| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - ( अनुष्टुप् )
परस्य विष्णोरीशस्य मायिनां अपि मोहिनीम् । मायां वेदितुमिच्छामो भगवन्तो ब्रुवन्तु नः ॥ १ ॥
parasya viṣṇorīśasya māyināṃ api mohinīm . māyāṃ veditumicchāmo bhagavanto bruvantu naḥ .. 1 ..
नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यः तत्तापभेषजम् ॥ २ ॥
nānutṛpye juṣan yuṣmadvaco harikathāmṛtam . saṃsāratāpanistapto martyaḥ tattāpabheṣajam .. 2 ..
श्री अन्तरिक्ष उवाच -
एभिर्भूतानि भूतात्मा महाभूतैर्महाभुज । ससर्जोच्चावचान्याद्यः स्वमात्रात्मप्रसिद्धये ॥ ३ ॥
ebhirbhūtāni bhūtātmā mahābhūtairmahābhuja . sasarjoccāvacānyādyaḥ svamātrātmaprasiddhaye .. 3 ..
एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधाऽऽत्मानं विभजन् जुषते गुणान् ॥ ४ ॥
evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ . ekadhā daśadhā''tmānaṃ vibhajan juṣate guṇān .. 4 ..
गुणैर्गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टं आत्मानमिह सज्जते ॥ ५ ॥
guṇairguṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ . manyamāna idaṃ sṛṣṭaṃ ātmānamiha sajjate .. 5 ..
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत्तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ ६ ॥
karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt . tattat karmaphalaṃ gṛhṇan bhramatīha sukhetaram .. 6 ..
इत्थं कर्मगतीर्गच्छन् बह्वभद्रवहाः पुमान् । आभूतसंप्लवात्सर्गप्रलयावश्नुतेऽवशः ॥ ७ ॥
itthaṃ karmagatīrgacchan bahvabhadravahāḥ pumān . ābhūtasaṃplavātsargapralayāvaśnute'vaśaḥ .. 7 ..
धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्यव्यक्तायापकर्षति ॥ ८ ॥
dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam . anādinidhanaḥ kālo hyavyaktāyāpakarṣati .. 8 ..
शतवर्षा ह्यनावृष्टिः भविष्यत्युल्बणा भुवि । तत्कालोपचितोष्णार्को लोकान् त्रीन् प्रतपिष्यति ॥ ९ ॥
śatavarṣā hyanāvṛṣṭiḥ bhaviṣyatyulbaṇā bhuvi . tatkālopacitoṣṇārko lokān trīn pratapiṣyati .. 9 ..
पातालतलमारभ्य सङ्कर्षणमुखानलः । दहन् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ १० ॥
pātālatalamārabhya saṅkarṣaṇamukhānalaḥ . dahan ūrdhvaśikho viṣvag vardhate vāyuneritaḥ .. 10 ..
सांवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर्हस्तिहस्ताभिः लीयते सलिले विराट् ॥ ११ ॥
sāṃvartako meghagaṇo varṣati sma śataṃ samāḥ . dhārābhirhastihastābhiḥ līyate salile virāṭ .. 11 ..
ततो विराजमुत्सृज्य वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ १२ ॥
tato virājamutsṛjya vairājaḥ puruṣo nṛpa . avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ .. 12 ..
वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ १३ ॥
vāyunā hṛtagandhā bhūḥ salilatvāya kalpate . salilaṃ taddhṛtarasaṃ jyotiṣṭvāyopakalpate .. 13 ..
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शोऽवकाशेन वायुर्नभसि लीयते ॥ १४ ॥
hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate . hṛtasparśo'vakāśena vāyurnabhasi līyate .. 14 ..
कालात्मना हृतगुणं नभ आत्मनि लीयते । इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर्नृप । प्रविशन्ति ह्यहङ्कारं स्वगुणैः अहमात्मनि ॥ १५ ॥
kālātmanā hṛtaguṇaṃ nabha ātmani līyate . indriyāṇi mano buddhiḥ saha vaikārikairnṛpa . praviśanti hyahaṅkāraṃ svaguṇaiḥ ahamātmani .. 15 ..
एषा माया भगवतः सर्गस्थित्यन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुमिच्छसि ॥ १६ ॥
eṣā māyā bhagavataḥ sargasthityantakāriṇī . trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotumicchasi .. 16 ..
श्रीराजोवाच -
यथेताम् ऐश्वरीं मायां दुस्तरामकृतात्मभिः । तरन्त्यञ्जः स्थूलधियो महर्ष इदमुच्यताम् ॥ १७ ॥
yathetām aiśvarīṃ māyāṃ dustarāmakṛtātmabhiḥ . tarantyañjaḥ sthūladhiyo maharṣa idamucyatām .. 17 ..
श्रीप्रबुद्ध उवाच -
कर्माण्यारभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ १८ ॥
karmāṇyārabhamāṇānāṃ duḥkhahatyai sukhāya ca . paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām .. 18 ..
नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश्चलैः ॥ १९ ॥
nityārtidena vittena durlabhenātmamṛtyunā . gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiścalaiḥ .. 19 ..
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ २० ॥
evaṃ lokaṃ paraṃ vidyāt naśvaraṃ karmanirmitam . satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām .. 20 ..
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ २१ ॥
tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam . śābde pare ca niṣṇātaṃ brahmaṇyupaśamāśrayam .. 21 ..
तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । अमाययानुवृत्त्या यैः तुष्येदात्माऽऽत्मदो हरिः ॥ २२ ॥
tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ . amāyayānuvṛttyā yaiḥ tuṣyedātmā''tmado hariḥ .. 22 ..
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥ २३ ॥
sarvato manaso'saṅgamādau saṅgaṃ ca sādhuṣu . dayāṃ maitrīṃ praśrayaṃ ca bhūteṣvaddhā yathocitam .. 23 ..
शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् । ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ २४ ॥
śaucaṃ tapastitikṣāṃ ca maunaṃ svādhyāyamārjavam . brahmacaryamahiṃsāṃ ca samatvaṃ dvandvasaṃjñayoḥ .. 24 ..
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ २५ ॥
sarvatrātmeśvarānvīkṣāṃ kaivalyamaniketatām . viviktacīravasanaṃ santoṣaṃ yena kenacit .. 25 ..
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥ २६ ॥
śraddhāṃ bhāgavate śāstre'nindāmanyatra cāpi hi . manovākkarmadaṇḍaṃ ca satyaṃ śamadamāvapi .. 26 ..
श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥ २७ ॥
śravaṇaṃ kīrtanaṃ dhyānaṃ hareradbhutakarmaṇaḥ . janmakarmaguṇānāṃ ca tadarthe'khilaceṣṭitam .. 27 ..
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् ॥ २८ ॥
iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yaccātmanaḥ priyam . dārān sutān gṛhān prāṇān yatparasmai nivedanam .. 28 ..
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ २९ ॥
evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam . paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu .. 29 ..
परस्परानुकथनं पावनं भगवद्यशः । मिथो रतिर्मिथस्तुष्टिः निवृत्तिर्मिथ आत्मनः ॥ ३० ॥
parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ . mitho ratirmithastuṣṭiḥ nivṛttirmitha ātmanaḥ .. 30 ..
स्मरन्तः स्मारन्तश्च मिथोऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ ३१ ॥
smarantaḥ smārantaśca mitho'ghaughaharaṃ harim . bhaktyā sañjātayā bhaktyā bibhratyutpulakāṃ tanum .. 31 ..
( वंशस्था )
क्वचिद् रुदन्त्यच्युतचिन्तया क्वचिद् हसन्ति नन्दन्ति वदन्त्यलौकिकाः । नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ३२ ॥
kvacid rudantyacyutacintayā kvacid hasanti nandanti vadantyalaukikāḥ . nṛtyanti gāyantyanuśīlayantyajaṃ bhavanti tūṣṇīṃ parametya nirvṛtāḥ .. 32 ..
( अनुष्टुप् )
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरो मायां अञ्जस्तरति दुस्तराम् ॥ ३३ ॥
iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā . nārāyaṇaparo māyāṃ añjastarati dustarām .. 33 ..
श्रीराजोवाच -
नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ ३४ ॥
nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ . niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ .. 34 ..
श्रीपिप्पलायन उवाच - ( वसंततिलका )
स्थित्युद्भवप्रलयहेतुरहेतुरस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश्च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तदवेहि परं नरेन्द्र ॥ ३५ ॥
sthityudbhavapralayaheturaheturasya yat svapnajāgarasuṣuptiṣu sad bahiśca . dehendriyāsuhṛdayāni caranti yena sañjīvitāni tadavehi paraṃ narendra .. 35 ..
नैतन्मनो विशति वागुत चक्षुरात्मा प्राणेन्द्रियाणि च यथानलमर्चिषः स्वाः । शब्दोऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तमाह यदृते न निषेधसिद्धिः ॥ ३६ ॥
naitanmano viśati vāguta cakṣurātmā prāṇendriyāṇi ca yathānalamarciṣaḥ svāḥ . śabdo'pi bodhakaniṣedhatayātmamūlam arthoktamāha yadṛte na niṣedhasiddhiḥ .. 36 ..
सत्त्वं रजस्तम इति त्रिवृदेकमादौ सूत्रं महानहमिति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सदसच्च तयोः परं यत् ॥ ३७ ॥
sattvaṃ rajastama iti trivṛdekamādau sūtraṃ mahānahamiti pravadanti jīvam . jñānakriyārthaphalarūpatayoruśakti brahmaiva bhāti sadasacca tayoḥ paraṃ yat .. 37 ..
नात्मा जजान न मरिष्यति नैधतेऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वदनपाय्युपलब्धिमात्रं प्राणो यथेंद्रियबलेन विकल्पितं सत् ॥ ३८ ॥
nātmā jajāna na mariṣyati naidhate'sau na kṣīyate savanavid vyabhicāriṇāṃ hi . sarvatra śaśvadanapāyyupalabdhimātraṃ prāṇo yatheṃdriyabalena vikalpitaṃ sat .. 38 ..
अण्डेषु पेशिषु तरुष्वविनिश्चितेषु प्राणो हि जीवमुपधावति तत्र तत्र । सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ ३९ ॥
aṇḍeṣu peśiṣu taruṣvaviniściteṣu prāṇo hi jīvamupadhāvati tatra tatra . sanne yadindriyagaṇe'hami ca prasupte kūṭastha āśayamṛte tadanusmṛtirnaḥ .. 39 ..
यह्यब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ ४० ॥
yahyabjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni . tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ .. 40 ..
श्रीराजोवाच - ( अनुष्टुप् )
कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ ४१ ॥
karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ . vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param .. 41 ..
एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितु्रन्तिके । नाब्रुवन् ब्रह्मणः पुत्राः तत्र कारणमुच्यताम् ॥ ४२ ॥
evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pit_ŭrantike . nābruvan brahmaṇaḥ putrāḥ tatra kāraṇamucyatām .. 42 ..
श्रीआविहोत्र उवाच -
कर्माकर्म विकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ ४३ ॥
karmākarma vikarmeti vedavādo na laukikaḥ . vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ .. 43 ..
परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ॥ ४४ ॥
parokṣavādo vedo'yaṃ bālānāmanuśāsanam . karmamokṣāya karmāṇi vidhatte hyagadaṃ yathā .. 44 ..
नाचरेद् यस्तु वेदोक्तं स्वयं अज्ञोऽजितेंद्रियः । विकर्मणा हि अधर्मेण मृत्योर्मृत्युमुपैति सः ॥ ४५ ॥
nācared yastu vedoktaṃ svayaṃ ajño'jiteṃdriyaḥ . vikarmaṇā hi adharmeṇa mṛtyormṛtyumupaiti saḥ .. 45 ..
वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमीश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ ४६ ॥
vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare . naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ .. 46 ..
य आशु हृदयग्रन्थिं निर्जिहीर्षुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ ४७ ॥
ya āśu hṛdayagranthiṃ nirjihīrṣuḥ parātmanaḥ . vidhinopacared devaṃ tantroktena ca keśavam .. 47 ..
लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतयाऽऽत्मनः ॥ ४८ ॥
labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ . mahāpuruṣamabhyarcenmūrtyābhimatayā''tmanaḥ .. 48 ..
शुचिः संमुखमासीनः प्राणसंयमनादिभिः । पिण्डं विशोध्य संन्यास कृतरक्षोऽर्चयेद् हरिम् ॥ ४९ ॥
śuciḥ saṃmukhamāsīnaḥ prāṇasaṃyamanādibhiḥ . piṇḍaṃ viśodhya saṃnyāsa kṛtarakṣo'rcayed harim .. 49 ..
अर्चादौ हृदये चापि यथालब्धोपचारकैः । द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ ५० ॥
arcādau hṛdaye cāpi yathālabdhopacārakaiḥ . dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam .. 50 ..
पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृदादिभिः कृतन्यासो मूलमंत्रेण चार्चयेत् ॥ ५१ ॥
pādyādīn upakalpyātha sannidhāpya samāhitaḥ . hṛdādibhiḥ kṛtanyāso mūlamaṃtreṇa cārcayet .. 51 ..
साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ ५२ ॥
sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ . pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ .. 52 ..
गन्धमाल्याक्षतस्रग्भिः धूपदीपोपहारकैः । साङ्गं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ ५३ ॥
gandhamālyākṣatasragbhiḥ dhūpadīpopahārakaiḥ . sāṅgaṃ saṃpūjya vidhivat stavaiḥ stutvā namet harim .. 53 ..
आत्मानं तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः । शेषामाधाय शिरसा स्वधाम्न्युद्वास्य सत्कृतम् ॥ ५४ ॥
ātmānaṃ tanmayaṃ dhyāyan mūrtiṃ saṃpūjayet hareḥ . śeṣāmādhāya śirasā svadhāmnyudvāsya satkṛtam .. 54 ..
एवमग्न्यर्कतोयादौ अतिथौ हृदये च यः । यजतीश्वरमात्मानं अचिरान्मुच्यते हि सः ॥ ५५ ॥
evamagnyarkatoyādau atithau hṛdaye ca yaḥ . yajatīśvaramātmānaṃ acirānmucyate hi saḥ .. 55 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe tṛtīyo'dhyāyaḥ .. 3 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In