| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीब्राह्मण उवाच - ( अनुष्टुप् )
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्बुधः ॥ १ ॥
सुखम् ऐन्द्रियकम् राजन् स्वर्गे नरके एव च । देहिनाम् यत् यथा दुःखम् तस्मात् न इच्छेत तद्-बुधः ॥ १ ॥
sukham aindriyakam rājan svarge narake eva ca . dehinām yat yathā duḥkham tasmāt na iccheta tad-budhaḥ .. 1 ..
ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा । यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः ॥ २ ॥
ग्रासम् सुमृष्टम् विरसम् महान्तम् स्तोकम् एव वा । यदृच्छया एव आपतितम् ग्रसेत् आजगरः अक्रियः ॥ २ ॥
grāsam sumṛṣṭam virasam mahāntam stokam eva vā . yadṛcchayā eva āpatitam graset ājagaraḥ akriyaḥ .. 2 ..
शयीताहानि भूरीणि निराहारोऽनुपक्रमः । यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥
भूरीणि निराहारः अनुपक्रमः । यदि ना उपनमेत् ग्रासः महा-अहिः इव दिष्टभुज् ॥ ३ ॥
bhūrīṇi nirāhāraḥ anupakramaḥ . yadi nā upanamet grāsaḥ mahā-ahiḥ iva diṣṭabhuj .. 3 ..
ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् । शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥
ओजः-सहः-बल-युतम् बिभ्रत् देहम् अकर्मकम् । शयानः वीत-निद्रः च न ईहेत इन्द्रियवान् अपि ॥ ४ ॥
ojaḥ-sahaḥ-bala-yutam bibhrat deham akarmakam . śayānaḥ vīta-nidraḥ ca na īheta indriyavān api .. 4 ..
मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥
मुनिः प्रसन्न-गम्भीरः दुर्विगाह्यः दुरत्ययः । अनन्त-पारः हि अक्षोभ्यः स्तिमित-उदः इव अर्णवः ॥ ५ ॥
muniḥ prasanna-gambhīraḥ durvigāhyaḥ duratyayaḥ . ananta-pāraḥ hi akṣobhyaḥ stimita-udaḥ iva arṇavaḥ .. 5 ..
समृद्धकामो हीनो वा नारायणपरो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥ ६ ॥
समृद्ध-कामः हीनः वा नारायण-परः मुनिः । न उत्सर्पेत न शुष्येत सरिद्भिः इव सागरः ॥ ६ ॥
samṛddha-kāmaḥ hīnaḥ vā nārāyaṇa-paraḥ muniḥ . na utsarpeta na śuṣyeta saridbhiḥ iva sāgaraḥ .. 6 ..
दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः । प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
दृष्ट्वा स्त्रियम् देव-मायाम् तद्-भावैः अजित-इन्द्रियः । प्रलोभितः पतति अन्धे तमसि अग्नौ पतङ्ग-वत् ॥ ७ ॥
dṛṣṭvā striyam deva-māyām tad-bhāvaiḥ ajita-indriyaḥ . pralobhitaḥ patati andhe tamasi agnau pataṅga-vat .. 7 ..
( मिश्र )
योषिद्धिरण्याभरणाम्बरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८ ॥
योषित्-हिरण्य-आभरण-अम्बर-आदि द्रव्येषु माया-रचितेषु मूढः । प्रलोभित-आत्मा हि उपभोग-बुद्ध्या पतङ्ग-वत् नश्यति नष्ट-दृष्टिः ॥ ८ ॥
yoṣit-hiraṇya-ābharaṇa-ambara-ādi dravyeṣu māyā-raciteṣu mūḍhaḥ . pralobhita-ātmā hi upabhoga-buddhyā pataṅga-vat naśyati naṣṭa-dṛṣṭiḥ .. 8 ..
( अनुष्टुप् )
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥
स्तोकम् स्तोकम् ग्रसेत् ग्रासम् देहः वर्तेत यावता । गृहान् अ हिंसन् आतिष्ठेत् वृत्तिम् माधुकरीम् मुनिः ॥ ९ ॥
stokam stokam graset grāsam dehaḥ varteta yāvatā . gṛhān a hiṃsan ātiṣṭhet vṛttim mādhukarīm muniḥ .. 9 ..
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥
अणुभ्यः च महद्भ्यः च शास्त्रेभ्यः कुशलः नरः । सर्वतस् सारम् आदद्यात् पुष्पेभ्यः इव षट्पदः ॥ १० ॥
aṇubhyaḥ ca mahadbhyaḥ ca śāstrebhyaḥ kuśalaḥ naraḥ . sarvatas sāram ādadyāt puṣpebhyaḥ iva ṣaṭpadaḥ .. 10 ..
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥
सायन्तनम् श्वस्तनम् वा न सङ्गृह्णीत भिक्षितम् । पाणि-पात्र-उदर-अमत्रः मक्षिका इव न सङ्ग्रही ॥ ११ ॥
sāyantanam śvastanam vā na saṅgṛhṇīta bhikṣitam . pāṇi-pātra-udara-amatraḥ makṣikā iva na saṅgrahī .. 11 ..
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥
सायन्तनम् श्वस्तनम् वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥
sāyantanam śvastanam vā na saṅgṛhṇīta bhikṣukaḥ . makṣikā iva saṅgṛhṇan saha tena vinaśyati .. 12 ..
पदापि युवतीं भिक्षुः न स्पृशेद् दारवीमपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥
पदा अपि युवतीम् भिक्षुः न स्पृशेत् दारवीम् अपि । स्पृशन् करी इव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥
padā api yuvatīm bhikṣuḥ na spṛśet dāravīm api . spṛśan karī iva badhyeta kariṇyā aṅgasaṅgataḥ .. 13 ..
नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युमात्मनः । बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥
न अधिगच्छेत् स्त्रियम् प्राज्ञः कर्हिचित् मृत्युम् आत्मनः । बल-अधिकैः स हन्येत गजैः अन्यैः गजः यथा ॥ १४ ॥
na adhigacchet striyam prājñaḥ karhicit mṛtyum ātmanaḥ . bala-adhikaiḥ sa hanyeta gajaiḥ anyaiḥ gajaḥ yathā .. 14 ..
न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् । भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥
न देयम् ना उपभोग्यम् च लुब्धैः यत् दुःख-सञ्चितम् । भुङ्क्ते तत् अपि तत् च अन्यः मधुहा इव अर्थ-विद् मधु ॥ १५ ॥
na deyam nā upabhogyam ca lubdhaiḥ yat duḥkha-sañcitam . bhuṅkte tat api tat ca anyaḥ madhuhā iva artha-vid madhu .. 15 ..
सुदुःखोपार्जितैः वित्तैः आशासानां गृहाशिषः । मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥
सु दुःख-उपार्जितैः वित्तैः आशासानाम् गृह-आशिषः । मधु-हा इव अग्रतस् भुङ्क्ते यतिः वै गृहमेधिनाम् ॥ १६ ॥
su duḥkha-upārjitaiḥ vittaiḥ āśāsānām gṛha-āśiṣaḥ . madhu-hā iva agratas bhuṅkte yatiḥ vai gṛhamedhinām .. 16 ..
ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर्गीतमोहितात् ॥ १७ ॥
ग्राम्य-गीतम् न श्रृणुयात् यतिः वन-चरः क्वचिद् । शिक्षेत हरिणात् बद्धात् मृगयोः गीत-मोहितात् ॥ १७ ॥
grāmya-gītam na śrṛṇuyāt yatiḥ vana-caraḥ kvacid . śikṣeta hariṇāt baddhāt mṛgayoḥ gīta-mohitāt .. 17 ..
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यश्रृङ्गो मृगीसुतः ॥ १८ ॥
नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् । आसाम् क्रीडनकः वश्यः ऋष्य-श्रृङ्गः मृगी-सुतः ॥ १८ ॥
nṛtya-vāditra-gītāni juṣan grāmyāṇi yoṣitām . āsām krīḍanakaḥ vaśyaḥ ṛṣya-śrṛṅgaḥ mṛgī-sutaḥ .. 18 ..
जिह्वयातिप्रमाथिन्या जनो रसविमोहितः । मृत्युम् ऋच्छत्यसद्बुधिः मीनस्तु बडिशैर्यथा ॥ १९ ॥
जिह्वया अति प्रमाथिन्या जनः रस-विमोहितः । मृत्युम् ऋच्छति असत्-बुधिः मीनः तु बडिशैः यथा ॥ १९ ॥
jihvayā ati pramāthinyā janaḥ rasa-vimohitaḥ . mṛtyum ṛcchati asat-budhiḥ mīnaḥ tu baḍiśaiḥ yathā .. 19 ..
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥
इन्द्रियाणि जयन्ति आशु निराहाराः मनीषिणः । वर्जयित्वा तु रसनम् तत् निरन्नस्य वर्धते ॥ २० ॥
indriyāṇi jayanti āśu nirāhārāḥ manīṣiṇaḥ . varjayitvā tu rasanam tat nirannasya vardhate .. 20 ..
तावत् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावत् जितं सर्वं जिते रसे ॥ २१ ॥
तावत् जित-इन्द्रियः न स्यात् विजित-अन्य-इन्द्रियः पुमान् । न जयेत् रसनम् यावत् जितम् सर्वम् जिते रसे ॥ २१ ॥
tāvat jita-indriyaḥ na syāt vijita-anya-indriyaḥ pumān . na jayet rasanam yāvat jitam sarvam jite rase .. 21 ..
[1]पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२ ॥
[१]पिङ्गला नाम वेश्या आसीत् विदेह-नगरे पुरा । तस्याः मे शिक्षितम् किञ्चिद् निबोध नृप-नन्दन ॥ २२ ॥
[1]piṅgalā nāma veśyā āsīt videha-nagare purā . tasyāḥ me śikṣitam kiñcid nibodha nṛpa-nandana .. 22 ..
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती । अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३ ॥
सा स्वैरिणी एकदा कान्तम् सङ्केते उपनेष्यती । अभूत् काले बहिस् द्वारि बिभ्रती रूपम् उत्तमम् ॥ २३ ॥
sā svairiṇī ekadā kāntam saṅkete upaneṣyatī . abhūt kāle bahis dvāri bibhratī rūpam uttamam .. 23 ..
मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४ ॥
मार्गे आगच्छतः वीक्ष्य पुरुषान् पुरुष-ऋषभ । तान् शुल्कदान् वित्तवतः कान्तान् मेने अर्थ-कामुका ॥ २४ ॥
mārge āgacchataḥ vīkṣya puruṣān puruṣa-ṛṣabha . tān śulkadān vittavataḥ kāntān mene artha-kāmukā .. 24 ..
आगतेष्वपयातेषु सा सङ्केतोपजीविनी । अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५ ॥
आगतेषु अपयातेषु सा सङ्केत-उपजीविनी । अपि अन्यः वित्तवान् कः अपि माम् उपैष्यति भूरि-दः ॥ २५ ॥
āgateṣu apayāteṣu sā saṅketa-upajīvinī . api anyaḥ vittavān kaḥ api mām upaiṣyati bhūri-daḥ .. 25 ..
एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥
एवम् दुराशया ध्वस्त-निद्रा द्वारि अवलम्बती । निर्गच्छन्ती प्रविशती निशीथम् समपद्यत ॥ २६ ॥
evam durāśayā dhvasta-nidrā dvāri avalambatī . nirgacchantī praviśatī niśītham samapadyata .. 26 ..
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७ ॥
तस्याः वित्त-आशया शुष्यत्-वक्त्रायाः दीन-चेतसः । निर्वेदः परमः जज्ञे चिन्ता-हेतुः सुख-आवहः ॥ २७ ॥
tasyāḥ vitta-āśayā śuṣyat-vaktrāyāḥ dīna-cetasaḥ . nirvedaḥ paramaḥ jajñe cintā-hetuḥ sukha-āvahaḥ .. 27 ..
तस्या निर्विण्णचित्ताया गीतं श्रृणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८ ॥
तस्याः निर्विण्ण-चित्तायाः गीतम् श्रृणु यथा मम । निर्वेदः आशा-पाशानाम् पुरुषस्य यथा हि असिः ॥ २८ ॥
tasyāḥ nirviṇṇa-cittāyāḥ gītam śrṛṇu yathā mama . nirvedaḥ āśā-pāśānām puruṣasya yathā hi asiḥ .. 28 ..
न ह्यङ्गाज्जातनिर्वेदो देहबन्धं जिहासति । यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥
न हि अङ्गात् जात-निर्वेदः देह-बन्धम् जिहासति । यथा विज्ञान-रहितः मनुजः ममताम् नृप ॥ २९ ॥
na hi aṅgāt jāta-nirvedaḥ deha-bandham jihāsati . yathā vijñāna-rahitaḥ manujaḥ mamatām nṛpa .. 29 ..
पिङ्गलोवाच -
अहो मे मोहविततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ ३० ॥
अहो मे मोह-विततिम् पश्यत अविजित-आत्मनः । या कान्तात् असतः कामम् कामये येन बालिशा ॥ ३० ॥
aho me moha-vitatim paśyata avijita-ātmanaḥ . yā kāntāt asataḥ kāmam kāmaye yena bāliśā .. 30 ..
( मिश्र )
सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय । अकामदं दुःखभयाधिशोक- मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥
सन्तम् समीपे रमणम् रति-प्रदम् वित्त-प्रदम् नित्यम् इमम् विहाय । अकाम-दम् दुःख-भय-आधि-शोक-मोह-प्रदम् तुच्छम् अहम् भजे अज्ञा ॥ ३१ ॥
santam samīpe ramaṇam rati-pradam vitta-pradam nityam imam vihāya . akāma-dam duḥkha-bhaya-ādhi-śoka-moha-pradam tuccham aham bhaje ajñā .. 31 ..
अहो मयाऽऽत्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया । स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥
अहो मया आत्मा परितापितः वृथा साङ्केत्य-वृत्त्या अति विगर्ह्य-वार्तया । स्त्रैणात् नरात् या अर्थतृषः अनुशोच्यात् क्रीतेन वित्तम् रतिम् आत्मना इच्छती ॥ ३२ ॥
aho mayā ātmā paritāpitaḥ vṛthā sāṅketya-vṛttyā ati vigarhya-vārtayā . straiṇāt narāt yā arthatṛṣaḥ anuśocyāt krītena vittam ratim ātmanā icchatī .. 32 ..
यदस्थिभिर्निर्मित-वंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् । क्षरन्नवद्वारमगारमेतद् । विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥
यत् अस्थिभिः निर्मित-वंश-वंश्य-स्थूणम् त्वचा रोम-नखैः पिनद्धम् । क्षरत् नव-द्वारम् अगारम् एतत् । विष्-मूत्र-पूर्णम् मत् उपैति का अन्या ॥ ३३ ॥
yat asthibhiḥ nirmita-vaṃśa-vaṃśya-sthūṇam tvacā roma-nakhaiḥ pinaddham . kṣarat nava-dvāram agāram etat . viṣ-mūtra-pūrṇam mat upaiti kā anyā .. 33 ..
( अनुष्टुप् )
विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः । यान्यमिच्छन्त्यसत्यस्माद् आत्मदात् काममच्युतात् ॥ ३४ ॥
विदेहानाम् पुरे हि अस्मिन् अहम् एका एव मूढ-धीः । या अन्यम् इच्छन्ति असत्यस्मात् आत्म-दात् कामम् अच्युतात् ॥ ३४ ॥
videhānām pure hi asmin aham ekā eva mūḍha-dhīḥ . yā anyam icchanti asatyasmāt ātma-dāt kāmam acyutāt .. 34 ..
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥
सुहृद्-प्रेष्ठतमः नाथः आत्मा च अयम् शरीरिणाम् । तम् विक्रीय आत्मना एव अहम् रमे अनेन यथा रमा ॥ ३५ ॥
suhṛd-preṣṭhatamaḥ nāthaḥ ātmā ca ayam śarīriṇām . tam vikrīya ātmanā eva aham rame anena yathā ramā .. 35 ..
कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः । आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६ ॥
कियत् प्रियम् ते व्यभजन् कामाः ये काम-दाः नराः । आदि-अन्तवन्तः भार्यायाः देवाः वा काल-विद्रुताः ॥ ३६ ॥
kiyat priyam te vyabhajan kāmāḥ ye kāma-dāḥ narāḥ . ādi-antavantaḥ bhāryāyāḥ devāḥ vā kāla-vidrutāḥ .. 36 ..
नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७ ॥
नूनम् मे भगवान् प्रीतः विष्णुः केन अपि कर्मणा । निर्वेदः अयम् दुराशायाः यत् मे जातः सुख-आवहः ॥ ३७ ॥
nūnam me bhagavān prītaḥ viṣṇuḥ kena api karmaṇā . nirvedaḥ ayam durāśāyāḥ yat me jātaḥ sukha-āvahaḥ .. 37 ..
मैवं स्युः मन्दभाग्यायाः क्लेशा निर्वेदहेतवः । येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८ ॥
मा एवम् स्युः मन्दभाग्यायाः क्लेशाः निर्वेद-हेतवः । येन अनुबन्धम् निर्हृत्य पुरुषः शमम् ऋच्छति ॥ ३८ ॥
mā evam syuḥ mandabhāgyāyāḥ kleśāḥ nirveda-hetavaḥ . yena anubandham nirhṛtya puruṣaḥ śamam ṛcchati .. 38 ..
तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥
तेन उपकृतम् आदाय शिरसा ग्राम्य-सङ्ग-ताः । त्यक्त्वा दुराशाः शरणम् व्रजामि तम् अधीश्वरम् ॥ ३९ ॥
tena upakṛtam ādāya śirasā grāmya-saṅga-tāḥ . tyaktvā durāśāḥ śaraṇam vrajāmi tam adhīśvaram .. 39 ..
सन्तुष्टा श्रद्दधत्येतद् यथालाभेन जीवती । विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४० ॥
सन्तुष्टा श्रद्दधती एतत् यथा लाभेन जीवती । विहराम् इमुना एव अहम् आत्मना रमणेन वै ॥ ४० ॥
santuṣṭā śraddadhatī etat yathā lābhena jīvatī . viharām imunā eva aham ātmanā ramaṇena vai .. 40 ..
संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥
संसार-कूपे पतितम् विषयैः मुषित-ईक्षणम् । ग्रस्तम् काल-अहिना आत्मानम् कः अन्यः त्रातुम् अधीश्वरः ॥ ४१ ॥
saṃsāra-kūpe patitam viṣayaiḥ muṣita-īkṣaṇam . grastam kāla-ahinā ātmānam kaḥ anyaḥ trātum adhīśvaraḥ .. 41 ..
आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥
आत्मा एव हि आत्मनः गोप्ता निर्विद्येत यदा अखिलात् । अप्रमत्तः इदम् पश्येत् ग्रस्तम् काल-अहिना जगत् ॥ ४२ ॥
ātmā eva hi ātmanaḥ goptā nirvidyeta yadā akhilāt . apramattaḥ idam paśyet grastam kāla-ahinā jagat .. 42 ..
श्रीब्राह्मण उवाच -
एवं व्यवसितमतिः दुराशां कान्ततर्षजाम् । छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥
एवम् व्यवसित-मतिः दुराशाम् कान्त-तर्ष-जाम् । छित्त्वा उपशमम् आस्थाय शय्याम् उपविवेश सा ॥ ४३ ॥
evam vyavasita-matiḥ durāśām kānta-tarṣa-jām . chittvā upaśamam āsthāya śayyām upaviveśa sā .. 43 ..
आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥
आशाः हि परमम् दुःखम् नैराश्यम् परमम् सुखम् । यथा सञ्छिद्य कान्त-आशाम् सुखम् सुष्वाप पिङ्गला ॥ ४४ ॥
āśāḥ hi paramam duḥkham nairāśyam paramam sukham . yathā sañchidya kānta-āśām sukham suṣvāpa piṅgalā .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe aṣṭamaḥ adhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In