् यदि तत् मृषा स्यात् क्रुध्येत कस्मात् न सुखम् न दुःखम् ।
ātmā yadi syāt sukha-duḥkha-hetuḥ kim anyatas tatra nija-svabhāvaḥ . na hi ātmanaḥ anyat yadi tat mṛṣā syāt krudhyeta kasmāt na sukham na duḥkham .
ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ५३ ।
ग्रहाः निमित्तम् सुख-दुःखयोः चेद् किम् आत्मनः अजस्य जनस्य ते वै । ग्रहैः ग्रहस्य एव वदन्ति पीडाम् क्रुध्येत कस्मै पुरुषः ततस् अन्यः ।
grahāḥ nimittam sukha-duḥkhayoḥ ced kim ātmanaḥ ajasya janasya te vai . grahaiḥ grahasya eva vadanti pīḍām krudhyeta kasmai puruṣaḥ tatas anyaḥ .
कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे । देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ५४ ।
कर्म अस्तु हेतुः सुख-दुःखयोः चेद् किम् आत्मनः तत् हि जड-अ जड-त्वे । देहः तु अचित्-पुरुषः अयम् सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ।
karma astu hetuḥ sukha-duḥkhayoḥ ced kim ātmanaḥ tat hi jaḍa-a jaḍa-tve . dehaḥ tu acit-puruṣaḥ ayam suparṇaḥ krudhyeta kasmai na hi karma mūlam .
कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ५५ ।
कालः तु हेतुः सुख-दुःखयोः चेद् किम् आत्मनः तत्र तद्-आत्मकः असौ । न अग्नेः हि तापः न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ।
kālaḥ tu hetuḥ sukha-duḥkhayoḥ ced kim ātmanaḥ tatra tad-ātmakaḥ asau . na agneḥ hi tāpaḥ na himasya tat syāt krudhyeta kasmai na parasya dvandvam .
न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ५६ ।
न केनचिद् क्वापि कथञ्चन अस्य द्वन्द्व-उपरागः परतस् परस्य । यथा अहमः संसृति-रूपिणः स्यात् एवम् प्रबुद्धः न बिभेति भूतैः ।
na kenacid kvāpi kathañcana asya dvandva-uparāgaḥ paratas parasya . yathā ahamaḥ saṃsṛti-rūpiṇaḥ syāt evam prabuddhaḥ na bibheti bhūtaiḥ .
एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ५७ ।
एताम् सः आस्थाय परात्म-निष्ठाम् अध्यासिताम् पूर्वतमैः महा-ऋषिभिः । अहम् तरिष्यामि दुरन्त-पारम् तमः मुकुन्द-अङ्घ्रि-निषेवया एव ।
etām saḥ āsthāya parātma-niṣṭhām adhyāsitām pūrvatamaiḥ mahā-ṛṣibhiḥ . aham tariṣyāmi duranta-pāram tamaḥ mukunda-aṅghri-niṣevayā eva .
श्रीभगवानुवाच।
निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम् ५८ ।
निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गाम् पर्यटमानः इत्थम् । निराकृतः असद्भिः अपि स्वधर्मात् अकम्पितः अमूम् मुनिः आह गाथाम् ।
nirvidya naṣṭa-draviṇe gata-klamaḥ pravrajya gām paryaṭamānaḥ ittham . nirākṛtaḥ asadbhiḥ api svadharmāt akampitaḥ amūm muniḥ āha gāthām .
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसारस्तमसः कृतः ५९।
सुख-दुःख-प्रदः न अन्यः पुरुषस्य आत्म-विभ्रमः। मित्र-उदासीन-रिपवः संसारः तमसः कृतः।
sukha-duḥkha-pradaḥ na anyaḥ puruṣasya ātma-vibhramaḥ. mitra-udāsīna-ripavaḥ saṃsāraḥ tamasaḥ kṛtaḥ.
तस्मात्सर्वात्मना तात निगृहाण मनो धिया। मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः ६०।
तस्मात् सर्व-आत्मना तात निगृहाण मनः धिया। मयि आवेशितया युक्तः एतावान् योग-सङ्ग्रहः।
tasmāt sarva-ātmanā tāta nigṛhāṇa manaḥ dhiyā. mayi āveśitayā yuktaḥ etāvān yoga-saṅgrahaḥ.
य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः। धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ६१।
यः एताम् भिक्षुणा गीताम् ब्रह्म-निष्ठाम् समाहितः। धारयन् श्रावयन् शृण्वन् द्वन्द्वैः न एव अभिभूयते।
yaḥ etām bhikṣuṇā gītām brahma-niṣṭhām samāhitaḥ. dhārayan śrāvayan śṛṇvan dvandvaiḥ na eva abhibhūyate.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे त्रयोविंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe trayoviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In