| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो । यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १ ॥
kriyāyogaṃ samācakṣva bhavadārādhanaṃ prabho . yasmāttvāṃ ye yathārcanti sātvatāḥ sātvatarṣabha .. 1 ..
एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्योऽग्गिरसः सुतः ॥ २ ॥
etad vadanti munayo muhurniḥśreyasaṃ nṛṇām . nārado bhagavān vyāsa ācāryo'ggirasaḥ sutaḥ .. 2 ..
निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः । पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३ ॥
niḥsṛtaṃ te mukhāmbhojād yadāha bhagavānajaḥ . putrebhyo bhṛgumukhyebhyo devyai ca bhagavān bhavaḥ .. 3 ..
एतद् वै सर्ववर्णानां आश्रमाणां च सम्मतम् । श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४ ॥
etad vai sarvavarṇānāṃ āśramāṇāṃ ca sammatam . śreyasāmuttamaṃ manye strīśūdrāṇāṃ ca mānada .. 4 ..
एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५ ॥
etatkamalapatrākṣa karmabandhavimocanam . bhaktāya cānuraktāya brūhi viśveśvareśvara .. 5 ..
श्रीभगवानुवाच -
न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६ ॥
na hyanto'nantapārasya karmakāṇḍasya coddhava . saṅkṣiptaṃ varṇayiṣyāmi yathāvadanupūrvaśaḥ .. 6 ..
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना मां समर्चरेत् ॥ ७ ॥
vaidikastāntriko miśra iti me trividho makhaḥ . trayāṇāmīpsitenaiva vidhinā māṃ samarcaret .. 7 ..
यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८ ॥
yadā svanigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ . yathā yajeta māṃ bhaktyā śraddhayā tannibodha me .. 8 ..
अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया ॥ ९ ॥
arcāyāṃ sthaṇḍile'gnau vā sūrye vāpsu hṛdi dvijaḥ . dravyeṇa bhaktiyukto'rcet svaguruṃ māmamāyayā .. 9 ..
पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये । उभयैरपि च स्नानं मन्त्रैर्मृद् ग्रहणादिना ॥ १० ॥
pūrvaṃ snānaṃ prakurvīta dhautadanto'ṅgaśuddhaye . ubhayairapi ca snānaṃ mantrairmṛd grahaṇādinā .. 10 ..
सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत् सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११ ॥
sandhyopāstyādikarmāṇi vedenācoditāni me . pūjāṃ taiḥ kalpayet samyak saṅkalpaḥ karmapāvanīm .. 11 ..
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२ ॥
śailī dārumayī lauhī lepyā lekhyā ca saikatī . manomayī maṇimayī pratimāṣṭavidhā smṛtā .. 12 ..
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३ ॥
calācaleti dvividhā pratiṣṭhā jīvamandiram . udvāsāvāhane na staḥ sthirāyāmuddhavārcane .. 13 ..
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्वविलेप्यायां अन्यत्र परिमार्जनम् ॥ १४ ॥
asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam . snapanaṃ tvavilepyāyāṃ anyatra parimārjanam .. 14 ..
द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः । भक्तस्य च यथालब्धैः हृदि भावेन चैव हि ॥ १५ ॥
dravyaiḥ prasiddhairmadyāgaḥ pratimādiṣvamāyinaḥ . bhaktasya ca yathālabdhaiḥ hṛdi bhāvena caiva hi .. 15 ..
स्नानालङ्करणं प्रेष्ठं अर्चायामेव तूद्धव । स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६ ॥
snānālaṅkaraṇaṃ preṣṭhaṃ arcāyāmeva tūddhava . sthaṇḍile tattvavinyāso vahnāvājyaplutaṃ haviḥ .. 16 ..
सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७ ॥
sūrye cābhyarhaṇaṃ preṣṭhaṃ salile salilādibhiḥ . śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāryapi .. 17 ..
भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८ ॥
bhūryapyabhaktopāhṛtaṃ na me toṣāya kalpate . gandho dhūpaḥ sumanaso dīpo'nnādyaṃ ca kiṃ punaḥ .. 18 ..
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः । आसीनः प्रागुदग् वार्चेद् अर्चायामथ सम्मुखः ॥ १९ ॥
śuciḥ sambhṛtasambhāraḥ prāgdarbhaiḥ kalpitāsanaḥ . āsīnaḥ prāgudag vārced arcāyāmatha sammukhaḥ .. 19 ..
कृतन्यासः कृतन्यासां मदर्चां पाणिनामृजेत् । कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २० ॥
kṛtanyāsaḥ kṛtanyāsāṃ madarcāṃ pāṇināmṛjet . kalaśaṃ prokṣaṇīyaṃ ca yathāvadupasādhayet .. 20 ..
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च । प्रोक्ष्य पात्राणि त्रीण्यद्भिः तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१ ॥
tadadbhirdevayajanaṃ dravyāṇyātmānameva ca . prokṣya pātrāṇi trīṇyadbhiḥ taistairdravyaiśca sādhayet .. 21 ..
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२ ॥
pādyārghyācamanīyārthaṃ trīṇi pātrāṇi daiśikaḥ . hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet .. 22 ..
पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेत् नादान्ते सिद्धभाविताम् ॥ २३ ॥
piṇḍe vāyvagnisaṃśuddhe hṛtpadmasthāṃ parāṃ mama . aṇvīṃ jīvakalāṃ dhyāyet nādānte siddhabhāvitām .. 23 ..
तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४ ॥
tayā''tmabhūtayā piṇḍe vyāpte sampūjya tanmayaḥ . āvāhyārcādiṣu sthāpya nyastāṅgaṃ māṃ prapūjayet .. 24 ..
पाद्योपस्पर्शाहणादीन् उपचारान् प्रकल्पयेत् । धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५ ॥
pādyopasparśāhaṇādīn upacārān prakalpayet . dharmādibhiśca navabhiḥ kalpayitvā''sanaṃ mama .. 25 ..
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६ ॥
padmamaṣṭadalaṃ tatra karṇikākesarojjvalam . ubhābhyāṃ vedatantrābhyāṃ mahyaṃ tūbhayasiddhaye .. 26 ..
सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् । मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७ ॥
sudarśanaṃ pāñcajanyaṃ gadāsīṣudhanurhalān . musalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cānupūjayet .. 27 ..
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च । महाबलं बलं चैव कुमुदं कुमुदेक्षणम् ॥ २८ ॥
nandaṃ sunandaṃ garuḍaṃ pracaṇḍaṃ caṇḍameva ca . mahābalaṃ balaṃ caiva kumudaṃ kumudekṣaṇam .. 28 ..
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ २९ ॥
durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūn surān . sve sve sthāne tvabhimukhān pūjayet prokṣaṇādibhiḥ .. 29 ..
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः । सलिलैः स्नापयेन्मन्त्रैः नित्यदा विभवे सति ॥ ३० ॥
candanośīrakarpūra kuṅkumāguruvāsitaiḥ . salilaiḥ snāpayenmantraiḥ nityadā vibhave sati .. 30 ..
स्वर्णघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१ ॥
svarṇagharmānuvākena mahāpuruṣavidyayā . pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ .. 31 ..
वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ३२ ॥
vastropavītābharaṇa patrasraggandhalepanaiḥ . alaṅkurvīta saprema madbhakto māṃ yathocitam .. 32 ..
पाद्यं आचमनीयं च गन्धं सुमनसोऽक्षतान् । धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३ ॥
pādyaṃ ācamanīyaṃ ca gandhaṃ sumanaso'kṣatān . dhūpadīpopahāryāṇi dadyānme śraddhayārcakaḥ .. 33 ..
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४ ॥
guḍapāyasasarpīṃṣi śaṣkulyāpūpamodakān . saṃyāvadadhisūpāṃśca naivedyaṃ sati kalpayet .. 34 ..
अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् । अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५ ॥
abhyaṅgonmardanādarśa dantadhāvābhiṣecanam . annādyagītanṛtyādi parvaṇi syurutānvaham .. 35 ..
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निमाधाय परितः समूहेत् पाणिनोदितम् ॥ ३६ ॥
vidhinā vihite kuṇḍe mekhalāgartavedibhiḥ . agnimādhāya paritaḥ samūhet pāṇinoditam .. 36 ..
परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि । प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७ ॥
paristīryātha paryukṣed anvādhāya yathāvidhi . prokṣaṇyā''sādya dravyāṇi prokṣyāgnau bhāvayeta mām .. 37 ..
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८ ॥
taptajāmbūnadaprakhyaṃ śaṅkhacakragadāmbujaiḥ . lasaccaturbhujaṃ śāntaṃ padmakiñjalkavāsasam .. 38 ..
स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ ३९ ॥
sphuratkirīṭakaṭaka kaṭisūtravarāṅgadam . śrīvatsavakṣasaṃ bhrājat kaustubhaṃ vanamālinam .. 39 ..
ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४१ ॥
dhyāyannabhyarcya dārūṇi haviṣābhighṛtāni ca . prāsyājyabhāgāvāghārau dattvā cājyaplutaṃ haviḥ .. 41 ..
जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः । धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१ ॥
juhuyānmūlamantreṇa ṣoḍaśarcāvadānataḥ . dharmādibhyo yathānyāyaṃ mantraiḥ sviṣṭikṛtaṃ budhaḥ .. 41 ..
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम् ॥ ४२ ॥
abhyarcyātha namaskṛtya pārṣadebhyo baliṃ haret . mūlamantraṃ japed brahma smarannārāyaṇātmakam .. 42 ..
दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यमथाहयेत् ॥ ४३ ॥
dattvā''camanamuccheṣaṃ viṣvaksenāya kalpayet . mukhavāsaṃ surabhimat tāmbūlādyamathāhayet .. 43 ..
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४ ॥
upagāyan gṛṇan nṛtyan karmāṇi abhinayan mama . matkathāḥ śrāvayan śrṛṇvan muhūrtaṃ kṣaṇiko bhavet .. 44 ..
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत् ॥ ४५ ॥
stavairuccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtairapi . stutvā prasīda bhagavan iti vandeta daṇḍavat .. 45 ..
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६ ॥
śiro matpādayoḥ kṛtvā bāhubhyāṃ ca parasparam . prapannaṃ pāhi māmīśa bhītaṃ mṛtyugrahārṇavāt .. 46 ..
इति शेषां मया दत्तां शिरस्याधाय सादरम् । उद्वासयेद् चेद् उद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७ ॥
iti śeṣāṃ mayā dattāṃ śirasyādhāya sādaram . udvāsayed ced udvāsyaṃ jyotirjyotiṣi tatpunaḥ .. 47 ..
अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः ॥ ४८ ॥
arcādiṣu yadā yatra śraddhā māṃ tatra cārcayet . sarvabhūteṣvātmani ca sarvātmāhaṃ avasthitaḥ .. 48 ..
एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९ ॥
evaṃ kriyāyogapathaiḥ pumānvaidikatāntrikaiḥ . arcan ubhayataḥ siddhiṃ matto vindatyabhīpsitām .. 49 ..
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५० ॥
madarcāṃ sampratiṣṭhāpya mandiraṃ kārayed dṛḍham . puṣpodyānāni ramyāṇi pūjāyātrotsavāśritān .. 50 ..
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१ ॥
pūjādīnāṃ pravāhārthaṃ mahāparvasvathānvaham . kṣetrāpaṇapuragrāmān dattvā matsārṣṭitāmiyāt .. 51 ..
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२ ॥
pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvanatrayam . pūjādinā brahmalokaṃ tribhirmatsāmyatāmiyāt .. 52 ..
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभते एवं यः पूजयेत माम् ॥ ५३ ॥
māmeva nairapekṣyeṇa bhaktiyogena vindati . bhaktiyogaṃ sa labhate evaṃ yaḥ pūjayeta mām .. 53 ..
यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः । वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम् ॥ ५४ ॥
yaḥ svadattāṃ parairdattāṃ hareta suraviprayoḥ . vṛttiṃ sa jāyate viḍbhug varṣāṇāṃ ayutāyutam .. 54 ..
कर्तुश्च सारथेहेतोः अनुमोदितुरेव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५ ॥
kartuśca sārathehetoḥ anumoditureva ca . karmaṇāṃ bhāginaḥ pretya bhūyo bhūyasi tatphalam .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe saptaviṃśo'dhyāyaḥ .. 27 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In