| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीभगवानुवाच।
यदात्थ मां महाभाग तच्चिकीर्षितमेव मे । ब्रह्मा भवो लोकपालाः स्वर्वासं मेऽभिकाङ्क्षिणः १ ।
yadāttha māṃ mahābhāga taccikīrṣitameva me . brahmā bhavo lokapālāḥ svarvāsaṃ me'bhikāṅkṣiṇaḥ 1 .
मया निष्पादितं ह्यत्र देवकार्यमशेषतः । यदर्थमवतीर्णोऽहमंशेन ब्रह्मणार्थितः २ ।
mayā niṣpāditaṃ hyatra devakāryamaśeṣataḥ . yadarthamavatīrṇo'hamaṃśena brahmaṇārthitaḥ 2 .
कुलं वै शापनिर्दग्धं नङ्क्ष्यत्यन्योन्यविग्रहात् । समुद्रः! सप्तमे ह्येनां पुरीं च प्लावयिष्यति ३ ।
kulaṃ vai śāpanirdagdhaṃ naṅkṣyatyanyonyavigrahāt . samudraḥ! saptame hyenāṃ purīṃ ca plāvayiṣyati 3 .
यर्ह्येवायं मया त्यक्तो लोकोऽयं नष्टमङ्गलः । भविष्यत्यचिरात्साधो कलिनापि निराकृतः ४ ।
yarhyevāyaṃ mayā tyakto loko'yaṃ naṣṭamaṅgalaḥ . bhaviṣyatyacirātsādho kalināpi nirākṛtaḥ 4 .
न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले । जनोऽधर्मरुचिर्भद्र भविष्यति कलौ युगे ५ ।
na vastavyaṃ tvayaiveha mayā tyakte mahītale . jano'dharmarucirbhadra bhaviṣyati kalau yuge 5 .
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः संयक्समदृग्विचरस्व गाम् ६ ।
tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu . mayyāveśya manaḥ saṃyaksamadṛgvicarasva gām 6 .
यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ७ ।
yadidaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ . naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam 7 .
पुंसोऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् । कर्माकर्मविकर्मेति गुणदोषधियो भिदा ८ ।
puṃso'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk . karmākarmavikarmeti guṇadoṣadhiyo bhidā 8 .
तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत् । आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ९ ।
tasmādyuktendriyagrāmo yuktacitta idaṃ jagat . ātmanīkṣasva vitatamātmānaṃ mayyadhīśvare 9 .
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे १० ।
jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām . atmānubhavatuṣṭātmā nāntarāyairvihanyase 10 .
दोषबुद्ध्योभयातीतो निषेधान्न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथार्भकः ११ ।
doṣabuddhyobhayātīto niṣedhānna nivartate . guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ 11 .
सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः । पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः १२ ।
sarvabhūtasuhṛcchānto jñānavijñānaniścayaḥ . paśyanmadātmakaṃ viśvaṃ na vipadyeta vai punaḥ 12 .
श्रीशुक उवाच।
इत्यादिष्टो भगवता महाभागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुरच्युतम् १३ ।
ityādiṣṭo bhagavatā mahābhāgavato nṛpa . uddhavaḥ praṇipatyāha tattvaṃ jijñāsuracyutam 13 .
श्रीउद्धव उवाच।
योगेश योगविन्यास योगात्मन्योगसम्भव । निःश्रेयसाय मे प्रोक्तस्त्यागः सन्न्यासलक्षणः १४ ।
yogeśa yogavinyāsa yogātmanyogasambhava . niḥśreyasāya me proktastyāgaḥ sannyāsalakṣaṇaḥ 14 .
त्यागोऽयं दुष्करो भूमन्कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्नभक्तैरिति मे मतिः १५ ।
tyāgo'yaṃ duṣkaro bhūmankāmānāṃ viṣayātmabhiḥ . sutarāṃ tvayi sarvātmannabhaktairiti me matiḥ 15 .
सोऽहं ममाहमिति मूढमतिर्विगाढः । त्वन्मायया विरचितात्मनि सानुबन्धे । तत्त्वञ्जसा निगदितं भवता यथाहं । संसाधयामि भगवन्ननुशाधि भृत्यम् १६ ।
so'haṃ mamāhamiti mūḍhamatirvigāḍhaḥ . tvanmāyayā viracitātmani sānubandhe . tattvañjasā nigaditaṃ bhavatā yathāhaṃ . saṃsādhayāmi bhagavannanuśādhi bhṛtyam 16 .
सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं । वक्तारमीश विबुधेष्वपि नानुचक्षे । सर्वे विमोहितधियस्तव माययेमे । ब्रह्मादयस्तनुभृतो बहिरर्थभावाः १७ ।
satyasya te svadṛśa ātmana ātmano'nyaṃ . vaktāramīśa vibudheṣvapi nānucakṣe . sarve vimohitadhiyastava māyayeme . brahmādayastanubhṛto bahirarthabhāvāḥ 17 .
तस्माद्भवन्तमनवद्यमनन्तपारं । सर्वज्ञमीश्वरमकुण्ठविकुण्ठधिष्ण्यम् । निर्विण्णधीरहमु ह वृजिनाभितप्तो । नारायणं नरसखं शरणं प्रपद्ये १८ ।
tasmādbhavantamanavadyamanantapāraṃ . sarvajñamīśvaramakuṇṭhavikuṇṭhadhiṣṇyam . nirviṇṇadhīrahamu ha vṛjinābhitapto . nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye 18 .
श्रीभगवानुवाच।
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः । समुद्धरन्ति ह्यात्मानमात्मनैवाशुभाशयात् १९ ।
prāyeṇa manujā loke lokatattvavicakṣaṇāḥ . samuddharanti hyātmānamātmanaivāśubhāśayāt 19 .
आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः । यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते २० ।
ātmano gururātmaiva puruṣasya viśeṣataḥ . yatpratyakṣānumānābhyāṃ śreyo'sāvanuvindate 20 .
पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् २१ ।
puruṣatve ca māṃ dhīrāḥ sāṅkhyayogaviśāradāḥ . āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam 21 .
एकद्वित्रिचतुष्पादो बहुपादस्तथापदः । बह्व्यः सन्ति पुरः सृष्टास्तासां मे पौरुषी प्रिया २२ ।
ekadvitricatuṣpādo bahupādastathāpadaḥ . bahvyaḥ santi puraḥ sṛṣṭāstāsāṃ me pauruṣī priyā 22 .
अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् । गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानतः २३ ।
atra māṃ mṛgayantyaddhā yuktā hetubhirīśvaram . gṛhyamāṇairguṇairliṅgairagrāhyamanumānataḥ 23 .
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अवधूतस्य संवादं यदोरमिततेजसः २४ ।
atrāpyudāharantīmamitihāsaṃ purātanam . avadhūtasya saṃvādaṃ yadoramitatejasaḥ 24 .
अवधूतं द्विजं कञ्चिच्चरन्तमकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् २५ ।
avadhūtaṃ dvijaṃ kañciccarantamakutobhayam . kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit 25 .
श्रीयदुरुवाच।
कुतो बुद्धिरियं ब्रह्मन्नकर्तुः सुविशारदा । यामासाद्य भवाँल्लोकं विद्वाँश्चरति बालवत् २६ ।
kuto buddhiriyaṃ brahmannakartuḥ suviśāradā . yāmāsādya bhavām̐llokaṃ vidvām̐ścarati bālavat 26 .
प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः २७ ।
prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ . hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ 27 .
त्वं तु कल्पः कविर्दक्षः सुभगोऽमृतभाषणः । न कर्ता नेहसे किञ्चिज्जडोन्मत्तपिशाचवत् २८ ।
tvaṃ tu kalpaḥ kavirdakṣaḥ subhago'mṛtabhāṣaṇaḥ . na kartā nehase kiñcijjaḍonmattapiśācavat 28 .
जनेषु दह्यमानेषु कामलोभदवाग्निना । न तप्यसेऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः २९ ।
janeṣu dahyamāneṣu kāmalobhadavāgninā . na tapyase'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ 29 .
त्वं हि नः पृच्छतां ब्रह्मन्नात्मन्यानन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ३० ।
tvaṃ hi naḥ pṛcchatāṃ brahmannātmanyānandakāraṇam . brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ 30 .
श्रीभगवानुवाच।
यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ३१ ।
yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā . pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ 31 .
श्रीब्राह्मण उवाच।
सन्ति मे गुरवो राजन्बहवो बुद्ध्युपश्रिताः । यतो बुद्धिमुपादाय मुक्तोऽटामीह तान्शृणु ३२ ।
santi me guravo rājanbahavo buddhyupaśritāḥ . yato buddhimupādāya mukto'ṭāmīha tānśṛṇu 32 .
पृथिवी वायुराकाशमापोऽग्निश्चन्द्र मा रविः । कपोतोऽजगरः सिन्धुः पतङ्गो मधुकृद्गजः ३३ ।
pṛthivī vāyurākāśamāpo'gniścandra mā raviḥ . kapoto'jagaraḥ sindhuḥ pataṅgo madhukṛdgajaḥ 33 .
मधुहा हरिणो मीनः पिङ्गला कुररोऽर्भकः । कुमारी शरकृत्सर्प ऊर्णनाभिः सुपेशकृत् ३४ ।
madhuhā hariṇo mīnaḥ piṅgalā kuraro'rbhakaḥ . kumārī śarakṛtsarpa ūrṇanābhiḥ supeśakṛt 34 .
एते मे गुरवो राजन्चतुर्विंशतिराश्रिताः । शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मनः ३५ ।
ete me guravo rājancaturviṃśatirāśritāḥ . śikṣā vṛttibhireteṣāmanvaśikṣamihātmanaḥ 35 .
यतो यदनुशिक्षामि यथा वा नाहुषात्मज । तत्तथा पुरुषव्याघ्र निबोध कथयामि ते ३६ ।
yato yadanuśikṣāmi yathā vā nāhuṣātmaja . tattathā puruṣavyāghra nibodha kathayāmi te 36 .
भूतैराक्रम्यमाणोऽपि धीरो दैववशानुगैः । तद्विद्वान्न चलेन्मार्गादन्वशिक्षं क्षितेर्व्रतम् ३७ ।
bhūtairākramyamāṇo'pi dhīro daivavaśānugaiḥ . tadvidvānna calenmārgādanvaśikṣaṃ kṣitervratam 37 .
शश्वत्परार्थसर्वेहः परार्थैकान्तसम्भवः । साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ३८ ।
śaśvatparārthasarvehaḥ parārthaikāntasambhavaḥ . sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām 38 .
प्राणवृत्त्यैव सन्तुष्येन्मुनिर्नैवेन्द्रियप्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ३९ ।
prāṇavṛttyaiva santuṣyenmunirnaivendriyapriyaiḥ . jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ 39 .
विषयेष्वाविशन्योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ४० ।
viṣayeṣvāviśanyogī nānādharmeṣu sarvataḥ . guṇadoṣavyapetātmā na viṣajjeta vāyuvat 40 .
पार्थिवेष्विह देहेषु प्रविष्टस्तद्गुणाश्रयः । गुणैर्न युज्यते योगी गन्धैर्वायुरिवात्मदृक् ४१ ।
pārthiveṣviha deheṣu praviṣṭastadguṇāśrayaḥ . guṇairna yujyate yogī gandhairvāyurivātmadṛk 41 .
अन्तर्हितश्च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन । व्याप्त्याव्यवच्छेदमसङ्गमात्मनो मुनिर्नभस्त्वं विततस्य भावयेत् ४२ ।
antarhitaśca sthirajaṅgameṣu brahmātmabhāvena samanvayena . vyāptyāvyavacchedamasaṅgamātmano munirnabhastvaṃ vitatasya bhāvayet 42 .
तेजोऽबन्नमयैर्भावैर्मेघाद्यैर्वायुनेरितैः । न स्पृश्यते नभस्तद्वत्कालसृष्टैर्गुणैः पुमान् ४३ ।
tejo'bannamayairbhāvairmeghādyairvāyuneritaiḥ . na spṛśyate nabhastadvatkālasṛṣṭairguṇaiḥ pumān 43 .
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस्तीर्थभूर्नृणाम् । मुनिः पुनात्यपां मित्रमीक्षोपस्पर्शकीर्तनैः ४४ ।
svacchaḥ prakṛtitaḥ snigdho mādhuryastīrthabhūrnṛṇām . muniḥ punātyapāṃ mitramīkṣopasparśakīrtanaiḥ 44 .
तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः । सर्वभक्ष्योऽपि युक्तात्मा नादत्ते मलमग्निवत् ४५ ।
tejasvī tapasā dīpto durdharṣodarabhājanaḥ . sarvabhakṣyo'pi yuktātmā nādatte malamagnivat 45 .
क्वचिच्छन्नः क्वचित्स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातॄणां दहन्प्रागुत्तराशुभम् ४६ ।
kvacicchannaḥ kvacitspaṣṭa upāsyaḥ śreya icchatām . bhuṅkte sarvatra dātṝṇāṃ dahanprāguttarāśubham 46 .
स्वमायया सृष्टमिदं सदसल्लक्षणं विभुः । प्रविष्ट ईयते तत्तत् स्वरूपोऽग्निरिवैधसि ४७ ।
svamāyayā sṛṣṭamidaṃ sadasallakṣaṇaṃ vibhuḥ . praviṣṭa īyate tattat svarūpo'gnirivaidhasi 47 .
विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानामिव चन्द्रस्य कालेनाव्यक्तवर्त्मना ४८ ।
visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ . kalānāmiva candrasya kālenāvyaktavartmanā 48 .
कालेन ह्योघवेगेन भूतानां प्रभवाप्ययौ । नित्यावपि न दृश्येते आत्मनोऽग्नेर्यथार्चिषाम् ४९ ।
kālena hyoghavegena bhūtānāṃ prabhavāpyayau . nityāvapi na dṛśyete ātmano'gneryathārciṣām 49 .
गुणैर्गुणानुपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिर्गा इव गोपतिः ५० ।
guṇairguṇānupādatte yathākālaṃ vimuñcati . na teṣu yujyate yogī gobhirgā iva gopatiḥ 50 .
बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः । लक्ष्यते स्थूलमतिभिरात्मा चावस्थितोऽर्कवत् ५१ ।
budhyate sve na bhedena vyaktistha iva tadgataḥ . lakṣyate sthūlamatibhirātmā cāvasthito'rkavat 51 .
नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः ५२ ।
nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit . kurvanvindeta santāpaṃ kapota iva dīnadhīḥ 52 .
कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ । कपोत्या भार्यया सार्धमुवास कतिचित्समाः ५३ ।
kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau . kapotyā bhāryayā sārdhamuvāsa katicitsamāḥ 53 .
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ । दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ५४ ।
kapotau snehaguṇitahṛdayau gṛhadharmiṇau . dṛṣṭiṃ dṛṣṭyāṅgamaṅgena buddhiṃ buddhyā babandhatuḥ 54 .
शय्यासनाटनस्थानवार्ताक्रीडाशनादिकम् । मिथुनीभूय विश्रब्धौ चेरतुर्वनराजिषु ५५ ।
śayyāsanāṭanasthānavārtākrīḍāśanādikam . mithunībhūya viśrabdhau ceraturvanarājiṣu 55 .
यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता । तं तं समनयत्कामं कृच्छ्रेणाप्यजितेन्द्रियः ५६ ।
yaṃ yaṃ vāñchati sā rājantarpayantyanukampitā . taṃ taṃ samanayatkāmaṃ kṛcchreṇāpyajitendriyaḥ 56 .
कपोती प्रथमं गर्भं गृह्णती काल आगते । अण्डानि सुषुवे नीडे स्वपत्युः सन्निधौ सती ५७ ।
kapotī prathamaṃ garbhaṃ gṛhṇatī kāla āgate . aṇḍāni suṣuve nīḍe svapatyuḥ sannidhau satī 57 .
तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर्दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ५८ ।
teṣu kāle vyajāyanta racitāvayavā hareḥ . śaktibhirdurvibhāvyābhiḥ komalāṅgatanūruhāḥ 58 .
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ५९ ।
prajāḥ pupuṣatuḥ prītau dampatī putravatsalau . śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ 59 .
तासां पतत्रैः सुस्पर्शैः कूजितैर्मुग्धचेष्टितैः । प्रत्युद्गमैरदीनानां पितरौ मुदमापतुः ६० ।
tāsāṃ patatraiḥ susparśaiḥ kūjitairmugdhaceṣṭitaiḥ . pratyudgamairadīnānāṃ pitarau mudamāpatuḥ 60 .
स्नेहानुबद्धहृदयावन्योन्यं विष्णुमायया । विमोहितौ दीनधियौ शिशून्पुपुषतुः प्रजाः ६१ ।
snehānubaddhahṛdayāvanyonyaṃ viṣṇumāyayā . vimohitau dīnadhiyau śiśūnpupuṣatuḥ prajāḥ 61 .
एकदा जग्मतुस्तासामन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्नर्थिनौ चेरतुश्चिरम् ६२ ।
ekadā jagmatustāsāmannārthaṃ tau kuṭumbinau . paritaḥ kānane tasminnarthinau ceratuściram 62 .
दृष्ट्वा तान्लुब्धकः कश्चिद्यदृच्छातो वनेचरः । जगृहे जालमातत्य चरतः स्वालयान्तिके ६३ ।
dṛṣṭvā tānlubdhakaḥ kaścidyadṛcchāto vanecaraḥ . jagṛhe jālamātatya carataḥ svālayāntike 63 .
कपोतश्च कपोती च प्रजापोषे सदोत्सुकौ । गतौ पोषणमादाय स्वनीडमुपजग्मतुः ६४ ।
kapotaśca kapotī ca prajāpoṣe sadotsukau . gatau poṣaṇamādāya svanīḍamupajagmatuḥ 64 .
कपोती स्वात्मजान्वीक्ष्य बालकान्जालसंवृतान् । तानभ्यधावत्क्रोशन्ती क्रोशतो भृशदुःखिता ६५ ।
kapotī svātmajānvīkṣya bālakānjālasaṃvṛtān . tānabhyadhāvatkrośantī krośato bhṛśaduḥkhitā 65 .
सासकृत्स्नेहगुणिता! दीनचित्ताजमायया । स्वयं चाबध्यत शिचा बद्धान्पश्यन्त्यपस्मृतिः ६६ ।
sāsakṛtsnehaguṇitā! dīnacittājamāyayā . svayaṃ cābadhyata śicā baddhānpaśyantyapasmṛtiḥ 66 .
कपोतः स्वात्मजान्बद्धानात्मनोऽप्यधिकान्प्रियान् । भार्यां चात्मसमां दीनो विललापातिदुःखितः ६७ ।
kapotaḥ svātmajānbaddhānātmano'pyadhikānpriyān . bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ 67 .
अहो मे पश्यतापायमल्पपुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस्त्रैवर्गिको हतः ६८ ।
aho me paśyatāpāyamalpapuṇyasya durmateḥ . atṛptasyākṛtārthasya gṛhastraivargiko hataḥ 68 .
अनुरूपानुकूला च यस्य मे पतिदेवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर्याति साधुभिः ६९ ।
anurūpānukūlā ca yasya me patidevatā . śūnye gṛhe māṃ santyajya putraiḥ svaryāti sādhubhiḥ 69 .
सोऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः । जिजीविषे किमर्थं वा विधुरो दुःखजीवितः ७० ।
so'haṃ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ . jijīviṣe kimarthaṃ vā vidhuro duḥkhajīvitaḥ 70 .
तांस्तथैवावृतान् शिग्भिर्मृत्युग्रस्तान्विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्नप्यबुधोऽपतत् ७१ ।
tāṃstathaivāvṛtān śigbhirmṛtyugrastānviceṣṭataḥ . svayaṃ ca kṛpaṇaḥ śikṣu paśyannapyabudho'patat 71 .
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् । कपोतकान्कपोतीं च सिद्धार्थः प्रययौ गृहम् ७२ ।
taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam . kapotakānkapotīṃ ca siddhārthaḥ prayayau gṛham 72 .
एवं कुटुम्ब्यशान्तात्मा द्वन्द्वारामः पतत्रिवत् । पुष्णन्कुटुम्बं कृपणः सानुबन्धोऽवसीदति ७३ ।
evaṃ kuṭumbyaśāntātmā dvandvārāmaḥ patatrivat . puṣṇankuṭumbaṃ kṛpaṇaḥ sānubandho'vasīdati 73 .
यः प्राप्य मानुषं लोकं मुक्तिद्वारमपावृतम् । गृहेषु खगवत्सक्तस्तमारूढच्युतं विदुः ७४ ।
yaḥ prāpya mānuṣaṃ lokaṃ muktidvāramapāvṛtam . gṛheṣu khagavatsaktastamārūḍhacyutaṃ viduḥ 74 .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे सप्तमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāmekādaśaskandhe saptamo'dhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In