| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीउद्धव उवाच - ( अनुष्टुप् )
सुदुश्चरां इमां मन्ये योगचर्यामनात्मनः । यथाञ्जसा पुमान् सिद्ध्येत् तन्मे ब्रूह्यञ्जसाच्युत ॥ १ ॥
सु दुश्चराम् इमाम् मन्ये योग-चर्याम् अनात्मनः । यथा अञ्जसा पुमान् सिद्ध्येत् तत् मे ब्रूहि अञ्जसा अच्युत ॥ १ ॥
su duścarām imām manye yoga-caryām anātmanaḥ . yathā añjasā pumān siddhyet tat me brūhi añjasā acyuta .. 1 ..
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः । विषीदन्त्यसमाधानान् मनोनिग्रहकर्शिताः ॥ २ ॥
प्रायशस् पुण्डरीकाक्ष युञ्जन्तः योगिनः मनः । विषीदन्ति असमाधानात् मनः-निग्रह-कर्शिताः ॥ २ ॥
prāyaśas puṇḍarīkākṣa yuñjantaḥ yoginaḥ manaḥ . viṣīdanti asamādhānāt manaḥ-nigraha-karśitāḥ .. 2 ..
( मिश्र - १२ अक्षरी )
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्नरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभि स्त्वन्माययामी विहता न मानिनः ॥ ३ ॥
अथ अतस् आनन्द-दुघम् पद-अम्बुजम् हंसाः श्रयेरन् अरविन्द-लोचन । सुखम् नु विश्वेश्वर योग-कर्मभिः स्त्वद्-मायया अमी विहताः न मानिनः ॥ ३ ॥
atha atas ānanda-dugham pada-ambujam haṃsāḥ śrayeran aravinda-locana . sukham nu viśveśvara yoga-karmabhiḥ stvad-māyayā amī vihatāḥ na māninaḥ .. 3 ..
( वसंततिलका )
किं चित्रमच्युत तवैतदशेषबन्धो दासेष्वनन्यशरणेषु यदात्मसात्त्वम् । योऽरोचयत् सह मृगैः स्वयमीश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥ ४ ॥
किम् चित्रम् अच्युत तव एतत् अशेष-बन्धो दासेषु अनन्य-शरणेषु यत् आत्मसात् त्वम् । यः अरोचयत् सह मृगैः स्वयम् ईश्वराणाम् श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ ४ ॥
kim citram acyuta tava etat aśeṣa-bandho dāseṣu ananya-śaraṇeṣu yat ātmasāt tvam . yaḥ arocayat saha mṛgaiḥ svayam īśvarāṇām śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ .. 4 ..
तं त्वाखिलात्मदयितेश्वरमाश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु । को वा भजेत् किमपि विस्मृतयेऽनु भूत्यै किं वा भवेन्न तव पादरजोजुषां नः ॥ ५ ॥
तम् त्वा अखिल-आत्म-दयित-ईश्वरम् आश्रितानाम् सर्व-अर्थ-दम् स्व-कृत-विद् विसृजेत कः नु । कः वा भजेत् किम् अपि विस्मृतये अनु भूत्यै किम् वा भवेत् न तव पाद-रजः-जुषाम् नः ॥ ५ ॥
tam tvā akhila-ātma-dayita-īśvaram āśritānām sarva-artha-dam sva-kṛta-vid visṛjeta kaḥ nu . kaḥ vā bhajet kim api vismṛtaye anu bhūtyai kim vā bhavet na tava pāda-rajaḥ-juṣām naḥ .. 5 ..
नैवोपयन्त्यपचितिं कवयस्तवेश ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः । योऽन्तर्बहिस्तनुभृतां अशुभं विधुन्वन् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६ ॥
न एव उपयन्ति अपचितिम् कवयः तव ईश ब्रह्म-आयुषा अपि कृतम् ऋद्ध-मुदः स्मरन्तः । यः अन्तर् बहिस् तनुभृताम् अशुभम् विधुन्वन् आचार्य-चैत्त्य-वपुषा स्व-गतिम् व्यनक्ति ॥ ६ ॥
na eva upayanti apacitim kavayaḥ tava īśa brahma-āyuṣā api kṛtam ṛddha-mudaḥ smarantaḥ . yaḥ antar bahis tanubhṛtām aśubham vidhunvan ācārya-caittya-vapuṣā sva-gatim vyanakti .. 6 ..
श्रीशुक उवाच - ( मिश्र - १२ अक्षरी )
इत्युद्धवेनात्यनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥ ७ ॥
इति उद्धवेन अति अनुरक्त-चेतसा पृष्टः जगत्क्रीडनकः स्व-शक्तिभिः । गृहीत-मूर्ति-त्रयः ईश्वर-ईश्वरः जगाद स प्रेम-मनोहर-स्मितः ॥ ७ ॥
iti uddhavena ati anurakta-cetasā pṛṣṭaḥ jagatkrīḍanakaḥ sva-śaktibhiḥ . gṛhīta-mūrti-trayaḥ īśvara-īśvaraḥ jagāda sa prema-manohara-smitaḥ .. 7 ..
श्रीभगवानुवाच - ( अनुष्टुप् )
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् । याञ्छ्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
हन्त ते कथयिष्यामि मम धर्मान् सु मङ्गलान् । यान् श्रद्धया आचरन् मर्त्यः मृत्युम् जयति दुर्जयम् ॥ ८ ॥
hanta te kathayiṣyāmi mama dharmān su maṅgalān . yān śraddhayā ācaran martyaḥ mṛtyum jayati durjayam .. 8 ..
कुर्यात् सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् । मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९ ॥
कुर्यात् सर्वाणि कर्माणि मद्-अर्थम् शनकैस् स्मरन् । मयि अर्पित-मनः-चित्तः मद्-धर्म-आत्म-मनोरतिः ॥ ९ ॥
kuryāt sarvāṇi karmāṇi mad-artham śanakais smaran . mayi arpita-manaḥ-cittaḥ mad-dharma-ātma-manoratiḥ .. 9 ..
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १० ॥
देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् । देव-असुर-मनुष्येषु मद्-भक्त-आचरितानि च ॥ १० ॥
deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān . deva-asura-manuṣyeṣu mad-bhakta-ācaritāni ca .. 10 ..
पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेद् गीत नृत्याद्यैः महाराजविभूतिभिः ॥ ११ ॥
पृथक् सत्रेण वा मह्यम् पर्व-यात्रा-महा-उत्सवान् । कारयेत् गीत-नृत्य-आद्यैः महाराज-विभूतिभिः ॥ ११ ॥
pṛthak satreṇa vā mahyam parva-yātrā-mahā-utsavān . kārayet gīta-nṛtya-ādyaiḥ mahārāja-vibhūtibhiḥ .. 11 ..
मामेव सर्वभूतेषु बहिरन्तरपावृतम् । ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२ ॥
माम् एव सर्व-भूतेषु बहिस् अन्तर् अपावृतम् । ईक्षेत आत्मनि च आत्मानम् यथा खम् अमल-आशयः ॥ १२ ॥
mām eva sarva-bhūteṣu bahis antar apāvṛtam . īkṣeta ātmani ca ātmānam yathā kham amala-āśayaḥ .. 12 ..
इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३ ॥
इति सर्वाणि भूतानि मद्-भावेन महा-द्युते । सभाजयन् मन्यमानः ज्ञानम् केवलम् आश्रितः ॥ १३ ॥
iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute . sabhājayan manyamānaḥ jñānam kevalam āśritaḥ .. 13 ..
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४ ॥
ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्ये अर्के स्फुलिङ्गके । अक्रूरे क्रूरके च एव समदृश् पण्डितः मतः ॥ १४ ॥
brāhmaṇe pulkase stene brahmaṇye arke sphuliṅgake . akrūre krūrake ca eva samadṛś paṇḍitaḥ mataḥ .. 14 ..
नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात् । स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५ ॥
नरेषु अभीक्ष्णम् मद्-भावम् पुंसः भावयतः अचिरात् । स्पर्धा-असूया-तिरस्काराः स अहङ्काराः वियन्ति हि ॥ १५ ॥
nareṣu abhīkṣṇam mad-bhāvam puṃsaḥ bhāvayataḥ acirāt . spardhā-asūyā-tiraskārāḥ sa ahaṅkārāḥ viyanti hi .. 15 ..
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेद् दण्डवद् भूमौ अश्वचाण्डालगोखरम् ॥ १६ ॥
विसृज्य स्मयमानान् स्वान् दृशम् व्रीडाम् च दैहिकीम् । प्रणमेत् दण्ड-वत् भूमौ अश्व-चाण्डाल-गो-खरम् ॥ १६ ॥
visṛjya smayamānān svān dṛśam vrīḍām ca daihikīm . praṇamet daṇḍa-vat bhūmau aśva-cāṇḍāla-go-kharam .. 16 ..
यावर् सर्वेषु भूतेषु मद्भावो नोपजायते । तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥ १७ ॥
यावर् सर्वेषु भूतेषु मद्-भावः न उपजायते । तावत् एवम् उपासीत वाच्-मनः-काय-वृत्तिभिः ॥ १७ ॥
yāvar sarveṣu bhūteṣu mad-bhāvaḥ na upajāyate . tāvat evam upāsīta vāc-manaḥ-kāya-vṛttibhiḥ .. 17 ..
सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया । परिपश्यन् उपरमेत् सर्वतो मुक्तसंशयः ॥ १८ ॥
सर्वम् ब्रह्म-आत्मकम् तस्य विद्यया आत्म-मनीषया । परिपश्यन् उपरमेत् सर्वतस् मुक्त-संशयः ॥ १८ ॥
sarvam brahma-ātmakam tasya vidyayā ātma-manīṣayā . paripaśyan uparamet sarvatas mukta-saṃśayaḥ .. 18 ..
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९ ॥
अयम् हि सर्व-कल्पानाम् सध्रीचीनः मतः मम । मद्-भावः सर्व-भूतेषु मनः-वाच्-काय-वृत्तिभिः ॥ १९ ॥
ayam hi sarva-kalpānām sadhrīcīnaḥ mataḥ mama . mad-bhāvaḥ sarva-bhūteṣu manaḥ-vāc-kāya-vṛttibhiḥ .. 19 ..
न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि । मया व्यवसितः सम्यङ् निर्गुणत्वादनाशिषः ॥ २० ॥
न हि अङ्ग-उपक्रमे ध्वंसः मद्-धर्मस्य उद्धव अणु अपि । मया व्यवसितः सम्यक् निर्गुण-त्वात् अनाशिषः ॥ २० ॥
na hi aṅga-upakrame dhvaṃsaḥ mad-dharmasya uddhava aṇu api . mayā vyavasitaḥ samyak nirguṇa-tvāt anāśiṣaḥ .. 20 ..
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तदायासो निरर्थः स्याद् भयादेरिव सत्तम ॥ २१ ॥
यः यः मयि परे धर्मः कल्प्यते निष्फलाय चेद् । तद्-आयासः निरर्थः स्यात् भय-आदेः इव सत्तम ॥ २१ ॥
yaḥ yaḥ mayi pare dharmaḥ kalpyate niṣphalāya ced . tad-āyāsaḥ nirarthaḥ syāt bhaya-ādeḥ iva sattama .. 21 ..
एषा बुद्धिमतां बुद्धिः मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२ ॥
एषा बुद्धिमताम् बुद्धिः मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेन इह मर्त्येन आप्नोति मा अमृतम् ॥ २२ ॥
eṣā buddhimatām buddhiḥ manīṣā ca manīṣiṇām . yat satyam anṛtena iha martyena āpnoti mā amṛtam .. 22 ..
एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानामपि दुर्गमः ॥ २३ ॥
एष ते अभिहितः कृत्स्नः ब्रह्म-वादस्य सङ्ग्रहः । समास-व्यास-विधिना देवानाम् अपि दुर्गमः ॥ २३ ॥
eṣa te abhihitaḥ kṛtsnaḥ brahma-vādasya saṅgrahaḥ . samāsa-vyāsa-vidhinā devānām api durgamaḥ .. 23 ..
अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४ ॥
अभीक्ष्णशस् ते गदितम् ज्ञानम् विस्पष्ट-युक्तिमत् । एतत् विज्ञाय मुच्येत पुरुषः नष्ट-संशयः ॥ २४ ॥
abhīkṣṇaśas te gaditam jñānam vispaṣṭa-yuktimat . etat vijñāya mucyeta puruṣaḥ naṣṭa-saṃśayaḥ .. 24 ..
सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५ ॥
सु विविक्तम् तव प्रश्नम् मया एतत् अपि धारयेत् । सनातनम् ब्रह्म-गुह्यम् परम् ब्रह्म अधिगच्छति ॥ २५ ॥
su viviktam tava praśnam mayā etat api dhārayet . sanātanam brahma-guhyam param brahma adhigacchati .. 25 ..
य एतन्मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६ ॥
यः एतत् मम भक्तेषु सम्प्रदद्यात् सु पुष्कलम् । तस्य अहम् ब्रह्म-दायस्य ददामि आत्मानम् आत्मना ॥ २६ ॥
yaḥ etat mama bhakteṣu sampradadyāt su puṣkalam . tasya aham brahma-dāyasya dadāmi ātmānam ātmanā .. 26 ..
य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७ ॥
यः एतत् समधीयीत पवित्रम् परमम् शुचि । स पूयेत अहरहर् माम् ज्ञान-दीपेन दर्शयन् ॥ २७ ॥
yaḥ etat samadhīyīta pavitram paramam śuci . sa pūyeta aharahar mām jñāna-dīpena darśayan .. 27 ..
य एतत् श्ररद्धया नित्यं अव्यग्रः श्रृणुयान्नरः । मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८ ॥
यः एतत् श्ररद्धया नित्यम् अव्यग्रः श्रृणुयात् नरः । मयि भक्तिम् पराम् कुर्वन् कर्मभिः न स बध्यते ॥ २८ ॥
yaḥ etat śraraddhayā nityam avyagraḥ śrṛṇuyāt naraḥ . mayi bhaktim parām kurvan karmabhiḥ na sa badhyate .. 28 ..
अप्युद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९ ॥
अपि उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतः मोहः शोकः च असौ मनोभवः ॥ २९ ॥
api uddhava tvayā brahma sakhe samavadhāritam . api te vigataḥ mohaḥ śokaḥ ca asau manobhavaḥ .. 29 ..
नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥
न एतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अ शुश्रूषोः अभक्ताय दुर्विनीताय दीयताम् ॥ ३० ॥
na etat tvayā dāmbhikāya nāstikāya śaṭhāya ca . a śuśrūṣoḥ abhaktāya durvinītāya dīyatām .. 30 ..
एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् भक्तिः स्यात् शूद्रयोषिताम् ॥ ३१ ॥
एतैः दोषैः विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयात् भक्तिः स्यात् शूद्र-योषिताम् ॥ ३१ ॥
etaiḥ doṣaiḥ vihīnāya brahmaṇyāya priyāya ca . sādhave śucaye brūyāt bhaktiḥ syāt śūdra-yoṣitām .. 31 ..
नैतद् विज्ञाय जिज्ञासोः ज्ञातव्यं अवशिष्यते । पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२ ॥
न एतत् विज्ञाय जिज्ञासोः ज्ञातव्यम् अवशिष्यते । पीत्वा पीयूषम् अमृतम् पातव्यम् न अवशिष्यते ॥ ३२ ॥
na etat vijñāya jijñāsoḥ jñātavyam avaśiṣyate . pītvā pīyūṣam amṛtam pātavyam na avaśiṣyate .. 32 ..
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३ ॥
ज्ञाने कर्मणि योगे च वार्तायाम् दण्ड-धारणे । यावान् अर्थः नृणाम् तात तावान् ते अहम् चतुर्विधः ॥ ३३ ॥
jñāne karmaṇi yoge ca vārtāyām daṇḍa-dhāraṇe . yāvān arthaḥ nṛṇām tāta tāvān te aham caturvidhaḥ .. 33 ..
( मिश्र )
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४ ॥
मर्त्यः यदा त्यक्त-समस्त-कर्मा निवेदित-आत्मा विचिकीर्षितः मे । तदा अमृत-त्वम् प्रतिपद्यमानः मया आत्मभूयाय च कल्पते वै ॥ ३४ ॥
martyaḥ yadā tyakta-samasta-karmā nivedita-ātmā vicikīrṣitaḥ me . tadā amṛta-tvam pratipadyamānaḥ mayā ātmabhūyāya ca kalpate vai .. 34 ..
श्रीशुक उवाच -
स एवमादर्शितयोगमार्गः तदोत्तमःश्लोकवचो निशम्य । बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५ ॥
सः एवम् आदर्शित-योग-मार्गः तदा उत्तमः श्लोक-वचः निशम्य । बद्धाञ्जलिः प्रीति-उपरुद्ध-कण्ठः न किञ्चिद् ऊचे अश्रु-परिप्लुत-अक्षः ॥ ३५ ॥
saḥ evam ādarśita-yoga-mārgaḥ tadā uttamaḥ śloka-vacaḥ niśamya . baddhāñjaliḥ prīti-uparuddha-kaṇṭhaḥ na kiñcid ūce aśru-paripluta-akṣaḥ .. 35 ..
विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन्बहुमन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६ ॥
विष्टभ्य चित्तम् प्रणय-अवघूर्णम् धैर्येण राजन् बहु-मन्यमानः । कृताञ्जलिः प्राह यदु-प्रवीरम् शीर्ष्णा स्पृशन् तद्-चरण-अरविन्दम् ॥ ३६ ॥
viṣṭabhya cittam praṇaya-avaghūrṇam dhairyeṇa rājan bahu-manyamānaḥ . kṛtāñjaliḥ prāha yadu-pravīram śīrṣṇā spṛśan tad-caraṇa-aravindam .. 36 ..
श्रीउद्धव उवाच -
विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७ ॥
विद्रावितः मोह-महा-अन्धकारः यः आश्रितः मे तव सन्निधानात् । विभावसोः किम् नु समीप-गस्य शीतम् तमः भीः प्रभवन्ति अज अद्य ॥ ३७ ॥
vidrāvitaḥ moha-mahā-andhakāraḥ yaḥ āśritaḥ me tava sannidhānāt . vibhāvasoḥ kim nu samīpa-gasya śītam tamaḥ bhīḥ prabhavanti aja adya .. 37 ..
प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञस्तव पादमूलं कोऽन्यत् समीयाच्छरणं त्वदीयम् ॥ ३८ ॥
प्रत्यर्पितः मे भवता अनुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः । हित्वा कृतज्ञः तव पाद-मूलम् कः अन्यत् समीयात् शरणम् त्वदीयम् ॥ ३८ ॥
pratyarpitaḥ me bhavatā anukampinā bhṛtyāya vijñāna-mayaḥ pradīpaḥ . hitvā kṛtajñaḥ tava pāda-mūlam kaḥ anyat samīyāt śaraṇam tvadīyam .. 38 ..
वृक्णश्च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्यन्धकसात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९ ॥
वृक्णः च मे सु दृढः स्नेह-पाशः दाशार्ह-वृष्णि-अन्धक-सात्वतेषु । प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया हि आत्म-सु बोध-हेतिना ॥ ३९ ॥
vṛkṇaḥ ca me su dṛḍhaḥ sneha-pāśaḥ dāśārha-vṛṣṇi-andhaka-sātvateṣu . prasāritaḥ sṛṣṭi-vivṛddhaye tvayā sva-māyayā hi ātma-su bodha-hetinā .. 39 ..
( अनुष्टुप् )
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४० ॥
नमः अस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वद्-चरण-अम्भोजे रतिः स्यात् अनपायिनी ॥ ४० ॥
namaḥ astu te mahāyogin prapannam anuśādhi mām . yathā tvad-caraṇa-ambhoje ratiḥ syāt anapāyinī .. 40 ..
श्रीभगवानुवाच -
गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् । तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१ ॥
गच्छ उद्धव मया आदिष्टः बदरी-आख्यम् मम आश्रमम् । तत्र मद्-पाद-तीर्थ-उदे स्नान-उपस्पर्शनैः शुचिः ॥ ४१ ॥
gaccha uddhava mayā ādiṣṭaḥ badarī-ākhyam mama āśramam . tatra mad-pāda-tīrtha-ude snāna-upasparśanaiḥ śuciḥ .. 41 ..
ईक्षयालकनन्दाया विधूताशेषकल्मषः । वसानो वल्कलान्यङ्ग वन्यभुक्सुखनिःस्पृहः ॥ ४२ ॥
ईक्षय अलकनन्दायाः विधूत-अशेष-कल्मषः । वसानः वल्कलानि अङ्ग वन्य-भुज् सुख-निःस्पृहः ॥ ४२ ॥
īkṣaya alakanandāyāḥ vidhūta-aśeṣa-kalmaṣaḥ . vasānaḥ valkalāni aṅga vanya-bhuj sukha-niḥspṛhaḥ .. 42 ..
तितिक्षुः द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३ ॥
तितिक्षुः द्वन्द्वमात्राणाम् सु शीलः संयत-इन्द्रियः । शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः ॥ ४३ ॥
titikṣuḥ dvandvamātrāṇām su śīlaḥ saṃyata-indriyaḥ . śāntaḥ samāhita-dhiyā jñāna-vijñāna-saṃyutaḥ .. 43 ..
मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् । मय्यावेशितवाक्चित्तो मद्धर्मनिरतो भव । अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४ ॥
मत्तः अनुशिक्षितम् यत् ते विविक्तम् अनुभावयन् । मयि आवेशित-वाच्-चित्तः मद्-धर्म-निरतः भव । अतिव्रज्य गतीः तिस्रः माम् एष्यसि ततस् परम् ॥ ४४ ॥
mattaḥ anuśikṣitam yat te viviktam anubhāvayan . mayi āveśita-vāc-cittaḥ mad-dharma-nirataḥ bhava . ativrajya gatīḥ tisraḥ mām eṣyasi tatas param .. 44 ..
श्रीशुक उवाच - ( मिश्र )
स एवमुक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रुकलाभिरार्द्रधीः न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५ ॥
सः एवम् उक्तः हरिमेधसा उद्धवः प्रदक्षिणम् तम् परिसृत्य पादयोः । शिरः निधाय अश्रु-कलाभिः आर्द्र-धीः न्यषिञ्चत् अ द्वन्द्व-परः अपि अपक्रमे ॥ ४५ ॥
saḥ evam uktaḥ harimedhasā uddhavaḥ pradakṣiṇam tam parisṛtya pādayoḥ . śiraḥ nidhāya aśru-kalābhiḥ ārdra-dhīḥ nyaṣiñcat a dvandva-paraḥ api apakrame .. 45 ..
सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस्तं परिहातुमातुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ ४६ ॥
सु दुस्त्यज-स्नेह-वियोग-कातरः न शक्नुवन् तम् परिहातुम् आतुरः । कृच्छ्रम् ययौ मूर्धनि भर्तृ-पादुके बिभ्रन् नमस्कृत्य ययौ पुनर् पुनर् ॥ ४६ ॥
su dustyaja-sneha-viyoga-kātaraḥ na śaknuvan tam parihātum āturaḥ . kṛcchram yayau mūrdhani bhartṛ-pāduke bibhran namaskṛtya yayau punar punar .. 46 ..
ततस्तमन्तर्हुदि सन्निवेश्य गतो महाभागवतो विशालाम् । यथोपदिष्टां जगदेकबन्धुना तपः समास्थाय हरेरगाद् गतिम् ॥ ४७ ॥
ततस् तम् अन्तर् हुदि सन्निवेश्य गतः महाभागवतः विशालाम् । यथा उपदिष्टाम् जगदेकबन्धुना तपः समास्थाय हरेः अगात् गतिम् ॥ ४७ ॥
tatas tam antar hudi sanniveśya gataḥ mahābhāgavataḥ viśālām . yathā upadiṣṭām jagadekabandhunā tapaḥ samāsthāya hareḥ agāt gatim .. 47 ..
य एतद् आनन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम् । कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८ ॥
यः एतत् आनन्द-समुद्र-सम्भृतम् ज्ञान-अमृतम् भागवताय भाषितम् । कृष्णेन योग-ईश्वर-सेवित-अङ्घ्रिणा सत्-श्रद्धया आसेव्य जगत् विमुच्यते ॥ ४८ ॥
yaḥ etat ānanda-samudra-sambhṛtam jñāna-amṛtam bhāgavatāya bhāṣitam . kṛṣṇena yoga-īśvara-sevita-aṅghriṇā sat-śraddhayā āsevya jagat vimucyate .. 48 ..
( मालिनी )
भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् । अमृतमुदधितश्चा पाययद् भृत्यवर्गान् पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९ ॥
भव-भयम् अपहन्तुम् ज्ञान-विज्ञान-सारम् निगम-कृत् उपजह्रे भृङ्ग-वत् वेद-सारम् । भृत्य-वर्गान् पुरुषम् ऋषभम् आद्यम् कृष्ण-संज्ञम् नतः अस्मि ॥ ४९ ॥
bhava-bhayam apahantum jñāna-vijñāna-sāram nigama-kṛt upajahre bhṛṅga-vat veda-sāram . bhṛtya-vargān puruṣam ṛṣabham ādyam kṛṣṇa-saṃjñam nataḥ asmi .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकोत्रिंशोऽध्यायः ॥ २९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे एकोत्रिंशः अध्यायः ॥ २९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ekotriṃśaḥ adhyāyaḥ .. 29 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In