| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीब्राह्मण उवाच - ( अनुष्टुप् )
परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः ॥ १ ॥
परिग्रहः हि दुःखाय यत् यत् प्रियतमम् नृणाम् । अनन्तम् सुखम् आप्नोति तत् विद्वान् यः तु अकिञ्चनः ॥ १ ॥
parigrahaḥ hi duḥkhāya yat yat priyatamam nṛṇām . anantam sukham āpnoti tat vidvān yaḥ tu akiñcanaḥ .. 1 ..
सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ २ ॥
स आमिषम् कुररम् जघ्नुः बलिनः ये निरामिषाः । तत् आमिषम् परित्यज्य स सुखम् समविन्दत ॥ २ ॥
sa āmiṣam kuraram jaghnuḥ balinaḥ ye nirāmiṣāḥ . tat āmiṣam parityajya sa sukham samavindata .. 2 ..
न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् । आत्मक्रीड आत्मरतिः विचरामीह बालवत् ॥ ३ ॥
न मे मान-अपमानौ स्तः न चिन्ता गेह-पुत्रिणाम् । आत्म-क्रीडः आत्म-रतिः विचरामि इह बाल-वत् ॥ ३ ॥
na me māna-apamānau staḥ na cintā geha-putriṇām . ātma-krīḍaḥ ātma-ratiḥ vicarāmi iha bāla-vat .. 3 ..
द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ ४ ॥
द्वौ एव चिन्तया मुक्तौ परम-आनन्दे आप्लुतौ । यः विमुग्धः जडः बालः यः गुणेभ्यः परम् गतः ॥ ४ ॥
dvau eva cintayā muktau parama-ānande āplutau . yaḥ vimugdhaḥ jaḍaḥ bālaḥ yaḥ guṇebhyaḥ param gataḥ .. 4 ..
क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् । स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥
क्वचिद् कुमारी तु आत्मानम् वृणानान् गृहम् आगतान् । स्वयम् तान् अर्हयामास क्वापि यातेषु बन्धुषु ॥ ५ ॥
kvacid kumārī tu ātmānam vṛṇānān gṛham āgatān . svayam tān arhayāmāsa kvāpi yāteṣu bandhuṣu .. 5 ..
तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत् ॥ ६ ॥
तेषम् अभ्यवहार-अर्थम् शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठ-स्थाः चक्रुः शङ्खाः स्वनम् महत् ॥ ६ ॥
teṣam abhyavahāra-artham śālīn rahasi pārthiva . avaghnantyāḥ prakoṣṭha-sthāḥ cakruḥ śaṅkhāḥ svanam mahat .. 6 ..
सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत् ॥ ७ ॥
सा तत् जुगुप्सितम् मत्वा महती व्रीडिता ततस् । बभञ्ज एकैकशस् शङ्खान् द्वौ द्वौ पाण्योः अशेषयत् ॥ ७ ॥
sā tat jugupsitam matvā mahatī vrīḍitā tatas . babhañja ekaikaśas śaṅkhān dvau dvau pāṇyoḥ aśeṣayat .. 7 ..
उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः । तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः ॥ ८ ॥
उभयोः अपि अभूत् घोषः हि अवघ्नन्त्याः स्म शंखयोः । तत्र अपि एकम् निरभिदत् एकस्मात् न अभवत् ध्वनिः ॥ ८ ॥
ubhayoḥ api abhūt ghoṣaḥ hi avaghnantyāḥ sma śaṃkhayoḥ . tatra api ekam nirabhidat ekasmāt na abhavat dhvaniḥ .. 8 ..
अन्वशिक्षमिमं तस्या उपदेशमरिन्दम । लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया ॥ ९ ॥
अन्वशिक्षम् इमम् तस्याः उपदेशम् अरिन्दम । लोकान् अनुचरन् एतान् लोक-तत्त्व-विवित्सया ॥ ९ ॥
anvaśikṣam imam tasyāḥ upadeśam arindama . lokān anucaran etān loka-tattva-vivitsayā .. 9 ..
वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि । एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥
वासे बहूनाम् कलहः भवेत् वार्ता द्वयोः अपि । एकः एव चरेत् तस्मात् कुमार्याः इव कङ्कणः ॥ १० ॥
vāse bahūnām kalahaḥ bhavet vārtā dvayoḥ api . ekaḥ eva caret tasmāt kumāryāḥ iva kaṅkaṇaḥ .. 10 ..
मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः । वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः ॥ ११ ॥
मनः एकत्र संयुञ्ज्यात् जित-श्वासः जित-आसनः । वैराग्य-अभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ ११ ॥
manaḥ ekatra saṃyuñjyāt jita-śvāsaḥ jita-āsanaḥ . vairāgya-abhyāsa-yogena dhriyamāṇam atandritaḥ .. 11 ..
( मिश्र )
यस्मिन्मनो लब्धपदं यदेतत् शनैः शनैः मुञ्चति कर्मरेणून् । सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
यस्मिन् मनः लब्ध-पदम् यत् एतत् शनैस् शनैस् मुञ्चति कर्म-रेणून् । सत्त्वेन वृद्धेन रजः तमः च विधूय निर्वाणम् उपैति अन् इन्धनम् ॥ १२ ॥
yasmin manaḥ labdha-padam yat etat śanais śanais muñcati karma-reṇūn . sattvena vṛddhena rajaḥ tamaḥ ca vidhūya nirvāṇam upaiti an indhanam .. 12 ..
( उपेंद्रवज्रा )
तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व्रजन्तं इषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
तदा एवम् आत्मनि अवरुद्ध-चित्तः न वेद किञ्चिद् बहिस् अन्तरम् वा । यथा इषुकारः नृपतिम् व्रजन्तम् इषौ गत-आत्मा न ददर्श पार्श्वे ॥ १३ ॥
tadā evam ātmani avaruddha-cittaḥ na veda kiñcid bahis antaram vā . yathā iṣukāraḥ nṛpatim vrajantam iṣau gata-ātmā na dadarśa pārśve .. 13 ..
( अनुष्टुप् )
एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः ॥ १४ ॥
एकचार्य-निकेतः स्यात् , अप्रमत्तः गुहा-आशयः । अलक्ष्यमाणः आचारैः मुनिः एकः अल्प-भाषणः ॥ १४ ॥
ekacārya-niketaḥ syāt , apramattaḥ guhā-āśayaḥ . alakṣyamāṇaḥ ācāraiḥ muniḥ ekaḥ alpa-bhāṣaṇaḥ .. 14 ..
गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १५ ॥
गृह-आरम्भः अति दुःखाय विफलः च अध्रुव-आत्मनः । सर्पः पर-कृतम् वेश्म प्रविश्य सुखम् एधते ॥ १५ ॥
gṛha-ārambhaḥ ati duḥkhāya viphalaḥ ca adhruva-ātmanaḥ . sarpaḥ para-kṛtam veśma praviśya sukham edhate .. 15 ..
एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥
एकः नारायणः देवः पूर्व-सृष्टम् स्व-मायया । संहृत्य काल-कलया कल्प-अन्ते इदम् ईश्वरः ॥ १६ ॥
ekaḥ nārāyaṇaḥ devaḥ pūrva-sṛṣṭam sva-māyayā . saṃhṛtya kāla-kalayā kalpa-ante idam īśvaraḥ .. 16 ..
एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः । कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ॥ १७ ॥
एकः एव अद्वितीयः अभूत् आत्म-आधारः अखिल-आश्रयः । कालेन आत्म-अनुभावेन साम्यम् नीतासु शक्तिषु । सत्त्व-आदिषु आदिपुरुषः प्रधान-पुरुष-ईश्वरः ॥ १७ ॥
ekaḥ eva advitīyaḥ abhūt ātma-ādhāraḥ akhila-āśrayaḥ . kālena ātma-anubhāvena sāmyam nītāsu śaktiṣu . sattva-ādiṣu ādipuruṣaḥ pradhāna-puruṣa-īśvaraḥ .. 17 ..
परावराणां परम, आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्द सन्दोहो निरुपाधिकः ॥ १८ ॥
परावराणाम् परम, आस्ते कैवल्य-संज्ञितः । ॥ १८ ॥
parāvarāṇām parama, āste kaivalya-saṃjñitaḥ . .. 18 ..
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम ॥ १९ ॥
केवल-आत्म-अनुभावेन स्व-मायाम् त्रिगुण-आत्मिकाम् । सङ्क्षोभयन् सृजति आदौ तया सूत्रम् अरिन्दम ॥ १९ ॥
kevala-ātma-anubhāvena sva-māyām triguṇa-ātmikām . saṅkṣobhayan sṛjati ādau tayā sūtram arindama .. 19 ..
तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ २० ॥
ताम् आहुः त्रिगुण-व्यक्तिम् सृजन्तीम् विश्वतोमुखम् । यस्मिन् प्रोतम् इदम् विश्वम् येन संसरते पुमान् ॥ २० ॥
tām āhuḥ triguṇa-vyaktim sṛjantīm viśvatomukham . yasmin protam idam viśvam yena saṃsarate pumān .. 20 ..
यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः ॥ २१ ॥
यथा ऊर्णनाभिः हृदयात् ऊर्णाम् सन्तत्य वक्त्रतः । तया विहृत्य भूयस् ताम् ग्रसति एवम् महेश्वरः ॥ २१ ॥
yathā ūrṇanābhiḥ hṛdayāt ūrṇām santatya vaktrataḥ . tayā vihṛtya bhūyas tām grasati evam maheśvaraḥ .. 21 ..
यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम् ॥ २२ ॥
यत्र यत्र मनः देही धारयेत् सकलम् धिया । स्नेहात् द्वेषात् भयात् वा अपि याति तत् तद्-स्वरूप-ताम् ॥ २२ ॥
yatra yatra manaḥ dehī dhārayet sakalam dhiyā . snehāt dveṣāt bhayāt vā api yāti tat tad-svarūpa-tām .. 22 ..
कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन् ॥ २३ ॥
कीटः पेशस्कृतम् ध्यायन् कुड्याम् तेन प्रवेशितः । याति तद्-सात्मताम् राजन् पूर्व-रूपम् असन्त्यजन् ॥ २३ ॥
kīṭaḥ peśaskṛtam dhyāyan kuḍyām tena praveśitaḥ . yāti tad-sātmatām rājan pūrva-rūpam asantyajan .. 23 ..
एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो ॥ २४ ॥
एवम् गुरुभ्यः एतेभ्यः एषा मे शिक्षिता मतिः । स्व-आत्म-उपशिक्षिताम् बुद्धिम् श्रृणु मे वदतः प्रभो ॥ २४ ॥
evam gurubhyaḥ etebhyaḥ eṣā me śikṣitā matiḥ . sva-ātma-upaśikṣitām buddhim śrṛṇu me vadataḥ prabho .. 24 ..
( वसंततिलका )
देहो गुरुर्मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् । तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
देहः गुरुः मम विरक्ति-विवेक-हेतुः बिभ्रत् स्म सत्त्व-निधनम् सतत-आर्ति-उदर्कम् । तत्त्वानि अनेन विमृशामि यथा तथा अपि पारक्यम् इति अवसितः विचरामि असङ्गः ॥ २५ ॥
dehaḥ guruḥ mama virakti-viveka-hetuḥ bibhrat sma sattva-nidhanam satata-ārti-udarkam . tattvāni anena vimṛśāmi yathā tathā api pārakyam iti avasitaḥ vicarāmi asaṅgaḥ .. 25 ..
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् । स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा ॥ २६ ॥
जाया-आत्मज-अर्थ-पशु-भृत्य-गृह-आप्त-वर्गान् पुष्णाति यद्-प्रिय-चिकीर्षु-तया वितन्वन् । स्वान्ते स कृच्छ्रम् अवरुद्ध-धनः स देहः सृष्ट्वा अस्य बीजम् अवसीदति वृक्षधर्मा ॥ २६ ॥
jāyā-ātmaja-artha-paśu-bhṛtya-gṛha-āpta-vargān puṣṇāti yad-priya-cikīrṣu-tayā vitanvan . svānte sa kṛcchram avaruddha-dhanaḥ sa dehaḥ sṛṣṭvā asya bījam avasīdati vṛkṣadharmā .. 26 ..
जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ २७ ॥
जिह्वा एकतस् अमुम् अपकर्षति कर्हि तर्षा शिश्नः अन्यतस् त्वच्-उदरम् श्रवणम् कुतश्चिद् । घ्राणः अन्यतस् चपल-दृश् क्व च कर्म-शक्तिः बह्व्यः सपत्न्यः इव गेह-पतिम् लुनन्ति ॥ २७ ॥
jihvā ekatas amum apakarṣati karhi tarṣā śiśnaḥ anyatas tvac-udaram śravaṇam kutaścid . ghrāṇaḥ anyatas capala-dṛś kva ca karma-śaktiḥ bahvyaḥ sapatnyaḥ iva geha-patim lunanti .. 27 ..
सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् । तैस्तैरतुष्टहृदयः पुरुषं विधाय । ब्रह्मावलोकधिषणं मुदमाप देवः ॥ २८ ॥
सृष्ट्वा पुराणि विविधानि अजया आत्म-शक्त्या वृक्षान् सरीसृप पशून् खग-दंश-मत्स्यान् । तैः तैः अतुष्ट-हृदयः पुरुषम् विधाय । ब्रह्म-अवलोक-धिषणम् मुदम् आप देवः ॥ २८ ॥
sṛṣṭvā purāṇi vividhāni ajayā ātma-śaktyā vṛkṣān sarīsṛpa paśūn khaga-daṃśa-matsyān . taiḥ taiḥ atuṣṭa-hṛdayaḥ puruṣam vidhāya . brahma-avaloka-dhiṣaṇam mudam āpa devaḥ .. 28 ..
लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते मानुष्यमर्थदमनित्यमपीह धीरः । तूर्णं यतेत न पतेदनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ २९ ॥
लब्ध्वा सु दुर्लभम् इदम् बहु-संभव-अन्ते मानुष्यम् अर्थ-दम् अनित्यम् अपि इह धीरः । तूर्णम् यतेत न पतेत् अनुमृत्यु यावत् निःश्रेयसाय विषयः खलु सर्वतस् स्यात् ॥ २९ ॥
labdhvā su durlabham idam bahu-saṃbhava-ante mānuṣyam artha-dam anityam api iha dhīraḥ . tūrṇam yateta na patet anumṛtyu yāvat niḥśreyasāya viṣayaḥ khalu sarvatas syāt .. 29 ..
( अनुष्टुप् )
एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि । विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः ॥ ३० ॥
एवम् सञ्जात-वैराग्यः विज्ञान-आलोके आत्मनि । विचरामि महीम् एताम् मुक्त-सङ्गः अनहङ्कृतिः ॥ ३० ॥
evam sañjāta-vairāgyaḥ vijñāna-āloke ātmani . vicarāmi mahīm etām mukta-saṅgaḥ anahaṅkṛtiḥ .. 30 ..
न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥
न हि एकस्मात् गुरोः ज्ञानम् सुस्थिरम् स्यात् सु पुष्कलम् । ब्रह्म एतत् अद्वितीयम् वै गीयते बहुधा ऋषिभिः ॥ ३१ ॥
na hi ekasmāt guroḥ jñānam susthiram syāt su puṣkalam . brahma etat advitīyam vai gīyate bahudhā ṛṣibhiḥ .. 31 ..
श्रीभगवानुवाच -
इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः । वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम् ॥ ३२ ॥
इति उक्त्वा स यदुम् विप्रः तम् आमन्त्र्य गभीर-धीः । वन्दितः अभ्यर्थितः राज्ञा ययौ प्रीतः यथागतम् ॥ ३२ ॥
iti uktvā sa yadum vipraḥ tam āmantrya gabhīra-dhīḥ . vanditaḥ abhyarthitaḥ rājñā yayau prītaḥ yathāgatam .. 32 ..
अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः । सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ ३३ ॥
अवधूत-वचः श्रुत्वा पूर्वेषाम् नः स पूर्वजः । सर्व-सङ्ग-विनिर्मुक्तः समचित्तः बभूव ह ॥ ३३ ॥
avadhūta-vacaḥ śrutvā pūrveṣām naḥ sa pūrvajaḥ . sarva-saṅga-vinirmuktaḥ samacittaḥ babhūva ha .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् एकादश-स्कन्धे नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām ekādaśa-skandhe navamaḥ adhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In