| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
गुणानामसम्मिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्येदमुपधारय शंसतः १ ।
गुणानाम् असम्मिश्राणाम् पुमान् येन यथा भवेत् । तत् मे पुरुष-वर्य इदम् उपधारय शंसतः ।
guṇānām asammiśrāṇām pumān yena yathā bhavet . tat me puruṣa-varya idam upadhāraya śaṃsataḥ .
शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः २ ।
शमः दमः तितिक्षा ईक्षा तपः सत्यम् दया स्मृतिः । तुष्टिः त्यागः अस्पृहा श्रद्धा ह्रीः दया-आदिः स्व-निर्वृतिः ।
śamaḥ damaḥ titikṣā īkṣā tapaḥ satyam dayā smṛtiḥ . tuṣṭiḥ tyāgaḥ aspṛhā śraddhā hrīḥ dayā-ādiḥ sva-nirvṛtiḥ .
काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् । मदोत्साहो यशःप्रीतिर्हास्यं वीर्यं बलोद्यमः ३ ।
कामः ईहा मदः तृष्णा स्तम्भः आशीः भिदा सुखम् । मद-उत्साहः यशः-प्रीतिः हास्यम् वीर्यम् बल-उद्यमः ।
kāmaḥ īhā madaḥ tṛṣṇā stambhaḥ āśīḥ bhidā sukham . mada-utsāhaḥ yaśaḥ-prītiḥ hāsyam vīryam bala-udyamaḥ .
क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्राशा भीरनुद्यमः ४ ।
क्रोधः लोभः अनृतम् हिंसा याच्ञा दम्भः क्लमः कलिः । शोक-मोहौ विषाद-आर्ती निद्रा-आशा भी अनुद्यमः ।
krodhaḥ lobhaḥ anṛtam hiṃsā yācñā dambhaḥ klamaḥ kaliḥ . śoka-mohau viṣāda-ārtī nidrā-āśā bhī anudyamaḥ .
सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः । वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु ५ ।
सत्त्वस्य रजसः च एताः तमसः च अनुपूर्वशस् । वृत्तयः वर्णित-प्रायाः सन्निपातम् अथो शृणु ।
sattvasya rajasaḥ ca etāḥ tamasaḥ ca anupūrvaśas . vṛttayaḥ varṇita-prāyāḥ sannipātam atho śṛṇu .
सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः । व्यवहारः सन्निपातो मनोमात्रेन्द्रि यासुभिः ६ ।
सन्निपातः तु अहम् इति मम इति उद्धव या मतिः । व्यवहारः सन्निपातः मनः-मात्र-इन्द्रि यासुभिः ।
sannipātaḥ tu aham iti mama iti uddhava yā matiḥ . vyavahāraḥ sannipātaḥ manaḥ-mātra-indri yāsubhiḥ .
धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ७ ।
धर्मे च अर्थे च कामे च यदा असौ परिनिष्ठितः । गुणानाम् सन्निकर्षः अयम् श्रद्धा-रति-धन-आवहः ।
dharme ca arthe ca kāme ca yadā asau pariniṣṭhitaḥ . guṇānām sannikarṣaḥ ayam śraddhā-rati-dhana-āvahaḥ .
प्रवृत्तिलक्षणे निष्ठा पुमान्यर्हि गृहाश्रमे । स्वधर्मे चानु तिष्ठेत गुणानां समितिर्हि सा ८ ।
प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्वधर्मे च अनु तिष्ठेत गुणानाम् समितिः हि सा ।
pravṛtti-lakṣaṇe niṣṭhā pumān yarhi gṛhāśrame . svadharme ca anu tiṣṭheta guṇānām samitiḥ hi sā .
पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ९ ।
पुरुषम् सत्त्व-संयुक्तम् अनुमीयात् शम-आदिभिः । काम-आदिभिः रजः-युक्तम् क्रोध-आद्यैः तमसा युतम् ।
puruṣam sattva-saṃyuktam anumīyāt śama-ādibhiḥ . kāma-ādibhiḥ rajaḥ-yuktam krodha-ādyaiḥ tamasā yutam .
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा १० ।
यदा भजति माम् भक्त्या निरपेक्षः स्व-कर्मभिः । तम् सत्त्व-प्रकृतिम् विद्यात् पुरुषम् स्त्रियम् एव वा ।
yadā bhajati mām bhaktyā nirapekṣaḥ sva-karmabhiḥ . tam sattva-prakṛtim vidyāt puruṣam striyam eva vā .
यदा आशिष आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्याथिंसामाशास्य तामसम् ११ ।
यदा आशिषः आशास्य माम् भजेत स्व-कर्मभिः । तम् रजः-प्रकृतिम् विद्या-अथिंसाम् आशास्य तामसम् ।
yadā āśiṣaḥ āśāsya mām bhajeta sva-karmabhiḥ . tam rajaḥ-prakṛtim vidyā-athiṃsām āśāsya tāmasam .
सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे । चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते १२ ।
सत्त्वम् रजः तमः इति गुणाः जीवस्य ना एव मे । चित्त-जाः यैः तु भूतानाम् सज्जमानः निबध्यते ।
sattvam rajaḥ tamaḥ iti guṇāḥ jīvasya nā eva me . citta-jāḥ yaiḥ tu bhūtānām sajjamānaḥ nibadhyate .
यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् १३ ।
यदा इतरौ जयेत् सत्त्वम् भास्वरम् विशदम् शिवम् । तदा सुखेन युज्येत धर्म-ज्ञान-आदिभिः पुमान् ।
yadā itarau jayet sattvam bhāsvaram viśadam śivam . tadā sukhena yujyeta dharma-jñāna-ādibhiḥ pumān .
यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया १४ ।
यदा जयेत् तमः सत्त्वम् रजः सङ्गम् भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ।
yadā jayet tamaḥ sattvam rajaḥ saṅgam bhidā calam . tadā duḥkhena yujyeta karmaṇā yaśasā śriyā .
यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया १५ ।
यदा जयेत् रजः सत्त्वम् तमः मूढम् लयम् जडम् । युज्येत शोक-मोहाभ्याम् निद्रया हिंसया आशया ।
yadā jayet rajaḥ sattvam tamaḥ mūḍham layam jaḍam . yujyeta śoka-mohābhyām nidrayā hiṃsayā āśayā .
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् १६ ।
यदा चित्तम् प्रसीदेत इन्द्रियाणाम् च निर्वृतिः । देहे अभयम् मनः असङ्गम् तत् सत्त्वम् विद्धि मद्-पदम् ।
yadā cittam prasīdeta indriyāṇām ca nirvṛtiḥ . dehe abhayam manaḥ asaṅgam tat sattvam viddhi mad-padam .
विकुर्वन्क्रियया चाधीरनिवृत्तिश्च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय १७ ।
विकुर्वन् क्रियया च अधीर-निवृत्तिः च चेतसाम् । गात्र-अस्वास्थ्यम् मनः भ्रान्तम् रजः एतैः निशामय ।
vikurvan kriyayā ca adhīra-nivṛttiḥ ca cetasām . gātra-asvāsthyam manaḥ bhrāntam rajaḥ etaiḥ niśāmaya .
सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् । मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय १८ ।
सीदत् चित्तम् विलीयेत चेतसः ग्रहणे अक्षमम् । मनः नष्टम् तमः ग्लानिः तमः तत् उपधारय ।
sīdat cittam vilīyeta cetasaḥ grahaṇe akṣamam . manaḥ naṣṭam tamaḥ glāniḥ tamaḥ tat upadhāraya .
एधमाने गुणे सत्त्वे देवानां बलमेधते । असुराणां च रजसि तमस्युद्धव रक्षसाम् १९ ।
एधमाने गुणे सत्त्वे देवानाम् बलम् एधते । असुराणाम् च रजसि तमसि उद्धव रक्षसाम् ।
edhamāne guṇe sattve devānām balam edhate . asurāṇām ca rajasi tamasi uddhava rakṣasām .
सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् २० ।
सत्त्वात् जागरणम् विद्यात् रजसा स्वप्नम् आदिशेत् । प्रस्वापम् तमसा जन्तोः तुरीयम् त्रिषु सन्ततम् ।
sattvāt jāgaraṇam vidyāt rajasā svapnam ādiśet . prasvāpam tamasā jantoḥ turīyam triṣu santatam .
उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधोऽध आमुख्याद्रजसान्तरचारिणः २१ ।
उपरि उपरि गच्छन्ति सत्त्वेन ब्राह्मणाः जनाः । तमसा अधस् अधस् आमुख्यात् रजसा अन्तर-चारिणः ।
upari upari gacchanti sattvena brāhmaṇāḥ janāḥ . tamasā adhas adhas āmukhyāt rajasā antara-cāriṇaḥ .
सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः । तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः २२ ।
सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकम् रजः-लयाः । तमः-लयाः तु निरयम् यान्ति माम् एव निर्गुणाः ।
sattve pralīnāḥ svar yānti nara-lokam rajaḥ-layāḥ . tamaḥ-layāḥ tu nirayam yānti mām eva nirguṇāḥ .
मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् २३ ।
मद्-अर्पणम् निष्फलम् वा सात्त्विकम् निज-कर्म तत् । राजसम् फल-सङ्कल्पम् हिंसा-प्राय-आदि तामसम् ।
mad-arpaṇam niṣphalam vā sāttvikam nija-karma tat . rājasam phala-saṅkalpam hiṃsā-prāya-ādi tāmasam .
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् २४ ।
कैवल्यम् सात्त्विकम् ज्ञानम् रजः वैकल्पिकम् च यत् । प्राकृतम् तामसम् ज्ञानम् मन्निष्ठम् निर्गुणम् स्मृतम् ।
kaivalyam sāttvikam jñānam rajaḥ vaikalpikam ca yat . prākṛtam tāmasam jñānam manniṣṭham nirguṇam smṛtam .
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् २५ ।
वनम् तु सात्त्विकः वासः ग्रामः राजसः उच्यते । तामसम् द्यूत-सदनम् मद्-निकेतम् तु निर्गुणम् ।
vanam tu sāttvikaḥ vāsaḥ grāmaḥ rājasaḥ ucyate . tāmasam dyūta-sadanam mad-niketam tu nirguṇam .
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः २६ ।
सात्त्विकः कारकः असङ्गी राग-अन्धः राजसः स्मृतः । तामसः स्मृति-विभ्रष्टः निर्गुणः मद्-अपाश्रयः ।
sāttvikaḥ kārakaḥ asaṅgī rāga-andhaḥ rājasaḥ smṛtaḥ . tāmasaḥ smṛti-vibhraṣṭaḥ nirguṇaḥ mad-apāśrayaḥ .
सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा २७ ।
सात्त्विकी आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामसी अधर्मे या श्रद्धा मद्-सेवायाम् तु निर्गुणा ।
sāttvikī ādhyātmikī śraddhā karma-śraddhā tu rājasī . tāmasī adharme yā śraddhā mad-sevāyām tu nirguṇā .
पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रि यप्रेष्ठं तामसं चार्तिदाशुचि २८ ।
पथ्यम् पूतम् अनायस्तम् आहार्यम् सात्त्विकम् स्मृतम् । राजसम् च इन्द्रि यप्रेष्ठम् तामसम् च आर्ति-दा-अशुचि ।
pathyam pūtam anāyastam āhāryam sāttvikam smṛtam . rājasam ca indri yapreṣṭham tāmasam ca ārti-dā-aśuci .
सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् २९ ।
सात्त्विकम् सुखम् आत्म-उत्थम् विषय-उत्थम् तु राजसम् । तामसम् मोह-दैन्य-उत्थम् निर्गुणम् मद्-अपाश्रयम् ।
sāttvikam sukham ātma-uttham viṣaya-uttham tu rājasam . tāmasam moha-dainya-uttham nirguṇam mad-apāśrayam .
द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ३० ।
द्रव्यम् देशः फलम् कालः ज्ञानम् कर्म च कारकः । श्रद्धा अवस्था-आकृतिः निष्ठा त्रैगुण्यः सर्वे एव हि ।
dravyam deśaḥ phalam kālaḥ jñānam karma ca kārakaḥ . śraddhā avasthā-ākṛtiḥ niṣṭhā traiguṇyaḥ sarve eva hi .
सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः । दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ३१ ।
सर्वे गुण-मयाः भावाः पुरुष-अव्यक्त-धिष्ठिताः । दृष्टम् श्रुतम् अनुध्यातम् बुद्ध्या वा पुरुष-ऋषभ ।
sarve guṇa-mayāḥ bhāvāḥ puruṣa-avyakta-dhiṣṭhitāḥ . dṛṣṭam śrutam anudhyātam buddhyā vā puruṣa-ṛṣabha .
एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ३२ ।
एताः संसृतयः पुंसः गुण-कर्म-निबन्धनाः । येन इमे निर्जिताः सौम्य गुणाः जीवेन चित्त-जाः ।
etāḥ saṃsṛtayaḥ puṃsaḥ guṇa-karma-nibandhanāḥ . yena ime nirjitāḥ saumya guṇāḥ jīvena citta-jāḥ .
भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते । तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ३३ ।
भक्ति-योगेन मन्निष्ठः मद्-भावाय प्रपद्यते । तस्मात् देहम् इमम् लब्ध्वा ज्ञान-विज्ञान-सम्भवम् ।
bhakti-yogena manniṣṭhaḥ mad-bhāvāya prapadyate . tasmāt deham imam labdhvā jñāna-vijñāna-sambhavam .
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः । निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः ३४ ।
गुण-सङ्गम् विनिर्धूय माम् भजन्तु विचक्षणाः । निःसङ्गः माम् भजेत् विद्वान् अप्रमत्तः जित-इन्द्रियः ।
guṇa-saṅgam vinirdhūya mām bhajantu vicakṣaṇāḥ . niḥsaṅgaḥ mām bhajet vidvān apramattaḥ jita-indriyaḥ .
रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः । सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ३५ ।
रजः तमः च अभिजयेत् सत्त्व-संसेवया मुनिः । सत्त्वम् च अभिजयेत् युक्तः नैरपेक्ष्येण शान्त-धीः । सम्पद्यते गुणैः मुक्तः जीवः जीवम् विहाय माम् ।
rajaḥ tamaḥ ca abhijayet sattva-saṃsevayā muniḥ . sattvam ca abhijayet yuktaḥ nairapekṣyeṇa śānta-dhīḥ . sampadyate guṇaiḥ muktaḥ jīvaḥ jīvam vihāya mām .
जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ३६ ।
जीवः जीव-विनिर्मुक्तः गुणैः च आशय-सम्भवैः । मया एव ब्रह्मणा पूर्णः न बहिस् न अन्तरः चरेत् ।
jīvaḥ jīva-vinirmuktaḥ guṇaiḥ ca āśaya-sambhavaiḥ . mayā eva brahmaṇā pūrṇaḥ na bahis na antaraḥ caret .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चविंशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे पञ्चविंशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe pañcaviṃśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In