| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः । महेंद्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १ ॥
अथ तत्र अगमत् ब्रह्मा भवान्या च समम् भवः । महेंद्र-प्रमुखाः देवाः मुनयः स प्रजा-ईश्वराः ॥ १ ॥
atha tatra agamat brahmā bhavānyā ca samam bhavaḥ . maheṃdra-pramukhāḥ devāḥ munayaḥ sa prajā-īśvarāḥ .. 1 ..
पितरः सिद्धगंधर्वा विद्याधरमहोरगाः । चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २ ॥
पितरः सिद्ध-गंधर्वाः विद्याधर-महोरगाः । चारणाः यक्ष-रक्षांसि किन्नर-अप्सरसः द्विजाः ॥ २ ॥
pitaraḥ siddha-gaṃdharvāḥ vidyādhara-mahoragāḥ . cāraṇāḥ yakṣa-rakṣāṃsi kinnara-apsarasaḥ dvijāḥ .. 2 ..
द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः । गायंतश्च गृणंतश्च शौरेः कर्माणि जन्म च ॥ ३ ॥
द्रष्टु-कामाः भगवतः निर्याणम् परम-उत्सुकाः । गायंतः च गृणन्तः च शौरेः कर्माणि जन्म च ॥ ३ ॥
draṣṭu-kāmāḥ bhagavataḥ niryāṇam parama-utsukāḥ . gāyaṃtaḥ ca gṛṇantaḥ ca śaureḥ karmāṇi janma ca .. 3 ..
ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः । कुर्वंतः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४ ॥
ववृषुः पुष्प-वर्षाणि विमान-आवलिभिः नभः । कुर्वंतः सङ्कुलम् राजन् भक्त्या परमया युताः ॥ ४ ॥
vavṛṣuḥ puṣpa-varṣāṇi vimāna-āvalibhiḥ nabhaḥ . kurvaṃtaḥ saṅkulam rājan bhaktyā paramayā yutāḥ .. 4 ..
भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः । संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५ ॥
भगवान् पितामहम् वीक्ष्य विभूतीः आत्मनः विभुः । संयोज्य आत्मनि च आत्मानम् पद्म-नेत्रे न्यमीलयत् ॥ ५ ॥
bhagavān pitāmaham vīkṣya vibhūtīḥ ātmanaḥ vibhuḥ . saṃyojya ātmani ca ātmānam padma-netre nyamīlayat .. 5 ..
लोकाभिरामां स्वतनुं धारणा ध्यान मङ्गलम् । योगधारणयाऽऽग्नेय्या दग्ध्वा धामाविशत्स्वकम् ॥ ६ ॥
लोक-अभिरामाम् स्व-तनुम् धारणा-ध्यान-मङ्गलम् । योग-धारणया आग्नेय्या दग्ध्वा धाम् आविशत् स्वकम् ॥ ६ ॥
loka-abhirāmām sva-tanum dhāraṇā-dhyāna-maṅgalam . yoga-dhāraṇayā āgneyyā dagdhvā dhām āviśat svakam .. 6 ..
दिवि दुंदुभयो नेदुः पेतुः सुमनसश्च खात् । सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥ ७ ॥
दिवि दुंदुभयः नेदुः पेतुः सुमनसः च खात् । सत्यम् धर्मः धृतिः भूमेः कीर्तिः श्रीः च अनु तम् ययुः ॥ ७ ॥
divi duṃdubhayaḥ neduḥ petuḥ sumanasaḥ ca khāt . satyam dharmaḥ dhṛtiḥ bhūmeḥ kīrtiḥ śrīḥ ca anu tam yayuḥ .. 7 ..
देवादयो ब्रह्ममुख्या न विशंतं स्वधामनि । अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥ ८ ॥
देव-आदयः ब्रह्म-मुख्याः न विशंतम् स्व-धामनि । अविज्ञात-गतिम् कृष्णम् ददृशुः च अति विस्मिताः ॥ ८ ॥
deva-ādayaḥ brahma-mukhyāḥ na viśaṃtam sva-dhāmani . avijñāta-gatim kṛṣṇam dadṛśuḥ ca ati vismitāḥ .. 8 ..
सौदामन्या यथाऽऽकाशे यांत्या हित्वाभ्रमण्डलम् । गतिर्न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९ ॥
सौदामन्याः यथा आकाशे यांत्याः हित्वा अभ्र-मण्डलम् । गतिः न लक्ष्यते मर्त्यैः तथा कृष्णस्य दैवतैः ॥ ९ ॥
saudāmanyāḥ yathā ākāśe yāṃtyāḥ hitvā abhra-maṇḍalam . gatiḥ na lakṣyate martyaiḥ tathā kṛṣṇasya daivataiḥ .. 9 ..
ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः । विस्मितास्तां प्रशंसंतः स्वं स्वं लोकं ययुस्तदा ॥ १० ॥
ब्रह्म-रुद्र-आदयः ते तु दृष्ट्वा योग-गतिम् हरेः । विस्मिताः ताम् प्रशंसंतः स्वम् स्वम् लोकम् ययुः तदा ॥ १० ॥
brahma-rudra-ādayaḥ te tu dṛṣṭvā yoga-gatim hareḥ . vismitāḥ tām praśaṃsaṃtaḥ svam svam lokam yayuḥ tadā .. 10 ..
( वसंततिलका )
राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवेहि यथा नटस्य । सृष्ट्वात्मनेदमनुविश्य विहृत्य चांते संहृत्य चात्ममहिनोपरतः स आस्ते ॥ ११ ॥
राजन् परस्य तनुभृत्-जनन-अप्यय-ईहा माया-विडम्बनम् अवेहि यथा नटस्य । सृष्ट्वा आत्मना इदम् अनुविश्य विहृत्य च अन्ते संहृत्य च आत्म-महिना उपरतः सः आस्ते ॥ ११ ॥
rājan parasya tanubhṛt-janana-apyaya-īhā māyā-viḍambanam avehi yathā naṭasya . sṛṣṭvā ātmanā idam anuviśya vihṛtya ca ante saṃhṛtya ca ātma-mahinā uparataḥ saḥ āste .. 11 ..
मर्त्येन यो गुरुसुतं यमलोकनीतं त्वां चानयच्छरणदः परमास्त्रदग्धम् । जिग्येंऽतकांतकमपीशमसावनीशः किं स्वावने स्वरनयन् मृगयुं सदेहम् ॥ १२ ॥
मर्त्येन यः गुरु-सुतम् यम-लोक-नीतम् त्वाम् च अनयत् शरण-दः परम-अस्त्र-दग्धम् । जिग्ये अतक-अन्तकम् अपि ईशम् असौ अनीशः किम् स्व-अवने स्वर् अनयत् मृगयुम् स देहम् ॥ १२ ॥
martyena yaḥ guru-sutam yama-loka-nītam tvām ca anayat śaraṇa-daḥ parama-astra-dagdham . jigye ataka-antakam api īśam asau anīśaḥ kim sva-avane svar anayat mṛgayum sa deham .. 12 ..
( मिश्र )
तथाप्यशेषस्थितिसम्भवाप्ययेषु अनन्यहेतुर्यदशेषशक्तिधृक् । नैच्छत् प्रणेतुं वपुरत्र शेषितं मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३ ॥
तथा अपि अशेष-स्थिति-सम्भव-अप्ययेषु अन् अन्य-हेतुः यत् अशेष-शक्तिधृक् । न ऐच्छत् प्रणेतुम् वपुः अत्र शेषितम् मर्त्येन किम् स्वस्थ-गतिम् प्रदर्शयन् ॥ १३ ॥
tathā api aśeṣa-sthiti-sambhava-apyayeṣu an anya-hetuḥ yat aśeṣa-śaktidhṛk . na aicchat praṇetum vapuḥ atra śeṣitam martyena kim svastha-gatim pradarśayan .. 13 ..
( अनुष्टुप् )
य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेद् भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४ ॥
यः एताम् प्रातर् उत्थाय कृष्णस्य पदवीम् पराम् । प्रयतः कीर्तयेत् भक्त्या ताम् एव आप्नोति अनुत्तमाम् ॥ १४ ॥
yaḥ etām prātar utthāya kṛṣṇasya padavīm parām . prayataḥ kīrtayet bhaktyā tām eva āpnoti anuttamām .. 14 ..
दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः । पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५ ॥
दारुकः द्वारकाम् एत्य वसुदेव-उग्रसेनयोः । पतित्वा चरणावस्रैः न्यषिञ्चत् कृष्णविच्युतः ॥ १५ ॥
dārukaḥ dvārakām etya vasudeva-ugrasenayoḥ . patitvā caraṇāvasraiḥ nyaṣiñcat kṛṣṇavicyutaḥ .. 15 ..
कथयामास निधनं वृष्णीनां कृत्स्नशो नृप । तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ १६ ॥
कथयामास निधनम् वृष्णीनाम् कृत्स्नशस् नृप । तत् श्रुत्वा उद्विग्न-हृदयाः जनाः ॥ १६ ॥
kathayāmāsa nidhanam vṛṣṇīnām kṛtsnaśas nṛpa . tat śrutvā udvigna-hṛdayāḥ janāḥ .. 16 ..
तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः । व्यसवः शेरते यत्र ज्ञातयो घ्नंत आननम् ॥ १७ ॥
तत्र स्म त्वरिताः जग्मुः कृष्ण-विश्लेष-विह्वलाः । व्यसवः शेरते यत्र ज्ञातयः घ्नंतः आननम् ॥ १७ ॥
tatra sma tvaritāḥ jagmuḥ kṛṣṇa-viśleṣa-vihvalāḥ . vyasavaḥ śerate yatra jñātayaḥ ghnaṃtaḥ ānanam .. 17 ..
देवकी रोहिणी चैव वसुदेवस्तथा सुतौ । कृष्णरामावपश्यंतः शोकार्ता विजहुः स्मृतिम् ॥ १८ ॥
देवकी रोहिणी च एव वसुदेवः तथा सुतौ । कृष्ण-रामौ अपश्यन्तः शोक-आर्ताः विजहुः स्मृतिम् ॥ १८ ॥
devakī rohiṇī ca eva vasudevaḥ tathā sutau . kṛṣṇa-rāmau apaśyantaḥ śoka-ārtāḥ vijahuḥ smṛtim .. 18 ..
प्राणांश्च विजहुस्तत्र भगवद् विरहातुराः । उपगुह्य पतींस्तात चितां आरुरुहुः स्त्रियः ॥ १९ ॥
प्राणान् च विजहुः तत्र भगवत् विरह-आतुराः । उपगुह्य पतीन् तात चिताम् आरुरुहुः स्त्रियः ॥ १९ ॥
prāṇān ca vijahuḥ tatra bhagavat viraha-āturāḥ . upaguhya patīn tāta citām āruruhuḥ striyaḥ .. 19 ..
रामपत्न्यश्च तद्देहं उपगुह्याग्निमाविशन् । वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्याः तदात्मिकाः ॥ २० ॥
राम-पत्न्यः च तद्-देहम् उपगुह्य अग्निम् आविशन् । वसुदेव-पत्न्यः तद्-गात्रम् प्रद्युम्न-आदीन् हरेः स्नुषाः । कृष्ण-पत्न्यः अविशन् अग्निम् रुक्मिणी-आद्याः तद्-आत्मिकाः ॥ २० ॥
rāma-patnyaḥ ca tad-deham upaguhya agnim āviśan . vasudeva-patnyaḥ tad-gātram pradyumna-ādīn hareḥ snuṣāḥ . kṛṣṇa-patnyaḥ aviśan agnim rukmiṇī-ādyāḥ tad-ātmikāḥ .. 20 ..
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः । आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१ ॥
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरह-आतुरः । आत्मानम् सांत्वयामास कृष्ण-गीतैः सत्-उक्तिभिः ॥ २१ ॥
arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya viraha-āturaḥ . ātmānam sāṃtvayāmāsa kṛṣṇa-gītaiḥ sat-uktibhiḥ .. 21 ..
बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् । हतानां कारयामास यथावद् अनुपूर्वशः ॥ २२ ॥
बंधूनाम् नष्ट-गोत्राणाम् अर्जुनः सांपरायिकम् । हतानाम् कारयामास यथावत् अनुपूर्वशस् ॥ २२ ॥
baṃdhūnām naṣṭa-gotrāṇām arjunaḥ sāṃparāyikam . hatānām kārayāmāsa yathāvat anupūrvaśas .. 22 ..
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद् भगवदालयम् ॥ २३ ॥
द्वारकाम् हरिणा त्यक्ताम् समुद्रः अप्लावयत् क्षणात् । वर्जयित्वा महा-राज श्रीमत् भगवत्-आलयम् ॥ २३ ॥
dvārakām hariṇā tyaktām samudraḥ aplāvayat kṣaṇāt . varjayitvā mahā-rāja śrīmat bhagavat-ālayam .. 23 ..
नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः । स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४ ॥
नित्यम् सन्निहितः तत्र भगवान् मधुसूदनः । स्मृत्या अशेष-अशुभ-हरम् सर्व-मङ्गल-मङ्गलम् ॥ २४ ॥
nityam sannihitaḥ tatra bhagavān madhusūdanaḥ . smṛtyā aśeṣa-aśubha-haram sarva-maṅgala-maṅgalam .. 24 ..
स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः । इंद्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५ ॥
स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः । इंद्रप्रस्थम् समावेश्य वज्रम् तत्र अभ्यषेचयत् ॥ २५ ॥
strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ . iṃdraprastham samāveśya vajram tatra abhyaṣecayat .. 25 ..
श्रुत्वा सुहृद् वधं राजन् अर्जुनात्ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६ ॥
श्रुत्वा सुहृद् वधम् राजन् अर्जुनात् ते पितामहाः । त्वाम् तु वंश-धरम् कृत्वा जग्मुः सर्वे महापथम् ॥ २६ ॥
śrutvā suhṛd vadham rājan arjunāt te pitāmahāḥ . tvām tu vaṃśa-dharam kṛtvā jagmuḥ sarve mahāpatham .. 26 ..
य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७ ॥
यः एतत् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते ॥ २७ ॥
yaḥ etat devadevasya viṣṇoḥ karmāṇi janma ca . kīrtayet śraddhayā martyaḥ sarva-pāpaiḥ pramucyate .. 27 ..
( वसंततिलका )
इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च शंतमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत ॥ २८ ॥
इत्थम् हरेः भगवतः रुचिर-अवतार वीर्याणि बाल-चरितानि च शंतमानि । अन्यत्र च इह च श्रुतानि गृणन् मनुष्यः भक्तिम् पराम् परमहंस-गतौ लभेत ॥ २८ ॥
ittham hareḥ bhagavataḥ rucira-avatāra vīryāṇi bāla-caritāni ca śaṃtamāni . anyatra ca iha ca śrutāni gṛṇan manuṣyaḥ bhaktim parām paramahaṃsa-gatau labheta .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे एकत्रिंशोऽध्यायः ॥ ३१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे एकत्रिंशः अध्यायः ॥ ३१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe ekatriṃśaḥ adhyāyaḥ .. 31 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In