| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
यदात्थ मां महाभाग तच्चिकीर्षितमेव मे । ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः १ ।
यत् आत्थ माम् महाभाग तत् चिकीर्षितम् एव मे । ब्रह्मा भवः लोकपालाः स्वर् वासम् मे अभिकाङ्क्षिणः ।
yat āttha mām mahābhāga tat cikīrṣitam eva me . brahmā bhavaḥ lokapālāḥ svar vāsam me abhikāṅkṣiṇaḥ .
मया निष्पादितं ह्यत्र देवकार्यमशेषतः । यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः २ ।
मया निष्पादितम् हि अत्र देव-कार्यम् अशेषतस् । यद्-अर्थम् अवतीर्णः अहम् अंशेन ब्रह्मणा अर्थितः ।
mayā niṣpāditam hi atra deva-kāryam aśeṣatas . yad-artham avatīrṇaḥ aham aṃśena brahmaṇā arthitaḥ .
कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् । समुद्रः! सप्तमे ह्येनां पुरीं च प्लावयिष्यति ३ ।
कुलम् वै शाप-निर्दग्धम् नङ्क्ष्यति अन्योन्य-विग्रहात् । समुद्रः! सप्तमे हि एनाम् पुरीम् च प्लावयिष्यति ।
kulam vai śāpa-nirdagdham naṅkṣyati anyonya-vigrahāt . samudraḥ! saptame hi enām purīm ca plāvayiṣyati .
यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः । भविष्यत्यचिरात्साधो कलिनापि निराकृतः ४ ।
यर्हि एव अयम् मया त्यक्तः लोकः अयम् नष्ट-मङ्गलः । भविष्यति अचिरात् साधो कलिना अपि निराकृतः ।
yarhi eva ayam mayā tyaktaḥ lokaḥ ayam naṣṭa-maṅgalaḥ . bhaviṣyati acirāt sādho kalinā api nirākṛtaḥ .
न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले । जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ५ ।
न वस्तव्यम् त्वया एव इह मया त्यक्ते मही-तले । जनः अधर्म-रुचिः भद्र भविष्यति कलौ युगे ।
na vastavyam tvayā eva iha mayā tyakte mahī-tale . janaḥ adharma-ruciḥ bhadra bhaviṣyati kalau yuge .
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः संयक्समदृग्विचरस्व गाम् ६ ।
त्वम् तु सर्वम् परित्यज्य स्नेहम् स्व-जन-बन्धुषु । मयि आवेश्य मनः संयक् समदृश् विचरस्व गाम् ।
tvam tu sarvam parityajya sneham sva-jana-bandhuṣu . mayi āveśya manaḥ saṃyak samadṛś vicarasva gām .
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ७ ।
यत् इदम् मनसा वाचा चक्षुर्भ्याम् श्रवण-आदिभिः । नश्वरम् गृह्यमाणम् च विद्धि माया-मनः-मयम् ।
yat idam manasā vācā cakṣurbhyām śravaṇa-ādibhiḥ . naśvaram gṛhyamāṇam ca viddhi māyā-manaḥ-mayam .
पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् । कर्माकर्मविकर्मेति गुणदोषधियो भिदा ८ ।
पुंसः अयुक्तस्य नानार्थः भ्रमः स गुण-दोष-भाज् । कर्म-अकर्म-विकर्म इति गुण-दोष-धियः भिदा ।
puṃsaḥ ayuktasya nānārthaḥ bhramaḥ sa guṇa-doṣa-bhāj . karma-akarma-vikarma iti guṇa-doṣa-dhiyaḥ bhidā .
तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् । आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ९ ।
तस्मात् युक्त-इन्द्रिय-ग्रामः युक्त-चित्तः इदम् जगत् । आत्मनि ईक्षस्व विततम् आत्मानम् मयि अधीश्वरे ।
tasmāt yukta-indriya-grāmaḥ yukta-cittaḥ idam jagat . ātmani īkṣasva vitatam ātmānam mayi adhīśvare .
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे १० ।
ज्ञान-विज्ञान-संयुक्तः आत्म-भूतः शरीरिणाम् । न अन्तरायैः विहन्यसे ।
jñāna-vijñāna-saṃyuktaḥ ātma-bhūtaḥ śarīriṇām . na antarāyaiḥ vihanyase .
दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथार्भकः ११ ।
दोष-बुद्ध्या उभय-अतीतः निषेधात् न निवर्तते । गुण-बुद्ध्या च विहितम् न करोति यथा अर्भकः ।
doṣa-buddhyā ubhaya-atītaḥ niṣedhāt na nivartate . guṇa-buddhyā ca vihitam na karoti yathā arbhakaḥ .
सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः । पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः १२ ।
। पश्यन् मद्-आत्मकम् विश्वम् न विपद्येत वै पुनर् ।
. paśyan mad-ātmakam viśvam na vipadyeta vai punar .
श्रीशुक उवाच।
इत्यादिष्टो भगवता महाभागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् १३ ।
इति आदिष्टः भगवता महा-भागवतः नृप । उद्धवः तत्त्वम् जिज्ञासुः अच्युतम् ।
iti ādiṣṭaḥ bhagavatā mahā-bhāgavataḥ nṛpa . uddhavaḥ tattvam jijñāsuḥ acyutam .
श्रीउद्धव उवाच।
योगेश योगविन्यास योगात्मन्योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः १४ ।
योगेश योग-विन्यास योग-आत्मन् योग-सम्भव । निःश्रेयसाय मे प्रोक्तः त्यागः सन्न्यास-लक्षणः ।
yogeśa yoga-vinyāsa yoga-ātman yoga-sambhava . niḥśreyasāya me proktaḥ tyāgaḥ sannyāsa-lakṣaṇaḥ .
त्यागोऽयं दुष्करो भूमन्कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः १५ ।
त्यागः अयम् दुष्करः भूमन् कामानाम् विषय-आत्मभिः । सुतराम् त्वयि सर्वात्मन् अभक्तैः इति मे मतिः ।
tyāgaḥ ayam duṣkaraḥ bhūman kāmānām viṣaya-ātmabhiḥ . sutarām tvayi sarvātman abhaktaiḥ iti me matiḥ .
सोऽहं ममाहमिति मूढमतिर्विगाढः । त्वन्मायया विरचितात्मनि सानुबन्धे । तत्त्वञ्जसा निगदितं भवता यथाहं । संसाधयामि भगवन्ननुशाधि भृत्यम् १६ ।
सः अहम् मम अहम् इति मूढ-मतिः विगाढः । त्वद्-मायया विरचित-आत्मनि स अनुबन्धे । तत् तु अञ्जसा निगदितम् भवता यथा अहम् । संसाधयामि भगवन् अनुशाधि भृत्यम् ।
saḥ aham mama aham iti mūḍha-matiḥ vigāḍhaḥ . tvad-māyayā viracita-ātmani sa anubandhe . tat tu añjasā nigaditam bhavatā yathā aham . saṃsādhayāmi bhagavan anuśādhi bhṛtyam .
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं । वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे । ब्रह्मादयस्तनुभृतो बहिरर्थभावाः १७ ।
सत्यस्य ते स्वदृशः आत्मनः आत्मनः अन्यम् । वक्तारम् ईश विबुधेषु अपि ना अनुचक्षे । सर्वे विमोहित-धियः तव मायया इमे । ब्रह्म-आदयः तनुभृतः बहिस् अर्थ-भावाः ।
satyasya te svadṛśaḥ ātmanaḥ ātmanaḥ anyam . vaktāram īśa vibudheṣu api nā anucakṣe . sarve vimohita-dhiyaḥ tava māyayā ime . brahma-ādayaḥ tanubhṛtaḥ bahis artha-bhāvāḥ .
तस्माद्भवन्तमनवद्यमनन्तपारं । सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् । निर्विण्णधीरहमु ह वृजिनाभितप्तो । नारायणं नरसखं शरणं प्रपद्ये १८ ।
तस्मात् भवन्तम् अनवद्यम् अनन्त-पारम् । सर्वज्ञम् ईश्वर-मकुण्ठ-विकुण्ठ-धिष्ण्यम् । निर्विण्ण-धीः अहम् ह वृजिन-अभितप्तः । नारायणम् नरसखम् शरणम् प्रपद्ये ।
tasmāt bhavantam anavadyam ananta-pāram . sarvajñam īśvara-makuṇṭha-vikuṇṭha-dhiṣṇyam . nirviṇṇa-dhīḥ aham ha vṛjina-abhitaptaḥ . nārāyaṇam narasakham śaraṇam prapadye .
श्रीभगवानुवाच।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् १९ ।
प्रायेण मनुजाः लोके लोक-तत्त्व-विचक्षणाः । समुद्धरन्ति हि आत्मानम् आत्मना एव अशुभ-आशयात् ।
prāyeṇa manujāḥ loke loka-tattva-vicakṣaṇāḥ . samuddharanti hi ātmānam ātmanā eva aśubha-āśayāt .
आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः । यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते २० ।
आत्मनः गुरुः आत्मा एव पुरुषस्य विशेषतः । यत् प्रत्यक्ष-अनुमानाभ्याम् श्रेयः असौ अनुविन्दते ।
ātmanaḥ guruḥ ātmā eva puruṣasya viśeṣataḥ . yat pratyakṣa-anumānābhyām śreyaḥ asau anuvindate .
पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् २१ ।
पुरुष-त्वे च माम् धीराः साङ्ख्य-योग-विशारदाः । आविस्तराम् प्रपश्यन्ति सर्व-शक्ति-उपबृंहितम् ।
puruṣa-tve ca mām dhīrāḥ sāṅkhya-yoga-viśāradāḥ . āvistarām prapaśyanti sarva-śakti-upabṛṃhitam .
एकद्वित्रिचतुष्पादो बहुपादस्तथापदः । बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया २२ ।
एक-द्वि-त्रि-चतुष्पादः बहु-पादः तथा अपदः । बह्व्यः सन्ति पुरः सृष्टाः तासाम् मे पौरुषी प्रिया ।
eka-dvi-tri-catuṣpādaḥ bahu-pādaḥ tathā apadaḥ . bahvyaḥ santi puraḥ sṛṣṭāḥ tāsām me pauruṣī priyā .
अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् । गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः २३ ।
अत्र माम् मृगयन्ति अद्धा युक्ताः हेतुभिः ईश्वरम् । गृह्यमाणैः गुणैः लिङ्गैः अग्राह्यम् अनुमानतः ।
atra mām mṛgayanti addhā yuktāḥ hetubhiḥ īśvaram . gṛhyamāṇaiḥ guṇaiḥ liṅgaiḥ agrāhyam anumānataḥ .
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अवधूतस्य संवादं यदोरमिततेजसः २४ ।
अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् । अवधूतस्य संवादम् यदोः अमित-तेजसः ।
atra api udāharanti imam itihāsam purātanam . avadhūtasya saṃvādam yadoḥ amita-tejasaḥ .
अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् २५ ।
अवधूतम् द्विजम् कञ्चिद् चरन्तम् अकुतोभयम् । कविम् निरीक्ष्य तरुणम् यदुः पप्रच्छ धर्म-विद् ।
avadhūtam dvijam kañcid carantam akutobhayam . kavim nirīkṣya taruṇam yaduḥ papraccha dharma-vid .
श्रीयदुरुवाच।
कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा । यामासाद्य भवाँल्लोकं विद्वाँश्चरति बालवत् २६ ।
कुतस् बुद्धिः इयम् ब्रह्मन् अकर्तुः सु विशारदा । याम् आसाद्य भवान् लोकम् विद्वान् चरति बाल-वत् ।
kutas buddhiḥ iyam brahman akartuḥ su viśāradā . yām āsādya bhavān lokam vidvān carati bāla-vat .
प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः २७ ।
प्रायस् धर्म-अर्थ-कामेषु विवित्सायाम् च मानवाः । हेतुना एव समीहन्ते आयुषः यशसः श्रियः ।
prāyas dharma-artha-kāmeṣu vivitsāyām ca mānavāḥ . hetunā eva samīhante āyuṣaḥ yaśasaḥ śriyaḥ .
त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः । न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् २८ ।
त्वम् तु कल्पः कविः दक्षः सुभगः अमृत-भाषणः । न कर्ता न ईहसे किञ्चिद् जड-उन्मत्त-पिशाच-वत् ।
tvam tu kalpaḥ kaviḥ dakṣaḥ subhagaḥ amṛta-bhāṣaṇaḥ . na kartā na īhase kiñcid jaḍa-unmatta-piśāca-vat .
जनेषु दह्यमानेषु कामलोभदवाग्निना । न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः २९ ।
जनेषु दह्यमानेषु काम-लोभ-दवाग्निना । न तप्यसे अग्निना मुक्तः गङ्गा-अम्भः-स्थः इव द्विपः ।
janeṣu dahyamāneṣu kāma-lobha-davāgninā . na tapyase agninā muktaḥ gaṅgā-ambhaḥ-sthaḥ iva dvipaḥ .
त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ३० ।
त्वम् हि नः पृच्छताम् ब्रह्मन् आत्मनि आनन्द-कारणम् । ब्रूहि स्पर्श-विहीनस्य भवतः केवल-आत्मनः ।
tvam hi naḥ pṛcchatām brahman ātmani ānanda-kāraṇam . brūhi sparśa-vihīnasya bhavataḥ kevala-ātmanaḥ .
श्रीभगवानुवाच।
यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ३१ ।
यदुना एवम् महाभागः ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रय-अवनतम् द्विजः ।
yadunā evam mahābhāgaḥ brahmaṇyena sumedhasā . pṛṣṭaḥ sabhājitaḥ prāha praśraya-avanatam dvijaḥ .
श्रीब्राह्मण उवाच।
सन्ति मे गुरवो राजन्बहवो बुद्ध्युपश्रिताः । यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु ३२ ।
सन्ति मे गुरवः राजन् बहवः बुद्धि-उपश्रिताः । यतस् बुद्धिम् उपादाय मुक्तः अटामि इह तान् शृणु ।
santi me guravaḥ rājan bahavaḥ buddhi-upaśritāḥ . yatas buddhim upādāya muktaḥ aṭāmi iha tān śṛṇu .
पृथिवी वायुराकाशमापोऽग्निश्चन्द्र मा रविः । कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ३३ ।
पृथिवी वायुः आकाशम् आपः अग्निः चन्द्र-माः रविः । कपोतः अजगरः सिन्धुः पतङ्गः मधुकृत् गजः ।
pṛthivī vāyuḥ ākāśam āpaḥ agniḥ candra-māḥ raviḥ . kapotaḥ ajagaraḥ sindhuḥ pataṅgaḥ madhukṛt gajaḥ .
मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः । कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ३४ ।
मधु-हा हरिणः मीनः पिङ्गला कुररः अर्भकः । कुमारी शर-कृत् सर्पः ऊर्णनाभिः सुपेश-कृत् ।
madhu-hā hariṇaḥ mīnaḥ piṅgalā kuraraḥ arbhakaḥ . kumārī śara-kṛt sarpaḥ ūrṇanābhiḥ supeśa-kṛt .
एते मे गुरवो राजन्चतुर्विंशतिराश्रिताः । शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ३५ ।
एते मे गुरवः राजन् चतुर्विंशतिः आश्रिताः । शिक्षाः वृत्तिभिः एतेषाम् अन्वशिक्षम् इह आत्मनः ।
ete me guravaḥ rājan caturviṃśatiḥ āśritāḥ . śikṣāḥ vṛttibhiḥ eteṣām anvaśikṣam iha ātmanaḥ .
यतो यदनुशिक्षामि यथा वा नाहुषात्मज । तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ३६ ।
यतस् यत् अनुशिक्षामि यथा वा नाहुष-आत्मज । तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ।
yatas yat anuśikṣāmi yathā vā nāhuṣa-ātmaja . tat tathā puruṣa-vyāghra nibodha kathayāmi te .
भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ३७ ।
भूतैः आक्रम्यमाणः अपि धीरः दैव-वश-अनुगैः । तद्-विद्वान् न चलेत् मार्गात् अन्वशिक्षम् क्षितेः व्रतम् ।
bhūtaiḥ ākramyamāṇaḥ api dhīraḥ daiva-vaśa-anugaiḥ . tad-vidvān na calet mārgāt anvaśikṣam kṣiteḥ vratam .
शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः । साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ३८ ।
। साधुः शिक्षेत भूभृत्तः नग-शिष्यः परात्मताम् ।
. sādhuḥ śikṣeta bhūbhṛttaḥ naga-śiṣyaḥ parātmatām .
प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ३९ ।
प्राणवृत्त्या एव सन्तुष्येत् मुनिः न एव इन्द्रिय-प्रियैः । ज्ञानम् यथा न नश्येत न अवकीर्येत वाच्-मनः ।
prāṇavṛttyā eva santuṣyet muniḥ na eva indriya-priyaiḥ . jñānam yathā na naśyeta na avakīryeta vāc-manaḥ .
विषयेष्वाविशन्योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ४० ।
विषयेषु आविशन् योगी नाना धर्मेषु सर्वतस् । गुण-दोष-व्यपेत-आत्मा न विषज्जेत वायु-वत् ।
viṣayeṣu āviśan yogī nānā dharmeṣu sarvatas . guṇa-doṣa-vyapeta-ātmā na viṣajjeta vāyu-vat .
पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः । गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ४१ ।
पार्थिवेषु इह देहेषु प्रविष्टः तद्-गुण-आश्रयः । गुणैः न युज्यते योगी गन्धैः वायुः इव आत्म-दृश् ।
pārthiveṣu iha deheṣu praviṣṭaḥ tad-guṇa-āśrayaḥ . guṇaiḥ na yujyate yogī gandhaiḥ vāyuḥ iva ātma-dṛś .
अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन । व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् ४२ ।
अन्तर्हितः च स्थिर-जङ्गमेषु ब्रह्म-आत्मभावेन समन्वयेन । व्याप्त्या अव्यवच्छेदम् असङ्गम् आत्मनः मुनिः नभः-त्वम् विततस्य भावयेत् ।
antarhitaḥ ca sthira-jaṅgameṣu brahma-ātmabhāvena samanvayena . vyāptyā avyavacchedam asaṅgam ātmanaḥ muniḥ nabhaḥ-tvam vitatasya bhāvayet .
तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः । न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ४३ ।
तेजः-अप्-अन्न-मयैः भावैः मेघ-आद्यैः वायुना ईरितैः । न स्पृश्यते नभः तद्वत् काल-सृष्टैः गुणैः पुमान् ।
tejaḥ-ap-anna-mayaiḥ bhāvaiḥ megha-ādyaiḥ vāyunā īritaiḥ . na spṛśyate nabhaḥ tadvat kāla-sṛṣṭaiḥ guṇaiḥ pumān .
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् । मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ४४ ।
स्वच्छः प्रकृतितः स्निग्धः माधुर्यः तीर्थ-भूः नृणाम् । मुनिः पुनाति अपाम् मित्रम् ईक्षा-उपस्पर्श-कीर्तनैः ।
svacchaḥ prakṛtitaḥ snigdhaḥ mādhuryaḥ tīrtha-bhūḥ nṛṇām . muniḥ punāti apām mitram īkṣā-upasparśa-kīrtanaiḥ .
तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः । सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ४५ ।
तेजस्वी तपसा दीप्तः दुर्धर्ष-उदर-भाजनः । सर्व-भक्ष्यः अपि युक्त-आत्मा न आदत्ते मलम् अग्नि-वत् ।
tejasvī tapasā dīptaḥ durdharṣa-udara-bhājanaḥ . sarva-bhakṣyaḥ api yukta-ātmā na ādatte malam agni-vat .
क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातॄणां दहन्प्रागुत्तराशुभम् ४६ ।
क्वचिद् छन्नः क्वचिद् स्पष्टः उपास्यः श्रेयः इच्छताम् । भुङ्क्ते सर्वत्र दातॄणाम् दहन् प्राच्-उत्तर-अशुभम् ।
kvacid channaḥ kvacid spaṣṭaḥ upāsyaḥ śreyaḥ icchatām . bhuṅkte sarvatra dātṝṇām dahan prāc-uttara-aśubham .
स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः । प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि ४७ ।
स्व-मायया सृष्टम् इदम् विभुः । प्रविष्टः ईयते तत् तत् स्व-रूपः अग्निः इव एधसि ।
sva-māyayā sṛṣṭam idam vibhuḥ . praviṣṭaḥ īyate tat tat sva-rūpaḥ agniḥ iva edhasi .
विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ४८ ।
विसर्ग-आद्याः श्मशान-अन्ताः भावाः देहस्य न आत्मनः । कलानाम् इव चन्द्रस्य कालेन अव्यक्त-वर्त्मना ।
visarga-ādyāḥ śmaśāna-antāḥ bhāvāḥ dehasya na ātmanaḥ . kalānām iva candrasya kālena avyakta-vartmanā .
कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ । नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ४९ ।
कालेन हि ओघ-वेगेन भूतानाम् प्रभव-अप्ययौ । नित्यौ अपि न दृश्येते आत्मनः अग्नेः यथा अर्चिषाम् ।
kālena hi ogha-vegena bhūtānām prabhava-apyayau . nityau api na dṛśyete ātmanaḥ agneḥ yathā arciṣām .
गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ५० ।
गुणैः गुणान् उपादत्ते यथाकालम् विमुञ्चति । न तेषु युज्यते योगी गोभिः गाः इव गोपतिः ।
guṇaiḥ guṇān upādatte yathākālam vimuñcati . na teṣu yujyate yogī gobhiḥ gāḥ iva gopatiḥ .
बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः । लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ५१ ।
बुध्यते स्वे न भेदेन व्यक्ति-स्थः इव तद्गतः । लक्ष्यते स्थूल-मतिभिः आत्मा च अवस्थितः अर्क-वत् ।
budhyate sve na bhedena vyakti-sthaḥ iva tadgataḥ . lakṣyate sthūla-matibhiḥ ātmā ca avasthitaḥ arka-vat .
नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः ५२ ।
न अतिस्नेहः प्रसङ्गः वा कर्तव्यः क्वापि केनचिद् । कुर्वन् विन्देत सन्तापम् कपोतः इव दीन-धीः ।
na atisnehaḥ prasaṅgaḥ vā kartavyaḥ kvāpi kenacid . kurvan vindeta santāpam kapotaḥ iva dīna-dhīḥ .
कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ । कपोत्या भार्यया सार्धमुवास कतिचित्समाः ५३ ।
कपोतः कश्चन अरण्ये कृत-नीडः वनस्पतौ । कपोत्या भार्यया सार्धम् उवास कतिचिद् समाः ।
kapotaḥ kaścana araṇye kṛta-nīḍaḥ vanaspatau . kapotyā bhāryayā sārdham uvāsa katicid samāḥ .
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ । दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ५४ ।
कपोतौ स्नेह-गुणित-हृदयौ गृह-धर्मिणौ । दृष्टिम् दृष्ट्या अङ्गम् अङ्गेन बुद्धिम् बुद्ध्या बबन्धतुः ।
kapotau sneha-guṇita-hṛdayau gṛha-dharmiṇau . dṛṣṭim dṛṣṭyā aṅgam aṅgena buddhim buddhyā babandhatuḥ .
शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् । मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ५५ ।
शय्या-आसन-अटन-स्थान-वार्ता-क्रीडा-अशन-आदिकम् । मिथुनीभूय विश्रब्धौ चेरतुः वन-राजिषु ।
śayyā-āsana-aṭana-sthāna-vārtā-krīḍā-aśana-ādikam . mithunībhūya viśrabdhau ceratuḥ vana-rājiṣu .
यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता । तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ५६ ।
यम् यम् वाञ्छति सा राजन् तर्पयन्ती अनुकम्पिता । तम् तम् समनयत् कामम् कृच्छ्रेण अपि अजित-इन्द्रियः ।
yam yam vāñchati sā rājan tarpayantī anukampitā . tam tam samanayat kāmam kṛcchreṇa api ajita-indriyaḥ .
कपोती प्रथमं गर्भं गृह्णती काल आगते । अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ५७ ।
कपोती प्रथमम् गर्भम् गृह्णती काले आगते । अण्डानि सुषुवे नीडे स्व-पत्युः सन्निधौ सती ।
kapotī prathamam garbham gṛhṇatī kāle āgate . aṇḍāni suṣuve nīḍe sva-patyuḥ sannidhau satī .
तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ५८ ।
तेषु काले व्यजायन्त रचित-अवयवाः हरेः । शक्तिभिः दुर्विभाव्याभिः कोमल-अङ्ग-तनूरुहाः ।
teṣu kāle vyajāyanta racita-avayavāḥ hareḥ . śaktibhiḥ durvibhāvyābhiḥ komala-aṅga-tanūruhāḥ .
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ५९ ।
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वत्सलौ । शृण्वन्तौ कूजितम् तासाम् निर्वृतौ कल-भाषितैः ।
prajāḥ pupuṣatuḥ prītau dampatī putra-vatsalau . śṛṇvantau kūjitam tāsām nirvṛtau kala-bhāṣitaiḥ .
तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः । प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ६० ।
तासाम् पतत्रैः सुस्पर्शैः कूजितैः मुग्ध-चेष्टितैः । प्रत्युद्गमैः अदीनानाम् पितरौ मुदम् आपतुः ।
tāsām patatraiḥ susparśaiḥ kūjitaiḥ mugdha-ceṣṭitaiḥ . pratyudgamaiḥ adīnānām pitarau mudam āpatuḥ .
स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया । विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः ६१ ।
स्नेह-अनुबद्ध-हृदयौ अन्योन्यम् विष्णु-मायया । विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ।
sneha-anubaddha-hṛdayau anyonyam viṣṇu-māyayā . vimohitau dīna-dhiyau śiśūn pupuṣatuḥ prajāḥ .
एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ६२ ।
एकदा जग्मतुः तासाम् अन्न-अर्थम् तौ कुटुम्बिनौ । परितस् कानने तस्मिन् अर्थिनौ चेरतुः चिरम् ।
ekadā jagmatuḥ tāsām anna-artham tau kuṭumbinau . paritas kānane tasmin arthinau ceratuḥ ciram .
दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः । जगृहे जालमातत्य चरतः स्वालयान्तिके ६३ ।
दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातः वनेचरः । जगृहे जालम् आतत्य चरतः स्व-आलय-अन्तिके ।
dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchātaḥ vanecaraḥ . jagṛhe jālam ātatya carataḥ sva-ālaya-antike .
कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ । गतौ पोषणमादाय स्वनीडमुपजग्मतुः ६४ ।
कपोतः च कपोती च प्रजा-पोषे सदा उत्सुकौ । गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः ।
kapotaḥ ca kapotī ca prajā-poṣe sadā utsukau . gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ .
कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान् । तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ६५ ।
कपोती स्व-आत्मजान् वीक्ष्य बालकान् जाल-संवृतान् । तान् अभ्यधावत् क्रोशन्ती क्रोशतः भृश-दुःखिता ।
kapotī sva-ātmajān vīkṣya bālakān jāla-saṃvṛtān . tān abhyadhāvat krośantī krośataḥ bhṛśa-duḥkhitā .
सासकृत्स्नेहगुणिता! दीनचित्ताजमायया । स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः ६६ ।
सा असकृत् स्नेह-गुणिता! दीन-चित्ता अज-मायया । स्वयम् च अबध्यत शिचा बद्धान् पश्यन्ती अपस्मृतिः ।
sā asakṛt sneha-guṇitā! dīna-cittā aja-māyayā . svayam ca abadhyata śicā baddhān paśyantī apasmṛtiḥ .
कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान् । भार्यां चात्मसमां दीनो विललापातिदुःखितः ६७ ।
कपोतः स्व-आत्मजान् बद्धान् आत्मनः अपि अधिकान् प्रियान् । भार्याम् च आत्म-समाम् दीनः विललाप अति दुःखितः ।
kapotaḥ sva-ātmajān baddhān ātmanaḥ api adhikān priyān . bhāryām ca ātma-samām dīnaḥ vilalāpa ati duḥkhitaḥ .
अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ६८ ।
अहो मे पश्यत अपायम् अल्प-पुण्यस्य दुर्मतेः । अतृप्तस्य अकृतार्थस्य गृहः त्रैवर्गिकः हतः ।
aho me paśyata apāyam alpa-puṇyasya durmateḥ . atṛptasya akṛtārthasya gṛhaḥ traivargikaḥ hataḥ .
अनुरूपानुकूला च यस्य मे पतिदेवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ६९ ।
अनुरूपा अनुकूला च यस्य मे पति-देवता । शून्ये गृहे माम् सन्त्यज्य पुत्रैः स्वर् याति साधुभिः ।
anurūpā anukūlā ca yasya me pati-devatā . śūnye gṛhe mām santyajya putraiḥ svar yāti sādhubhiḥ .
सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः । जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ७० ।
सः अहम् शून्ये गृहे दीनः मृत-दारः मृत-प्रजः । जिजीविषे किमर्थम् वा विधुरः दुःख-जीवितः ।
saḥ aham śūnye gṛhe dīnaḥ mṛta-dāraḥ mṛta-prajaḥ . jijīviṣe kimartham vā vidhuraḥ duḥkha-jīvitaḥ .
तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान्विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ७१ ।
तान् तथा एव आवृतान् शिग्भिः मृत्यु-ग्रस्तान् विचेष्टतः । स्वयम् च कृपणः शिक्षु पश्यन् अपि अबुधः अपतत् ।
tān tathā eva āvṛtān śigbhiḥ mṛtyu-grastān viceṣṭataḥ . svayam ca kṛpaṇaḥ śikṣu paśyan api abudhaḥ apatat .
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् । कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् ७२ ।
तम् लब्ध्वा लुब्धकः क्रूरः कपोतम् गृहमेधिनम् । कपोतकान् कपोतीम् च सिद्धार्थः प्रययौ गृहम् ।
tam labdhvā lubdhakaḥ krūraḥ kapotam gṛhamedhinam . kapotakān kapotīm ca siddhārthaḥ prayayau gṛham .
एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् । पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति ७३ ।
एवम् कुटुम्बी अशान्त-आत्मा द्वन्द्व-आरामः पतत्रि-वत् । पुष्णन् कुटुम्बम् कृपणः स अनुबन्धः अवसीदति ।
evam kuṭumbī aśānta-ātmā dvandva-ārāmaḥ patatri-vat . puṣṇan kuṭumbam kṛpaṇaḥ sa anubandhaḥ avasīdati .
यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् । गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ७४ ।
यः प्राप्य मानुषम् लोकम् मुक्ति-द्वारम् अपावृतम् । गृहेषु खग-वत् सक्तः तम् आरूढ-च्युतम् विदुः ।
yaḥ prāpya mānuṣam lokam mukti-dvāram apāvṛtam . gṛheṣu khaga-vat saktaḥ tam ārūḍha-cyutam viduḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे सप्तमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे सप्तमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe saptamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In