| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
भगवान् आत्मनात्मानं राम उत्तमकल्पकैः । सर्वदेवमयं देवं ईजे आचार्यवान् मखैः ॥ १ ॥
भगवान् आत्मना आत्मानम् रामः उत्तम-कल्पकैः । सर्व-देव-मयम् देवम् ईजे आचार्यवान् मखैः ॥ १ ॥
bhagavān ātmanā ātmānam rāmaḥ uttama-kalpakaiḥ . sarva-deva-mayam devam īje ācāryavān makhaiḥ .. 1 ..
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः । अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ २ ॥
होत्रे अददात् दिशम् प्राचीम् ब्रह्मणे दक्षिणाम् प्रभुः । अध्वर्यवे प्रतीचीम् वै उत्तराम् सामगाय सः ॥ २ ॥
hotre adadāt diśam prācīm brahmaṇe dakṣiṇām prabhuḥ . adhvaryave pratīcīm vai uttarām sāmagāya saḥ .. 2 ..
आचार्याय ददौ शेषां यावती भूस्तदन्तरा । मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः ॥ ३ ॥
आचार्याय ददौ शेषाम् यावती भूः तद्-अन्तरा । मन्यमानः इदम् कृत्स्नम् ब्राह्मणः अर्हति निःस्पृहः ॥ ३ ॥
ācāryāya dadau śeṣām yāvatī bhūḥ tad-antarā . manyamānaḥ idam kṛtsnam brāhmaṇaḥ arhati niḥspṛhaḥ .. 3 ..
इत्ययं तदलङ्कार वासोभ्यामवशेषितः । तथा राज्ञ्यपि वैदेही सौमङ्गल्या अवशेषिता ॥ ४ ॥
इति अयम् तद्-अलङ्कार वासोभ्याम् अवशेषितः । तथा राज्ञी अपि वैदेही सौमङ्गल्या अवशेषिता ॥ ४ ॥
iti ayam tad-alaṅkāra vāsobhyām avaśeṣitaḥ . tathā rājñī api vaidehī saumaṅgalyā avaśeṣitā .. 4 ..
ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् । प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
ते तु ब्राह्मणदेवस्य वात्सल्यम् वीक्ष्य संस्तुतम् । प्रीताः क्लिन्न-धियः तस्मै प्रत्यर्प्य इदम् बभाषिरे ॥ ५ ॥
te tu brāhmaṇadevasya vātsalyam vīkṣya saṃstutam . prītāḥ klinna-dhiyaḥ tasmai pratyarpya idam babhāṣire .. 5 ..
अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर । यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥
अप्रत्तम् नः त्वया किम् नु भगवन् भुवनेश्वर । यत् नः अन्तर् हृदयम् विश्य तमः हंसि स्व-रोचिषा ॥ ६ ॥
aprattam naḥ tvayā kim nu bhagavan bhuvaneśvara . yat naḥ antar hṛdayam viśya tamaḥ haṃsi sva-rociṣā .. 6 ..
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे । उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्र्यये ॥ ७ ॥
नमः ब्रह्मण्यदेवाय रामाय अकुण्ठ-मेधसे । उत्तमश्लोक-धुर्याय न्यस्त-दण्ड-अर्पित-अङ्घ्र्यये ॥ ७ ॥
namaḥ brahmaṇyadevāya rāmāya akuṇṭha-medhase . uttamaśloka-dhuryāya nyasta-daṇḍa-arpita-aṅghryaye .. 7 ..
कदाचित् लोकजिज्ञासुः गूढो रात्र्यामलक्षितः । चरन् वाचोऽश्रृणोद् रामो भार्यां उद्दिश्य कस्यचित् ॥ ८ ॥
कदाचिद् लोक-जिज्ञासुः गूढः रात्र्याम् अलक्षितः । चरन् वाचः अश्रृणोत् रामः भार्याम् उद्दिश्य कस्यचिद् ॥ ८ ॥
kadācid loka-jijñāsuḥ gūḍhaḥ rātryām alakṣitaḥ . caran vācaḥ aśrṛṇot rāmaḥ bhāryām uddiśya kasyacid .. 8 ..
नाहं बिभर्मि त्वां दुष्टां असतीं परवेश्मगाम् । स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ ९ ॥
न अहम् बिभर्मि त्वाम् दुष्टाम् असतीम् पर-वेश्म-गाम् । स्त्रैणः हि बिभृयात् सीताम् रामः न अहम् भजे पुनर् ॥ ९ ॥
na aham bibharmi tvām duṣṭām asatīm para-veśma-gām . straiṇaḥ hi bibhṛyāt sītām rāmaḥ na aham bhaje punar .. 9 ..
इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥
इति लोकात् बहु-मुखात् दुराराध्यात् असंविदः । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतस-आश्रमम् ॥ १० ॥
iti lokāt bahu-mukhāt durārādhyāt asaṃvidaḥ . patyā bhītena sā tyaktā prāptā prācetasa-āśramam .. 10 ..
अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ । कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ ॥
अन्तर्वत्नी आगते काले यमौ सा सुषुवे सुतौ । कुशः लवः इति ख्यातौ तयोः चक्रे क्रियाः मुनिः ॥ ॥
antarvatnī āgate kāle yamau sā suṣuve sutau . kuśaḥ lavaḥ iti khyātau tayoḥ cakre kriyāḥ muniḥ .. ..
अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ । तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥
अङ्गदः चित्रकेतुः च लक्ष्मणस्य आत्मजौ स्मृतौ । तक्षः पुष्कलः इति आस्ताम् भरतस्य महीपते ॥ १२ ॥
aṅgadaḥ citraketuḥ ca lakṣmaṇasya ātmajau smṛtau . takṣaḥ puṣkalaḥ iti āstām bharatasya mahīpate .. 12 ..
सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः । गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥
सुबाहुः श्रुतसेनः च शत्रुघ्नस्य बभूवतुः । गन्धर्वान् कोटिशस् जघ्ने भरतः विजये दिशाम् ॥ १३ ॥
subāhuḥ śrutasenaḥ ca śatrughnasya babhūvatuḥ . gandharvān koṭiśas jaghne bharataḥ vijaye diśām .. 13 ..
तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥
तदीयम् धनम् आनीय सर्वम् राज्ञे न्यवेदयत् । शत्रुघ्नः च मधोः पुत्रम् लवणम् नाम राक्षसम् । हत्वा मधुवने चक्रे मथुराम् नाम वै पुरीम् ॥ १४ ॥
tadīyam dhanam ānīya sarvam rājñe nyavedayat . śatrughnaḥ ca madhoḥ putram lavaṇam nāma rākṣasam . hatvā madhuvane cakre mathurām nāma vai purīm .. 14 ..
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती राम-चरणौ विवरम् प्रविवेश ह ॥ १५ ॥
munau nikṣipya tanayau sītā bhartrā vivāsitā . dhyāyantī rāma-caraṇau vivaram praviveśa ha .. 15 ..
तर् श्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणान् तान् तान् नाशक्नोत् रोद्धुमीश्वरः ॥ १६ ॥
श्रुत्वा भगवान् रामः रुन्धन् अपि धिया शुचः । स्मरन् तस्याः गुणान् तान् तान् न अशक्नोत् रोद्धुम् ईश्वरः ॥ १६ ॥
śrutvā bhagavān rāmaḥ rundhan api dhiyā śucaḥ . smaran tasyāḥ guṇān tān tān na aśaknot roddhum īśvaraḥ .. 16 ..
स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ १७ ॥
स्त्री-पुम् प्रसङ्गः एतादृश् सर्वत्र त्रासम् आवहः । अपि ईश्वराणाम् किम् उत ग्राम्यस्य गृह-चेतसः ॥ १७ ॥
strī-pum prasaṅgaḥ etādṛś sarvatra trāsam āvahaḥ . api īśvarāṇām kim uta grāmyasya gṛha-cetasaḥ .. 17 ..
तत ऊर्ध्वं ब्रह्मचर्यं धारयन् अजुहोत् प्रभुः । त्रयोदशाब्दसाहस्रं अग्निहोत्रं अखण्डितम् ॥ १८ ॥
ततस् ऊर्ध्वम् ब्रह्मचर्यम् धारयन् अजुहोत् प्रभुः । त्रयोदश-अब्द-साहस्रम् अग्निहोत्रम् अखण्डितम् ॥ १८ ॥
tatas ūrdhvam brahmacaryam dhārayan ajuhot prabhuḥ . trayodaśa-abda-sāhasram agnihotram akhaṇḍitam .. 18 ..
स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः । स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ १९ ॥
स्मरताम् हृदि विन्यस्य विद्धम् दण्डक-कण्टकैः । स्व-पाद-पल्लवम् रामः आत्म-ज्योतिः अगात् ततस् ॥ १९ ॥
smaratām hṛdi vinyasya viddham daṇḍaka-kaṇṭakaiḥ . sva-pāda-pallavam rāmaḥ ātma-jyotiḥ agāt tatas .. 19 ..
नेदं यशो रघुपतेः सुरयाच्ञयात्त । लीलातनोरधिकसाम्यविमुक्तधाम्नः ॥ रक्षोवधो जलधिबन्धनमस्त्र पूगैः । किं तस्य शत्रुहनने कपयः सहायाः ॥ २० ॥
न इदम् यशः रघु-पतेः सुर-याच्ञया आत्त । लीला-तनोः अधिक-साम्य-विमुक्त-धाम्नः ॥ रक्षः-वधः जलधि-बन्धनम् अस्त्र पूगैः । किम् तस्य शत्रु-हनने कपयः सहायाः ॥ २० ॥
na idam yaśaḥ raghu-pateḥ sura-yācñayā ātta . līlā-tanoḥ adhika-sāmya-vimukta-dhāmnaḥ .. rakṣaḥ-vadhaḥ jaladhi-bandhanam astra pūgaiḥ . kim tasya śatru-hanane kapayaḥ sahāyāḥ .. 20 ..
यस्यामलं नृपसस्सु यशोऽधुनापि । गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ॥ तं नाकपालवसुपालकिरीटजुष्ट । पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥
यस्य अमलम् नृप-सस्सु यशः अधुना अपि । गायन्ति अघ-घ्नम् ऋषयः दिगिभ-इन्द्र-पट्टम् ॥ तम् नाकपाल-वसुपाल-किरीट-जुष्ट । पाद-अम्बुजम् रघुपतिम् शरणम् प्रपद्ये ॥ २१ ॥
yasya amalam nṛpa-sassu yaśaḥ adhunā api . gāyanti agha-ghnam ṛṣayaḥ digibha-indra-paṭṭam .. tam nākapāla-vasupāla-kirīṭa-juṣṭa . pāda-ambujam raghupatim śaraṇam prapadye .. 21 ..
स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ २२ ॥
स यैः स्पृष्टः अभिदृष्टः वा संविष्टः अनुगतः अपि वा । कोसलाः ते ययुः स्थानम् यत्र गच्छन्ति योगिनः ॥ २२ ॥
sa yaiḥ spṛṣṭaḥ abhidṛṣṭaḥ vā saṃviṣṭaḥ anugataḥ api vā . kosalāḥ te yayuḥ sthānam yatra gacchanti yoginaḥ .. 22 ..
पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैः विमुच्यते ॥ २३ ॥
पुरुषः राम-चरितम् श्रवणैः उपधारयन् । आनृशंस्य-परः राजन् कर्म-बन्धैः विमुच्यते ॥ २३ ॥
puruṣaḥ rāma-caritam śravaṇaiḥ upadhārayan . ānṛśaṃsya-paraḥ rājan karma-bandhaiḥ vimucyate .. 23 ..
श्रीराजोवाच ।
कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः । तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ २४ ॥
कथम् स भगवान् रामः भ्रातॄन् वा स्वयम् आत्मनः । तस्मिन् वा ते अन्ववर्तन्त प्रजाः पौराः च ईश्वरे ॥ २४ ॥
katham sa bhagavān rāmaḥ bhrātṝn vā svayam ātmanaḥ . tasmin vā te anvavartanta prajāḥ paurāḥ ca īśvare .. 24 ..
श्रीशुक उवाच ।
अथादिशद् दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः । आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ २५ ॥
अथा आदिशत् दिग्विजये भ्रातॄन् त्रिभुवन-ईश्वरः । आत्मानम् दर्शयन् स्वानाम् पुरीम् ऐक्षत स अनुगः ॥ २५ ॥
athā ādiśat digvijaye bhrātṝn tribhuvana-īśvaraḥ . ātmānam darśayan svānām purīm aikṣata sa anugaḥ .. 25 ..
आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः । स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥
आसिक्त-मार्गाम् गन्धोदैः करिणाम् मद-शीकरैः । स्वामिनम् प्राप्तम् आलोक्य मत्-ताम् वा सुतराम् इव ॥ २६ ॥
āsikta-mārgām gandhodaiḥ kariṇām mada-śīkaraiḥ . svāminam prāptam ālokya mat-tām vā sutarām iva .. 26 ..
प्रासादगोपुरसभा चैत्यदेवगृहादिषु । विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ २७ ॥
प्रासाद-गोपुर-सभा चैत्य-देवगृह-आदिषु । विन्यस्त-हेम-कलशैः पताकाभिः च मण्डिताम् ॥ २७ ॥
prāsāda-gopura-sabhā caitya-devagṛha-ādiṣu . vinyasta-hema-kalaśaiḥ patākābhiḥ ca maṇḍitām .. 27 ..
पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् । आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ २८ ॥
पूगैः स वृन्तैः रम्भाभिः पट्टिकाभिः सु वाससाम् । आदर्शैः अंशुकैः स्रग्भिः कृत-कौतुक-तोरणाम् ॥ २८ ॥
pūgaiḥ sa vṛntaiḥ rambhābhiḥ paṭṭikābhiḥ su vāsasām . ādarśaiḥ aṃśukaiḥ sragbhiḥ kṛta-kautuka-toraṇām .. 28 ..
तं उपेयुस्तत्र तत्र पौरा अर्हणपाणयः । आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥ २९ ॥
तम् उपेयुः तत्र तत्र पौराः अर्हण-पाणयः । आशिषः युयुजुः देव पाहि इमाम् प्राक् त्वया उद्धृताम् ॥ २९ ॥
tam upeyuḥ tatra tatra paurāḥ arhaṇa-pāṇayaḥ . āśiṣaḥ yuyujuḥ deva pāhi imām prāk tvayā uddhṛtām .. 29 ..
ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः । आरुह्य हर्म्याण्यरविन्दलोचनं अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ ३० ॥
ततस् प्रजाः वीक्ष्य पतिम् चिर-आगतम् दिदृक्षया उत्सृष्ट-गृहाः स्त्रियः नराः । आरुह्य हर्म्याणि अरविन्द-लोचनम् अतृप्त-नेत्राः कुसुमैः अवाकिरन् ॥ ३० ॥
tatas prajāḥ vīkṣya patim cira-āgatam didṛkṣayā utsṛṣṭa-gṛhāḥ striyaḥ narāḥ . āruhya harmyāṇi aravinda-locanam atṛpta-netrāḥ kusumaiḥ avākiran .. 30 ..
अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः । अनन्ताखिलकोषाढ्यं मनर्घ्योरुपरिच्छदम् ॥ ३१ ॥
अथ प्रविष्टः स्व-गृहम् जुष्टम् स्वैः पूर्व-राजभिः । अनन्त-अखिल-कोष-आढ्यम् ॥ ३१ ॥
atha praviṣṭaḥ sva-gṛham juṣṭam svaiḥ pūrva-rājabhiḥ . ananta-akhila-koṣa-āḍhyam .. 31 ..
विद्रुमोदुम्बरद्वारैः वैदूर्य स्तंभपङ्क्तिभिः । स्थलैर्मारकतैः स्वच्छैः भाजत्स्फटिकभित्तिभिः ॥ ३२ ॥
विद्रुम-उदुम्बर-द्वारैः वैदूर्य-स्तंभ-पङ्क्तिभिः । स्थलैः मारकतैः सु अच्छैः भाजत्-स्फटिक-भित्तिभिः ॥ ३२ ॥
vidruma-udumbara-dvāraiḥ vaidūrya-staṃbha-paṅktibhiḥ . sthalaiḥ mārakataiḥ su acchaiḥ bhājat-sphaṭika-bhittibhiḥ .. 32 ..
चित्रस्रग्भिः पट्टिकाभिः वासोमणिगणांशुकैः । मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ ३३ ॥
चित्र-स्रग्भिः पट्टिकाभिः वासः-मणि-गण-अंशुकैः । मुक्ताफलैः चित्-उल्लासैः कान्त-काम-उपपत्तिभिः ॥ ३३ ॥
citra-sragbhiḥ paṭṭikābhiḥ vāsaḥ-maṇi-gaṇa-aṃśukaiḥ . muktāphalaiḥ cit-ullāsaiḥ kānta-kāma-upapattibhiḥ .. 33 ..
धूपदीपैः सुरभिभिः मण्डितं पुष्पमण्डनैः । स्त्रीपुम्भिः सुरसङ्काशैः जुष्टं भूषणभूषणैः ॥ ३४ ॥
धूप-दीपैः सुरभिभिः मण्डितम् पुष्प-मण्डनैः । स्त्री-पुम्भिः सुर-सङ्काशैः जुष्टम् भूषण-भूषणैः ॥ ३४ ॥
dhūpa-dīpaiḥ surabhibhiḥ maṇḍitam puṣpa-maṇḍanaiḥ . strī-pumbhiḥ sura-saṅkāśaiḥ juṣṭam bhūṣaṇa-bhūṣaṇaiḥ .. 34 ..
तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया । रेमे स्वारामधीराणां ऋषभः सीतया किल ॥ ३५ ॥
तस्मिन् स भगवान् रामः स्निग्धया प्रियया इष्टया । रेमे स्व-आराम-धीराणाम् ऋषभः सीतया किल ॥ ३५ ॥
tasmin sa bhagavān rāmaḥ snigdhayā priyayā iṣṭayā . reme sva-ārāma-dhīrāṇām ṛṣabhaḥ sītayā kila .. 35 ..
बुभुजे च यथाकालं कामान् धर्ममपीडयन् । वर्षपूगान् बहून् नृणां अभिध्यातांघ्रिपल्लवः ॥ ३६ ॥
बुभुजे च यथाकालम् कामान् धर्मम् अपीडयन् । वर्ष-पूगान् बहून् नृणाम् अभिध्यात-अङ्घ्रि-पल्लवः ॥ ३६ ॥
bubhuje ca yathākālam kāmān dharmam apīḍayan . varṣa-pūgān bahūn nṛṇām abhidhyāta-aṅghri-pallavaḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe ekādaśaḥ adhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In