| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - ( अनुष्टुप् )
यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः ॥ १ ॥
यानि यानि इह कर्माणि यैः यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवन्तु नः ॥ १ ॥
yāni yāni iha karmāṇi yaiḥ yaiḥ svacchanda-janmabhiḥ . cakre karoti kartā vā hariḥ tāni bruvantu naḥ .. 1 ..
श्रीद्रुमिल उवाच - ( इंद्रवज्रा )
यो वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु बालबुद्धिः । रजांसि भूमेर्गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्नः ॥ २ ॥
यः वै अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः । रजांसि भूमेः गणयेत् कथञ्चिद् कालेन ना एव अखिल-शक्ति-धाम्नः ॥ २ ॥
yaḥ vai anantasya guṇān anantān anukramiṣyan sa tu bāla-buddhiḥ . rajāṃsi bhūmeḥ gaṇayet kathañcid kālena nā eva akhila-śakti-dhāmnaḥ .. 2 ..
भूतैर्यदा पञ्चभिरात्मसृष्टैः । पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् । अवाप नारायण आदिदेवः ॥ ३ ॥
भूतैः यदा पञ्चभिः आत्म-सृष्टैः । पुरम् विराजम् विरचय्य तस्मिन् । स्व-अंशेन विष्टः पुरुष-अभिधानम् । अवाप नारायणः आदिदेवः ॥ ३ ॥
bhūtaiḥ yadā pañcabhiḥ ātma-sṛṣṭaiḥ . puram virājam viracayya tasmin . sva-aṃśena viṣṭaḥ puruṣa-abhidhānam . avāpa nārāyaṇaḥ ādidevaḥ .. 3 ..
( वसंततिलका )
यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस्तनुभृतामुभयेन्द्रियाणि । ज्ञानं स्वतः श्वसनतो बलमोज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ ४ ॥
यद्-कायः एष भुवन-त्रय-सन्निवेशः यस्य इन्द्रियैः तनुभृताम् उभय-इन्द्रियाणि । ज्ञानम् स्वतस् श्वसनतः बलम् ओजः ईहा सत्त्व-आदिभिः स्थिति-लय-उद्भवः आदिकर्ता ॥ ४ ॥
yad-kāyaḥ eṣa bhuvana-traya-sanniveśaḥ yasya indriyaiḥ tanubhṛtām ubhaya-indriyāṇi . jñānam svatas śvasanataḥ balam ojaḥ īhā sattva-ādibhiḥ sthiti-laya-udbhavaḥ ādikartā .. 4 ..
आदौ अभूत् शतधृती रजसास्य सर्गे विष्णुः स्थित्तौ क्रतुपतिः द्विजधर्मसेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्युद्भवस्थितिलयाः सततं प्रजासु ॥ ५ ॥
आदौ अभूत् शतधृतिः रजसा अस्य सर्गे विष्णुः स्थित्तौ क्रतुपतिः द्विज-धर्मसेतुः । रुद्रः अप्ययाय तमसा पुरुषः सः आद्यः इति उद्भव-स्थिति-लयाः सततम् प्रजासु ॥ ५ ॥
ādau abhūt śatadhṛtiḥ rajasā asya sarge viṣṇuḥ sthittau kratupatiḥ dvija-dharmasetuḥ . rudraḥ apyayāya tamasā puruṣaḥ saḥ ādyaḥ iti udbhava-sthiti-layāḥ satatam prajāsu .. 5 ..
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणमुवाच चचार कर्म योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ ६ ॥
धर्मस्य दक्ष-दुहितरि अजनिष्ट मूर्त्याम् नारायणः नरः ऋषि-प्रवरः प्रशान्तः । नैष्कर्म्य-लक्षणम् उवाच चचार कर्म यः अद्य अपि च आस्ते ऋषि-वर्य-निषेवित-अङ्घ्रिः ॥ ६ ॥
dharmasya dakṣa-duhitari ajaniṣṭa mūrtyām nārāyaṇaḥ naraḥ ṛṣi-pravaraḥ praśāntaḥ . naiṣkarmya-lakṣaṇam uvāca cacāra karma yaḥ adya api ca āste ṛṣi-varya-niṣevita-aṅghriḥ .. 6 ..
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम् । गत्वाप्सरोगणवसन्त सुमन्दवातैः स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ॥ ७ ॥
इन्द्रः विशङ्क्य मम धाम जिघृक्षति इति कामम् न्ययुङ्क्त स गणम् स बदरी-उपाख्यम् । गत्वा अप्सरः-गण-वसन्त सु मन्द-वातैः स्त्री-प्रेक्षण-इषुभिः अविध्यत् अतस् महि-ज्ञः ॥ ७ ॥
indraḥ viśaṅkya mama dhāma jighṛkṣati iti kāmam nyayuṅkta sa gaṇam sa badarī-upākhyam . gatvā apsaraḥ-gaṇa-vasanta su manda-vātaiḥ strī-prekṣaṇa-iṣubhiḥ avidhyat atas mahi-jñaḥ .. 7 ..
विज्ञाय शक्रकृतमक्रममादिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैर्विभो मदन मारुत देववध्वो गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥ ८ ॥
विज्ञाय शक्र-कृतम् अक्रमम् आदिदेवः प्राह प्रहस्य गत-विस्मयः एजमानान् । मा भैः विभो मदन मारुत देव-वध्वः गृह्णीत नः बलिम् अ शून्यम् इमम् कुरुध्वम् ॥ ८ ॥
vijñāya śakra-kṛtam akramam ādidevaḥ prāha prahasya gata-vismayaḥ ejamānān . mā bhaiḥ vibho madana māruta deva-vadhvaḥ gṛhṇīta naḥ balim a śūnyam imam kurudhvam .. 8 ..
इत्थं ब्रुवत्यभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तमूचुः । नैतद्विभो त्वयि परेऽविकृते विचित्रं स्वारामधीरनिकरा नतपादपद्मे ॥ ९ ॥
इत्थम् ब्रुवति अभय-दे नरदेव देवाः स व्रीड-नम्र-शिरसः स घृणम् तम् ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्व-आराम-धीर-निकराः नत-पाद-पद्मे ॥ ९ ॥
ittham bruvati abhaya-de naradeva devāḥ sa vrīḍa-namra-śirasaḥ sa ghṛṇam tam ūcuḥ . na etat vibho tvayi pare avikṛte vicitram sva-ārāma-dhīra-nikarāḥ nata-pāda-padme .. 9 ..
त्वां सेवतां सुरकृता बहवोऽन्तरायाः स्वौकः विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि ॥ १० ॥
त्वाम् सेवताम् सुर-कृताः बहवः अन्तरायाः स्वौकः विलङ्घ्य परमम् व्रजताम् पदम् ते । न अन्यस्य बर्हिषि बलीन् ददतः स्व-भागान् धत्ते पदम् त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ १० ॥
tvām sevatām sura-kṛtāḥ bahavaḥ antarāyāḥ svaukaḥ vilaṅghya paramam vrajatām padam te . na anyasya barhiṣi balīn dadataḥ sva-bhāgān dhatte padam tvam avitā yadi vighna-mūrdhni .. 10 ..
क्षुत्तृट् त्रिकालगुणमारुत जैह्वशैश्यान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गोः मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ॥ ११ ॥
क्षुत्-तृष् त्रि-काल-गुण-मारुत-जैह्व-शैश्यान् अस्मान् अपार-जलधीन् अ तितीर्य केचिद् । क्रोधस्य यान्ति विफलस्य वशम् पदे गोः मज्जन्ति दुश्चर-तपः च वृथा उत्सृजन्ति ॥ ११ ॥
kṣut-tṛṣ tri-kāla-guṇa-māruta-jaihva-śaiśyān asmān apāra-jaladhīn a titīrya kecid . krodhasya yānti viphalasya vaśam pade goḥ majjanti duścara-tapaḥ ca vṛthā utsṛjanti .. 11 ..
( अनुष्टुप् )
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः ॥ १२ ॥
इति प्रगृणताम् तेषाम् स्त्रियः अति अद्भुत-दर्शनाः । दर्शयामास शुश्रूषाम् सु अर्चिताः कुर्वतीः विभुः ॥ १२ ॥
iti pragṛṇatām teṣām striyaḥ ati adbhuta-darśanāḥ . darśayāmāsa śuśrūṣām su arcitāḥ kurvatīḥ vibhuḥ .. 12 ..
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः । गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः ॥ १३ ॥
ते देव-अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गन्धेन मुमुहुः तासाम् रूप-औदार्य-हत-श्रियः ॥ १३ ॥
te deva-anucarāḥ dṛṣṭvā striyaḥ śrīḥ iva rūpiṇīḥ . gandhena mumuhuḥ tāsām rūpa-audārya-hata-śriyaḥ .. 13 ..
तानाह देवदेवेशः प्रणतान् प्रहसन्निव । आसां एकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ १४ ॥
तान् आह देवदेवेशः प्रणतान् प्रहसन् इव । आसाम् एकतमाम् वृङ्ध्वम् सवर्णाम् स्वर्ग-भूषणाम् ॥ १४ ॥
tān āha devadeveśaḥ praṇatān prahasan iva . āsām ekatamām vṛṅdhvam savarṇām svarga-bhūṣaṇām .. 14 ..
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ १५ ॥
ओम् इति आदेशम् आदाय नत्वा तम् सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठाम् पुरस्कृत्य दिवम् ययुः ॥ १५ ॥
om iti ādeśam ādāya natvā tam sura-vandinaḥ . urvaśīm apsaraḥ-śreṣṭhām puraskṛtya divam yayuḥ .. 15 ..
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर्नारायणबलं शक्रः तत्रास विस्मितः ॥ १६ ॥
इन्द्राय आनम्य सदसि शृण्वताम् त्रिदिवौकसाम् । ऊचुः नारायण-बलम् शक्रः तत्र आस विस्मितः ॥ १६ ॥
indrāya ānamya sadasi śṛṇvatām tridivaukasām . ūcuḥ nārāyaṇa-balam śakraḥ tatra āsa vismitaḥ .. 16 ..
( वसंततिलका )
हंसस्वरूप्यवददच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः । विष्णुः शिवाय जगतां कलयावतिर्णः तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ १७ ॥
हंस-स्वरूपी अवदत् अच्युतः आत्म-योगम् दत्तः कुमारः ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगताम् कलया अवतिर्णः तेन आहृताः मधुभिदा श्रुतयः हय-आस्ये ॥ १७ ॥
haṃsa-svarūpī avadat acyutaḥ ātma-yogam dattaḥ kumāraḥ ṛṣabhaḥ bhagavān pitā naḥ . viṣṇuḥ śivāya jagatām kalayā avatirṇaḥ tena āhṛtāḥ madhubhidā śrutayaḥ haya-āsye .. 17 ..
गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् । कौर्मे धृतोऽद्रिः अमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजममुञ्चदार्तम् ॥ १८ ॥
गुप्तः अप्यये मनुः इलौषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरता अम्भसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत-उन्मथने स्व-पृष्ठे ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चत् आर्तम् ॥ १८ ॥
guptaḥ apyaye manuḥ ilauṣadhayaḥ ca mātsye krauḍe hataḥ ditijaḥ uddharatā ambhasaḥ kṣmām . kaurme dhṛtaḥ adriḥ amṛta-unmathane sva-pṛṣṭhe grāhāt prapannam ibha-rājam amuñcat ārtam .. 18 ..
संस्तुन्वतो निपतितान् श्रमणान् ऋषींश्च शक्रं च वृत्रवधतस्तमसि प्रविष्टम् । देवस्त्रियोऽसुरगृहे पिहिता अनाथा जघ्नेऽसुरेन्द्रमभयाय सतां नृसिंहे ॥ १९ ॥
संस्तुन्वतः निपतितान् श्रमणान् ऋषीन् च शक्रम् च वृत्र-वधतः तमसि प्रविष्टम् । देव-स्त्रियः असुर-गृहे पिहिताः अनाथाः जघ्ने असुर-इन्द्रम् अभयाय सताम् नृसिंहे ॥ १९ ॥
saṃstunvataḥ nipatitān śramaṇān ṛṣīn ca śakram ca vṛtra-vadhataḥ tamasi praviṣṭam . deva-striyaḥ asura-gṛhe pihitāḥ anāthāḥ jaghne asura-indram abhayāya satām nṛsiṃhe .. 19 ..
देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनानि अदधात् कलाभिः । भूत्वाथ वामन इमामहरद् बलेः क्ष्मां याच्ञाच्छलेन समदाद् अदितेः सुतेभ्यः ॥ २० ॥
देवासुरे युधि च दैत्य-पतीन् सुर-अर्थे हत्वा अन्तरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमाम् अहरत् बलेः क्ष्माम् याच्ञा-छलेन समदात् अदितेः सुतेभ्यः ॥ २० ॥
devāsure yudhi ca daitya-patīn sura-arthe hatvā antareṣu bhuvanāni adadhāt kalābhiḥ . bhūtvā atha vāmanaḥ imām aharat baleḥ kṣmām yācñā-chalena samadāt aditeḥ sutebhyaḥ .. 20 ..
निःक्षत्रियामकृत गां च त्रिसप्तकृत्वो रामस्तु हैहयकुलापि अयभार्गवाग्निः । सोऽब्धिं बबन्ध दशवक्त्रमहन् सलङ्कं सीतापतिर्जयति लोकमलघ्नकीर्तिः ॥ २१ ॥
निःक्षत्रियाम् अकृत गाम् च त्रि-सप्त-कृत्वस् रामः तु हैहय-कुलापी । सः अब्धिम् बबन्ध दश-वक्त्र-महन् स लङ्कम् सीता-पतिः जयति लोकम् अलघ्न-कीर्तिः ॥ २१ ॥
niḥkṣatriyām akṛta gām ca tri-sapta-kṛtvas rāmaḥ tu haihaya-kulāpī . saḥ abdhim babandha daśa-vaktra-mahan sa laṅkam sītā-patiḥ jayati lokam alaghna-kīrtiḥ .. 21 ..
भूमेर्भरावतरणाय यदुष्वजन्मा जातः करिष्यति सुरैरपि दुष्कराणि । वादैर्विमोहयति यज्ञकृतोऽतदर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यदन्ते ॥ २२ ॥
भूमेः भर-अवतरणाय यदुषु अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञकृतः अ तद्-अर्हान् शूद्रान् कलौ क्षितिभुजः न्यहनिष्यत् अन्ते ॥ २२ ॥
bhūmeḥ bhara-avataraṇāya yaduṣu ajanmā jātaḥ kariṣyati suraiḥ api duṣkarāṇi . vādaiḥ vimohayati yajñakṛtaḥ a tad-arhān śūdrān kalau kṣitibhujaḥ nyahaniṣyat ante .. 22 ..
( अनुष्टुप् )
एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ २३ ॥
एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरि-यशसः वर्णितानि महा-भुज ॥ २३ ॥
evaṃvidhāni janmāni karmāṇi ca jagatpateḥ . bhūrīṇi bhūri-yaśasaḥ varṇitāni mahā-bhuja .. 23 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe caturthaḥ adhyāyaḥ .. 4 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In