| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः । आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ १ ॥
mallakṣaṇamimaṃ kāyaṃ labdhvā maddharma āsthitaḥ . ānandaṃ paramātmānam ātmasthaṃ samupaiti mām .. 1 ..
गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः । वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ ॥
guṇamayyā jīvayonyā vimukto jñānaniṣṭhayā . guṇeṣu māyāmātreṣu dṛśyamāneṣvavastutaḥ . vartamāno'pi na pumān yujyate'vastubhirguṇaiḥ .. 2 ..
सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् । तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ॥
saṅgaṃ na kuryādasatāṃ śiśnodaratṛpāṃ kvacit . tasyānugastamasyandhe patatyandhānugāndhavat .. 3 ..
ऐलः सम्राडिमां गाथाम् अगायत बृहच्छ्रवाः । उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४ ॥
ailaḥ samrāḍimāṃ gāthām agāyata bṛhacchravāḥ . urvaśīvirahān muhyan nirviṇṇaḥ śokasaṃyame .. 4 ..
त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः । विलपन् अन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ ॥
tyaktvā''tmānaṃ vrajantīṃ tāṃ nagna unmattavannṛpaḥ . vilapan anvagājjāye ghore tiṣṭheti viklavaḥ .. 5 ..
कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यान्तीर्नायान्तीः उर्वश्याकृष्टचेतनः ॥ ६ ॥
kāmānatṛpto'nujuṣan kṣullakān varṣayāminīḥ . na veda yāntīrnāyāntīḥ urvaśyākṛṣṭacetanaḥ .. 6 ..
ऐल उवाच -
अहो मे मोहविस्तारः कामकश्मलचेतसः । देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ७ ॥
aho me mohavistāraḥ kāmakaśmalacetasaḥ . devyā gṛhītakaṇṭhasya nāyuḥkhaṇḍā ime smṛtāḥ .. 7 ..
नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया । मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ ॥
nāhaṃ vedābhinirmuktaḥ sūryo vābhyudito'muyā . mūṣito varṣapūgānāṃ batāhāni gatānyuta .. 8 ..
अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः । क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ ॥
aho me ātmasammoho yenātmā yoṣitāṃ kṛtaḥ . krīḍāmṛgaścakravartī naradevaśikhāmaṇiḥ .. 9 ..
सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् । यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० ॥
saparicchadamātmānaṃ hitvā tṛṇamiveśvaram . yāntīṃ striyaṃ cānvagamaṃ nagna unmattavad rudan .. 10 ..
कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा । योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११ ॥
kutastasyānubhāvaḥ syāt teja īśatvameva vā . yo'nvagacchaṃ striyaṃ yāntīṃ kharavat pādatāḍitaḥ .. 11 ..
किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ ॥
kiṃ vidyayā kiṃ tapasā kiṃ tyāgena śrutena vā . kiṃ viviktena maunena strībhiryasya mano hṛtam .. 12 ..
स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् । योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ ॥
svārthasyākovidaṃ dhiṅ māṃ mūrkhaṃ paṇḍitamāninam . yo'hamīśvaratāṃ prāpya strībhirgokharavajjitaḥ .. 13 ..
सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् । न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ ॥
sevato varṣapūgān me urvaśyā adharāsavam . na tṛpyatyātmabhūḥ kāmo vahnirāhutibhiryathā .. 14 ..
पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः । आत्मारामेश्वरमृते भगवन्तम् अधोक्षजम् ॥ १५ ॥
puṃścalyāpahṛtaṃ cittaṃ ko nvanyo mocituṃ prabhuḥ . ātmārāmeśvaramṛte bhagavantam adhokṣajam .. 15 ..
बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतो महामोहो नापयात्यजितात्मनः ॥ १६ ॥
bodhitasyāpi devyā me sūktavākyena durmateḥ . manogato mahāmoho nāpayātyajitātmanaḥ .. 16 ..
किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः । रज्जु स्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ ॥
kimetayā no'pakṛtaṃ rajjvā vā sarpacetasaḥ . rajju svarūpāviduṣo yo'haṃ yadajitendriyaḥ .. 17 ..
क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः । क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ ॥
kvāyaṃ malīmasaḥ kāyo daurgandhyādyātmako'śuciḥ . kva guṇāḥ saumanasyādyā hyadhyāso'vidyayā kṛtaḥ .. 18 ..
पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः । किमात्मनः किं सुहृदां इति यो नावसीयते ॥ १९ ॥
pitroḥ kiṃ svaṃ nu bhāryāyāḥ svāmino'gneḥ śvagṛdhrayoḥ . kimātmanaḥ kiṃ suhṛdāṃ iti yo nāvasīyate .. 19 ..
तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० ॥
tasmin kalevare'medhye tucchaniṣṭhe viṣajjate . aho subhadraṃ sunasaṃ susmitaṃ ca mukhaṃ striyaḥ .. 20 ..
त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ । विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ ॥
tvaṅmāṃsarudhirasnāyu medomajjāsthisaṃhatau . viṇmūtrapūye ramatāṃ kṛmīṇāṃ kiyadantaram .. 21 ..
अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् । विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ २२ ॥
athāpi nopasajjeta strīṣu straiṇeṣu cārthavit . viṣayendriyasaṃyogān manaḥ kṣubhyati nānyathā .. 22 ..
अदृष्टाद् अश्रुताद्भावात् न भाव उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ ॥
adṛṣṭād aśrutādbhāvāt na bhāva upajāyate . asamprayuñjataḥ prāṇān śāmyati stimitaṃ manaḥ .. 23 ..
तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः । विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ ॥
tasmātsaṅgo na kartavyaḥ strīṣu straiṇeṣu cendriyaiḥ . viduṣāṃ cāpyavisrabdhaḥ ṣaḍvargaḥ kimu mādṛśām .. 24 ..
श्रीभगवानुवाच - ( मिश्र )
एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय । आत्मानमात्मन्यवगम्य मां वै उपारमत् ज्ञानविधूतमोहः ॥ २५ ॥
evaṃ pragāyan nṛpadevadevaḥ sa urvaśīlokamatho vihāya . ātmānamātmanyavagamya māṃ vai upāramat jñānavidhūtamohaḥ .. 25 ..
( अनुष्टुप् )
ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ ॥
tato duḥsaṅgamutsṛjya satsu sajjeta buddhimān . santa evāsya chindanti manovyāsaṅgamuktibhiḥ .. 26 ..
सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७ ॥
santo'napekṣā maccittāḥ praśāntāḥ samadarśinaḥ . nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ .. 27 ..
तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ॥
teṣu nityaṃ mahābhāga mahābhāgeṣu matkathāḥ . sambhavanti hitā nṛṇāṃ juṣatāṃ prapunantyagham .. 28 ..
ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ ॥
tā ye śrṛṇvanti gāyanti hyanumodanti cādṛtāḥ . matparāḥ śraddadhānāśca bhaktiṃ vindanti te mayi .. 29 ..
भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० ॥
bhaktiṃ labdhavataḥ sādhoḥ kimanyad avaśiṣyate . mayyanantaguṇe brahmaṇyānandānubhavātmani .. 30 ..
यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ ॥
yathopaśrayamāṇasya bhagavantaṃ vibhāvasum . śītaṃ bhayaṃ tamo'pyeti sādhūn saṃsevatastathā .. 31 ..
निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् । सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ ॥
nimajjyonmajjatāṃ ghore bhavābdhau paramāyanam . santo brahmavidaḥ śāntā naurdṛḍhevāpsu majjatām .. 32 ..
अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् । धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ ॥
annaṃ hi prāṇināṃ prāṇa ārtānāṃ śaraṇaṃ tvaham . dharmo vittaṃ nṛṇāṃ pretya santo'rvāg bibhyato'raṇam .. 33 ..
सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ ॥
santo diśanti cakṣūṃṣi bahirarkaḥ samutthitaḥ . devatā bāndhavāḥ santaḥ santa ātmāhameva ca .. 34 ..
वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः । मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह ॥ ३५ ॥
vaitasenastato'pyevam urvaśyā lokanispṛhaḥ . muktasaṅgo mahīmetam ātmārāmaścacāra ha .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe ṣaḍviṃśo'dhyāyaḥ .. 26 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In