| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः । आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ १ ॥
मद्-लक्षणम् इमम् कायम् लब्ध्वा मद्-धर्मः आस्थितः । आनन्दम् परमात्मानम् आत्म-स्थम् समुपैति माम् ॥ १ ॥
mad-lakṣaṇam imam kāyam labdhvā mad-dharmaḥ āsthitaḥ . ānandam paramātmānam ātma-stham samupaiti mām .. 1 ..
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
गुण-मय्या जीव-योन्या विमुक्तः ज्ञान-निष्ठया । गुणेषु माया-मात्रेषु दृश्यमानेषु अवस्तुतस् । वर्तमानः अपि न पुमान् युज्यते अवस्तुभिः गुणैः ॥ २ ॥
guṇa-mayyā jīva-yonyā vimuktaḥ jñāna-niṣṭhayā . guṇeṣu māyā-mātreṣu dṛśyamāneṣu avastutas . vartamānaḥ api na pumān yujyate avastubhiḥ guṇaiḥ .. 2 ..
सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् । तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥
सङ्गम् न कुर्यात् असताम् शिश्न-उदर-तृपाम् क्वचिद् । तस्य अनुगः तमसि अन्धे पतति अन्धानुग-अन्ध-वत् ॥ ३ ॥
saṅgam na kuryāt asatām śiśna-udara-tṛpām kvacid . tasya anugaḥ tamasi andhe patati andhānuga-andha-vat .. 3 ..
ऐलः सम्राडिमां गाथाम् अगायत बृहच्छ्रवाः । उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४ ॥
ऐलः सम्राज् इमाम् गाथाम् अगायत बृहत्-श्रवाः । उर्वशी-विरहात् मुह्यन् निर्विण्णः शोक-संयमे ॥ ४ ॥
ailaḥ samrāj imām gāthām agāyata bṛhat-śravāḥ . urvaśī-virahāt muhyan nirviṇṇaḥ śoka-saṃyame .. 4 ..
त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः । विलपन् अन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ ॥
त्यक्त्वा आत्मानम् व्रजन्तीम् ताम् नग्नः उन्मत्त-वत् नृपः । विलपन् अन्वगात् जाये घोरे तिष्ठ इति विक्लवः ॥ ५ ॥
tyaktvā ātmānam vrajantīm tām nagnaḥ unmatta-vat nṛpaḥ . vilapan anvagāt jāye ghore tiṣṭha iti viklavaḥ .. 5 ..
कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यान्तीर्नायान्तीः उर्वश्याकृष्टचेतनः ॥ ६ ॥
कामान् अतृप्तः अनुजुषन् क्षुल्लकान् वर्ष-यामिनीः । न वेद यान्तीः न अ यान्तीः उर्वशी-आकृष्ट-चेतनः ॥ ६ ॥
kāmān atṛptaḥ anujuṣan kṣullakān varṣa-yāminīḥ . na veda yāntīḥ na a yāntīḥ urvaśī-ākṛṣṭa-cetanaḥ .. 6 ..
ऐल उवाच -
अहो मे मोहविस्तारः कामकश्मलचेतसः । देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ७ ॥
अहो मे मोह-विस्तारः काम-कश्मल-चेतसः । देव्याः गृहीत-कण्ठस्य न आयुः-खण्डाः इमे स्मृताः ॥ ७ ॥
aho me moha-vistāraḥ kāma-kaśmala-cetasaḥ . devyāḥ gṛhīta-kaṇṭhasya na āyuḥ-khaṇḍāḥ ime smṛtāḥ .. 7 ..
नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया । मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥
न अहम् वेद-अभिनिर्मुक्तः सूर्यः वा अभ्युदितः अमुया । मूषितः वर्ष-पूगानाम् बत अहानि गतानि उत ॥ ८ ॥
na aham veda-abhinirmuktaḥ sūryaḥ vā abhyuditaḥ amuyā . mūṣitaḥ varṣa-pūgānām bata ahāni gatāni uta .. 8 ..
अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः । क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ ॥
अहो मे आत्म-सम्मोहः येन आत्मा योषिताम् कृतः । ॥ ९ ॥
aho me ātma-sammohaḥ yena ātmā yoṣitām kṛtaḥ . .. 9 ..
सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् । यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥
स परिच्छदम् आत्मानम् हित्वा तृणम् इव ईश्वरम् । यान्तीम् स्त्रियम् च अन्वगमम् नग्नः उन्मत्त-वत् रुदन् ॥ १० ॥
sa paricchadam ātmānam hitvā tṛṇam iva īśvaram . yāntīm striyam ca anvagamam nagnaḥ unmatta-vat rudan .. 10 ..
कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा । योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११ ॥
कुतस् तस्य अनुभावः स्यात् तेजः ईश-त्वम् एव वा । यः अन्वगच्छम् स्त्रियम् यान्तीम् खर-वत् पाद-ताडितः ॥ ११ ॥
kutas tasya anubhāvaḥ syāt tejaḥ īśa-tvam eva vā . yaḥ anvagaccham striyam yāntīm khara-vat pāda-tāḍitaḥ .. 11 ..
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥
किम् विद्यया किम् तपसा किम् त्यागेन श्रुतेन वा । किम् विविक्तेन मौनेन स्त्रीभिः यस्य मनः हृतम् ॥ १२ ॥
kim vidyayā kim tapasā kim tyāgena śrutena vā . kim viviktena maunena strībhiḥ yasya manaḥ hṛtam .. 12 ..
स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् । योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ ॥
स्व-अर्थस्य अकोविदम् धिक् माम् मूर्खम् पण्डित-मानिनम् । यः अहम् ईश्वर-ताम् प्राप्य स्त्रीभिः गो-खर-वत् जितः ॥ १३ ॥
sva-arthasya akovidam dhik mām mūrkham paṇḍita-māninam . yaḥ aham īśvara-tām prāpya strībhiḥ go-khara-vat jitaḥ .. 13 ..
सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् । न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ ॥
सेवतः वर्ष-पूगान् मे उर्वश्याः अधरासवम् । न तृप्यति आत्मभूः कामः वह्निः आहुतिभिः यथा ॥ १४ ॥
sevataḥ varṣa-pūgān me urvaśyāḥ adharāsavam . na tṛpyati ātmabhūḥ kāmaḥ vahniḥ āhutibhiḥ yathā .. 14 ..
पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः । आत्मारामेश्वरमृते भगवन्तम् अधोक्षजम् ॥ १५ ॥
पुंश्चल्या अपहृतम् चित्तम् कः नु अन्यः मोचितुम् प्रभुः । आत्म-आराम-ईश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ १५ ॥
puṃścalyā apahṛtam cittam kaḥ nu anyaḥ mocitum prabhuḥ . ātma-ārāma-īśvaram ṛte bhagavantam adhokṣajam .. 15 ..
बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतो महामोहो नापयात्यजितात्मनः ॥ १६ ॥
बोधितस्य अपि देव्या मे सूक्त-वाक्येन दुर्मतेः । मनः-गतः महा-मोहः न अपयाति अजितात्मनः ॥ १६ ॥
bodhitasya api devyā me sūkta-vākyena durmateḥ . manaḥ-gataḥ mahā-mohaḥ na apayāti ajitātmanaḥ .. 16 ..
किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः । रज्जु स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ ॥
किम् एतया नः अपकृतम् रज्ज्वा वा सर्प-चेतसः । रज्जु स्व-रूप-अ विदुषः यः अहम् यत् अजित-इन्द्रियः ॥ १७ ॥
kim etayā naḥ apakṛtam rajjvā vā sarpa-cetasaḥ . rajju sva-rūpa-a viduṣaḥ yaḥ aham yat ajita-indriyaḥ .. 17 ..
क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः । क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ ॥
क्व अयम् मलीमसः कायः दौर्गन्ध्य-आदि-आत्मकः अशुचिः । क्व गुणाः सौमनस्य-आद्याः हि अध्यासः अविद्यया कृतः ॥ १८ ॥
kva ayam malīmasaḥ kāyaḥ daurgandhya-ādi-ātmakaḥ aśuciḥ . kva guṇāḥ saumanasya-ādyāḥ hi adhyāsaḥ avidyayā kṛtaḥ .. 18 ..
पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः । किमात्मनः किं सुहृदां इति यो नावसीयते ॥ १९ ॥
पित्रोः किम् स्वम् नु भार्यायाः स्वामिनः अग्नेः श्व-गृध्रयोः । किम् आत्मनः किम् सुहृदाम् इति यः न अवसीयते ॥ १९ ॥
pitroḥ kim svam nu bhāryāyāḥ svāminaḥ agneḥ śva-gṛdhrayoḥ . kim ātmanaḥ kim suhṛdām iti yaḥ na avasīyate .. 19 ..
तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥
तस्मिन् कलेवरे अमेध्ये तुच्छ-निष्ठे विषज्जते । अहो सु भद्रम् सु नसम् सु स्मितम् च मुखम् स्त्रियः ॥ २० ॥
tasmin kalevare amedhye tuccha-niṣṭhe viṣajjate . aho su bhadram su nasam su smitam ca mukham striyaḥ .. 20 ..
त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ । विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥
त्वक्-मांस-रुधिर-स्नायु मेदः-मज्ज-अस्थि-संहतौ । विष्-मूत्र-पूये रमताम् कृमीणाम् कियत् अन्तरम् ॥ २१ ॥
tvak-māṃsa-rudhira-snāyu medaḥ-majja-asthi-saṃhatau . viṣ-mūtra-pūye ramatām kṛmīṇām kiyat antaram .. 21 ..
अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् । विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ २२ ॥
अथ अपि न उपसज्जेत स्त्रीषु स्त्रैणेषु च अर्थ-विद् । विषय-इन्द्रिय-संयोगात् मनः क्षुभ्यति न अन्यथा ॥ २२ ॥
atha api na upasajjeta strīṣu straiṇeṣu ca artha-vid . viṣaya-indriya-saṃyogāt manaḥ kṣubhyati na anyathā .. 22 ..
अदृष्टाद् अश्रुताद्भावात् न भाव उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ ॥
अ दृष्टात् अ श्रुतात् भावात् न भावः उपजायते । अ सम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितम् मनः ॥ २३ ॥
a dṛṣṭāt a śrutāt bhāvāt na bhāvaḥ upajāyate . a samprayuñjataḥ prāṇān śāmyati stimitam manaḥ .. 23 ..
तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः । विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ ॥
तस्मात् सङ्गः न कर्तव्यः स्त्रीषु स्त्रैणेषु च इन्द्रियैः । विदुषाम् च अपि अविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ ॥
tasmāt saṅgaḥ na kartavyaḥ strīṣu straiṇeṣu ca indriyaiḥ . viduṣām ca api avisrabdhaḥ ṣaḍvargaḥ kimu mādṛśām .. 24 ..
श्रीभगवानुवाच - ( मिश्र )
एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय । आत्मानमात्मन्यवगम्य मां वै उपारमत् ज्ञानविधूतमोहः ॥ २५ ॥
एवम् प्रगायन् नृप-देव-देवः सः उर्वशी-लोकम् अथो विहाय । आत्मानम् आत्मनि अवगम्य माम् वै उपारमत् ज्ञान-विधूत-मोहः ॥ २५ ॥
evam pragāyan nṛpa-deva-devaḥ saḥ urvaśī-lokam atho vihāya . ātmānam ātmani avagamya mām vai upāramat jñāna-vidhūta-mohaḥ .. 25 ..
( अनुष्टुप् )
ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ ॥
ततस् दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्तः एव अस्य छिन्दन्ति मनः-व्यासङ्ग-मुक्तिभिः ॥ २६ ॥
tatas duḥsaṅgam utsṛjya satsu sajjeta buddhimān . santaḥ eva asya chindanti manaḥ-vyāsaṅga-muktibhiḥ .. 26 ..
सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७ ॥
सन्तः अनपेक्षाः मद्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममाः निरहङ्काराः निर्द्वन्द्वाः निष्परिग्रहाः ॥ २७ ॥
santaḥ anapekṣāḥ mad-cittāḥ praśāntāḥ sama-darśinaḥ . nirmamāḥ nirahaṅkārāḥ nirdvandvāḥ niṣparigrahāḥ .. 27 ..
तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥
तेषु नित्यम् महाभाग महाभागेषु मद्-कथाः । सम्भवन्ति हिताः नृणाम् जुषताम् प्रपुनन्ति अघम् ॥ २८ ॥
teṣu nityam mahābhāga mahābhāgeṣu mad-kathāḥ . sambhavanti hitāḥ nṛṇām juṣatām prapunanti agham .. 28 ..
ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥
ताः ये श्रृण्वन्ति गायन्ति हि अनुमोदन्ति च आदृताः । मद्-पराः श्रद्दधानाः च भक्तिम् विन्दन्ति ते मयि ॥ २९ ॥
tāḥ ye śrṛṇvanti gāyanti hi anumodanti ca ādṛtāḥ . mad-parāḥ śraddadhānāḥ ca bhaktim vindanti te mayi .. 29 ..
भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥
भक्तिम् लब्धवतः साधोः किम् अन्यत् अवशिष्यते । मयि अनन्त-गुणे ब्रह्मणि आनन्द-अनुभव-आत्मनि ॥ ३० ॥
bhaktim labdhavataḥ sādhoḥ kim anyat avaśiṣyate . mayi ananta-guṇe brahmaṇi ānanda-anubhava-ātmani .. 30 ..
यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥
यथा उपश्रयमाणस्य भगवन्तम् विभावसुम् । शीतम् भयम् तमः अप्येति साधून् संसेवतः तथा ॥ ३१ ॥
yathā upaśrayamāṇasya bhagavantam vibhāvasum . śītam bhayam tamaḥ apyeti sādhūn saṃsevataḥ tathā .. 31 ..
निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् । सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥
निमज्ज्य उन्मज्जताम् घोरे भव-अब्धौ परम-अयनम् । सन्तः ब्रह्म-विदः शान्ता नौः दृढा इव अप्सु मज्जताम् ॥ ३२ ॥
nimajjya unmajjatām ghore bhava-abdhau parama-ayanam . santaḥ brahma-vidaḥ śāntā nauḥ dṛḍhā iva apsu majjatām .. 32 ..
अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् । धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥
अन्नम् हि प्राणिनाम् प्राणः आर्तानाम् शरणम् तु अहम् । धर्मः वित्तम् नृणाम् प्रेत्य सन्तः अर्वाक् बिभ्यतः अरणम् ॥ ३३ ॥
annam hi prāṇinām prāṇaḥ ārtānām śaraṇam tu aham . dharmaḥ vittam nṛṇām pretya santaḥ arvāk bibhyataḥ araṇam .. 33 ..
सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ ॥
सन्तः दिशन्ति चक्षूंषि बहिस् अर्कः समुत्थितः । देवताः बान्धवाः सन्तः सन्तः आत्मा अहम् एव च ॥ ३४ ॥
santaḥ diśanti cakṣūṃṣi bahis arkaḥ samutthitaḥ . devatāḥ bāndhavāḥ santaḥ santaḥ ātmā aham eva ca .. 34 ..
वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः । मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह ॥ ३५ ॥
वैतसेनः ततस् अपि एवम् उर्वश्या लोक-निस्पृहः । मुक्त-सङ्गः महीम् एतम् आत्म-आरामः चचार ह ॥ ३५ ॥
vaitasenaḥ tatas api evam urvaśyā loka-nispṛhaḥ . mukta-saṅgaḥ mahīm etam ātma-ārāmaḥ cacāra ha .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे षड्विंशः अध्यायः ॥ २६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In