| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - ( अनुष्टुप् )
परस्य विष्णोरीशस्य मायिनां अपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥
परस्य विष्णोः ईशस्य मायिनाम् अपि मोहिनीम् । मायाम् वेदितुम् इच्छामः भगवन्तः ब्रुवन्तु नः ॥ १ ॥
parasya viṣṇoḥ īśasya māyinām api mohinīm . māyām veditum icchāmaḥ bhagavantaḥ bruvantu naḥ .. 1 ..
नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यः तत्तापभेषजम् ॥ २ ॥
न अनुतृप्ये जुषन् युष्मद्-वचः हरि-कथा-अमृतम् । संसार-ताप-निस्तप्तः मर्त्यः तद्-ताप-भेषजम् ॥ २ ॥
na anutṛpye juṣan yuṣmad-vacaḥ hari-kathā-amṛtam . saṃsāra-tāpa-nistaptaḥ martyaḥ tad-tāpa-bheṣajam .. 2 ..
श्री अन्तरिक्ष उवाच -
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३ ॥
एभिः भूतानि भूत-आत्मा महाभूतैः महा-भुज । ससर्ज उच्चावचानि आद्यः स्व-मात्र-आत्म-प्रसिद्धये ॥ ३ ॥
ebhiḥ bhūtāni bhūta-ātmā mahābhūtaiḥ mahā-bhuja . sasarja uccāvacāni ādyaḥ sva-mātra-ātma-prasiddhaye .. 3 ..
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
एवम् सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः । एकधा दशधा आत्मानम् विभजन् जुषते गुणान् ॥ ४ ॥
evam sṛṣṭāni bhūtāni praviṣṭaḥ pañca-dhātubhiḥ . ekadhā daśadhā ātmānam vibhajan juṣate guṇān .. 4 ..
गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टं आत्मानमिह सज्जते ॥ ५ ॥
गुणैः गुणान् स भुञ्जानः आत्म-प्रद्योतितैः प्रभुः । मन्यमानः इदम् सृष्टम् आत्मानम् इह सज्जते ॥ ५ ॥
guṇaiḥ guṇān sa bhuñjānaḥ ātma-pradyotitaiḥ prabhuḥ . manyamānaḥ idam sṛṣṭam ātmānam iha sajjate .. 5 ..
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥
कर्माणि कर्मभिः कुर्वन् स निमित्तानि देहभृत् । तत् तत् कर्म-फलम् गृह्णन् भ्रमति इह सुखेतरम् ॥ ६ ॥
karmāṇi karmabhiḥ kurvan sa nimittāni dehabhṛt . tat tat karma-phalam gṛhṇan bhramati iha sukhetaram .. 6 ..
इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् । आभूतसंप्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥
इत्थम् कर्म-गतीः गच्छन् बहु-अभद्र-वहाः पुमान् । आ भूतसंप्लवात् सर्ग-प्रलयौ अश्नुते अवशः ॥ ७ ॥
ittham karma-gatīḥ gacchan bahu-abhadra-vahāḥ pumān . ā bhūtasaṃplavāt sarga-pralayau aśnute avaśaḥ .. 7 ..
धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥
धातु-उपप्लवे आसन्ने व्यक्तम् द्रव्य-गुण-आत्मकम् । अन् आदि-निधनः कालः हि अव्यक्ताय अपकर्षति ॥ ८ ॥
dhātu-upaplave āsanne vyaktam dravya-guṇa-ātmakam . an ādi-nidhanaḥ kālaḥ hi avyaktāya apakarṣati .. 8 ..
शतवर्षा ह्यनावृष्टिः भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥
शत-वर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि । तद्-काल-उपचित-उष्ण-अर्कः लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥
śata-varṣāḥ hi anāvṛṣṭiḥ bhaviṣyati ulbaṇā bhuvi . tad-kāla-upacita-uṣṇa-arkaḥ lokān trīn pratapiṣyati .. 9 ..
पातालतलमारभ्य सङ्कर्षणमुखानलः । दहन् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ १० ॥
पाताल-तलम् आरभ्य सङ्कर्षण-मुख-अनलः । दहन् ऊर्ध्व-शिखः वर्धते वायुना ईरितः ॥ १० ॥
pātāla-talam ārabhya saṅkarṣaṇa-mukha-analaḥ . dahan ūrdhva-śikhaḥ vardhate vāyunā īritaḥ .. 10 ..
सांवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर्हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११ ॥
सांवर्तकः मेघ-गणः वर्षति स्म शतम् समाः । धाराभिः हस्ति-हस्ताभिः लीयते सलिले विराज् ॥ ११ ॥
sāṃvartakaḥ megha-gaṇaḥ varṣati sma śatam samāḥ . dhārābhiḥ hasti-hastābhiḥ līyate salile virāj .. 11 ..
ततो विराजमुत्सृज्य वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
ततस् विराजम् उत्सृज्य वैराजः पुरुषः नृप । अव्यक्तम् विशते सूक्ष्मम् निरिन्धनः इव अनलः ॥ १२ ॥
tatas virājam utsṛjya vairājaḥ puruṣaḥ nṛpa . avyaktam viśate sūkṣmam nirindhanaḥ iva analaḥ .. 12 ..
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
वायुना हृत-गन्धा भूः सलिल-त्वाय कल्पते । सलिलम् तत् हृत-रसम् ज्योतिष्ट्वाय उपकल्पते ॥ १३ ॥
vāyunā hṛta-gandhā bhūḥ salila-tvāya kalpate . salilam tat hṛta-rasam jyotiṣṭvāya upakalpate .. 13 ..
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
हृत-रूपम् तु तमसा वायौ ज्योतिः प्रलीयते । हृत-स्पर्शः अवकाशेन वायुः नभसि लीयते ॥ १४ ॥
hṛta-rūpam tu tamasā vāyau jyotiḥ pralīyate . hṛta-sparśaḥ avakāśena vāyuḥ nabhasi līyate .. 14 ..
कालात्मना हृतगुणं नभ आत्मनि लीयते । इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्कारं स्वगुणैः अहमात्मनि ॥ १५ ॥
काल-आत्मना हृत-गुणम् नभः आत्मनि लीयते । इन्द्रियाणि मनः बुद्धिः सह वैकारिकैः नृप । प्रविशन्ति हि अहङ्कारम् स्व-गुणैः अहम् आत्मनि ॥ १५ ॥
kāla-ātmanā hṛta-guṇam nabhaḥ ātmani līyate . indriyāṇi manaḥ buddhiḥ saha vaikārikaiḥ nṛpa . praviśanti hi ahaṅkāram sva-guṇaiḥ aham ātmani .. 15 ..
एषा माया भगवतः सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
एषा माया भगवतः सर्ग-स्थिति-अन्त-कारिणी । त्रि-वर्णा वर्णिता अस्माभिः किम् भूयस् श्रोतुम् इच्छसि ॥ १६ ॥
eṣā māyā bhagavataḥ sarga-sthiti-anta-kāriṇī . tri-varṇā varṇitā asmābhiḥ kim bhūyas śrotum icchasi .. 16 ..
श्रीराजोवाच -
यथेताम् ऐश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥
यथा इताम् ऐश्वरीम् मायाम् दुस्तराम् अकृतात्मभिः । तरन्ति अञ्जस् स्थूल-धियः महा-ऋषे इदम् उच्यताम् ॥ १७ ॥
yathā itām aiśvarīm māyām dustarām akṛtātmabhiḥ . taranti añjas sthūla-dhiyaḥ mahā-ṛṣe idam ucyatām .. 17 ..
श्रीप्रबुद्ध उवाच -
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥
कर्माणि आरभमाणानाम् दुःख-हत्यै सुखाय च । पश्येत् पाक-विपर्यासम् मिथुनीचारिणाम् नृणाम् ॥ १८ ॥
karmāṇi ārabhamāṇānām duḥkha-hatyai sukhāya ca . paśyet pāka-viparyāsam mithunīcāriṇām nṛṇām .. 18 ..
नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥
नित्य-आर्ति-देन वित्तेन दुर्लभेन आत्म-मृत्युना । गृह-अपत्य-आप्त-पशुभिः का प्रीतिः साधितैः चलैः ॥ १९ ॥
nitya-ārti-dena vittena durlabhena ātma-mṛtyunā . gṛha-apatya-āpta-paśubhiḥ kā prītiḥ sādhitaiḥ calaiḥ .. 19 ..
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥
एवम् लोकम् परम् विद्यात् नश्वरम् कर्म-निर्मितम् । सतुल्य-अतिशय-ध्वंसम् यथा मण्डलवर्तिनाम् ॥ २० ॥
evam lokam param vidyāt naśvaram karma-nirmitam . satulya-atiśaya-dhvaṃsam yathā maṇḍalavartinām .. 20 ..
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥
तस्मात् गुरुम् प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् । शाब्दे परे च निष्णातम् ब्रह्मणि उपशम-आश्रयम् ॥ २१ ॥
tasmāt gurum prapadyeta jijñāsuḥ śreyaḥ uttamam . śābde pare ca niṣṇātam brahmaṇi upaśama-āśrayam .. 21 ..
तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । अमाययानुवृत्त्या यैः तुष्येदात्माऽऽत्मदो हरिः ॥ २२ ॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरु-आत्म-दैवतः । अमायया अनुवृत्त्या यैः तुष्येत् आत्मा आत्म-दः हरिः ॥ २२ ॥
tatra bhāgavatān dharmān śikṣet guru-ātma-daivataḥ . amāyayā anuvṛttyā yaiḥ tuṣyet ātmā ātma-daḥ hariḥ .. 22 ..
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥
सर्वतस् मनसः असङ्गम् आदौ सङ्गम् च साधुषु । दयाम् मैत्रीम् प्रश्रयम् च भूतेषु अद्धा यथोचितम् ॥ २३ ॥
sarvatas manasaḥ asaṅgam ādau saṅgam ca sādhuṣu . dayām maitrīm praśrayam ca bhūteṣu addhā yathocitam .. 23 ..
शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४ ॥
शौचम् तपः तितिक्षाम् च मौनम् स्वाध्याय-मार्जवम् । ब्रह्मचर्यम् अहिंसाम् च समत्वम् द्वन्द्व-संज्ञयोः ॥ २४ ॥
śaucam tapaḥ titikṣām ca maunam svādhyāya-mārjavam . brahmacaryam ahiṃsām ca samatvam dvandva-saṃjñayoḥ .. 24 ..
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥
सर्वत्र आत्म-ईश्वर-अन्वीक्षाम् कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनम् सन्तोषम् येन केनचिद् ॥ २५ ॥
sarvatra ātma-īśvara-anvīkṣām kaivalyam aniketatām . vivikta-cīra-vasanam santoṣam yena kenacid .. 25 ..
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥
श्रद्धाम् भागवते शास्त्रे अनिन्दाम् अन्यत्र च अपि हि । च सत्यम् शम-दमौ अपि ॥ २६ ॥
śraddhām bhāgavate śāstre anindām anyatra ca api hi . ca satyam śama-damau api .. 26 ..
श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥
श्रवणम् कीर्तनम् ध्यानम् हरेः अद्भुत-कर्मणः । जन्म-कर्म-गुणानाम् च तद्-अर्थे अखिल-चेष्टितम् ॥ २७ ॥
śravaṇam kīrtanam dhyānam hareḥ adbhuta-karmaṇaḥ . janma-karma-guṇānām ca tad-arthe akhila-ceṣṭitam .. 27 ..
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥
इष्टम् दत्तम् तपः जप्तम् वृत्तम् यत् च आत्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ २८ ॥
iṣṭam dattam tapaḥ japtam vṛttam yat ca ātmanaḥ priyam . dārān sutān gṛhān prāṇān yat parasmai nivedanam .. 28 ..
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥
एवम् कृष्ण-आत्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्याम् च उभयत्र महत्सु नृषु साधुषु ॥ २९ ॥
evam kṛṣṇa-ātma-nātheṣu manuṣyeṣu ca sauhṛdam . paricaryām ca ubhayatra mahatsu nṛṣu sādhuṣu .. 29 ..
परस्परानुकथनं पावनं भगवद्यशः । मिथो रतिर्मिथस्तुष्टिः निवृत्तिर्मिथ आत्मनः ॥ ३० ॥
परस्पर-अनुकथनम् पावनम् भगवत्-यशः । मिथस् रतिः मिथस् तुष्टिः निवृत्तिः मिथस् आत्मनः ॥ ३० ॥
paraspara-anukathanam pāvanam bhagavat-yaśaḥ . mithas ratiḥ mithas tuṣṭiḥ nivṛttiḥ mithas ātmanaḥ .. 30 ..
स्मरन्तः स्मारन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥
स्मरन्तः स्मारन्तः च मिथस् अघ-ओघ-हरम् हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रति उत्पुलकाम् तनुम् ॥ ३१ ॥
smarantaḥ smārantaḥ ca mithas agha-ogha-haram harim . bhaktyā sañjātayā bhaktyā bibhrati utpulakām tanum .. 31 ..
( वंशस्था )
क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद् हसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२ ॥
क्वचिद् रुदन्ति अच्युत-चिन्तया क्वचिद् हसन्ति नन्दन्ति वदन्ति अलौकिकाः । नृत्यन्ति गायन्ति अनुशीलयन्ति अजम् भवन्ति तूष्णीम् परम् एत्य निर्वृताः ॥ ३२ ॥
kvacid rudanti acyuta-cintayā kvacid hasanti nandanti vadanti alaukikāḥ . nṛtyanti gāyanti anuśīlayanti ajam bhavanti tūṣṇīm param etya nirvṛtāḥ .. 32 ..
( अनुष्टुप् )
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायां अञ्जस्तरति दुस्तराम् ॥ ३३ ॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परः मायाम् अञ्जस् तरति दुस्तराम् ॥ ३३ ॥
iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā . nārāyaṇa-paraḥ māyām añjas tarati dustarām .. 33 ..
श्रीराजोवाच -
नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४ ॥
नारायण-अभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नः वक्तुम् यूयम् हि ब्रह्म-वित्तमाः ॥ ३४ ॥
nārāyaṇa-abhidhānasya brahmaṇaḥ paramātmanaḥ . niṣṭhām arhatha naḥ vaktum yūyam hi brahma-vittamāḥ .. 34 ..
श्रीपिप्पलायन उवाच - ( वसंततिलका )
स्थित्युद्भवप्रलयहेतुरहेतुरस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥
स्थिति-उद्भव-प्रलय-हेतुः अहेतुः अस्य यत् स्वप्न-जागर-सुषुप्तिषु सत् बहिस् च । देह-इन्द्रिय-असु-हृदयानि चरन्ति येन सञ्जीवितानि तत् अवेहि परम् नरेन्द्र ॥ ३५ ॥
sthiti-udbhava-pralaya-hetuḥ ahetuḥ asya yat svapna-jāgara-suṣuptiṣu sat bahis ca . deha-indriya-asu-hṛdayāni caranti yena sañjīvitāni tat avehi param narendra .. 35 ..
नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः । शब्दोऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६ ॥
न एतत् मनः विशति वाच् उत चक्षुः आत्मा प्राण-इन्द्रियाणि च यथा अनलम् अर्चिषः स्वाः । शब्दः अपि बोधक-निषेधतया आत्म-मूलम् अर्थ-उक्तम् आह यत् ऋते न निषेध-सिद्धिः ॥ ३६ ॥
na etat manaḥ viśati vāc uta cakṣuḥ ātmā prāṇa-indriyāṇi ca yathā analam arciṣaḥ svāḥ . śabdaḥ api bodhaka-niṣedhatayā ātma-mūlam artha-uktam āha yat ṛte na niṣedha-siddhiḥ .. 36 ..
सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७ ॥
सत्त्वम् रजः तमः इति त्रिवृत् एकम् आदौ सूत्रम् महान् अहम् इति प्रवदन्ति जीवम् । ज्ञान-क्रिया-अर्थ-फल-रूपतया उरु-शक्ति ब्रह्म एव भाति सत्-असत् च तयोः परम् यत् ॥ ३७ ॥
sattvam rajaḥ tamaḥ iti trivṛt ekam ādau sūtram mahān aham iti pravadanti jīvam . jñāna-kriyā-artha-phala-rūpatayā uru-śakti brahma eva bhāti sat-asat ca tayoḥ param yat .. 37 ..
नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवन-विद् व्यभिचारिणाम् हि । सर्वत्र शश्वत् अनपायि उपलब्धि-मात्रम् प्राणः यथा इंद्रिय-बलेन विकल्पितम् सत् ॥ ३८ ॥
na ātmā jajāna na mariṣyati na edhate asau na kṣīyate savana-vid vyabhicāriṇām hi . sarvatra śaśvat anapāyi upalabdhi-mātram prāṇaḥ yathā iṃdriya-balena vikalpitam sat .. 38 ..
अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥
अण्डेषु पेशिषु तरुषु अविनिश्चितेषु प्राणः हि जीवम् उपधावति तत्र तत्र । सन्ने यत् इन्द्रिय-गणे च प्रसुप्ते कूटस्थे आशयम् ऋते तद्-अनुस्मृतिः नः ॥ ३९ ॥
aṇḍeṣu peśiṣu taruṣu aviniściteṣu prāṇaḥ hi jīvam upadhāvati tatra tatra . sanne yat indriya-gaṇe ca prasupte kūṭasthe āśayam ṛte tad-anusmṛtiḥ naḥ .. 39 ..
यह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ ४० ॥
चेतः-मलानि विधमेत् गुण-कर्म-जानि । तस्मिन् विशुद्धे उपलभ्यते आत्म-तत्त्वम् साक्षात् यथा अमल-दृशोः सवितृ-प्रकाशः ॥ ४० ॥
cetaḥ-malāni vidhamet guṇa-karma-jāni . tasmin viśuddhe upalabhyate ātma-tattvam sākṣāt yathā amala-dṛśoḥ savitṛ-prakāśaḥ .. 40 ..
श्रीराजोवाच - ( अनुष्टुप् )
कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥
कर्म-योगम् वदत नः पुरुषः येन संस्कृतः । विधूय इह आशु कर्माणि नैष्कर्म्यम् विन्दते परम् ॥ ४१ ॥
karma-yogam vadata naḥ puruṣaḥ yena saṃskṛtaḥ . vidhūya iha āśu karmāṇi naiṣkarmyam vindate param .. 41 ..
एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितु्रन्तिके । नाब्रुवन् ब्रह्मणः पुत्राः तत्र कारणमुच्यताम् ॥ ४२ ॥
एवम् प्रश्नम् ऋषीन् पूर्वम् अपृच्छम् पितुः अन्तिके । न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणम् उच्यताम् ॥ ४२ ॥
evam praśnam ṛṣīn pūrvam apṛccham pituḥ antike . na abruvan brahmaṇaḥ putrāḥ tatra kāraṇam ucyatām .. 42 ..
श्रीआविहोत्र उवाच -
कर्माकर्म विकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥
कर्म अकर्म विकर्म इति वेद-वादः न लौकिकः । वेदस्य च ईश्वर-आत्म-त्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥
karma akarma vikarma iti veda-vādaḥ na laukikaḥ . vedasya ca īśvara-ātma-tvāt tatra muhyanti sūrayaḥ .. 43 ..
परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥
परोक्ष-वादः वेदः अयम् बालानाम् अनुशासनम् । कर्म-मोक्षाय कर्माणि विधत्ते हि अगदम् यथा ॥ ४४ ॥
parokṣa-vādaḥ vedaḥ ayam bālānām anuśāsanam . karma-mokṣāya karmāṇi vidhatte hi agadam yathā .. 44 ..
नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः । विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥
न आचरेत् यः तु वेद-उक्तम् स्वयम् अज्ञः अजित-इंद्रियः । विकर्मणा हि अधर्मेण मृत्योः मृत्युम् उपैति सः ॥ ४५ ॥
na ācaret yaḥ tu veda-uktam svayam ajñaḥ ajita-iṃdriyaḥ . vikarmaṇā hi adharmeṇa mṛtyoḥ mṛtyum upaiti saḥ .. 45 ..
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥
वेद-उक्तम् एव कुर्वाणः निःसङ्गः अर्पितम् ईश्वरे । नैष्कर्म्यम् लभते सिद्धिम् रोचन-अर्था फल-श्रुतिः ॥ ४६ ॥
veda-uktam eva kurvāṇaḥ niḥsaṅgaḥ arpitam īśvare . naiṣkarmyam labhate siddhim rocana-arthā phala-śrutiḥ .. 46 ..
य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥
यः आशु हृदय-ग्रन्थिम् निर्जिहीर्षुः परात्मनः । विधिना उपचरेत् देवम् तन्त्र-उक्तेन च केशवम् ॥ ४७ ॥
yaḥ āśu hṛdaya-granthim nirjihīrṣuḥ parātmanaḥ . vidhinā upacaret devam tantra-uktena ca keśavam .. 47 ..
लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८ ॥
लब्ध्वा अनुग्रहः आचार्यात् तेन संदर्शित-आगमः । महापुरुषम् अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ ४८ ॥
labdhvā anugrahaḥ ācāryāt tena saṃdarśita-āgamaḥ . mahāpuruṣam abhyarcet mūrtyā abhimatayā ātmanaḥ .. 48 ..
शुचिः संमुखमासीनः प्राणसंयमनादिभिः । पिण्डं विशोध्य संन्यास कृतरक्षोऽर्चयेद् हरिम् ॥ ४९ ॥
शुचिः संमुखम् आसीनः प्राणसंयमन-आदिभिः । पिण्डम् विशोध्य संन्यास कृत-रक्षः अर्चयेत् हरिम् ॥ ४९ ॥
śuciḥ saṃmukham āsīnaḥ prāṇasaṃyamana-ādibhiḥ . piṇḍam viśodhya saṃnyāsa kṛta-rakṣaḥ arcayet harim .. 49 ..
अर्चादौ हृदये चापि यथालब्धोपचारकैः । द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥
अर्चा-आदौ हृदये च अपि यथालब्ध-उपचारकैः । द्रव्य-क्षिति-आत्म-लिङ्गानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ ५० ॥
arcā-ādau hṛdaye ca api yathālabdha-upacārakaiḥ . dravya-kṣiti-ātma-liṅgāni niṣpādya prokṣya ca āsanam .. 50 ..
पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृदादिभिः कृतन्यासो मूलमंत्रेण चार्चयेत् ॥ ५१ ॥
पाद्य-आदीन् उपकल्प्य अथ सन्निधाप्य समाहितः । हृद्-आदिभिः कृत-न्यासः मूलमंत्रेण च अर्चयेत् ॥ ५१ ॥
pādya-ādīn upakalpya atha sannidhāpya samāhitaḥ . hṛd-ādibhiḥ kṛta-nyāsaḥ mūlamaṃtreṇa ca arcayet .. 51 ..
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२ ॥
स अङ्ग-उपाङ्गाम् स पार्षदाम् ताम् ताम् मूर्तिम् स्व-मन्त्रतः । पाद्य-अर्घ्य-आचमनीय-आद्यैः स्नान-वासः-विभूषणैः ॥ ५२ ॥
sa aṅga-upāṅgām sa pārṣadām tām tām mūrtim sva-mantrataḥ . pādya-arghya-ācamanīya-ādyaiḥ snāna-vāsaḥ-vibhūṣaṇaiḥ .. 52 ..
गन्धमाल्याक्षतस्रग्भिः धूपदीपोपहारकैः । साङ्गं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३ ॥
गन्ध-माल्य-अक्षत-स्रग्भिः धूप-दीप-उपहारकैः । स अङ्गम् संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३ ॥
gandha-mālya-akṣata-sragbhiḥ dhūpa-dīpa-upahārakaiḥ . sa aṅgam saṃpūjya vidhivat stavaiḥ stutvā namet harim .. 53 ..
आत्मानं तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥
आत्मानम् तन्मयम् ध्यायन् मूर्तिम् संपूजयेत् हरेः । शेषाम् आधाय शिरसा स्व-धाम्नि उद्वास्य सत्कृतम् ॥ ५४ ॥
ātmānam tanmayam dhyāyan mūrtim saṃpūjayet hareḥ . śeṣām ādhāya śirasā sva-dhāmni udvāsya satkṛtam .. 54 ..
एवमग्न्यर्कतोयादौ अतिथौ हृदये च यः । यजतीश्वरमात्मानं अचिरान्मुच्यते हि सः ॥ ५५ ॥
एवम् अग्नि-अर्क-तोय-आदौ अतिथौ हृदये च यः । यजति ईश्वरम् आत्मानम् अचिरात् मुच्यते हि सः ॥ ५५ ॥
evam agni-arka-toya-ādau atithau hṛdaye ca yaḥ . yajati īśvaram ātmānam acirāt mucyate hi saḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे तृतीयः अध्यायः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe tṛtīyaḥ adhyāyaḥ .. 3 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In