| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीब्राह्मण उवाच - ( अनुष्टुप् )
सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्बुधः ॥ १ ॥
sukham aindriyakaṃ rājan svarge naraka eva ca . dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ .. 1 ..
ग्रासं सुमृष्टं विरसं महान्तं स्तोकमेव वा । यदृच्छयैवापतितं ग्रसेत् आजगरोऽक्रियः ॥ २ ॥
grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokameva vā . yadṛcchayaivāpatitaṃ graset ājagaro'kriyaḥ .. 2 ..
शयीताहानि भूरीणि निराहारोऽनुपक्रमः । यदि नोपनमेद् ग्रासो महाहिरिव दिष्टभुक् ॥ ३ ॥
śayītāhāni bhūrīṇi nirāhāro'nupakramaḥ . yadi nopanamed grāso mahāhiriva diṣṭabhuk .. 3 ..
ओजःसहोबलयुतं बिभ्रद् देहमकर्मकम् । शयानो वीतनिद्रश्च नेहेतेन्द्रियवानपि ॥ ४ ॥
ojaḥsahobalayutaṃ bibhrad dehamakarmakam . śayāno vītanidraśca nehetendriyavānapi .. 4 ..
मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्तपारो ह्यक्षोभ्यः स्तिमितोद इवार्णवः ॥ ५ ॥
muniḥ prasannagambhīro durvigāhyo duratyayaḥ . anantapāro hyakṣobhyaḥ stimitoda ivārṇavaḥ .. 5 ..
समृद्धकामो हीनो वा नारायणपरो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिरिव सागरः ॥ ६ ॥
samṛddhakāmo hīno vā nārāyaṇaparo muniḥ . notsarpeta na śuṣyeta saridbhiriva sāgaraḥ .. 6 ..
दृष्ट्वा स्त्रियं देवमायां तद्भावैरजितेन्द्रियः । प्रलोभितः पतत्यन्धे तमस्यग्नौ पतङ्गवत् ॥ ७ ॥
dṛṣṭvā striyaṃ devamāyāṃ tadbhāvairajitendriyaḥ . pralobhitaḥ patatyandhe tamasyagnau pataṅgavat .. 7 ..
( मिश्र )
योषिद्धिरण्याभरणाम्बरादि द्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्युपभोगबुद्ध्या पतङ्गवत् नश्यति नष्टदृष्टिः ॥ ८ ॥
yoṣiddhiraṇyābharaṇāmbarādi dravyeṣu māyāraciteṣu mūḍhaḥ . pralobhitātmā hyupabhogabuddhyā pataṅgavat naśyati naṣṭadṛṣṭiḥ .. 8 ..
( अनुष्टुप् )
स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ ९ ॥
stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā . gṛhān ahiṃsan ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ .. 9 ..
अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ १० ॥
aṇubhyaśca mahadbhyaśca śāstrebhyaḥ kuśalo naraḥ . sarvataḥ sāramādadyāt puṣpebhya iva ṣaṭpadaḥ .. 10 ..
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ ११ ॥
sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam . pāṇipātrodarāmatro makṣikeva na saṅgrahī .. 11 ..
सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ १२ ॥
sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣukaḥ . makṣikā iva saṅgṛhṇan saha tena vinaśyati .. 12 ..
पदापि युवतीं भिक्षुः न स्पृशेद् दारवीमपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ १३ ॥
padāpi yuvatīṃ bhikṣuḥ na spṛśed dāravīmapi . spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ .. 13 ..
नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचित् मृत्युमात्मनः । बलाधिकैः स हन्येत गजैरन्यैर्गजो यथा ॥ १४ ॥
nādhigacchet striyaṃ prājñaḥ karhicit mṛtyumātmanaḥ . balādhikaiḥ sa hanyeta gajairanyairgajo yathā .. 14 ..
न देयं नोपभोग्यं च लुब्धैर्यद् दुःखसञ्चितम् । भुङ्क्ते तदपि तच्चान्यो मधुहेवार्थविन्मधु ॥ १५ ॥
na deyaṃ nopabhogyaṃ ca lubdhairyad duḥkhasañcitam . bhuṅkte tadapi taccānyo madhuhevārthavinmadhu .. 15 ..
सुदुःखोपार्जितैः वित्तैः आशासानां गृहाशिषः । मधुहेवाग्रतो भुङ्क्ते यतिर्वै गृहमेधिनाम् ॥ १६ ॥
suduḥkhopārjitaiḥ vittaiḥ āśāsānāṃ gṛhāśiṣaḥ . madhuhevāgrato bhuṅkte yatirvai gṛhamedhinām .. 16 ..
ग्राम्यगीतं न श्रृणुयाद् यतिर्वनचरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर्गीतमोहितात् ॥ १७ ॥
grāmyagītaṃ na śrṛṇuyād yatirvanacaraḥ kvacit . śikṣeta hariṇād baddhān mṛgayorgītamohitāt .. 17 ..
नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यश्रृङ्गो मृगीसुतः ॥ १८ ॥
nṛtyavāditragītāni juṣan grāmyāṇi yoṣitām . āsāṃ krīḍanako vaśya ṛṣyaśrṛṅgo mṛgīsutaḥ .. 18 ..
जिह्वयातिप्रमाथिन्या जनो रसविमोहितः । मृत्युम् ऋच्छत्यसद्बुधिः मीनस्तु बडिशैर्यथा ॥ १९ ॥
jihvayātipramāthinyā jano rasavimohitaḥ . mṛtyum ṛcchatyasadbudhiḥ mīnastu baḍiśairyathā .. 19 ..
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन्निरन्नस्य वर्धते ॥ २० ॥
indriyāṇi jayantyāśu nirāhārā manīṣiṇaḥ . varjayitvā tu rasanaṃ tannirannasya vardhate .. 20 ..
तावत् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावत् जितं सर्वं जिते रसे ॥ २१ ॥
tāvat jitendriyo na syād vijitānyendriyaḥ pumān . na jayed rasanaṃ yāvat jitaṃ sarvaṃ jite rase .. 21 ..
[1]पिङ्गला नाम वेश्याऽऽसीद् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चित् निबोध नृपनन्दन ॥ २२ ॥
[1]piṅgalā nāma veśyā''sīd videhanagare purā . tasyā me śikṣitaṃ kiñcit nibodha nṛpanandana .. 22 ..
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती । अभूत्काले बहिर्द्वारि बिभ्रती रूपमुत्तमम् ॥ २३ ॥
sā svairiṇyekadā kāntaṃ saṅketa upaneṣyatī . abhūtkāle bahirdvāri bibhratī rūpamuttamam .. 23 ..
मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थकामुका ॥ २४ ॥
mārga āgacchato vīkṣya puruṣān puruṣarṣabha . tān śulkadān vittavataḥ kāntān mene'rthakāmukā .. 24 ..
आगतेष्वपयातेषु सा सङ्केतोपजीविनी । अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥ २५ ॥
āgateṣvapayāteṣu sā saṅketopajīvinī . apyanyo vittavān ko'pi māmupaiṣyati bhūridaḥ .. 25 ..
एवं दुराशया ध्वस्तनिद्रा द्वार्यवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ २६ ॥
evaṃ durāśayā dhvastanidrā dvāryavalambatī . nirgacchantī praviśatī niśīthaṃ samapadyata .. 26 ..
तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ २७ ॥
tasyā vittāśayā śuṣyadvaktrāyā dīnacetasaḥ . nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ .. 27 ..
तस्या निर्विण्णचित्ताया गीतं श्रृणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ॥ २८ ॥
tasyā nirviṇṇacittāyā gītaṃ śrṛṇu yathā mama . nirveda āśāpāśānāṃ puruṣasya yathā hyasiḥ .. 28 ..
न ह्यङ्गाज्जातनिर्वेदो देहबन्धं जिहासति । यथा विज्ञानरहितो मनुजो ममतां नृप ॥ २९ ॥
na hyaṅgājjātanirvedo dehabandhaṃ jihāsati . yathā vijñānarahito manujo mamatāṃ nṛpa .. 29 ..
पिङ्गलोवाच -
अहो मे मोहविततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ ३० ॥
aho me mohavitatiṃ paśyatāvijitātmanaḥ . yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā .. 30 ..
( मिश्र )
सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यमिमं विहाय । अकामदं दुःखभयाधिशोक- मोहप्रदं तुच्छमहं भजेऽज्ञा ॥ ३१ ॥
santaṃ samīpe ramaṇaṃ ratipradaṃ vittapradaṃ nityamimaṃ vihāya . akāmadaṃ duḥkhabhayādhiśoka- mohapradaṃ tucchamahaṃ bhaje'jñā .. 31 ..
अहो मयाऽऽत्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया । स्त्रैणान्नराद् यार्थतृषोऽनुशोच्यात् क्रीतेन वित्तं रतिमात्मनेच्छती ॥ ३२ ॥
aho mayā''tmā paritāpito vṛthā sāṅketyavṛttyātivigarhyavārtayā . straiṇānnarād yārthatṛṣo'nuśocyāt krītena vittaṃ ratimātmanecchatī .. 32 ..
यदस्थिभिर्निर्मित-वंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् । क्षरन्नवद्वारमगारमेतद् । विण्मूत्रपूर्णं मदुपैति कान्या ॥ ३३ ॥
yadasthibhirnirmita-vaṃśavaṃśya- sthūṇaṃ tvacā romanakhaiḥ pinaddham . kṣarannavadvāramagārametad . viṇmūtrapūrṇaṃ madupaiti kānyā .. 33 ..
( अनुष्टुप् )
विदेहानां पुरे ह्यस्मिन् अहमेकैव मूढधीः । यान्यमिच्छन्त्यसत्यस्माद् आत्मदात् काममच्युतात् ॥ ३४ ॥
videhānāṃ pure hyasmin ahamekaiva mūḍhadhīḥ . yānyamicchantyasatyasmād ātmadāt kāmamacyutāt .. 34 ..
सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ ३५ ॥
suhṛtpreṣṭhatamo nātha ātmā cāyaṃ śarīriṇām . taṃ vikrīyātmanaivāhaṃ rame'nena yathā ramā .. 35 ..
कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः । आद्यन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ ३६ ॥
kiyat priyaṃ te vyabhajan kāmā ye kāmadā narāḥ . ādyantavanto bhāryāyā devā vā kālavidrutāḥ .. 36 ..
नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥ ३७ ॥
nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā . nirvedo'yaṃ durāśāyā yanme jātaḥ sukhāvahaḥ .. 37 ..
मैवं स्युः मन्दभाग्यायाः क्लेशा निर्वेदहेतवः । येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥ ३८ ॥
maivaṃ syuḥ mandabhāgyāyāḥ kleśā nirvedahetavaḥ . yenānubandhaṃ nirhṛtya puruṣaḥ śamamṛcchati .. 38 ..
तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥ ३९ ॥
tenopakṛtamādāya śirasā grāmyasaṅgatāḥ . tyaktvā durāśāḥ śaraṇaṃ vrajāmi tamadhīśvaram .. 39 ..
सन्तुष्टा श्रद्दधत्येतद् यथालाभेन जीवती । विहरामिमुनैवाहमात्मना रमणेन वै ॥ ४० ॥
santuṣṭā śraddadhatyetad yathālābhena jīvatī . viharāmimunaivāhamātmanā ramaṇena vai .. 40 ..
संसारकूपे पतितं विषयैर्मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधीश्वरः ॥ ४१ ॥
saṃsārakūpe patitaṃ viṣayairmuṣitekṣaṇam . grastaṃ kālāhinātmānaṃ ko'nyastrātumadhīśvaraḥ .. 41 ..
आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ ४२ ॥
ātmaiva hyātmano goptā nirvidyeta yadākhilāt . apramatta idaṃ paśyed grastaṃ kālāhinā jagat .. 42 ..
श्रीब्राह्मण उवाच -
एवं व्यवसितमतिः दुराशां कान्ततर्षजाम् । छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥ ४३ ॥
evaṃ vyavasitamatiḥ durāśāṃ kāntatarṣajām . chittvopaśamamāsthāya śayyāmupaviveśa sā .. 43 ..
आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ ४४ ॥
āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham . yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśaskandhe aṣṭamo'dhyāyaḥ .. 8 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In