| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ १ ॥
मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे । वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च ॥ १ ॥
manvantarāṇi sarvāṇi tvayā uktāni śrutāni me . vīryāṇi ananta-vīryasya hareḥ tatra kṛtāni ca .. 1 ..
योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः । ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ २ ॥
यः असौ सत्यव्रतः नाम राजर्षिः द्रविड-ईश्वरः । ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया ॥ २ ॥
yaḥ asau satyavrataḥ nāma rājarṣiḥ draviḍa-īśvaraḥ . jñānam yaḥ atīta-kalpa-ante lebhe puruṣa-sevayā .. 2 ..
स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ ३ ॥
स वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम् । त्वत्तः तस्य सुताः प्रोक्ताः इक्ष्वाकु-प्रमुखाः नृपाः ॥ ३ ॥
sa vai vivasvataḥ putraḥ manuḥ āsīt iti śrutam . tvattaḥ tasya sutāḥ proktāḥ ikṣvāku-pramukhāḥ nṛpāḥ .. 3 ..
तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ ४ ॥
तेषाम् वंशम् पृथक् ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यम् शुश्रूषताम् हि नः ॥ ४ ॥
teṣām vaṃśam pṛthak brahman vaṃśānucaritāni ca . kīrtayasva mahābhāga nityam śuśrūṣatām hi naḥ .. 4 ..
ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ ५ ॥
ये भूताः ये भविष्याः च भवन्ति अद्यतनाः च ये । तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान् ॥ ५ ॥
ye bhūtāḥ ye bhaviṣyāḥ ca bhavanti adyatanāḥ ca ye . teṣām naḥ puṇya-kīrtīnām sarveṣām vada vikramān .. 5 ..
श्रीसूत उवाच ।
एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित् ॥ ६ ॥
एवम् परीक्षिताः राज्ञा सदसि ब्रह्म-वादिनाम् । पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-विद् ॥ ६ ॥
evam parīkṣitāḥ rājñā sadasi brahma-vādinām . pṛṣṭaḥ provāca bhagavān śukaḥ parama-dharma-vid .. 6 ..
श्रीशुक उवाच ।
श्रूयतां मानवो वंशः प्राचुर्येण परंतप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ ७ ॥
श्रूयताम् मानवः वंशः प्राचुर्येण परंतप । न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि ॥ ७ ॥
śrūyatām mānavaḥ vaṃśaḥ prācuryeṇa paraṃtapa . na śakyate vistarataḥ vaktum varṣa-śataiḥ api .. 7 ..
परावरेषां भूतानां आत्मा यः पुरुषः परः । स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन ॥ ८ ॥
परावरेषाम् भूतानाम् आत्मा यः पुरुषः परः । सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन ॥ ८ ॥
parāvareṣām bhūtānām ātmā yaḥ puruṣaḥ paraḥ . saḥ eva āsīt idam viśvam kalpa-ante anyat na kiñcana .. 8 ..
तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥
तस्य नाभेः समभवत् पद्म-कोषः हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः ॥ ९ ॥
tasya nābheḥ samabhavat padma-koṣaḥ hiraṇmayaḥ . tasmin jajñe mahārāja svayaṃbhūḥ caturānanaḥ .. 9 ..
मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः ॥ १० ॥
मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः । दाक्षायण्याम् ततस् अदित्याम् विवस्वान् अभवत् सुतः ॥ १० ॥
marīciḥ manasaḥ tasya jajñe tasya api kaśyapaḥ . dākṣāyaṇyām tatas adityām vivasvān abhavat sutaḥ .. 10 ..
ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
ततस् मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायाम् जनयामास दश पुत्रान् सः आत्मवान् ॥ ११ ॥
tatas manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata . śraddhāyām janayāmāsa daśa putrān saḥ ātmavān .. 11 ..
इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ १२ ॥
इक्ष्वाकु-नृग-शर्याति दिष्ट-धृष्ट करूषकान् । नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः ॥ १२ ॥
ikṣvāku-nṛga-śaryāti diṣṭa-dhṛṣṭa karūṣakān . nariṣyantam pṛṣadhram ca nabhagam ca kavim vibhuḥ .. 12 ..
अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः ॥ १३ ॥
अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल । मित्रावरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् विभुः ॥ १३ ॥
aprajasya manoḥ pūrvam vasiṣṭhaḥ bhagavān kila . mitrāvaruṇayoḥ iṣṭim prajā-artham akarot vibhuḥ .. 13 ..
तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥
तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत । दुहितृ-अर्थम् उपागम्य प्रणिपत्य पयोव्रता ॥ १४ ॥
tatra śraddhā manoḥ patnī hotāram samayācata . duhitṛ-artham upāgamya praṇipatya payovratā .. 14 ..
प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः । हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः ॥ १५ ॥
प्रेषितः अध्वर्युणा होता ध्यायन् तत् सु समाहितः । हविषि व्यचरत् तेन वषट्कारम् गृणन् द्विजः ॥ १५ ॥
preṣitaḥ adhvaryuṇā hotā dhyāyan tat su samāhitaḥ . haviṣi vyacarat tena vaṣaṭkāram gṛṇan dvijaḥ .. 15 ..
होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम् ॥ १६ ॥
होतुः तत् व्यभिचारेण कन्या इला नाम सा भवत् । ताम् विलोक्य मनुः प्राह न अति हृष्ट-मनाः गुरुम् ॥ १६ ॥
hotuḥ tat vyabhicāreṇa kanyā ilā nāma sā bhavat . tām vilokya manuḥ prāha na ati hṛṣṭa-manāḥ gurum .. 16 ..
भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया ॥ १७ ॥
भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम् । विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया ॥ १७ ॥
bhagavan kim idam jātam karma vaḥ brahma-vādinām . viparyayam aho kaṣṭam mā evam syāt brahma-vikriyā .. 17 ..
यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः । कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव ॥ १८ ॥
यूयम् मंत्र-विदः युक्ताः तपसा दग्ध-किल्बिषाः । कुतस् संकल्प-वैषम्यम् अनृतम् विबुधेषु इव ॥ १८ ॥
yūyam maṃtra-vidaḥ yuktāḥ tapasā dagdha-kilbiṣāḥ . kutas saṃkalpa-vaiṣamyam anṛtam vibudheṣu iva .. 18 ..
निशम्य तद्वचः तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥
निशम्य तद्-वचः तस्य भगवान् प्रपितामहः । होतुः व्यतिक्रमम् ज्ञात्वा बभाषे रविनन्दनम् ॥ १९ ॥
niśamya tad-vacaḥ tasya bhagavān prapitāmahaḥ . hotuḥ vyatikramam jñātvā babhāṣe ravinandanam .. 19 ..
एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ २० ॥
एतत् संकल्प-वैषम्यम् होतुः ते व्यभिचारतः । तथा अपि साधयिष्ये ते सुप्रजास्त्वम् स्व-तेजसा ॥ २० ॥
etat saṃkalpa-vaiṣamyam hotuḥ te vyabhicārataḥ . tathā api sādhayiṣye te suprajāstvam sva-tejasā .. 20 ..
एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया ॥ २१ ॥
एवम् व्यवसितः राजन् भगवान् स महा-यशाः । अस्तौषीत् आदिपुरुषम् इलायाः पुंस्त्व-काम्यया ॥ २१ ॥
evam vyavasitaḥ rājan bhagavān sa mahā-yaśāḥ . astauṣīt ādipuruṣam ilāyāḥ puṃstva-kāmyayā .. 21 ..
तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ २२ ॥
तस्मै काम-वरम् तुष्टः भगवान् हरिः ईश्वरः । ददौ इविलाभवत् तेन सुद्युम्नः पुरुष-ऋषभः ॥ २२ ॥
tasmai kāma-varam tuṣṭaḥ bhagavān hariḥ īśvaraḥ . dadau ivilābhavat tena sudyumnaḥ puruṣa-ṛṣabhaḥ .. 22 ..
स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम् ॥ २३ ॥
सः एकदा महा-राज विचरन् मृगयाम् वने । वृतः कतिपय-अमात्यैः अश्वम् आरुह्य सैन्धवम् ॥ २३ ॥
saḥ ekadā mahā-rāja vicaran mṛgayām vane . vṛtaḥ katipaya-amātyaiḥ aśvam āruhya saindhavam .. 23 ..
प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् । दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ २४ ॥
प्रगृह्य रुचिरम् चापम् शरान् च परम-अद्भुतान् । दंशितः अनुमृगम् वीरः जगाम दिशम् उत्तराम् ॥ २४ ॥
pragṛhya ruciram cāpam śarān ca parama-adbhutān . daṃśitaḥ anumṛgam vīraḥ jagāma diśam uttarām .. 24 ..
सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह । यत्रास्ते भगवान् शर्वो रममाणः सहोमया ॥ २५ ॥
सु कुमातः वनम् मेरोः अधस्तात् प्रविवेश ह । यत्र आस्ते भगवान् शर्वः रममाणः सह उमया ॥ २५ ॥
su kumātaḥ vanam meroḥ adhastāt praviveśa ha . yatra āste bhagavān śarvaḥ ramamāṇaḥ saha umayā .. 25 ..
तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप ॥ २६ ॥
तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा । अपश्यत् स्त्रियम् आत्मानम् अश्वम् च वडवाम् नृप ॥ २६ ॥
tasmin praviṣṭaḥ eva asau sudyumnaḥ para-vīra-hā . apaśyat striyam ātmānam aśvam ca vaḍavām nṛpa .. 26 ..
तथा तदनुगाः सर्वे आत्मलिङ्ग विपर्ययम् । दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम् ॥ २७ ॥
तथा तदनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम् । दृष्ट्वा विमनसः अभूवन् वीक्षमाणाः परस्परम् ॥ २७ ॥
tathā tadanugāḥ sarve ātma-liṅga-viparyayam . dṛṣṭvā vimanasaḥ abhūvan vīkṣamāṇāḥ parasparam .. 27 ..
श्रीराजोवाच ।
कथं एवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ २८ ॥
कथम् एवम् गुणः देशः केन वा भगवन् कृतः । प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः ॥ २८ ॥
katham evam guṇaḥ deśaḥ kena vā bhagavan kṛtaḥ . praśnam enam samācakṣva param kautūhalam hi naḥ .. 28 ..
श्रीशुक उवाच ।
एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥
एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सुव्रताः । दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥
ekadā giriśam draṣṭum ṛṣayaḥ tatra suvratāḥ . diśaḥ vitimira-ābhāsāḥ kurvantaḥ samupāgaman .. 29 ..
तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् । भर्तुरङ्गात समुत्थाय नीवीमाश्वथ पर्यधात् ॥ ३० ॥
तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् । भर्तुः अङ्गात समुत्थाय नीवीम् आशु अथ पर्यधात् ॥ ३० ॥
tān vilokya aṃbikā devī vivāsā vrīḍitā bhṛśam . bhartuḥ aṅgāta samutthāya nīvīm āśu atha paryadhāt .. 30 ..
ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम् ॥ ३१ ॥
ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः । निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम् ॥ ३१ ॥
ṛṣayaḥ api tayoḥ vīkṣya prasaṅgam ramamāṇayoḥ . nivṛttāḥ prayayuḥ tasmāt nara-nārāyaṇa-āśramam .. 31 ..
तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति ॥ ३२ ॥
तत् इदम् भगवान् आह प्रियायाः प्रिय-काम्यया । स्थानम् यः प्रविशेत् एतत् स वै योषित् भवेत् इति ॥ ३२ ॥
tat idam bhagavān āha priyāyāḥ priya-kāmyayā . sthānam yaḥ praviśet etat sa vai yoṣit bhavet iti .. 32 ..
तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद् वनम् ॥ ३३ ॥
ततस् ऊर्ध्वम् वनम् तत् वै पुरुषाः वर्जयन्ति हि । सा च अनुचर-संयुक्ता विचचार वनात् वनम् ॥ ३३ ॥
tatas ūrdhvam vanam tat vai puruṣāḥ varjayanti hi . sā ca anucara-saṃyuktā vicacāra vanāt vanam .. 33 ..
अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥
अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमदा-उत्तमाम् । स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥
atha tām āśrama-abhyāśe carantīm pramadā-uttamām . strībhiḥ parivṛtām vīkṣya cakame bhagavān budhaḥ .. 34 ..
सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ ३५ ॥
सा अपि तम् चकमे सुभ्रूः सोमराज-सुतम् पतिम् । स तस्याम् जनयामास पुरूरवसम् आत्मजम् ॥ ३५ ॥
sā api tam cakame subhrūḥ somarāja-sutam patim . sa tasyām janayāmāsa purūravasam ātmajam .. 35 ..
एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ ३६ ॥
एवम् स्त्री-त्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः । सस्मार स कुल-आचार्यम् वसिष्ठम् इति शुश्रुम ॥ ३६ ॥
evam strī-tvam anuprāptaḥ sudyumnaḥ mānavaḥ nṛpaḥ . sasmāra sa kula-ācāryam vasiṣṭham iti śuśruma .. 36 ..
स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम् ॥ ३७ ॥
स तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः । सुद्युम्नस्य अशयन् पुंस्त्वम् उपाधावत शंकरम् ॥ ३७ ॥
sa tasya tām daśām dṛṣṭvā kṛpayā bhṛśa-pīḍitaḥ . sudyumnasya aśayan puṃstvam upādhāvata śaṃkaram .. 37 ..
तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते ॥ ३८ ॥
तुष्टः तस्मै स भगवान् ऋषये प्रियम् आवहन् । स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम् पते ॥ ३८ ॥
tuṣṭaḥ tasmai sa bhagavān ṛṣaye priyam āvahan . svām ca vācam ṛtām kurvan idam āha viśām pate .. 38 ..
मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ॥ ३९ ॥
मासम् पुमान् स भविता मासम् स्त्री तव गोत्र-जः । इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम् ॥ ३९ ॥
māsam pumān sa bhavitā māsam strī tava gotra-jaḥ . ittham vyavasthayā kāmam sudyumnaḥ avatu medinīm .. 39 ..
आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ ४० ॥
आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्-त्वम् व्यवस्थया । पालयामास जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः ॥ ४० ॥
ācārya-anugrahāt kāmam labdhvā puṃs-tvam vyavasthayā . pālayāmāsa jagatīm na abhyanandan sma tam prajāḥ .. 40 ..
तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः । दक्षिणापथराजानो बभूवुः धर्मवत्सलाः ॥ ४१ ॥
तस्य उत्कलः गयः राजन् विमलः च सुताः त्रयः । दक्षिणापथ-राजानः बभूवुः धर्म-वत्सलाः ॥ ४१ ॥
tasya utkalaḥ gayaḥ rājan vimalaḥ ca sutāḥ trayaḥ . dakṣiṇāpatha-rājānaḥ babhūvuḥ dharma-vatsalāḥ .. 41 ..
ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ ४२ ॥
ततस् परिणते काले प्रतिष्ठान-पतिः प्रभुः । पुरूरवसे उत्सृज्य गाम् पुत्राय गतः वनम् ॥ ४२ ॥
tatas pariṇate kāle pratiṣṭhāna-patiḥ prabhuḥ . purūravase utsṛjya gām putrāya gataḥ vanam .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे प्रथमोध्याऽयः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे प्रथम-उध्या-अयः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe prathama-udhyā-ayaḥ .. 1 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In