| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच -
भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः । तेषामशान्तकामानां का निष्ठाविजितात्मनाम् ॥ १ ॥
भगवन्तम् हरिम् प्रायस् न भजन्ति आत्म-वित्तमाः । तेषाम् अशान्त-कामानाम् का निष्ठा अविजित-आत्मनाम् ॥ १ ॥
bhagavantam harim prāyas na bhajanti ātma-vittamāḥ . teṣām aśānta-kāmānām kā niṣṭhā avijita-ātmanām .. 1 ..
श्रीचमस उवाच - ( अनुष्टुप् )
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ २ ॥
मुख-बाहु-ऊरु-पादेभ्यः पुरुषस्य आश्रमैः सह । चत्वारः जज्ञिरे वर्णाः गुणैः विप्र-आदयः पृथक् ॥ २ ॥
mukha-bāhu-ūru-pādebhyaḥ puruṣasya āśramaiḥ saha . catvāraḥ jajñire varṇāḥ guṇaiḥ vipra-ādayaḥ pṛthak .. 2 ..
य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् । न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ३ ॥
यः एषाम् पुरुषम् साक्षात् आत्म-प्रभवम् ईश्वरम् । न भजन्ति अवजानन्ति स्थानात् भ्रष्टाः पतन्ति अधस् ॥ ३ ॥
yaḥ eṣām puruṣam sākṣāt ātma-prabhavam īśvaram . na bhajanti avajānanti sthānāt bhraṣṭāḥ patanti adhas .. 3 ..
दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ ४ ॥
दूरे हरि-कथाः केचिद् दूरे च अच्युत-कीर्तनाः । स्त्रियः शूद्र-आदयः च एव ते अनुकम्प्याः भवादृशाम् ॥ ४ ॥
dūre hari-kathāḥ kecid dūre ca acyuta-kīrtanāḥ . striyaḥ śūdra-ādayaḥ ca eva te anukampyāḥ bhavādṛśām .. 4 ..
विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः ॥ ५ ॥
विप्रः राजन्य-वैश्यौ वा हरेः प्राप्ताः पद-अन्तिकम् । श्रौतेन जन्मना अथ अपि मुह्यन्ति आम्नाय-वादिनः ॥ ५ ॥
vipraḥ rājanya-vaiśyau vā hareḥ prāptāḥ pada-antikam . śrautena janmanā atha api muhyanti āmnāya-vādinaḥ .. 5 ..
कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ ६ ॥
कर्मणि अकोविदाः स्तब्धाः मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् मूढाः यया माध्व्या गिरा उत्सुकाः ॥ ६ ॥
karmaṇi akovidāḥ stabdhāḥ mūrkhāḥ paṇḍita-māninaḥ . vadanti cāṭukān mūḍhāḥ yayā mādhvyā girā utsukāḥ .. 6 ..
रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान् ॥ ७ ॥
रजसा घोर-सङ्कल्पाः कामुकाः अहिमन्यवः । दाम्भिकाः मानिनः पापाः विहसन्ति अच्युत-प्रियान् ॥ ७ ॥
rajasā ghora-saṅkalpāḥ kāmukāḥ ahimanyavaḥ . dāmbhikāḥ māninaḥ pāpāḥ vihasanti acyuta-priyān .. 7 ..
( मिश्र )
वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्यसृष्टानविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ ८ ॥
वदन्ति ते अन्योन्यम् उपासित-स्त्रियः गृहेषु मैथुन्य-परेषु च आशिषः । वृत्त्यै परम् घ्नन्ति पशून् अ तद्-विदः ॥ ८ ॥
vadanti te anyonyam upāsita-striyaḥ gṛheṣu maithunya-pareṣu ca āśiṣaḥ . vṛttyai param ghnanti paśūn a tad-vidaḥ .. 8 ..
श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान्खलाः ॥ ९ ॥
श्रिया विभूत्या अभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेन अन्ध-धियः सह ईश्वरान् सतस् अवमन्यन्ति हरि-प्रियान् खलाः ॥ ९ ॥
śriyā vibhūtyā abhijanena vidyayā tyāgena rūpeṇa balena karmaṇā . jāta-smayena andha-dhiyaḥ saha īśvarān satas avamanyanti hari-priyān khalāḥ .. 9 ..
सर्वेषु शश्वत् तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम् । वेदोपगीतं च न श्रृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥ १० ॥
सर्वेषु शश्वत् तनुभृत्सु अवस्थितम् यथा खम् आत्मानम् अभीष्टम् ईश्वरम् । वेद-उपगीतम् च न श्रृण्वते अबुधाः मनोरथानाम् प्रवदन्ति वार्तया ॥ १० ॥
sarveṣu śaśvat tanubhṛtsu avasthitam yathā kham ātmānam abhīṣṭam īśvaram . veda-upagītam ca na śrṛṇvate abudhāḥ manorathānām pravadanti vārtayā .. 10 ..
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ॥ ११ ॥
लोके व्यवाय-आमिष-मद्य-सेवा नित्या अस्तु जन्तोः न हि तत्र चोदना । व्यवस्थितिः तेषु विवाह-यज्ञ-सुरा-ग्रहैः आसु निवृत्तिः इष्टा ॥ ११ ॥
loke vyavāya-āmiṣa-madya-sevā nityā astu jantoḥ na hi tatra codanā . vyavasthitiḥ teṣu vivāha-yajña-surā-grahaiḥ āsu nivṛttiḥ iṣṭā .. 11 ..
धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ १२ ॥
धनम् च धर्म-एक-फलम् यतस् वै ज्ञानम् स विज्ञानम् अनु प्रशान्ति । गृहेषु युञ्जन्ति कलेवरस्य मृत्युम् न पश्यन्ति दुरन्त-वीर्यम् ॥ १२ ॥
dhanam ca dharma-eka-phalam yatas vai jñānam sa vijñānam anu praśānti . gṛheṣu yuñjanti kalevarasya mṛtyum na paśyanti duranta-vīryam .. 12 ..
यद् घ्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ १३ ॥
यत् घ्राण-भक्षः विहितः सुरायाः तथा पशोः आलभनम् न हिंसा । एवम् व्यवायः प्रजया न रत्याः इमम् विशुद्धम् न विदुः स्वधर्मम् ॥ १३ ॥
yat ghrāṇa-bhakṣaḥ vihitaḥ surāyāḥ tathā paśoḥ ālabhanam na hiṃsā . evam vyavāyaḥ prajayā na ratyāḥ imam viśuddham na viduḥ svadharmam .. 13 ..
( अनुष्टुप् )
ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
ये तु अनेवंविदः असन्तः स्तब्धाः सत्-अभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ १४ ॥
ye tu anevaṃvidaḥ asantaḥ stabdhāḥ sat-abhimāninaḥ . paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān .. 14 ..
द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् । मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः ॥ १५ ॥
द्विषन्तः पर-कायेषु स्वात्मानम् हरिम् ईश्वरम् । मृतके सानुबन्धे अस्मिन् बद्धस्नेहाः पतन्ति अधस् ॥ १५ ॥
dviṣantaḥ para-kāyeṣu svātmānam harim īśvaram . mṛtake sānubandhe asmin baddhasnehāḥ patanti adhas .. 15 ..
ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् । त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते ॥ १६ ॥
ये कैवल्यम् असम्प्राप्ताः ये च अतीताः च मूढ-ताम् । त्रैवर्गिकाः हि अक्षणिकाः आत्मानम् घातयन्ति ते ॥ १६ ॥
ye kaivalyam asamprāptāḥ ye ca atītāḥ ca mūḍha-tām . traivargikāḥ hi akṣaṇikāḥ ātmānam ghātayanti te .. 16 ..
एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः । सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः ॥ १७ ॥
एते आत्म-हनः अशान्ताः अज्ञाने ज्ञान-मानिनः । सीदन्ति अकृतकृत्याः वै काल-ध्वस्त-मनोरथाः ॥ १७ ॥
ete ātma-hanaḥ aśāntāḥ ajñāne jñāna-māninaḥ . sīdanti akṛtakṛtyāḥ vai kāla-dhvasta-manorathāḥ .. 17 ..
हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः । तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः ॥ १८ ॥
हित्वा अत्याय-अ रचिताः गृह-अपत्य-सुहृद् स्त्रियः । तमः विशन्ति अन् इच्छन्तः वासुदेव-पराङ्मुखाः ॥ १८ ॥
hitvā atyāya-a racitāḥ gṛha-apatya-suhṛd striyaḥ . tamaḥ viśanti an icchantaḥ vāsudeva-parāṅmukhāḥ .. 18 ..
श्री राजोवाच -
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम् ॥ १९ ॥
कस्मिन् काले स भगवान् किम् वर्णः कीदृशः नृभिः । नाम्ना वा केन विधिना पूज्यते तत् इह उच्यताम् ॥ १९ ॥
kasmin kāle sa bhagavān kim varṇaḥ kīdṛśaḥ nṛbhiḥ . nāmnā vā kena vidhinā pūjyate tat iha ucyatām .. 19 ..
श्रीकरभाजन उवाच -
कृतं त्रेता द्वापरं च कलिरित्येषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ २० ॥
कृतम् त्रेता द्वापरम् च कलिः इति एषु केशवः । नाना वर्ण-अभिधा-आकारः नाना एव विधिना इज्यते ॥ २० ॥
kṛtam tretā dvāparam ca kaliḥ iti eṣu keśavaḥ . nānā varṇa-abhidhā-ākāraḥ nānā eva vidhinā ijyate .. 20 ..
कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ २१ ॥
कृते शुक्लः चतुर्-बाहुः जटिलः वल्कल-अम्बरः । कृष्णाजिन-उपवीत-अक्षान् बिभ्रत् दण्ड-कमण्डलू ॥ २१ ॥
kṛte śuklaḥ catur-bāhuḥ jaṭilaḥ valkala-ambaraḥ . kṛṣṇājina-upavīta-akṣān bibhrat daṇḍa-kamaṇḍalū .. 21 ..
मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ २२ ॥
मनुष्याः तु तदा शान्ताः निर्वैराः सुहृदः समाः । यजन्ति तपसा देवम् शमेन च दमेन च ॥ २२ ॥
manuṣyāḥ tu tadā śāntāḥ nirvairāḥ suhṛdaḥ samāḥ . yajanti tapasā devam śamena ca damena ca .. 22 ..
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः । ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते ॥ २३ ॥
हंसः सुपर्णः वैकुण्ठः धर्मः योगेश्वरः अमलः । ईश्वरः पुरुषः अव्यक्तः परमात्मा इति गीयते ॥ २३ ॥
haṃsaḥ suparṇaḥ vaikuṇṭhaḥ dharmaḥ yogeśvaraḥ amalaḥ . īśvaraḥ puruṣaḥ avyaktaḥ paramātmā iti gīyate .. 23 ..
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः । हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः ॥ २४ ॥
त्रेतायाम् रक्त-वर्णः असौ चतुर्-बाहुः त्रि-मेखलः । ॥ २४ ॥
tretāyām rakta-varṇaḥ asau catur-bāhuḥ tri-mekhalaḥ . .. 24 ..
तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ २५ ॥
तम् तदा मनुजाः देवम् सर्व-देव-मयम् हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठाः ब्रह्म-वादिनः ॥ २५ ॥
tam tadā manujāḥ devam sarva-deva-mayam harim . yajanti vidyayā trayyā dharmiṣṭhāḥ brahma-vādinaḥ .. 25 ..
विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते ॥ २६ ॥
विष्णुः यज्ञः पृश्नि-गर्भः सर्व-देवः उरुक्रमः । वृषाकपिः जयन्तः च उरुगायः इति ईर्यते ॥ २६ ॥
viṣṇuḥ yajñaḥ pṛśni-garbhaḥ sarva-devaḥ urukramaḥ . vṛṣākapiḥ jayantaḥ ca urugāyaḥ iti īryate .. 26 ..
द्वापरे भगवान् श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥ २७ ॥
द्वापरे भगवान् श्यामः पीत-वासाः निज-आयुधः । श्रीवत्स-आदिभिः अङ्कैः च लक्षणैः उपलक्षितः ॥ २७ ॥
dvāpare bhagavān śyāmaḥ pīta-vāsāḥ nija-āyudhaḥ . śrīvatsa-ādibhiḥ aṅkaiḥ ca lakṣaṇaiḥ upalakṣitaḥ .. 27 ..
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ २८ ॥
तम् तदा पुरुषम् मर्त्याः महा-राज-उपलक्षणम् । यजन्ति वेद-तन्त्राभ्याम् परम् जिज्ञासवः नृप ॥ २८ ॥
tam tadā puruṣam martyāḥ mahā-rāja-upalakṣaṇam . yajanti veda-tantrābhyām param jijñāsavaḥ nṛpa .. 28 ..
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ २९ ॥
नमः ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नाय अनिरुद्धाय तुभ्यम् भगवते नमः ॥ २९ ॥
namaḥ te vāsudevāya namaḥ saṅkarṣaṇāya ca . pradyumnāya aniruddhāya tubhyam bhagavate namaḥ .. 29 ..
नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ ३० ॥
नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्व-भूत-आत्मने नमः ॥ ३० ॥
nārāyaṇāya ṛṣaye puruṣāya mahātmane . viśveśvarāya viśvāya sarva-bhūta-ātmane namaḥ .. 30 ..
इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् । नानातन्त्रविधानेन कलावपि तथा श्रृणु ॥ ३१ ॥
इति द्वापरे उर्वीश स्तुवन्ति जगत्-ईश्वरम् । नाना तन्त्र-विधानेन कलौ अपि तथा श्रृणु ॥ ३१ ॥
iti dvāpare urvīśa stuvanti jagat-īśvaram . nānā tantra-vidhānena kalau api tathā śrṛṇu .. 31 ..
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् । यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥
कृष्ण-वर्णम् त्विषा-कृष्णम् स अङ्ग-उपाङ्ग-अस्त्र पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैः यजन्ति हि सुमेधसः ॥ ३२ ॥
kṛṣṇa-varṇam tviṣā-kṛṣṇam sa aṅga-upāṅga-astra pārṣadam . yajñaiḥ saṅkīrtana-prāyaiḥ yajanti hi sumedhasaḥ .. 32 ..
( वसंततिलका )
ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ ३३ ॥
ध्येयम् सदा परिभव-घ्नम् अभीष्ट-दोहम् तीर्थ-आस्पदम् शिव-विरिञ्चि-नुतम् शरण्यम् । भृत्य-आर्ति-हम् प्रणत-पाल भव-अब्धि-पोतम् वन्दे महापुरुष ते चरण-अरविन्दम् ॥ ३३ ॥
dhyeyam sadā paribhava-ghnam abhīṣṭa-doham tīrtha-āspadam śiva-viriñci-nutam śaraṇyam . bhṛtya-ārti-ham praṇata-pāla bhava-abdhi-potam vande mahāpuruṣa te caraṇa-aravindam .. 33 ..
त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् । मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ ३४ ॥
त्यक्त्वा सु दुस्त्यज-सुर-ईप्सित-राज्य-लक्ष्मीम् धर्मिष्ठः आर्य-वचसा यत् अगात् अरण्यम् । मायामृगम् दयितया ईप्सितम् अन्वधावत् वन्दे महापुरुष ते चरण-अरविन्दम् ॥ ३४ ॥
tyaktvā su dustyaja-sura-īpsita-rājya-lakṣmīm dharmiṣṭhaḥ ārya-vacasā yat agāt araṇyam . māyāmṛgam dayitayā īpsitam anvadhāvat vande mahāpuruṣa te caraṇa-aravindam .. 34 ..
( अनुष्टुप् )
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः ॥ ३५ ॥
एवम् युग-अनुरूपाभ्याम् भगवान् युग-वर्तिभिः । मनुजैः इज्यते राजन् श्रेयसाम् ईश्वरः हरिः ॥ ३५ ॥
evam yuga-anurūpābhyām bhagavān yuga-vartibhiḥ . manujaiḥ ijyate rājan śreyasām īśvaraḥ hariḥ .. 35 ..
कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते ॥ ३६ ॥
कलिम् सभाजयन्ति आर्याः गुण-ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेन एव सर्व-स्वार्थः अभिलभ्यते ॥ ३६ ॥
kalim sabhājayanti āryāḥ guṇa-jñāḥ sāra-bhāginaḥ . yatra saṅkīrtanena eva sarva-svārthaḥ abhilabhyate .. 36 ..
न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ ३७ ॥
न हि अतस् परमः लाभः देहिनाम् भ्राम्यताम् इह । यतस् विन्देत परमाम् शान्तिम् नश्यति संसृतिः ॥ ३७ ॥
na hi atas paramaḥ lābhaḥ dehinām bhrāmyatām iha . yatas vindeta paramām śāntim naśyati saṃsṛtiḥ .. 37 ..
कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ ३८ ॥
कृत-आदिषु प्रजाः राजन् कलौ इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ ३८ ॥
kṛta-ādiṣu prajāḥ rājan kalau icchanti sambhavam . kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ .. 38 ..
क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
क्वचिद् क्वचिद् महा-राज द्रविडेषु च भूरिशस् । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ ३९ ॥
kvacid kvacid mahā-rāja draviḍeṣu ca bhūriśas . tāmraparṇī nadī yatra kṛtamālā payasvinī .. 39 ..
कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः ॥ ४० ॥
कावेरी च महापुण्या प्रतीची च महा-नदी । ये पिबन्ति जलम् तासाम् मनुजाः मनुज-ईश्वर । प्रायस् भक्ताः भगवति वासुदेवे अमल-आशयाः ॥ ४० ॥
kāverī ca mahāpuṇyā pratīcī ca mahā-nadī . ye pibanti jalam tāsām manujāḥ manuja-īśvara . prāyas bhaktāḥ bhagavati vāsudeve amala-āśayāḥ .. 40 ..
( मिश्र )
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ४१ ॥
देव-ऋषि-भूत-आप्त-नृणाम् पितॄणाम् न किङ्करः न अयम् ऋणी च राजन् । सर्व-आत्मना यः शरणम् शरण्यम् गतः मुकुन्दम् परिहृत्य कर्तम् ॥ ४१ ॥
deva-ṛṣi-bhūta-āpta-nṛṇām pitṝṇām na kiṅkaraḥ na ayam ṛṇī ca rājan . sarva-ātmanā yaḥ śaraṇam śaraṇyam gataḥ mukundam parihṛtya kartam .. 41 ..
स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः ॥ ४२ ॥
स्व-पाद-मूलम् भजतः प्रियस्य त्यक्त-अन्य-भावस्य हरिः पर-ईशः । विकर्म यत् च उत्पतितम् कथञ्चिद् धुनोति सर्वम् हृदि सन्निविष्टः ॥ ४२ ॥
sva-pāda-mūlam bhajataḥ priyasya tyakta-anya-bhāvasya hariḥ para-īśaḥ . vikarma yat ca utpatitam kathañcid dhunoti sarvam hṛdi sanniviṣṭaḥ .. 42 ..
श्रीनारद उवाच - ( अनुष्टुप् )
धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत् ॥ ४३ ॥
धर्मान् भागवतान् इत्थम् श्रुत्वा अथ मिथिला-ईश्वरः । जायन्तेयान् मुनीन् प्रीतः स उपाध्यायः हि अपूजयत् ॥ ४३ ॥
dharmān bhāgavatān ittham śrutvā atha mithilā-īśvaraḥ . jāyanteyān munīn prītaḥ sa upādhyāyaḥ hi apūjayat .. 43 ..
ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मानुपातिष्ठन् अवाप परमां गतिम् ॥ ४४ ॥
ततस् अन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन् अवाप परमाम् गतिम् ॥ ४४ ॥
tatas antardadhire siddhāḥ sarva-lokasya paśyataḥ . rājā dharmān upātiṣṭhan avāpa paramām gatim .. 44 ..
त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ ४५ ॥
त्वम् अपि एतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तः निःसङ्गः यास्यसे परम् ॥ ४५ ॥
tvam api etān mahābhāga dharmān bhāgavatān śrutān . āsthitaḥ śraddhayā yuktaḥ niḥsaṅgaḥ yāsyase param .. 45 ..
युवयोः खलु दम्पत्योः यशसा पूरितं जगत् । पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः ॥ ४६ ॥
युवयोः खलु दम्पत्योः यशसा पूरितम् जगत् । पुत्र-ताम् अगमत् यत् वाम् भगवान् ईश्वरः हरिः ॥ ४६ ॥
yuvayoḥ khalu dampatyoḥ yaśasā pūritam jagat . putra-tām agamat yat vām bhagavān īśvaraḥ hariḥ .. 46 ..
दर्शनालिङ्गनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ ४७ ॥
दर्शन-आलिङ्गन-आलापैः शयन-आसन-भोजनैः । आत्मा वाम् पावितः कृष्णे पुत्र-स्नेहम् प्रकुर्वतोः ॥ ४७ ॥
darśana-āliṅgana-ālāpaiḥ śayana-āsana-bhojanaiḥ . ātmā vām pāvitaḥ kṛṣṇe putra-sneham prakurvatoḥ .. 47 ..
( वसंततिलका )
वैरेण यं नृपतयः शिशुपालपौण्ड्र- शाल्वादयो गतिविलास-विलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम् ॥ ४८ ॥
वैरेण यम् नृपतयः शिशुपाल-पौण्ड्र-शाल्व-आदयः गति-विलास-विलोकन-आद्यैः । ध्यायन्तः आकृत-धियः शयन-आसन-आदौ तद्-साम्यम् आपुः अनुरक्त-धियाम् पुनर् किम् ॥ ४८ ॥
vaireṇa yam nṛpatayaḥ śiśupāla-pauṇḍra-śālva-ādayaḥ gati-vilāsa-vilokana-ādyaiḥ . dhyāyantaḥ ākṛta-dhiyaḥ śayana-āsana-ādau tad-sāmyam āpuḥ anurakta-dhiyām punar kim .. 48 ..
( अनुष्टुप् )
मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये ॥ ४९ ॥
मा अपत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनि ईश्वरे । माया-मनुष्य-भावेन गूढ-ऐश्वर्ये परे अव्यये ॥ ४९ ॥
mā apatya-buddhim akṛthāḥ kṛṣṇe sarvātmani īśvare . māyā-manuṣya-bhāvena gūḍha-aiśvarye pare avyaye .. 49 ..
भूभारासुरराजन्य हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ ५० ॥
भू-भार-असुर-राजन्य हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशः लोके वितन्यते ॥ ५० ॥
bhū-bhāra-asura-rājanya hantave guptaye satām . avatīrṇasya nirvṛtyai yaśaḥ loke vitanyate .. 50 ..
श्रीशुक उवाच -
एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः । देवकी च महाभागा जहतुः मोहमात्मनः ॥ ५१ ॥
एतत् श्रृत्वा महाभागः वसुदेवः अति विस्मितः । देवकी च महाभागा जहतुः मोहम् आत्मनः ॥ ५१ ॥
etat śrṛtvā mahābhāgaḥ vasudevaḥ ati vismitaḥ . devakī ca mahābhāgā jahatuḥ moham ātmanaḥ .. 51 ..
इतिहासमिमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ ५२ ॥
इतिहासम् इमम् पुण्यम् धारयेत् यः समाहितः । स विधूय इह शमलम् ब्रह्म-भूयाय कल्पते ॥ ५२ ॥
itihāsam imam puṇyam dhārayet yaḥ samāhitaḥ . sa vidhūya iha śamalam brahma-bhūyāya kalpate .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe pañcamaḥ adhyāyaḥ .. 5 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In