| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
गुणानामसम्मिश्राणां पुमान्येन यथा भवेत् । तन्मे पुरुषवर्येदमुपधारय शंसतः १ ।
guṇānāmasammiśrāṇāṃ pumānyena yathā bhavet . tanme puruṣavaryedamupadhāraya śaṃsataḥ 1 .
शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः २ ।
śamo damastitikṣekṣā tapaḥ satyaṃ dayā smṛtiḥ . tuṣṭistyāgo'spṛhā śraddhā hrīrdayādiḥ svanirvṛtiḥ 2 .
काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् । मदोत्साहो यशःप्रीतिर्हास्यं वीर्यं बलोद्यमः ३ ।
kāma īhā madastṛṣṇā stambha āśīrbhidā sukham . madotsāho yaśaḥprītirhāsyaṃ vīryaṃ balodyamaḥ 3 .
क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्राशा भीरनुद्यमः ४ ।
krodho lobho'nṛtaṃ hiṃsā yācñā dambhaḥ klamaḥ kaliḥ . śokamohau viṣādārtī nidrāśā bhīranudyamaḥ 4 .
सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः । वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु ५ ।
sattvasya rajasaścaitāstamasaścānupūrvaśaḥ . vṛttayo varṇitaprāyāḥ sannipātamatho śṛṇu 5 .
सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः । व्यवहारः सन्निपातो मनोमात्रेन्द्रि यासुभिः ६ ।
sannipātastvahamiti mametyuddhava yā matiḥ . vyavahāraḥ sannipāto manomātrendri yāsubhiḥ 6 .
धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ७ ।
dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ . guṇānāṃ sannikarṣo'yaṃ śraddhāratidhanāvahaḥ 7 .
प्रवृत्तिलक्षणे निष्ठा पुमान्यर्हि गृहाश्रमे । स्वधर्मे चानु तिष्ठेत गुणानां समितिर्हि सा ८ ।
pravṛttilakṣaṇe niṣṭhā pumānyarhi gṛhāśrame . svadharme cānu tiṣṭheta guṇānāṃ samitirhi sā 8 .
पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ९ ।
puruṣaṃ sattvasaṃyuktamanumīyācchamādibhiḥ . kāmādibhī rajoyuktaṃ krodhādyaistamasā yutam 9 .
यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा १० ।
yadā bhajati māṃ bhaktyā nirapekṣaḥ svakarmabhiḥ . taṃ sattvaprakṛtiṃ vidyātpuruṣaṃ striyameva vā 10 .
यदा आशिष आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्याथिंसामाशास्य तामसम् ११ ।
yadā āśiṣa āśāsya māṃ bhajeta svakarmabhiḥ . taṃ rajaḥprakṛtiṃ vidyāthiṃsāmāśāsya tāmasam 11 .
सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे । चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते १२ ।
sattvaṃ rajastama iti guṇā jīvasya naiva me . cittajā yaistu bhūtānāṃ sajjamāno nibadhyate 12 .
यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् १३ ।
yadetarau jayetsattvaṃ bhāsvaraṃ viśadaṃ śivam . tadā sukhena yujyeta dharmajñānādibhiḥ pumān 13 .
यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया १४ ।
yadā jayettamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā calam . tadā duḥkhena yujyeta karmaṇā yaśasā śriyā 14 .
यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया १५ ।
yadā jayedrajaḥ sattvaṃ tamo mūḍhaṃ layaṃ jaḍam . yujyeta śokamohābhyāṃ nidrayā hiṃsayāśayā 15 .
यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् १६ ।
yadā cittaṃ prasīdeta indriyāṇāṃ ca nirvṛtiḥ . dehe'bhayaṃ mano'saṅgaṃ tatsattvaṃ viddhi matpadam 16 .
विकुर्वन्क्रियया चाधीरनिवृत्तिश्च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय १७ ।
vikurvankriyayā cādhīranivṛttiśca cetasām . gātrāsvāsthyaṃ mano bhrāntaṃ raja etairniśāmaya 17 .
सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् । मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय १८ ।
sīdaccittaṃ vilīyeta cetaso grahaṇe'kṣamam . mano naṣṭaṃ tamo glānistamastadupadhāraya 18 .
एधमाने गुणे सत्त्वे देवानां बलमेधते । असुराणां च रजसि तमस्युद्धव रक्षसाम् १९ ।
edhamāne guṇe sattve devānāṃ balamedhate . asurāṇāṃ ca rajasi tamasyuddhava rakṣasām 19 .
सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् । प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् २० ।
sattvājjāgaraṇaṃ vidyādrajasā svapnamādiśet . prasvāpaṃ tamasā jantosturīyaṃ triṣu santatam 20 .
उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधोऽध आमुख्याद्रजसान्तरचारिणः २१ ।
uparyupari gacchanti sattvena brāhmaṇā janāḥ . tamasādho'dha āmukhyādrajasāntaracāriṇaḥ 21 .
सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः । तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः २२ ।
sattve pralīnāḥ svaryānti naralokaṃ rajolayāḥ . tamolayāstu nirayaṃ yānti māmeva nirguṇāḥ 22 .
मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् २३ ।
madarpaṇaṃ niṣphalaṃ vā sāttvikaṃ nijakarma tat . rājasaṃ phalasaṅkalpaṃ hiṃsāprāyādi tāmasam 23 .
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् २४ ।
kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat . prākṛtaṃ tāmasaṃ jñānaṃ manniṣṭhaṃ nirguṇaṃ smṛtam 24 .
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् २५ ।
vanaṃ tu sāttviko vāso grāmo rājasa ucyate . tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam 25 .
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः २६ ।
sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ . tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ 26 .
सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा २७ ।
sāttvikyādhyātmikī śraddhā karmaśraddhā tu rājasī . tāmasyadharme yā śraddhā matsevāyāṃ tu nirguṇā 27 .
पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रि यप्रेष्ठं तामसं चार्तिदाशुचि २८ ।
pathyaṃ pūtamanāyastamāhāryaṃ sāttvikaṃ smṛtam . rājasaṃ cendri yapreṣṭhaṃ tāmasaṃ cārtidāśuci 28 .
सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् २९ ।
sāttvikaṃ sukhamātmotthaṃ viṣayotthaṃ tu rājasam . tāmasaṃ mohadainyotthaṃ nirguṇaṃ madapāśrayam 29 .
द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ३० ।
dravyaṃ deśaḥ phalaṃ kālo jñānaṃ karma ca kārakaḥ . śraddhāvasthākṛtirniṣṭhā traiguṇyaḥ sarva eva hi 30 .
सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः । दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ३१ ।
sarve guṇamayā bhāvāḥ puruṣāvyaktadhiṣṭhitāḥ . dṛṣṭaṃ śrutamanudhyātaṃ buddhyā vā puruṣarṣabha 31 .
एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ३२ ।
etāḥ saṃsṛtayaḥ puṃso guṇakarmanibandhanāḥ . yeneme nirjitāḥ saumya guṇā jīvena cittajāḥ 32 .
भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते । तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ३३ ।
bhaktiyogena manniṣṭho madbhāvāya prapadyate . tasmāddehamimaṃ labdhvā jñānavijñānasambhavam 33 .
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः । निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः ३४ ।
guṇasaṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ . niḥsaṅgo māṃ bhajedvidvānapramatto jitendriyaḥ 34 .
रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः । सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ३५ ।
rajastamaścābhijayetsattvasaṃsevayā muniḥ . sattvaṃ cābhijayedyukto nairapekṣyeṇa śāntadhīḥ . sampadyate guṇairmukto jīvo jīvaṃ vihāya mām 35 .
जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ३६ ।
jīvo jīvavinirmukto guṇaiścāśayasambhavaiḥ . mayaiva brahmaṇā pūrṇo na bahirnāntaraścaret 36 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे पञ्चविंशोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe pañcaviṃśo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In