| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच - ( अनुष्टुप् )
परस्वभावकर्माणि न प्रशंसेन्न गहयेत् । विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
पर-स्वभाव-कर्माणि न प्रशंसेत् न गहयेत् । विश्वम् एक-आत्मकम् पश्यन् प्रकृत्या पुरुषेण च ॥ १ ॥
para-svabhāva-karmāṇi na praśaṃset na gahayet . viśvam eka-ātmakam paśyan prakṛtyā puruṣeṇa ca .. 1 ..
परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्यभिनिवेशतः ॥ २ ॥
पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति । सः आशु भ्रश्यते स्व-अर्थात् असत्य-अभिनिवेशतः ॥ २ ॥
para-svabhāva-karmāṇi yaḥ praśaṃsati nindati . saḥ āśu bhraśyate sva-arthāt asatya-abhiniveśataḥ .. 2 ..
तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वत् नानार्थदृक् पुमान् ॥ ३ ॥
तैजसे निद्रया आपन्ने पिण्ड-स्थः नष्टचेतनः । मायाम् प्राप्नोति मृत्युम् वा तद्वत् नाना अर्थ-दृश् पुमान् ॥ ३ ॥
taijase nidrayā āpanne piṇḍa-sthaḥ naṣṭacetanaḥ . māyām prāpnoti mṛtyum vā tadvat nānā artha-dṛś pumān .. 3 ..
किं भद्रं किं अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४ ॥
किम् भद्रम् किम् अभद्रम् वा द्वैतस्य अवस्तुनः कियत् । वाच्-उदितम् तत् अनृतम् मनसा ध्यातम् एव च ॥ ४ ॥
kim bhadram kim abhadram vā dvaitasya avastunaḥ kiyat . vāc-uditam tat anṛtam manasā dhyātam eva ca .. 4 ..
छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः । एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५ ॥
छाया-प्रत्याह्वय-आभासाः हि असन्तः अपि अर्थ-कारिणः । एवम् देह-आदयः भावाः यच्छन्ति आमृत्युतः भयम् ॥ ५ ॥
chāyā-pratyāhvaya-ābhāsāḥ hi asantaḥ api artha-kāriṇaḥ . evam deha-ādayaḥ bhāvāḥ yacchanti āmṛtyutaḥ bhayam .. 5 ..
आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६ ॥
आत्मा एव तत् इदम् विश्वम् सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरति ईश्वरः ॥ ६ ॥
ātmā eva tat idam viśvam sṛjyate sṛjati prabhuḥ . trāyate trāti viśvātmā hriyate harati īśvaraḥ .. 6 ..
तस्मान्न ह्यात्मनोऽन्यस्मात् अन्यो भावो निरूपितः । निरूपितेऽयं त्रिविधा निर्मूल भातिरात्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७ ॥
तस्मात् न हि आत्मनः अन्यस्मात् अन्यः भावः निरूपितः । निरूपिते अयम् त्रिविधा निर्मूल भातिः आत्मनि । इदम् गुण-मयम् विद्धि त्रिविधम् मायया कृतम् ॥ ७ ॥
tasmāt na hi ātmanaḥ anyasmāt anyaḥ bhāvaḥ nirūpitaḥ . nirūpite ayam trividhā nirmūla bhātiḥ ātmani . idam guṇa-mayam viddhi trividham māyayā kṛtam .. 7 ..
एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८ ॥
एतत् विद्वान् मद्-उदितम् ज्ञान-विज्ञान-नैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्य-वत् ॥ ८ ॥
etat vidvān mad-uditam jñāna-vijñāna-naipuṇam . na nindati na ca stauti loke carati sūrya-vat .. 8 ..
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्यन्तवत् असज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९ ॥
प्रत्यक्षेण अनुमानेन निगमेन आत्म-संविदा । आदि-अन्त-वत् असत् ज्ञात्वा निःसङ्गः विचरेत् इह ॥ ९ ॥
pratyakṣeṇa anumānena nigamena ātma-saṃvidā . ādi-anta-vat asat jñātvā niḥsaṅgaḥ vicaret iha .. 9 ..
श्रीउद्धव उवाच -
नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः । अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १० ॥
न एव आत्मनः न देहस्य संसृतिः द्रष्टृ-दृश्ययोः । अनात्म-स्व-दृशोः ईश कस्य स्यात् उपलभ्यते ॥ १० ॥
na eva ātmanaḥ na dehasya saṃsṛtiḥ draṣṭṛ-dṛśyayoḥ . anātma-sva-dṛśoḥ īśa kasya syāt upalabhyate .. 10 ..
आत्माव्ययोऽगुणः शुद्धः स्वयंज्योतिरनावृतः । अग्निवद्दारुवद् अचिद् देहः कस्येह संसृतिः ॥ ११ ॥
आत्मा अव्ययः अगुणः शुद्धः स्वयम् ज्योतिः अनावृतः । अग्नि-वत् दारु-वत् अचित् देहः कस्य इह संसृतिः ॥ ११ ॥
ātmā avyayaḥ aguṇaḥ śuddhaḥ svayam jyotiḥ anāvṛtaḥ . agni-vat dāru-vat acit dehaḥ kasya iha saṃsṛtiḥ .. 11 ..
श्रीभगवानुवाच -
यावद् देहेन्द्रियप्राणैः आत्मनः सन्निकर्षणम् । संसारः फलवांस्तावद् अपार्थोऽप्यविवेकिनः ॥ १२ ॥
यावत् देह-इन्द्रिय-प्राणैः आत्मनः सन्निकर्षणम् । संसारः फलवान् तावत् अपार्थः अपि अविवेकिनः ॥ १२ ॥
yāvat deha-indriya-prāṇaiḥ ātmanaḥ sannikarṣaṇam . saṃsāraḥ phalavān tāvat apārthaḥ api avivekinaḥ .. 12 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३ ॥
अर्थे हि अ विद्यमाने अपि संसृतिः न निवर्तते । ध्यायतः स्वप्ने अनर्थ-आगमः यथा ॥ १३ ॥
arthe hi a vidyamāne api saṃsṛtiḥ na nivartate . dhyāyataḥ svapne anartha-āgamaḥ yathā .. 13 ..
यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥
यथा हि अप्रतिबुद्धस्य प्रस्वापः बहु-अनर्थ-भृत् । सः एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४ ॥
yathā hi apratibuddhasya prasvāpaḥ bahu-anartha-bhṛt . saḥ eva pratibuddhasya na vai mohāya kalpate .. 14 ..
शोकहर्षभयक्रोध लोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५ ॥
शोक-हर्ष-भय-क्रोध लोभ-मोह-स्पृहा-आदयः । अहङ्कारस्य दृश्यन्ते जन्म-मृत्युः च न आत्मनः ॥ १५ ॥
śoka-harṣa-bhaya-krodha lobha-moha-spṛhā-ādayaḥ . ahaṅkārasya dṛśyante janma-mṛtyuḥ ca na ātmanaḥ .. 15 ..
( मिश्र - ११ अक्षरी )
देहेन्द्रियप्राणमनोऽभिमानो जीवोऽन्तरात्मा गुणकर्ममूर्तिः । सूत्रं महानित्युरुधेव गीतः संसार आधावति कालतन्त्रः ॥ १६ ॥
देह-इन्द्रिय-प्राण-मनः-अभिमानः जीवः अन्तरात्मा गुण-कर्म-मूर्तिः । सूत्रम् महान् इति उरुधा इव गीतः संसारः आधावति कालतन्त्रः ॥ १६ ॥
deha-indriya-prāṇa-manaḥ-abhimānaḥ jīvaḥ antarātmā guṇa-karma-mūrtiḥ . sūtram mahān iti urudhā iva gītaḥ saṃsāraḥ ādhāvati kālatantraḥ .. 16 ..
अमूलमेतद् बहुरूपरूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७ ॥
अमूलम् एतत् बहु-रूप-रूपितम् मनः-वचः-प्राण-शरीर-कर्म । ज्ञान-असिना उपासनया शितेन छित्त्वा मुनिः गाम् विचरति अतृष्णः ॥ १७ ॥
amūlam etat bahu-rūpa-rūpitam manaḥ-vacaḥ-prāṇa-śarīra-karma . jñāna-asinā upāsanayā śitena chittvā muniḥ gām vicarati atṛṣṇaḥ .. 17 ..
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये ॥ १८ ॥
ज्ञानम् विवेकः निगमः तपः च प्रत्यक्षम् ऐतिह्यम् अथ अनुमानम् । आदि-अन्तयोः अस्य यत् एव केवलम् कालः च हेतुः च तत् एव मध्ये ॥ १८ ॥
jñānam vivekaḥ nigamaḥ tapaḥ ca pratyakṣam aitihyam atha anumānam . ādi-antayoḥ asya yat eva kevalam kālaḥ ca hetuḥ ca tat eva madhye .. 18 ..
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत् ॥ १९ ॥
यथा हिरण्यम् स्वकृतम् पुरस्तात् पश्चात् च सर्वस्य हिरण्मयस्य । तत् एव मध्ये व्यवहार्यमाणम् नाना अपदेशैः अहम् अस्य तद्वत् ॥ १९ ॥
yathā hiraṇyam svakṛtam purastāt paścāt ca sarvasya hiraṇmayasya . tat eva madhye vyavahāryamāṇam nānā apadeśaiḥ aham asya tadvat .. 19 ..
विज्ञानमेतत् त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम् ॥ २० ॥
विज्ञानम् एतत् गुण-त्रयम् कारण-कार्य-कर्तृ । समन्वयेन व्यतिरेकतः च येन एव तुर्येण तत् एव सत्यम् ॥ २० ॥
vijñānam etat guṇa-trayam kāraṇa-kārya-kartṛ . samanvayena vyatirekataḥ ca yena eva turyeṇa tat eva satyam .. 20 ..
न यत्पुरस्ताद् उत यन्न पश्चान् मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तदेव तत् स्यादिति मे मनीषा ॥ २१ ॥
न यत् पुरस्तात् उत यत् न पश्चात् मध्ये च तत् न व्यपदेश-मात्रम् । भूतम् प्रसिद्धम् च परेण यत् यत् तत् एव तत् स्यात् इति मे मनीषा ॥ २१ ॥
na yat purastāt uta yat na paścāt madhye ca tat na vyapadeśa-mātram . bhūtam prasiddham ca pareṇa yat yat tat eva tat syāt iti me manīṣā .. 21 ..
अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२ ॥
अ विद्यमानः अपि अवभासते यः वैकारिकः राजस-सर्गः एषः । ब्रह्म स्वयम् ज्योतिः अतस् विभाति ब्रह्म इन्द्रिय-अर्थ-आत्म-विकार-चित्रम् ॥ २२ ॥
a vidyamānaḥ api avabhāsate yaḥ vaikārikaḥ rājasa-sargaḥ eṣaḥ . brahma svayam jyotiḥ atas vibhāti brahma indriya-artha-ātma-vikāra-citram .. 22 ..
एवं स्फुटं ब्रह्मविवेकहेतुभिः । परापवादेन विशारदेन । छित्त्वाऽऽत्मसन्देहमुपारमेत । स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३ ॥
एवम् स्फुटम् ब्रह्म-विवेक-हेतुभिः । पर-अपवादेन विशारदेन । छित्त्वा आत्म-सन्देहम् उपारमेत । स्व-आनन्द-तुष्टः अखिल-कामुकेभ्यः ॥ २३ ॥
evam sphuṭam brahma-viveka-hetubhiḥ . para-apavādena viśāradena . chittvā ātma-sandeham upārameta . sva-ānanda-tuṣṭaḥ akhila-kāmukebhyaḥ .. 23 ..
नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलम् हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४ ॥
न आत्मा वपुः पार्थिवम् इन्द्रियाणि देवाः हि असुः वायुः जलम् हुताशः । मनः अन्न-मात्रम् धिषणा च सत्त्वम् अहङ्कृतिः खम् क्षितिः अर्थ-साम्यम् ॥ २४ ॥
na ātmā vapuḥ pārthivam indriyāṇi devāḥ hi asuḥ vāyuḥ jalam hutāśaḥ . manaḥ anna-mātram dhiṣaṇā ca sattvam ahaṅkṛtiḥ kham kṣitiḥ artha-sāmyam .. 24 ..
समाहितैः कः करणैर्गुणात्मभि र्गुणो भवेन्मत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं । घनैरुपेतैर्विगतै रवेः किम् ॥ २५ ॥
समाहितैः कः करणैः गुण-आत्मभिः र्गुणः भवेत् मद्-सु विविक्त-धाम्नः । विक्षिप्यमाणैः उत किम् नु दूषणम् । घनैः उपेतैः विगतैः रवेः किम् ॥ २५ ॥
samāhitaiḥ kaḥ karaṇaiḥ guṇa-ātmabhiḥ rguṇaḥ bhavet mad-su vivikta-dhāmnaḥ . vikṣipyamāṇaiḥ uta kim nu dūṣaṇam . ghanaiḥ upetaiḥ vigataiḥ raveḥ kim .. 25 ..
यथा नभो वाय्वनलाम्बुभूगुणै र्गतागतैर्वर्तुगुणैर्न सज्जते । तथाक्षरं सत्त्वरजस्तमोमलै रहंमतेः संसृतिहेतुभिः परम् ॥ २६ ॥
यथा नभः वायु-अनल-अम्बु-भू-गुणैः गत-आगतैः वा ऋतु-गुणैः न सज्जते । तथा अक्षरम् सत्त्व-रजः-तमः-मलैः रहंमतेः संसृति-हेतुभिः परम् ॥ २६ ॥
yathā nabhaḥ vāyu-anala-ambu-bhū-guṇaiḥ gata-āgataiḥ vā ṛtu-guṇaiḥ na sajjate . tathā akṣaram sattva-rajaḥ-tamaḥ-malaiḥ rahaṃmateḥ saṃsṛti-hetubhiḥ param .. 26 ..
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत मनःकषायः ॥ २७ ॥
तथा अपि सङ्गः परिवर्जनीयः गुणेषु माया-रचितेषु तावत् । मद्-भक्ति-योगेन दृढेन यावत् रजः निरस्येत मनः-कषायः ॥ २७ ॥
tathā api saṅgaḥ parivarjanīyaḥ guṇeṣu māyā-raciteṣu tāvat . mad-bhakti-yogena dṛḍhena yāvat rajaḥ nirasyeta manaḥ-kaṣāyaḥ .. 27 ..
यथाऽऽमयोऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८ ॥
यथा आमयः असाधु चिकित्सितः नृणाम् पुनर् पुनर् सन्तुदति प्ररोहन् । एवम् मनः-अपक्व-कषाय-कर्म कु योगिनम् विध्यति सर्व-सङ्गम् ॥ २८ ॥
yathā āmayaḥ asādhu cikitsitaḥ nṛṇām punar punar santudati prarohan . evam manaḥ-apakva-kaṣāya-karma ku yoginam vidhyati sarva-saṅgam .. 28 ..
कुयोगिनो ये विहितान्तरायै र्मनुष्यभूतैस्त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९ ॥
कु योगिनः ये विहित-अन्तरायैः मनुष्य-भूतैः त्रिदश-उपसृष्टैः । ते प्राक्तन-अभ्यास-बलेन भूयस् युञ्जन्ति योगम् न तु कर्म-तन्त्रम् ॥ २९ ॥
ku yoginaḥ ye vihita-antarāyaiḥ manuṣya-bhūtaiḥ tridaśa-upasṛṣṭaiḥ . te prāktana-abhyāsa-balena bhūyas yuñjanti yogam na tu karma-tantram .. 29 ..
करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३० ॥
करोति कर्म क्रियते च जन्तुः केन अपि असौ चोदितः आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितः अपि निवृत्त-तृष्णः स्व-सुख-अनुभूत्या ॥ ३० ॥
karoti karma kriyate ca jantuḥ kena api asau coditaḥ ānipatāt . na tatra vidvān prakṛtau sthitaḥ api nivṛtta-tṛṣṇaḥ sva-sukha-anubhūtyā .. 30 ..
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमानं आत्मानमात्मस्थमतिर्न वेद ॥ ३१ ॥
तिष्ठन्तम् आसीनम् उत व्रजन्तम् शयानम् उक्षन्तम् अदन्तम् अन्नम् । स्वभावम् अन्यत् किम् अपि ईहमानम् आत्मानम् आत्म-स्थ-मतिः न वेद ॥ ३१ ॥
tiṣṭhantam āsīnam uta vrajantam śayānam ukṣantam adantam annam . svabhāvam anyat kim api īhamānam ātmānam ātma-stha-matiḥ na veda .. 31 ..
यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२ ॥
यदि स्म पश्यति असत्-इन्द्रिय-अर्थम् नाना अनुमानेन विरुद्धम् अन्यत् । न मन्यते वस्तु-तया मनीषी स्वाप्नम् यथा उत्थाय तिरोदधानम् ॥ ३२ ॥
yadi sma paśyati asat-indriya-artham nānā anumānena viruddham anyat . na manyate vastu-tayā manīṣī svāpnam yathā utthāya tirodadhānam .. 32 ..
पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा ॥ ३३ ॥
पूर्वम् गृहीतम् गुण-कर्म-चित्रम् अज्ञानम् आत्मनि अविविक्तम् अङ्ग । निवर्तते तत् पुनर् ईक्षया एव न गृह्यते न अपि विसृज्यः आत्मा ॥ ३३ ॥
pūrvam gṛhītam guṇa-karma-citram ajñānam ātmani aviviktam aṅga . nivartate tat punar īkṣayā eva na gṛhyate na api visṛjyaḥ ātmā .. 33 ..
यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४ ॥
यथा हि भानोः उदयः नृ-चक्षुषाम् तमः निहन्यात् न तु सत् विधत्ते । एवम् समीक्षा निपुणा सती मे हन्यात् तमिस्रम् पुरुषस्य बुद्धेः ॥ ३४ ॥
yathā hi bhānoḥ udayaḥ nṛ-cakṣuṣām tamaḥ nihanyāt na tu sat vidhatte . evam samīkṣā nipuṇā satī me hanyāt tamisram puruṣasya buddheḥ .. 34 ..
एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति ॥ ३५ ॥
एष स्वयम् ज्योतिः अजः अप्रमेयः महा-अनुभूतिः सकल-अनुभूतिः । एकः अद्वितीयः वचसाम् विरामे येन इषिताः वाच्-असवः चरन्ति ॥ ३५ ॥
eṣa svayam jyotiḥ ajaḥ aprameyaḥ mahā-anubhūtiḥ sakala-anubhūtiḥ . ekaḥ advitīyaḥ vacasām virāme yena iṣitāḥ vāc-asavaḥ caranti .. 35 ..
( अनुष्टुप् )
एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले । आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि ॥ ३६ ॥
एतावान् आत्म-सम्मोहः यत् विकल्पः तु केवले । आत्मन् ऋते स्वम् आत्मानम् अवलम्बः न यस्य हि ॥ ३६ ॥
etāvān ātma-sammohaḥ yat vikalpaḥ tu kevale . ātman ṛte svam ātmānam avalambaḥ na yasya hi .. 36 ..
यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७ ॥
यद्-नाम-आकृतिभिः ग्राह्यम् पञ्च-वर्णम् अबाधितम् । व्यर्थेन अपि अर्थवादः अयम् द्वयम् पण्डित-मानिनाम् ॥ ३७ ॥
yad-nāma-ākṛtibhiḥ grāhyam pañca-varṇam abādhitam . vyarthena api arthavādaḥ ayam dvayam paṇḍita-māninām .. 37 ..
योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः । उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८ ॥
योगिनः अपक्व-योगस्य युञ्जतः काये उत्थितैः । उपसर्गैः विहन्येत तत्र अयम् विहितः विधिः ॥ ३८ ॥
yoginaḥ apakva-yogasya yuñjataḥ kāye utthitaiḥ . upasargaiḥ vihanyeta tatra ayam vihitaḥ vidhiḥ .. 38 ..
योगधारणया कांश्चिद् आसनैर्धारणान्वितैः । तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥
योग-धारणया कांश्चिद् आसनैः धारण-अन्वितैः । तपः-मन्त्र-औषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ ३९ ॥
yoga-dhāraṇayā kāṃścid āsanaiḥ dhāraṇa-anvitaiḥ . tapaḥ-mantra-auṣadhaiḥ kāṃścid upasargān vinirdahet .. 39 ..
कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः ॥ ४० ॥
कांश्चिद् मम अनुध्यानेन नाम-सङ्कीर्तन-आदिभिः । योगेश्वर-अनुवृत्त्या वा हन्यात् अशुभ-दान् शनैस् ॥ ४० ॥
kāṃścid mama anudhyānena nāma-saṅkīrtana-ādibhiḥ . yogeśvara-anuvṛttyā vā hanyāt aśubha-dān śanais .. 40 ..
केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥
केचिद् देहम् इमम् धीराः सु कल्पम् वयसि स्थिरम् । विधाय विविध-उपायैः अथ युञ्जन्ति सिद्धये ॥ ४१ ॥
kecid deham imam dhīrāḥ su kalpam vayasi sthiram . vidhāya vividha-upāyaiḥ atha yuñjanti siddhaye .. 41 ..
न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः ॥ ४२ ॥
न हि तत् कुशल-आदृत्यम् तद्-आयासः हि अपार्थकः । अन्तवत्-त्वात् शरीरस्य फलस्य इव वनस्पतेः ॥ ४२ ॥
na hi tat kuśala-ādṛtyam tad-āyāsaḥ hi apārthakaḥ . antavat-tvāt śarīrasya phalasya iva vanaspateḥ .. 42 ..
योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् । तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३ ॥
योगम् निषेवतः नित्यम् कायः चेद् कल्प-ताम् इयात् । तत् श्रद्दध्यात् न मतिमान् योगम् उत्सृज्य मद्-परः ॥ ४३ ॥
yogam niṣevataḥ nityam kāyaḥ ced kalpa-tām iyāt . tat śraddadhyāt na matimān yogam utsṛjya mad-paraḥ .. 43 ..
योगचर्यामिमां योगी विचरन् मदपाश्रयः । नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४ ॥
योग-चर्याम् इमाम् योगी विचरन् मद्-अपाश्रयः । ना अन्तरायैः विहन्येत निःस्पृहः स्व-सुख-अनुभूः ॥ ४४ ॥
yoga-caryām imām yogī vicaran mad-apāśrayaḥ . nā antarāyaiḥ vihanyeta niḥspṛhaḥ sva-sukha-anubhūḥ .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टाविंशः अध्यायः ॥ २८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe aṣṭāviṃśaḥ adhyāyaḥ .. 28 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In