| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः ॥ १ ॥
निमिः इक्ष्वाकु-तनयः वसिष्ठम् अवृत-ऋत्विजम् । आरभ्य सत्रम् सः अपि आह शक्रेण प्राक् वृतः अस्मि भोः ॥ १ ॥
nimiḥ ikṣvāku-tanayaḥ vasiṣṭham avṛta-ṛtvijam . ārabhya satram saḥ api āha śakreṇa prāk vṛtaḥ asmi bhoḥ .. 1 ..
तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय । तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम् ॥ २ ॥
तम् निर्वर्त्य आगमिष्यामि तावत् माम् प्रतिपालय । तूष्णीम् आसीत् गृहपतिः सः अपि इन्द्रस्य अकरोत् मखम् ॥ २ ॥
tam nirvartya āgamiṣyāmi tāvat mām pratipālaya . tūṣṇīm āsīt gṛhapatiḥ saḥ api indrasya akarot makham .. 2 ..
निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः ॥ ३ ॥
निमिः चलम् इदम् विद्वान् सत्रम् आरभताम् आत्मवान् । ऋत्विग्भिः अपरैः तावत् न अगमत् यावता गुरुः ॥ ३ ॥
nimiḥ calam idam vidvān satram ārabhatām ātmavān . ṛtvigbhiḥ aparaiḥ tāvat na agamat yāvatā guruḥ .. 3 ..
शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः । अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ ४ ॥
शिष्य-व्यतिक्रमम् वीक्ष्य तम् निर्वर्त्य गुरुः आगतः । अशपत् पततात् देहः निमेः पण्डित-मानिनः ॥ ४ ॥
śiṣya-vyatikramam vīkṣya tam nirvartya guruḥ āgataḥ . aśapat patatāt dehaḥ nimeḥ paṇḍita-māninaḥ .. 4 ..
निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने । तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ ५ ॥
निमिः प्रतिददौ शापम् गुरवे अधर्म-वर्तिने । तव अपि पततात् देहः लोभात् धर्मम् अजानतः ॥ ५ ॥
nimiḥ pratidadau śāpam gurave adharma-vartine . tava api patatāt dehaḥ lobhāt dharmam ajānataḥ .. 5 ..
इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ ६ ॥
इति उत्ससर्ज स्वम् देहम् निमिः अध्यात्म-कोविदः । मित्रावरुणयोः जज्ञे उर्वश्याम् प्रपितामहः ॥ ६ ॥
iti utsasarja svam deham nimiḥ adhyātma-kovidaḥ . mitrāvaruṇayoḥ jajñe urvaśyām prapitāmahaḥ .. 6 ..
गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान् ॥ ७ ॥
गन्ध-वस्तुषु तत् देहम् निधाय मुनि-सत्तमाः । समाप्ते सत्र-यागे अथ देवान् ऊचुः समागतान् ॥ ७ ॥
gandha-vastuṣu tat deham nidhāya muni-sattamāḥ . samāpte satra-yāge atha devān ūcuḥ samāgatān .. 7 ..
राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ ८ ॥
राज्ञः जीवतु देहः अयम् प्रसन्नाः प्रभवः यदि । तथा इति उक्ते निमिः प्राह मा भूत् मे देह-बन्धनम् ॥ ८ ॥
rājñaḥ jīvatu dehaḥ ayam prasannāḥ prabhavaḥ yadi . tathā iti ukte nimiḥ prāha mā bhūt me deha-bandhanam .. 8 ..
यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ ९ ॥
यस्य योगम् न वाञ्छन्ति वियोग-भय-कातराः । भजन्ति चरण-अम्भोजम् मुनयः हरिमेधसः ॥ ९ ॥
yasya yogam na vāñchanti viyoga-bhaya-kātarāḥ . bhajanti caraṇa-ambhojam munayaḥ harimedhasaḥ .. 9 ..
देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा ॥ १० ॥
देहम् न अवरुरुत्से अहम् दुःख-शोक-भय-आवहम् । सर्वत्र अस्य यतस् मृत्युम् मत्स्यानाम् उदके यथा ॥ १० ॥
deham na avarurutse aham duḥkha-śoka-bhaya-āvaham . sarvatra asya yatas mṛtyum matsyānām udake yathā .. 10 ..
देवा ऊचुः ।
विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ ११ ॥
विदेहः उष्यताम् कामम् लोचनेषु शरीरिणाम् । उन्मेषण-निमेषाभ्याम् लक्षितः अध्यात्म-संस्थितः ॥ ११ ॥
videhaḥ uṣyatām kāmam locaneṣu śarīriṇām . unmeṣaṇa-nimeṣābhyām lakṣitaḥ adhyātma-saṃsthitaḥ .. 11 ..
अराजकभयं नॄणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
अराजक-भयम् नॄणाम् मन्यमानाः महा-ऋषयः । देहम् ममन्थुः स्म निमेः कुमारः समजायत ॥ १२ ॥
arājaka-bhayam nṝṇām manyamānāḥ mahā-ṛṣayaḥ . deham mamanthuḥ sma nimeḥ kumāraḥ samajāyata .. 12 ..
जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥ ॥
जन्मना जनकः सः अभूत् वैदेहः तु विदेह-जः । मिथिलः मथनात् जातः मिथिला येन निर्मिता ॥ ॥
janmanā janakaḥ saḥ abhūt vaidehaḥ tu videha-jaḥ . mithilaḥ mathanāt jātaḥ mithilā yena nirmitā .. ..
तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ १४ ॥
तस्मात् उदावसुः तस्य पुत्रः अभूत् नन्दिवर्धनः । ततस् सुकेतुः तस्य अपि देवरातः महीपते ॥ १४ ॥
tasmāt udāvasuḥ tasya putraḥ abhūt nandivardhanaḥ . tatas suketuḥ tasya api devarātaḥ mahīpate .. 14 ..
तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥ १५ ॥
तस्मात् बृहद्रथः तस्य महा-वीर्यः सुधृत्-पिता । सुधृतेः धृष्टकेतुः वै हर्यश्वः अथ मरुः ततस् ॥ १५ ॥
tasmāt bṛhadrathaḥ tasya mahā-vīryaḥ sudhṛt-pitā . sudhṛteḥ dhṛṣṭaketuḥ vai haryaśvaḥ atha maruḥ tatas .. 15 ..
मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः । देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥ १६ ॥
मरोः प्रतीपकः तस्मात् जातः कृतरथः यतस् । देवमीढः तस्य पुत्रः विश्रुतः अथ महाधृतिः ॥ १६ ॥
maroḥ pratīpakaḥ tasmāt jātaḥ kṛtarathaḥ yatas . devamīḍhaḥ tasya putraḥ viśrutaḥ atha mahādhṛtiḥ .. 16 ..
कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥
कृतिरातः ततस् तस्मात् महारोमा च तद्-सुतः । स्वर्णरोमा सुतः तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥
kṛtirātaḥ tatas tasmāt mahāromā ca tad-sutaḥ . svarṇaromā sutaḥ tasya hrasvaromā vyajāyata .. 17 ..
ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥
ततस् शीरध्वजः जज्ञे यज्ञ-अर्थम् कर्षतः महीम् । सीता शीर-अग्रतः जाता तस्मात् सीरध्वजः स्मृतः ॥ १८ ॥
tatas śīradhvajaḥ jajñe yajña-artham karṣataḥ mahīm . sītā śīra-agrataḥ jātā tasmāt sīradhvajaḥ smṛtaḥ .. 18 ..
कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ १९ ॥
कुशध्वजः तस्य पुत्रः ततस् धर्मध्वजः नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वज-मितध्वजौ ॥ १९ ॥
kuśadhvajaḥ tasya putraḥ tatas dharmadhvajaḥ nṛpaḥ . dharmadhvajasya dvau putrau kṛtadhvaja-mitadhvajau .. 19 ..
कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन् आत्मविद्याविशारदः ॥ २० ॥
कृतध्वजात् केशिध्वजः खाण्डिक्यः तु मितध्वजात् । कृतध्वज-सुतः राजन् आत्म-विद्या-विशारदः ॥ २० ॥
kṛtadhvajāt keśidhvajaḥ khāṇḍikyaḥ tu mitadhvajāt . kṛtadhvaja-sutaḥ rājan ātma-vidyā-viśāradaḥ .. 20 ..
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः । भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः ॥ २१ ॥
खाण्डिक्यः कर्म-तत्त्व-ज्ञः भीतः केशिध्वजात् द्रुतः । भानुमान् तस्य पुत्रः अभूत् शतद्युम्नः तु तद्-सुतः ॥ २१ ॥
khāṇḍikyaḥ karma-tattva-jñaḥ bhītaḥ keśidhvajāt drutaḥ . bhānumān tasya putraḥ abhūt śatadyumnaḥ tu tad-sutaḥ .. 21 ..
शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् । ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः ॥ २२ ॥
शुचिः तु तनयः तस्मात् सनद्वाजः सुतः अभवत् । ऊर्जकेतुः सनद्वाजात् अजः अथ पुरुजित्-सुतः ॥ २२ ॥
śuciḥ tu tanayaḥ tasmāt sanadvājaḥ sutaḥ abhavat . ūrjaketuḥ sanadvājāt ajaḥ atha purujit-sutaḥ .. 22 ..
अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ २३ ॥
अरिष्टनेमिः तस्य अपि श्रुतायुः तद्-सुपार्श्वकः । ततस् चित्ररथः यस्य क्षेमाधिः मिथिला-अधिपः ॥ २३ ॥
ariṣṭanemiḥ tasya api śrutāyuḥ tad-supārśvakaḥ . tatas citrarathaḥ yasya kṣemādhiḥ mithilā-adhipaḥ .. 23 ..
तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः ॥ २४ ॥
तस्मात् समरथः तस्य सुतः सत्यरथः ततस् । आसीत् उपगुरुः तस्मात् उपगुप्तः अग्नि-संभवः ॥ २४ ॥
tasmāt samarathaḥ tasya sutaḥ satyarathaḥ tatas . āsīt upaguruḥ tasmāt upaguptaḥ agni-saṃbhavaḥ .. 24 ..
वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः । श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥ २५ ॥
वस्वनन्तः अथ तद्-पुत्रः युयुधः यत् सुभाषणः । श्रुतः ततस् जयः तस्मात् विजयः अस्मात् ऋतः सुतः ॥ २५ ॥
vasvanantaḥ atha tad-putraḥ yuyudhaḥ yat subhāṣaṇaḥ . śrutaḥ tatas jayaḥ tasmāt vijayaḥ asmāt ṛtaḥ sutaḥ .. 25 ..
शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ २६ ॥
शुनकः तद्-सुतः जज्ञे वीतहव्यः धृतिः ततस् । बहुलाश्वः धृतेः तस्य कृतिरस्य महा-वशी ॥ २६ ॥
śunakaḥ tad-sutaḥ jajñe vītahavyaḥ dhṛtiḥ tatas . bahulāśvaḥ dhṛteḥ tasya kṛtirasya mahā-vaśī .. 26 ..
एते वै मैथिला राजन् आत्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि ॥ २७ ॥
एते वै मैथिलाः राजन् आत्म-विद्या-विशारदाः । योगेश्वर-प्रसादेन द्वन्द्वैः मुक्ताः गृहेषु अपि ॥ २७ ॥
ete vai maithilāḥ rājan ātma-vidyā-viśāradāḥ . yogeśvara-prasādena dvandvaiḥ muktāḥ gṛheṣu api .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe trayodaśaḥ adhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In