| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो । यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १ ॥
क्रिया-योगम् समाचक्ष्व भवत्-आराधनम् प्रभो । यस्मात् त्वाम् ये यथा अर्चन्ति सात्वताः सात्वत-ऋषभ ॥ १ ॥
kriyā-yogam samācakṣva bhavat-ārādhanam prabho . yasmāt tvām ye yathā arcanti sātvatāḥ sātvata-ṛṣabha .. 1 ..
एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्योऽग्गिरसः सुतः ॥ २ ॥
एतत् वदन्ति मुनयः मुहुर् निःश्रेयसम् नृणाम् । नारदः भगवान् व्यासः आचार्यः अग्गिरसः सुतः ॥ २ ॥
etat vadanti munayaḥ muhur niḥśreyasam nṛṇām . nāradaḥ bhagavān vyāsaḥ ācāryaḥ aggirasaḥ sutaḥ .. 2 ..
निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः । पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३ ॥
निःसृतम् ते मुख-अम्भोजात् यत् आह भगवान् अजः । पुत्रेभ्यः भृगु-मुख्येभ्यः देव्यै च भगवान् भवः ॥ ३ ॥
niḥsṛtam te mukha-ambhojāt yat āha bhagavān ajaḥ . putrebhyaḥ bhṛgu-mukhyebhyaḥ devyai ca bhagavān bhavaḥ .. 3 ..
एतद् वै सर्ववर्णानां आश्रमाणां च सम्मतम् । श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥
एतत् वै सर्व-वर्णानाम् आश्रमाणाम् च सम्मतम् । श्रेयसाम् उत्तमम् मन्ये स्त्री-शूद्राणाम् च मानद ॥ ४ ॥
etat vai sarva-varṇānām āśramāṇām ca sammatam . śreyasām uttamam manye strī-śūdrāṇām ca mānada .. 4 ..
एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥
एतत् कमल-पत्र-अक्ष कर्म-बन्ध-विमोचनम् । भक्ताय च अनुरक्ताय ब्रूहि विश्वेश्वर-ईश्वर ॥ ५ ॥
etat kamala-patra-akṣa karma-bandha-vimocanam . bhaktāya ca anuraktāya brūhi viśveśvara-īśvara .. 5 ..
श्रीभगवानुवाच -
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६ ॥
न हि अन्तः अनन्त-पारस्य कर्मकाण्डस्य च उद्धव । सङ्क्षिप्तम् वर्णयिष्यामि यथावत् अनुपूर्वशस् ॥ ६ ॥
na hi antaḥ ananta-pārasya karmakāṇḍasya ca uddhava . saṅkṣiptam varṇayiṣyāmi yathāvat anupūrvaśas .. 6 ..
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥
वैदिकः तान्त्रिकः मिश्रः इति मे त्रिविधः मखः । त्रयाणाम् ईप्सितेन एव विधिना माम् समर्चरेत् ॥ ७ ॥
vaidikaḥ tāntrikaḥ miśraḥ iti me trividhaḥ makhaḥ . trayāṇām īpsitena eva vidhinā mām samarcaret .. 7 ..
यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥
यदा स्व-निगमेन उक्तम् द्विज-त्वम् प्राप्य पूरुषः । यथा यजेत माम् भक्त्या श्रद्धया तत् निबोध मे ॥ ८ ॥
yadā sva-nigamena uktam dvija-tvam prāpya pūruṣaḥ . yathā yajeta mām bhaktyā śraddhayā tat nibodha me .. 8 ..
अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥
अर्चायाम् स्थण्डिले अग्नौ वा सूर्ये वा अप्सु हृदि द्विजः । द्रव्येण भक्ति-युक्तः अर्चेत् स्व-गुरुम् माम् अमायया ॥ ९ ॥
arcāyām sthaṇḍile agnau vā sūrye vā apsu hṛdi dvijaḥ . dravyeṇa bhakti-yuktaḥ arcet sva-gurum mām amāyayā .. 9 ..
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये । उभयैरपि च स्नानं मन्त्रैर्मृद् ग्रहणादिना ॥ १० ॥
पूर्वम् स्नानम् प्रकुर्वीत धौत-दन्तः अङ्ग-शुद्धये । उभयैः अपि च स्नानम् मन्त्रैः मृद् ग्रहण-आदिना ॥ १० ॥
pūrvam snānam prakurvīta dhauta-dantaḥ aṅga-śuddhaye . ubhayaiḥ api ca snānam mantraiḥ mṛd grahaṇa-ādinā .. 10 ..
सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११ ॥
सन्ध्या-उपास्ति-आदि-कर्माणि वेदेन अ चोदितानि मे । पूजाम् तैः कल्पयेत् सम्यक् सङ्कल्पः कर्म-पावनीम् ॥ ११ ॥
sandhyā-upāsti-ādi-karmāṇi vedena a coditāni me . pūjām taiḥ kalpayet samyak saṅkalpaḥ karma-pāvanīm .. 11 ..
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥
शैली दारु-मयी लौही लेप्या लेख्या च सैकती । मनः-मयी मणि-मयी प्रतिमा अष्टविधा स्मृता ॥ १२ ॥
śailī dāru-mayī lauhī lepyā lekhyā ca saikatī . manaḥ-mayī maṇi-mayī pratimā aṣṭavidhā smṛtā .. 12 ..
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३ ॥
चला अचला इति द्विविधा प्रतिष्ठा जीव-मन्दिरम् । उद्वास-आवाहने न स्तः स्थिरायाम् उद्धव-अर्चने ॥ १३ ॥
calā acalā iti dvividhā pratiṣṭhā jīva-mandiram . udvāsa-āvāhane na staḥ sthirāyām uddhava-arcane .. 13 ..
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्वविलेप्यायां अन्यत्र परिमार्जनम् ॥ १४ ॥
अस्थिरायाम् विकल्पः स्यात् स्थण्डिले तु भवेत् द्वयम् । स्नपनम् तु अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ १४ ॥
asthirāyām vikalpaḥ syāt sthaṇḍile tu bhavet dvayam . snapanam tu avilepyāyām anyatra parimārjanam .. 14 ..
द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन चैव हि ॥ १५ ॥
द्रव्यैः प्रसिद्धैः मद्-यागः प्रतिमा-आदिषु अमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन च एव हि ॥ १५ ॥
dravyaiḥ prasiddhaiḥ mad-yāgaḥ pratimā-ādiṣu amāyinaḥ . bhaktasya ca yathālabdhaiḥ hṛdi bhāvena ca eva hi .. 15 ..
स्नानालङ्करणं प्रेष्ठं अर्चायामेव तूद्धव । स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६ ॥
स्नान-अलङ्करणम् प्रेष्ठम् अर्चायाम् एव तु उद्धव । स्थण्डिले तत्त्व-विन्यासः वह्नौ आज्य-प्लुतम् हविः ॥ १६ ॥
snāna-alaṅkaraṇam preṣṭham arcāyām eva tu uddhava . sthaṇḍile tattva-vinyāsaḥ vahnau ājya-plutam haviḥ .. 16 ..
सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥
सूर्ये च अभ्यर्हणम् प्रेष्ठम् सलिले सलिल-आदिभिः । श्रद्धया उपाहृतम् प्रेष्ठम् भक्तेन मम वारि अपि ॥ १७ ॥
sūrye ca abhyarhaṇam preṣṭham salile salila-ādibhiḥ . śraddhayā upāhṛtam preṣṭham bhaktena mama vāri api .. 17 ..
भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८ ॥
भूरि अपि अभक्त-उपाहृतम् न मे तोषाय कल्पते । गन्धः धूपः सुमनसः दीपः अन्नाद्यम् च किम् पुनर् ॥ १८ ॥
bhūri api abhakta-upāhṛtam na me toṣāya kalpate . gandhaḥ dhūpaḥ sumanasaḥ dīpaḥ annādyam ca kim punar .. 18 ..
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः । आसीनः प्रागुदग् वार्चेद् अर्चायामथ सम्मुखः ॥ १९ ॥
शुचिः सम्भृत-सम्भारः प्राच्-दर्भैः कल्पित-आसनः । आसीनः प्राच्-उदक् वा अर्चेत् अर्चायाम् अथ सम्मुखः ॥ १९ ॥
śuciḥ sambhṛta-sambhāraḥ prāc-darbhaiḥ kalpita-āsanaḥ . āsīnaḥ prāc-udak vā arcet arcāyām atha sammukhaḥ .. 19 ..
कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत् । कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥
कृत-न्यासः कृत-न्यासाम् मद्-अर्चाम् पाणिना आमृजेत् । कलशम् प्रोक्षणीयम् च यथावत् उपसाधयेत् ॥ २० ॥
kṛta-nyāsaḥ kṛta-nyāsām mad-arcām pāṇinā āmṛjet . kalaśam prokṣaṇīyam ca yathāvat upasādhayet .. 20 ..
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च । प्रोक्ष्य पात्राणि त्रीण्यद्भिः तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥
तत् अद्भिः देवयजनम् द्रव्याणि आत्मानम् एव च । प्रोक्ष्य पात्राणि त्रीणि अद्भिः तैः तैः द्रव्यैः च साधयेत् ॥ २१ ॥
tat adbhiḥ devayajanam dravyāṇi ātmānam eva ca . prokṣya pātrāṇi trīṇi adbhiḥ taiḥ taiḥ dravyaiḥ ca sādhayet .. 21 ..
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥
पाद्य-अर्घ्य-आचमनीय-अर्थम् त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णा अथ शिखया गायत्र्या च अभिमन्त्रयेत् ॥ २२ ॥
pādya-arghya-ācamanīya-artham trīṇi pātrāṇi daiśikaḥ . hṛdā śīrṣṇā atha śikhayā gāyatryā ca abhimantrayet .. 22 ..
पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेत् नादान्ते सिद्धभाविताम् ॥ २३ ॥
पिण्डे वायु-अग्नि-संशुद्धे हृद्-पद्म-स्थाम् पराम् मम । अण्वीम् जीव-कलाम् ध्यायेत् नाद-अन्ते सिद्ध-भाविताम् ॥ २३ ॥
piṇḍe vāyu-agni-saṃśuddhe hṛd-padma-sthām parām mama . aṇvīm jīva-kalām dhyāyet nāda-ante siddha-bhāvitām .. 23 ..
तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥
तया आत्म-भूतया पिण्डे व्याप्ते सम्पूज्य तद्-मयः । आवाह्य अर्चा-आदिषु स्थाप्य न्यस्त-अङ्गम् माम् प्रपूजयेत् ॥ २४ ॥
tayā ātma-bhūtayā piṇḍe vyāpte sampūjya tad-mayaḥ . āvāhya arcā-ādiṣu sthāpya nyasta-aṅgam mām prapūjayet .. 24 ..
पाद्योपस्पर्शाहणादीन् उपचारान् प्रकल्पयेत् । धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५ ॥
उपचारान् प्रकल्पयेत् । धर्म-आदिभिः च नवभिः कल्पयित्वा आसनम् मम ॥ २५ ॥
upacārān prakalpayet . dharma-ādibhiḥ ca navabhiḥ kalpayitvā āsanam mama .. 25 ..
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥
पद्मम् अष्ट-दलम् तत्र कर्णिका-केसर-उज्ज्वलम् । उभाभ्याम् वेद-तन्त्राभ्याम् मह्यम् तु उभय-सिद्धये ॥ २६ ॥
padmam aṣṭa-dalam tatra karṇikā-kesara-ujjvalam . ubhābhyām veda-tantrābhyām mahyam tu ubhaya-siddhaye .. 26 ..
सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् । मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥
सुदर्शनम् पाञ्चजन्यम् गदा-सीषु-धनुः-हलान् । मुसलम् कौस्तुभम् मालाम् श्रीवत्सम् च अनुपूजयेत् ॥ २७ ॥
sudarśanam pāñcajanyam gadā-sīṣu-dhanuḥ-halān . musalam kaustubham mālām śrīvatsam ca anupūjayet .. 27 ..
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च । महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥ २८ ॥
नन्दम् सुनन्दम् गरुडम् प्रचण्डम् चण्डम् एव च । महाबलम् बलम् च एव कुमुदम् कुमुदेक्षणम् ॥ २८ ॥
nandam sunandam garuḍam pracaṇḍam caṇḍam eva ca . mahābalam balam ca eva kumudam kumudekṣaṇam .. 28 ..
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ २९ ॥
दुर्गाम् विनायकम् व्यासम् विष्वक्सेनम् गुरून् सुरान् । स्वे स्वे स्थाने तु अभिमुखान् पूजयेत् प्रोक्षण-आदिभिः ॥ २९ ॥
durgām vināyakam vyāsam viṣvaksenam gurūn surān . sve sve sthāne tu abhimukhān pūjayet prokṣaṇa-ādibhiḥ .. 29 ..
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः । सलिलैः स्नापयेन्मन्त्रैः नित्यदा विभवे सति ॥ ३० ॥
चन्दन-उशीर-कर्पूर-कुङ्कुम-अगुरु-वासितैः । सलिलैः स्नापयेत् मन्त्रैः नित्यदा विभवे सति ॥ ३० ॥
candana-uśīra-karpūra-kuṅkuma-aguru-vāsitaiḥ . salilaiḥ snāpayet mantraiḥ nityadā vibhave sati .. 30 ..
स्वर्णघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१ ॥
स्वर्ण-घर्म-अनुवाकेन महापुरुष-विद्यया । पौरुषेण अपि सूक्तेन सामभिः राजन-आदिभिः ॥ ३१ ॥
svarṇa-gharma-anuvākena mahāpuruṣa-vidyayā . pauruṣeṇa api sūktena sāmabhiḥ rājana-ādibhiḥ .. 31 ..
वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ३२ ॥
पत्र-स्रज्-गन्ध-लेपनैः । अलङ्कुर्वीत स प्रेम मद्-भक्तः माम् यथोचितम् ॥ ३२ ॥
patra-sraj-gandha-lepanaiḥ . alaṅkurvīta sa prema mad-bhaktaḥ mām yathocitam .. 32 ..
पाद्यं आचमनीयं च गन्धं सुमनसोऽक्षतान् । धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३ ॥
पाद्यम् आचमनीयम् च गन्धम् सुमनसः अक्षतान् । धूप-दीप-उपहार्याणि दद्यात् मे श्रद्धया अर्चकः ॥ ३३ ॥
pādyam ācamanīyam ca gandham sumanasaḥ akṣatān . dhūpa-dīpa-upahāryāṇi dadyāt me śraddhayā arcakaḥ .. 33 ..
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥
गुड-पायस-सर्पींषि शष्कुल्या-अपूप-मोदकान् । संयाव-दधि-सूपान् च नैवेद्यम् सति कल्पयेत् ॥ ३४ ॥
guḍa-pāyasa-sarpīṃṣi śaṣkulyā-apūpa-modakān . saṃyāva-dadhi-sūpān ca naivedyam sati kalpayet .. 34 ..
अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् । अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥
अभ्यङ्ग-उन्मर्दन-आदर्श दन्तधाव-अभिषेचनम् । अन्नाद्य-गीत-नृत्य-आदि पर्वणि स्युः उत अन्वहम् ॥ ३५ ॥
abhyaṅga-unmardana-ādarśa dantadhāva-abhiṣecanam . annādya-gīta-nṛtya-ādi parvaṇi syuḥ uta anvaham .. 35 ..
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निमाधाय परितः समूहेत् पाणिनोदितम् ॥ ३६ ॥
विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः । अग्निम् आधाय परितस् समूहेत् पाणिना उदितम् ॥ ३६ ॥
vidhinā vihite kuṇḍe mekhalā-garta-vedibhiḥ . agnim ādhāya paritas samūhet pāṇinā uditam .. 36 ..
परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि । प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥
परिस्तीर्य अथ पर्युक्षेत् अन्वाधाय यथाविधि । प्रोक्षण्या आसाद्य द्रव्याणि प्रोक्ष्य अग्नौ भावयेत माम् ॥ ३७ ॥
paristīrya atha paryukṣet anvādhāya yathāvidhi . prokṣaṇyā āsādya dravyāṇi prokṣya agnau bhāvayeta mām .. 37 ..
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥
तप्त-जाम्बूनद-प्रख्यम् शङ्ख-चक्र-गदा-अम्बुजैः । लसत्-चतुर्-भुजम् शान्तम् पद्म-किञ्जल्क-वाससम् ॥ ३८ ॥
tapta-jāmbūnada-prakhyam śaṅkha-cakra-gadā-ambujaiḥ . lasat-catur-bhujam śāntam padma-kiñjalka-vāsasam .. 38 ..
स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९ ॥
स्फुरत्-किरीट-कटक कटिसूत्र-वर-अङ्गदम् । श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभम् वनमालिनम् ॥ ३९ ॥
sphurat-kirīṭa-kaṭaka kaṭisūtra-vara-aṅgadam . śrīvatsa-vakṣasam bhrājat kaustubham vanamālinam .. 39 ..
ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४१ ॥
ध्यायन् अभ्यर्च्य दारूणि हविषा अभिघृतानि च । प्रास्य आज्यभागौ आघारौ दत्त्वा च आज्य-प्लुतम् हविः ॥ ४१ ॥
dhyāyan abhyarcya dārūṇi haviṣā abhighṛtāni ca . prāsya ājyabhāgau āghārau dattvā ca ājya-plutam haviḥ .. 41 ..
जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः । धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१ ॥
जुहुयात् मूलमन्त्रेण षोडश-ऋच-अवदानतः । धर्म-आदिभ्यः यथान्यायम् मन्त्रैः सु इष्टि-कृतम् बुधः ॥ ४१ ॥
juhuyāt mūlamantreṇa ṣoḍaśa-ṛca-avadānataḥ . dharma-ādibhyaḥ yathānyāyam mantraiḥ su iṣṭi-kṛtam budhaḥ .. 41 ..
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥
अभ्यर्च्य अथ नमस्कृत्य पार्षदेभ्यः बलिम् हरेत् । मूलमन्त्रम् जपेत् ब्रह्म स्मरन् नारायण-आत्मकम् ॥ ४२ ॥
abhyarcya atha namaskṛtya pārṣadebhyaḥ balim haret . mūlamantram japet brahma smaran nārāyaṇa-ātmakam .. 42 ..
दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यमथाहयेत् ॥ ४३ ॥
दत्त्वा आचमनम् उच्छेषम् विष्वक्सेनाय कल्पयेत् । मुख-वासम् सुरभिमत् ताम्बूल-आद्यम् अथ आहयेत् ॥ ४३ ॥
dattvā ācamanam uccheṣam viṣvaksenāya kalpayet . mukha-vāsam surabhimat tāmbūla-ādyam atha āhayet .. 43 ..
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मद्-कथाः श्रावयन् श्रृण्वन् मुहूर्तम् क्षणिकः भवेत् ॥ ४४ ॥
upagāyan gṛṇan nṛtyan karmāṇi abhinayan mama . mad-kathāḥ śrāvayan śrṛṇvan muhūrtam kṣaṇikaḥ bhavet .. 44 ..
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५ ॥
स्तवैः उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैः अपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५ ॥
stavaiḥ uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtaiḥ api . stutvā prasīda bhagavan iti vandeta daṇḍavat .. 45 ..
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥
शिरः मद्-पादयोः कृत्वा बाहुभ्याम् च परस्परम् । प्रपन्नम् पाहि माम् ईश भीतम् मृत्यु-ग्रह-अर्णवात् ॥ ४६ ॥
śiraḥ mad-pādayoḥ kṛtvā bāhubhyām ca parasparam . prapannam pāhi mām īśa bhītam mṛtyu-graha-arṇavāt .. 46 ..
इति शेषां मया दत्तां शिरस्याधाय सादरम् । उद्वासयेद् चेद् उद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७ ॥
इति शेषाम् मया दत्ताम् शिरसि आधाय स आदरम् । उद्वासयेत् चेद् उद्वास्यम् ज्योतिः-ज्योतिषि तत् पुनर् ॥ ४७ ॥
iti śeṣām mayā dattām śirasi ādhāya sa ādaram . udvāsayet ced udvāsyam jyotiḥ-jyotiṣi tat punar .. 47 ..
अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः ॥ ४८ ॥
अर्चा-आदिषु यदा यत्र श्रद्धा माम् तत्र च अर्चयेत् । सर्व-भूतेषु आत्मनि च सर्व-आत्मा अहम् अवस्थितः ॥ ४८ ॥
arcā-ādiṣu yadā yatra śraddhā mām tatra ca arcayet . sarva-bhūteṣu ātmani ca sarva-ātmā aham avasthitaḥ .. 48 ..
एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥
एवम् क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन् उभयतस् सिद्धिम् मत्तः विन्दति अभीप्सिताम् ॥ ४९ ॥
evam kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ . arcan ubhayatas siddhim mattaḥ vindati abhīpsitām .. 49 ..
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥
मद्-अर्चाम् सम्प्रतिष्ठाप्य मन्दिरम् कारयेत् दृढम् । पुष्प-उद्यानानि रम्याणि पूजा-यात्रा-उत्सव-आश्रितान् ॥ ५० ॥
mad-arcām sampratiṣṭhāpya mandiram kārayet dṛḍham . puṣpa-udyānāni ramyāṇi pūjā-yātrā-utsava-āśritān .. 50 ..
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥
पूजा-आदीनाम् प्रवाह-अर्थम् महा-पर्वसु अथ अन्वहम् । क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्स-आर्ष्टि-ताम् इयात् ॥ ५१ ॥
pūjā-ādīnām pravāha-artham mahā-parvasu atha anvaham . kṣetrāpaṇa-pura-grāmān dattvā matsa-ārṣṭi-tām iyāt .. 51 ..
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥
प्रतिष्ठया सार्वभौमम् सद्मना भुवनत्रयम् । पूजा-आदिना ब्रह्म-लोकम् त्रिभिः मद्-साम्य-ताम् इयात् ॥ ५२ ॥
pratiṣṭhayā sārvabhaumam sadmanā bhuvanatrayam . pūjā-ādinā brahma-lokam tribhiḥ mad-sāmya-tām iyāt .. 52 ..
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभते एवं यः पूजयेत माम् ॥ ५३ ॥
माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति । भक्ति-योगम् स लभते एवम् यः पूजयेत माम् ॥ ५३ ॥
mām eva nairapekṣyeṇa bhakti-yogena vindati . bhakti-yogam sa labhate evam yaḥ pūjayeta mām .. 53 ..
यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः । वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम् ॥ ५४ ॥
यः स्व-दत्ताम् परैः दत्ताम् हरेत सुर-विप्रयोः । वृत्तिम् स जायते विष्-भुज् वर्षाणाम् अयुत-अयुतम् ॥ ५४ ॥
yaḥ sva-dattām paraiḥ dattām hareta sura-viprayoḥ . vṛttim sa jāyate viṣ-bhuj varṣāṇām ayuta-ayutam .. 54 ..
कर्तुश्च सारथेहेतोः अनुमोदितुरेव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५ ॥
कर्तुः च सारथे हेतोः अनुमोदितुः एव च । कर्मणाम् भागिनः प्रेत्य भूयस् भूयसि तद्-फलम् ॥ ५५ ॥
kartuḥ ca sārathe hetoḥ anumodituḥ eva ca . karmaṇām bhāginaḥ pretya bhūyas bhūyasi tad-phalam .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तविंशः अध्यायः ॥ २७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe saptaviṃśaḥ adhyāyaḥ .. 27 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In