| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः । पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ॥ १ ॥
कुशस्य च अतिथिः तस्मात् निषधः तद्-सुतः नभः । पुण्डरीकः अथ तद्-पुत्रः क्षेमधन्वा भवत् ततस् ॥ १ ॥
kuśasya ca atithiḥ tasmāt niṣadhaḥ tad-sutaḥ nabhaḥ . puṇḍarīkaḥ atha tad-putraḥ kṣemadhanvā bhavat tatas .. 1 ..
देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः । ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः ॥ २ ॥
देवानीकः ततस् अनीहः पारियात्रः अथ तद्-सुतः । ततस् बलस्थलः तस्मात् वज्रनाभः अर्क-संभवः ॥ २ ॥
devānīkaḥ tatas anīhaḥ pāriyātraḥ atha tad-sutaḥ . tatas balasthalaḥ tasmāt vajranābhaḥ arka-saṃbhavaḥ .. 2 ..
खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः । ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥ ३ ॥
खसगणः तद्-सुतः तस्मात् विधृतिः च अभवत् सुतः । ततस् हिरण्यनाभः अभूत् योग-आचार्यः तु जैमिनेः ॥ ३ ॥
khasagaṇaḥ tad-sutaḥ tasmāt vidhṛtiḥ ca abhavat sutaḥ . tatas hiraṇyanābhaḥ abhūt yoga-ācāryaḥ tu jaimineḥ .. 3 ..
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः । योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम् ॥ ४ ॥
शिष्यः कौशल्यः आध्यात्मम् याज्ञवल्क्यः अध्यगात् यतस् । योगम् महा-उदयम् ऋषिः हृदय-ग्रन्थि भेदकम् ॥ ४ ॥
śiṣyaḥ kauśalyaḥ ādhyātmam yājñavalkyaḥ adhyagāt yatas . yogam mahā-udayam ṛṣiḥ hṛdaya-granthi bhedakam .. 4 ..
पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् । सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ ५ ॥
पुष्यः हिरण्यनाभस्य ध्रुवसन्धिः ततस् अभवत् । सुदर्शनः अथ अग्निवर्णः शीघ्रः तस्य मरुः सुतः ॥ ५ ॥
puṣyaḥ hiraṇyanābhasya dhruvasandhiḥ tatas abhavat . sudarśanaḥ atha agnivarṇaḥ śīghraḥ tasya maruḥ sutaḥ .. 5 ..
सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ ६ ॥
सः असौ आस्ते योग-सिद्धः कलाप-ग्रामम् आस्थितः । कलेः अन्ते सूर्यवंशम् नष्टम् भावयिता पुनर् ॥ ६ ॥
saḥ asau āste yoga-siddhaḥ kalāpa-grāmam āsthitaḥ . kaleḥ ante sūryavaṃśam naṣṭam bhāvayitā punar .. 6 ..
तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः । महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत ॥ ७ ॥
तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्य अपि अमर्षणः । महस्वान् तद्-सुतः तस्मात् विश्वबाहुः अजायत ॥ ७ ॥
tasmāt prasuśrutaḥ tasya sandhiḥ tasya api amarṣaṇaḥ . mahasvān tad-sutaḥ tasmāt viśvabāhuḥ ajāyata .. 7 ..
ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥ ८ ॥
ततस् प्रसेनजित् तस्मात् तक्षकः भविता पुनर् । ततस् बृहद्बलः यः तु पित्रा ते समरे हतः ॥ ८ ॥
tatas prasenajit tasmāt takṣakaḥ bhavitā punar . tatas bṛhadbalaḥ yaḥ tu pitrā te samare hataḥ .. 8 ..
एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् । बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ ९ ॥
एते हि ईक्ष्वाकु-भूपालाः अतीताः श्रृण्वन् आगतान् । बृहद्बलस्य भविता पुत्रः नाम्ना बृहद्रणः ॥ ९ ॥
ete hi īkṣvāku-bhūpālāḥ atītāḥ śrṛṇvan āgatān . bṛhadbalasya bhavitā putraḥ nāmnā bṛhadraṇaḥ .. 9 ..
ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः ॥ १० ॥
ऊरुक्रियः सुतः तस्य वत्स-वृद्धः भविष्यति । प्रतिव्योमः ततस् भानुः दिवाकः वाहिनीपतिः ॥ १० ॥
ūrukriyaḥ sutaḥ tasya vatsa-vṛddhaḥ bhaviṣyati . prativyomaḥ tatas bhānuḥ divākaḥ vāhinīpatiḥ .. 10 ..
सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥ ११ ॥
सहदेवः ततस् वीरः बृहदश्वः अथ भानुमान् । प्रतीकाश्वः भानुमतः सुप्रतीकः अथ तद्-सुतः ॥ ११ ॥
sahadevaḥ tatas vīraḥ bṛhadaśvaḥ atha bhānumān . pratīkāśvaḥ bhānumataḥ supratīkaḥ atha tad-sutaḥ .. 11 ..
भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः । तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित् ॥ १२ ॥
भविता मरुदेवः अथ सुनक्षत्रः अथ पुष्करः । तस्य अन्तरिक्षः तद्-पुत्रः सुतपाः तत् अमित्रजित् ॥ १२ ॥
bhavitā marudevaḥ atha sunakṣatraḥ atha puṣkaraḥ . tasya antarikṣaḥ tad-putraḥ sutapāḥ tat amitrajit .. 12 ..
बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ १३ ॥
बृहद्राजः तु तस्य अपि बर्हिः तस्मात् कृतञ्जयः । रणञ्जयः तस्य सुतः सञ्जयः भविता ततस् ॥ १३ ॥
bṛhadrājaḥ tu tasya api barhiḥ tasmāt kṛtañjayaḥ . raṇañjayaḥ tasya sutaḥ sañjayaḥ bhavitā tatas .. 13 ..
तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ १४ ॥
तस्मात् शाक्यः अथ शुद्धोदः लांगलः तद्-सुतः स्मृतः । ततस् प्रसेनजित् तस्मात् क्षुद्रकः भविता ततस् ॥ १४ ॥
tasmāt śākyaḥ atha śuddhodaḥ lāṃgalaḥ tad-sutaḥ smṛtaḥ . tatas prasenajit tasmāt kṣudrakaḥ bhavitā tatas .. 14 ..
रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥ १५ ॥
रणकः भविता तस्मात् सुरथः तनयः ततस् । सुमित्रः नाम निष्ठा-अन्तः एते बार्हद्बल-अन्वयाः ॥ १५ ॥
raṇakaḥ bhavitā tasmāt surathaḥ tanayaḥ tatas . sumitraḥ nāma niṣṭhā-antaḥ ete bārhadbala-anvayāḥ .. 15 ..
इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ १६ ॥
इक्ष्वाकूणाम् अयम् वंशः सुमित्रा-अन्तः भविष्यति । यतस् तम् प्राप्य राजानम् संस्थाम् प्राप्स्यति वै कलौ ॥ १६ ॥
ikṣvākūṇām ayam vaṃśaḥ sumitrā-antaḥ bhaviṣyati . yatas tam prāpya rājānam saṃsthām prāpsyati vai kalau .. 16 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे द्वाशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe dvāśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In