| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीबादरायणिरुवाच।
स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन्भृत्यवचो मुकुन्दस्तमाबभाषे श्रवणीयवीर्यः १ ।
sa evamāśaṃsita uddhavena bhāgavatamukhyena dāśārhamukhyaḥ . sabhājayanbhṛtyavaco mukundastamābabhāṣe śravaṇīyavīryaḥ 1 .
श्रीभगवानुवाच।
बार्हस्पत्य स नास्त्यत्र साधुर्वै दुर्जनेरितैः । दुरक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः २ ।
bārhaspatya sa nāstyatra sādhurvai durjaneritaiḥ . duraktairbhinnamātmānaṃ yaḥ samādhātumīśvaraḥ 2 .
न तथा तप्यते विद्धः पुमान्बाणैस्तु मर्मगैः । यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ३ ।
na tathā tapyate viddhaḥ pumānbāṇaistu marmagaiḥ . yathā tudanti marmasthā hyasatāṃ paruṣeṣavaḥ 3 .
कथयन्ति महत्पुण्यमितिहासमिहोद्धव । तमहं वर्णयिष्यामि निबोध सुसमाहितः ४ ।
kathayanti mahatpuṇyamitihāsamihoddhava . tamahaṃ varṇayiṣyāmi nibodha susamāhitaḥ 4 .
केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ५ ।
kenacidbhikṣuṇā gītaṃ paribhūtena durjanaiḥ . smaratā dhṛtiyuktena vipākaṃ nijakarmaṇām 5 .
अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया । वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ६ ।
avantiṣu dvijaḥ kaścidāsīdāḍhyatamaḥ śriyā . vārtāvṛttiḥ kadaryastu kāmī lubdho'tikopanaḥ 6 .
ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः । शून्यावसथ आत्मापि काले कामैरनर्चितः ७ ।
jñātayo'tithayastasya vāṅmātreṇāpi nārcitāḥ . śūnyāvasatha ātmāpi kāle kāmairanarcitaḥ 7 .
दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः । दारा दुहितरो भृत्या विषण्णा नाचरन्प्रियम् ८ ।
duḥśīlasya kadaryasya druhyante putrabāndhavāḥ . dārā duhitaro bhṛtyā viṣaṇṇā nācaranpriyam 8 .
तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ९ ।
tasyaivaṃ yakṣavittasya cyutasyobhayalokataḥ . dharmakāmavihīnasya cukrudhuḥ pañcabhāginaḥ 9 .
तदवध्यानविस्रस्त पुण्यस्कन्धस्य भूरिद । अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः १० ।
tadavadhyānavisrasta puṇyaskandhasya bhūrida . artho'pyagacchannidhanaṃ bahvāyāsapariśramaḥ 10 .
ज्ञात्यो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव । दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ११ ।
jñātyo jagṛhuḥ kiñcitkiñciddasyava uddhava . daivataḥ kālataḥ kiñcidbrahmabandhornṛpārthivāt 11 .
स एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् १२ ।
sa evaṃ draviṇe naṣṭe dharmakāmavivarjitaḥ . upekṣitaśca svajanaiścintāmāpa duratyayām 12 .
तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः । खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् १३ ।
tasyaivaṃ dhyāyato dīrghaṃ naṣṭarāyastapasvinaḥ . khidyato bāṣpakaṇṭhasya nirvedaḥ sumahānabhūt 13 .
स चाहेदमहो कष्टं वृथात्मा मेऽनुतापितः । न धर्माय न कामाय यस्यार्थायास ईदृशः १४ ।
sa cāhedamaho kaṣṭaṃ vṛthātmā me'nutāpitaḥ . na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ 14 .
प्रायेणाथाः कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च १५ ।
prāyeṇāthāḥ kadaryāṇāṃ na sukhāya kadācana . iha cātmopatāpāya mṛtasya narakāya ca 15 .
यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः । लोभः स्वल्पोऽपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् १६ ।
yaśo yaśasvināṃ śuddhaṃ ślāghyā ye guṇināṃ guṇāḥ . lobhaḥ svalpo'pi tānhanti śvitro rūpamivepsitam 16 .
अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् १७ ।
arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye . nāśopabhoga āyāsastrāsaścintā bhramo nṛṇām 17 .
स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च १८ ।
steyaṃ hiṃsānṛtaṃ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ . bhedo vairamaviśvāsaḥ saṃspardhā vyasanāni ca 18 .
एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् । तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् १९ ।
ete pañcadaśānarthā hyarthamūlā matā nṛṇām . tasmādanarthamarthākhyaṃ śreyo'rthī dūratastyajet 19 .
भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा । एका स्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः २० ।
bhidyante bhrātaro dārāḥ pitaraḥ suhṛdastathā . ekā snigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ 20 .
अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः । त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् २१ ।
arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ . tyajantyāśu spṛdho ghnanti sahasotsṛjya sauhṛdam 21 .
लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम् । तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् २२ ।
labdhvā janmāmaraprārthyaṃ mānuṣyaṃ taddvijāgryatām . tadanādṛtya ye svārthaṃ ghnanti yāntyaśubhāṃ gatim 22 .
स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् । द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि २३ ।
svargāpavargayordvāraṃ prāpya lokamimaṃ pumān . draviṇe ko'nuṣajjeta martyo'narthasya dhāmani 23 .
देवर्षिपितृभूतानि ज्ञातीन्बन्धूंश्च भागिनः । असंविभज्य चात्मानं यक्षवित्तः पतत्यधः २४ ।
devarṣipitṛbhūtāni jñātīnbandhūṃśca bhāginaḥ . asaṃvibhajya cātmānaṃ yakṣavittaḥ patatyadhaḥ 24 .
व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठः किं नु साधये २५ ।
vyarthayārthehayā vittaṃ pramattasya vayo balam . kuśalā yena sidhyanti jaraṭhaḥ kiṃ nu sādhaye 25 .
कस्मात्सङ्क्लिश्यते विद्वान्व्यर्थयार्थेहयासकृत् । कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः २६ ।
kasmātsaṅkliśyate vidvānvyarthayārthehayāsakṛt . kasyacinmāyayā nūnaṃ loko'yaṃ suvimohitaḥ 26 .
किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत । मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः २७ ।
kiṃ dhanairdhanadairvā kiṃ kāmairvā kāmadairuta . mṛtyunā grasyamānasya karmabhirvota janmadaiḥ 27 .
नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः । येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः २८ ।
nūnaṃ me bhagavāṃstuṣṭaḥ sarvadevamayo hariḥ . yena nīto daśāmetāṃ nirvedaścātmanaḥ plavaḥ 28 .
सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः । अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि २९ ।
so'haṃ kālāvaśeṣeṇa śoṣayiṣye'ṅgamātmanaḥ . apramatto'khilasvārthe yadi syātsiddha ātmani 29 .
तत्र मामनुमोदेरन्देवास्त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ३० ।
tatra māmanumoderandevāstribhuvaneśvarāḥ . muhūrtena brahmalokaṃ khaṭvāṅgaḥ samasādhayat 30 .
श्रीभगवानुवाच।
इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः । उन्मुच्य हृदयग्रन्थीन्शान्तो भिक्षुरभून्मुनिः ३१ ।
ityabhipretya manasā hyāvantyo dvijasattamaḥ . unmucya hṛdayagranthīnśānto bhikṣurabhūnmuniḥ 31 .
स चचार महीमेतां संयतात्मेन्द्रियानिलः । भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ३२ ।
sa cacāra mahīmetāṃ saṃyatātmendriyānilaḥ . bhikṣārthaṃ nagaragrāmānasaṅgo'lakṣito'viśat 32 .
तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः । दृष्ट्वा पर्यभवन्भद्र बह्वीभिः परिभूतिभिः ३३ ।
taṃ vai pravayasaṃ bhikṣumavadhūtamasajjanāḥ . dṛṣṭvā paryabhavanbhadra bahvībhiḥ paribhūtibhiḥ 33 .
केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् । पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ३४ ।
kecittriveṇuṃ jagṛhureke pātraṃ kamaṇḍalum . pīṭhaṃ caike'kṣasūtraṃ ca kanthāṃ cīrāṇi kecana . pradāya ca punastāni darśitānyādadurmuneḥ 34 .
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि ३५ ।
annaṃ ca bhaikṣyasampannaṃ bhuñjānasya sarittaṭe . mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvantyasya ca mūrdhani 35 .
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् । तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः । बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ३६ ।
yatavācaṃ vācayanti tāḍayanti na vakti cet . tarjayantyapare vāgbhiḥ steno'yamiti vādinaḥ . badhnanti rajjvā taṃ kecidbadhyatāṃ badhyatāmiti 36 .
क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः । क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ३७ ।
kṣipantyeke'vajānanta eṣa dharmadhvajaḥ śaṭhaḥ . kṣīṇavitta imāṃ vṛttimagrahītsvajanojjhitaḥ 37 .
अहो एष महासारो धृतिमान्गिरिराडिव । मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ३८ ।
aho eṣa mahāsāro dhṛtimāngirirāḍiva . maunena sādhayatyarthaṃ bakavaddṛḍhaniścayaḥ 38 .
इत्येके विहसन्त्येनमेके दुर्वातयन्ति च । तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ३९ ।
ityeke vihasantyenameke durvātayanti ca . taṃ babandhurnirurudhuryathā krīḍanakaṃ dvijam 39 .
एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ४० ।
evaṃ sa bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ ca yat . bhoktavyamātmano diṣṭaṃ prāptaṃ prāptamabudhyata 40 .
परिभूत इमां गाथामगायत नराधमैः । पातयद्भिः स्व धर्मस्थो धृतिमास्थाय सात्त्विकीम् ४१ ।
paribhūta imāṃ gāthāmagāyata narādhamaiḥ . pātayadbhiḥ sva dharmastho dhṛtimāsthāya sāttvikīm 41 .
द्विज उवाच।
नायं जनो मे सुखदुःखहेतुर्न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ४२ ।
nāyaṃ jano me sukhaduḥkhaheturna devatātmā grahakarmakālāḥ . manaḥ paraṃ kāraṇamāmananti saṃsāracakraṃ parivartayedyat 42 .
मनो गुणान्वै सृजते बलीयस्ततश्च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ४३ ।
mano guṇānvai sṛjate balīyastataśca karmāṇi vilakṣaṇāni . śuklāni kṛṣṇānyatha lohitāni tebhyaḥ savarṇāḥ sṛtayo bhavanti 43 .
अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामान्जुषन्निबद्धो गुणसङ्गतोऽसौ ४४ ।
anīha ātmā manasā samīhatā hiraṇmayo matsakha udvicaṣṭe . manaḥ svaliṅgaṃ parigṛhya kāmānjuṣannibaddho guṇasaṅgato'sau 44 .
दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ४५ ।
dānaṃ svadharmo niyamo yamaśca śrutaṃ ca karmāṇi ca sadvratāni . sarve manonigrahalakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ 45 .
समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद्दानादिभिश्चेदपरं किमेभिः ४६ ।
samāhitaṃ yasya manaḥ praśāntaṃ dānādibhiḥ kiṃ vada tasya kṛtyam . asaṃyataṃ yasya mano vinaśyaddānādibhiścedaparaṃ kimebhiḥ 46 .
मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ४७ ।
manovaśe'nye hyabhavansma devā manaśca nānyasya vaśaṃ sameti . bhīṣmo hi devaḥ sahasaḥ sahīyānyuñjyādvaśe taṃ sa hi devadevaḥ 47 .
तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ४८ ।
taṃ durjayaṃ śatrumasahyavegamaruntudaṃ tanna vijitya kecit . kurvantyasadvigrahamatra martyairmitrāṇyudāsīnaripūnvimūḍhāḥ 48 .
देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ४९ ।
dehaṃ manomātramimaṃ gṛhītvā mamāhamityandhadhiyo manuṣyāḥ . eṣo'hamanyo'yamiti bhrameṇa durantapāre tamasi bhramanti 49 .
जनस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित्सन्दशति स्वदद्भिस्तद्वेदनायां कतमाय कुप्येत् ५० ।
janastu hetuḥ sukhaduḥkhayoścetkimātmanaścātra hi bhaumayostat . jihvāṃ kvacitsandaśati svadadbhistadvedanāyāṃ katamāya kupyet 50 .
दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्वचित्क्रुध्येत कस्मै पुरुषः स्वदेहे ५१ ।
duḥkhasya heturyadi devatāstu kimātmanastatra vikārayostat . yadaṅgamaṅgena nihanyate kvacitkrudhyeta kasmai puruṣaḥ svadehe 51 .
आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः । न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्क्रुध्येत कस्मान्न सुखं न दुःखम्५२ ।
ātmā yadi syātsukhaduḥkhahetuḥ kimanyatastatra nijasvabhāvaḥ . na hyātmano'nyadyadi tanmṛṣā syātkrudhyeta kasmānna sukhaṃ na duḥkham52 .
ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ५३ ।
grahā nimittaṃ sukhaduḥkhayoścetkimātmano'jasya janasya te vai . grahairgrahasyaiva vadanti pīḍāṃ krudhyeta kasmai puruṣastato'nyaḥ 53 .
कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे । देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ५४ ।
karmāstu hetuḥ sukhaduḥkhayoścetkimātmanastaddhi jaḍājaḍatve . dehastvacitpuruṣo'yaṃ suparṇaḥ krudhyeta kasmai na hi karma mūlam 54 .
कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ५५ ।
kālastu hetuḥ sukhaduḥkhayoścetkimātmanastatra tadātmako'sau . nāgnerhi tāpo na himasya tatsyātkrudhyeta kasmai na parasya dvandvam 55 .
न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः ५६ ।
na kenacitkvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya . yathāhamaḥ saṃsṛtirūpiṇaḥ syādevaṃ prabuddho na bibheti bhūtaiḥ 56 .
एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ५७ ।
etāṃ sa āsthāya parātmaniṣṭhāmadhyāsitāṃ pūrvatamairmaharṣibhiḥ . ahaṃ tariṣyāmi durantapāraṃ tamo mukundāṅghriniṣevayaiva 57 .
श्रीभगवानुवाच।
निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम् ५८ ।
nirvidya naṣṭadraviṇe gataklamaḥ pravrajya gāṃ paryaṭamāna ittham . nirākṛto'sadbhirapi svadharmādakampito'mūṃ munirāha gāthām 58 .
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसारस्तमसः कृतः ५९।
sukhaduḥkhaprado nānyaḥ puruṣasyātmavibhramaḥ. mitrodāsīnaripavaḥ saṃsārastamasaḥ kṛtaḥ 59.
तस्मात्सर्वात्मना तात निगृहाण मनो धिया। मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः ६०।
tasmātsarvātmanā tāta nigṛhāṇa mano dhiyā. mayyāveśitayā yukta etāvānyogasaṅgrahaḥ 60.
य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः। धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते ६१।
ya etāṃ bhikṣuṇā gītāṃ brahmaniṣṭhāṃ samāhitaḥ. dhārayañchrāvayañchṛṇvandvandvairnaivābhibhūyate 61.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe trayoviṃśo'dhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In