| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ १ ॥
अथ अतस् श्रूयताम् राजन् वंशः सोमस्य पावनः । यस्मिन् ऐल-आदयः भूपाः कीर्त्यन्ते पुण्य-कीर्तयः ॥ १ ॥
atha atas śrūyatām rājan vaṃśaḥ somasya pāvanaḥ . yasmin aila-ādayaḥ bhūpāḥ kīrtyante puṇya-kīrtayaḥ .. 1 ..
सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् । जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः ॥ २ ॥
सहस्र-शिरसः पुंसः नाभि-ह्रद सरोरुहात् । जातस्य आसीत् सुतः धातुः अत्रिः पितृ-समः गुणैः ॥ २ ॥
sahasra-śirasaḥ puṃsaḥ nābhi-hrada saroruhāt . jātasya āsīt sutaḥ dhātuḥ atriḥ pitṛ-samaḥ guṇaiḥ .. 2 ..
तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल । विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
तस्य दृग्भ्यः अभवत् पुत्रः सोमः अमृत-मयः किल । विप्र-ओषधि-उडु-गणानाम् ब्रह्मणा कल्पितः पतिः ॥ ३ ॥
tasya dṛgbhyaḥ abhavat putraḥ somaḥ amṛta-mayaḥ kila . vipra-oṣadhi-uḍu-gaṇānām brahmaṇā kalpitaḥ patiḥ .. 3 ..
सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् । पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात् ॥ ४ ॥
सः अयजत् राजसूयेन विजित्य भुवनत्रयम् । पत्नीम् बृहस्पतेः दर्पात् ताराम् नाम अहरत् बलात् ॥ ४ ॥
saḥ ayajat rājasūyena vijitya bhuvanatrayam . patnīm bṛhaspateḥ darpāt tārām nāma aharat balāt .. 4 ..
यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् । नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ ५ ॥
यदा स देवगुरुणा याचितः अभीक्ष्णशस् मदात् । न अत्यजत् तद्-कृते जज्ञे सुर-दानव-विग्रहः ॥ ५ ॥
yadā sa devaguruṇā yācitaḥ abhīkṣṇaśas madāt . na atyajat tad-kṛte jajñe sura-dānava-vigrahaḥ .. 5 ..
शुक्रो बृहस्पतेर्द्वेषाद् अग्रहीत् सासुरोडुपम् । हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः ॥ ६ ॥
शुक्रः बृहस्पतेः द्वेषात् अग्रहीत् स असुर-उडुपम् । हरः गुरु-सुतम् स्नेहात् सर्व-भूत-गण-आवृतः ॥ ६ ॥
śukraḥ bṛhaspateḥ dveṣāt agrahīt sa asura-uḍupam . haraḥ guru-sutam snehāt sarva-bhūta-gaṇa-āvṛtaḥ .. 6 ..
सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् । सुरासुरविनाशोऽभूत् समरस्तारकामयः ॥ ७ ॥
सर्व-देव-गण-उपेतः महा-इन्द्रः गुरुम् अन्वयात् । सुर-असुर-विनाशः अभूत् समरः तारका-मयः ॥ ७ ॥
sarva-deva-gaṇa-upetaḥ mahā-indraḥ gurum anvayāt . sura-asura-vināśaḥ abhūt samaraḥ tārakā-mayaḥ .. 7 ..
निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् । तारां स्वभर्त्रे प्रायच्छद् अन्तर्वत्नीमवैत् पतिः ॥ ८ ॥
निवेदितः अथ अङ्गिरसा सोमम् निर्भर्त्स्य विश्वकृत् । ताराम् स्व-भर्त्रे प्रायच्छत् अन्तर्वत्नीम् अवैत् पतिः ॥ ८ ॥
niveditaḥ atha aṅgirasā somam nirbhartsya viśvakṛt . tārām sva-bhartre prāyacchat antarvatnīm avait patiḥ .. 8 ..
त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रात् आहितं परैः । नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकः सति ॥ ९ ॥
त्यज त्यज आशु दुष्प्रज्ञे मद्-क्षेत्रात् आहितम् परैः । न अहम् त्वाम् भस्मसात्कुर्याम् स्त्रियम् सान्तानिकः सति ॥ ९ ॥
tyaja tyaja āśu duṣprajñe mad-kṣetrāt āhitam paraiḥ . na aham tvām bhasmasātkuryām striyam sāntānikaḥ sati .. 9 ..
तत्याज व्रीडिता तारा कुमारं कनकप्रभम् । स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ १० ॥
तत्याज व्रीडिता तारा कुमारम् कनक-प्रभम् । स्पृहाम् आङ्गिरसः चक्रे कुमारे सोमे एव च ॥ १० ॥
tatyāja vrīḍitā tārā kumāram kanaka-prabham . spṛhām āṅgirasaḥ cakre kumāre some eva ca .. 10 ..
ममायं न तवेत्युच्चैः तस्मिन् विवदमानयोः । पप्रच्छुः ऋषयो देवा नैवोचे व्रीडिता तु सा ॥ ११ ॥
मम अयम् न तव इति उच्चैस् तस्मिन् विवदमानयोः । पप्रच्छुः ऋषयः देवाः न एव ऊचे व्रीडिता तु सा ॥ ११ ॥
mama ayam na tava iti uccais tasmin vivadamānayoḥ . papracchuḥ ṛṣayaḥ devāḥ na eva ūce vrīḍitā tu sā .. 11 ..
कुमारो मातरं प्राह कुपितोऽलीकलज्जया । किं न वोचस्यसद्वृत्ते आत्मावद्यं वदाशु मे ॥ १२ ॥
कुमारः मातरम् प्राह कुपितः अलीक-लज्जया । किम् न वोचसि असत्-वृत्ते आत्म-अवद्यम् वद आशु मे ॥ १२ ॥
kumāraḥ mātaram prāha kupitaḥ alīka-lajjayā . kim na vocasi asat-vṛtte ātma-avadyam vada āśu me .. 12 ..
ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् । सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ॥ १३ ॥
ब्रह्मा ताम् रहः आहूय समप्राक्षीत् च सान्त्वयन् । सोमस्य इति आह शनकैस् सोमः तम् तावत् अग्रहीत् ॥ १३ ॥
brahmā tām rahaḥ āhūya samaprākṣīt ca sāntvayan . somasya iti āha śanakais somaḥ tam tāvat agrahīt .. 13 ..
तस्यात्मयोनिरकृत बुध इत्यभिधां नृप । बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ॥ १४॥
तस्य आत्मयोनिः अकृत बुधः इति अभिधाम् नृप । बुद्ध्या गम्भीरया येन पुत्रेण अपोडुः आङ्-मुदम् ॥ १४॥
tasya ātmayoniḥ akṛta budhaḥ iti abhidhām nṛpa . buddhyā gambhīrayā yena putreṇa apoḍuḥ āṅ-mudam .. 14..
ततः पुरूरवा जज्ञे इलायां य उदाहृतः । तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् ॥ १५ ॥
ततस् पुरूरवाः जज्ञे इलायाम् यः उदाहृतः । तस्य रूप-गुण-औदार्य शील-द्रविण-विक्रमान् ॥ १५ ॥
tatas purūravāḥ jajñe ilāyām yaḥ udāhṛtaḥ . tasya rūpa-guṇa-audārya śīla-draviṇa-vikramān .. 15 ..
श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ १६ ॥
श्रुत्वा उर्वशी-इन्द्र-भवने गीयमानान् सुर-ऋषिणा । तद्-अन्तिकम् उपेयाय देवी स्मर-शर-अर्दिता ॥ १६ ॥
śrutvā urvaśī-indra-bhavane gīyamānān sura-ṛṣiṇā . tad-antikam upeyāya devī smara-śara-arditā .. 16 ..
मित्रावरुणयोः शापाद् आपन्ना नरलोकताम् । निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् । धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ १७ ॥
मित्रावरुणयोः शापात् आपन्ना नर-लोक-ताम् । निशम्य पुरुष-श्रेष्ठम् कन्दर्पम् इव रूपिणम् । धृतिम् विष्टभ्य ललना उपतस्थे तद्-अन्तिके ॥ १७ ॥
mitrāvaruṇayoḥ śāpāt āpannā nara-loka-tām . niśamya puruṣa-śreṣṭham kandarpam iva rūpiṇam . dhṛtim viṣṭabhya lalanā upatasthe tad-antike .. 17 ..
स तां विलोक्य नृपतिः हर्षेणोत्फुल्ललोचनः । उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ १८ ॥
स ताम् विलोक्य नृपतिः हर्षेण उत्फुल्ल-लोचनः । उवाच श्लक्ष्णया वाचा देवीम् हृष्ट-तनूरुहः ॥ १८ ॥
sa tām vilokya nṛpatiḥ harṣeṇa utphulla-locanaḥ . uvāca ślakṣṇayā vācā devīm hṛṣṭa-tanūruhaḥ .. 18 ..
श्रीराजोवाच ।
स्वागतं ते वरारोहे आस्यतां करवाम किम् । संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ १९ ॥
स्वागतम् ते वरारोहे आस्यताम् करवाम किम् । संरमस्व मया साकम् रतिः नौ शाश्वतीः समाः ॥ १९ ॥
svāgatam te varārohe āsyatām karavāma kim . saṃramasva mayā sākam ratiḥ nau śāśvatīḥ samāḥ .. 19 ..
उर्वश्युवाच ।
कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर । यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ २० ॥
कस्याः त्वयि न सज्जेत मनः दृष्टिः च सुन्दर । यत् अङ्ग-अन्तरम् आसाद्य च्यवते ह रिरंसया ॥ २० ॥
kasyāḥ tvayi na sajjeta manaḥ dṛṣṭiḥ ca sundara . yat aṅga-antaram āsādya cyavate ha riraṃsayā .. 20 ..
एतौ उरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ २१ ॥
एतौ उरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकम् श्लाघ्यः स्त्रीणाम् वरः स्मृतः ॥ २१ ॥
etau uraṇakau rājan nyāsau rakṣasva mānada . saṃraṃsye bhavatā sākam ślāghyaḥ strīṇām varaḥ smṛtaḥ .. 21 ..
घृतं मे वीर भक्ष्यं स्यात् नेक्षे त्वान्यत्र मैथुनात् । विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ २२ ॥
घृतम् मे वीर भक्ष्यम् स्यात् न ईक्षे त्वा अन्यत्र मैथुनात् । विवाससम् तत् तथा इति प्रतिपेदे महामनाः ॥ २२ ॥
ghṛtam me vīra bhakṣyam syāt na īkṣe tvā anyatra maithunāt . vivāsasam tat tathā iti pratipede mahāmanāḥ .. 22 ..
अहो रूपमहो भावो नरलोकविमोहनम् । को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ २३ ॥
अहो रूपम् अहो भावः नर-लोक-विमोहनम् । कः न सेवेत मनुजः देवीम् त्वाम् स्वयम् आगताम् ॥ २३ ॥
aho rūpam aho bhāvaḥ nara-loka-vimohanam . kaḥ na seveta manujaḥ devīm tvām svayam āgatām .. 23 ..
तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः । रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ २४ ॥
तया स पुरुष-श्रेष्ठः रमयन्त्या यथार्हतः । रेमे सुर-विहारेषु कामम् चैत्ररथ-आदिषु ॥ २४ ॥
tayā sa puruṣa-śreṣṭhaḥ ramayantyā yathārhataḥ . reme sura-vihāreṣu kāmam caitraratha-ādiṣu .. 24 ..
रममाणस्तया देव्या पद्मकिञ्जल्क गन्धया । तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून् ॥ २५ ॥
रममाणः तया देव्या पद्म-किञ्जल्क गन्धया । तद्-मुख-आमोद-मुषितः मुमुदे अहर्-गणान् बहून् ॥ २५ ॥
ramamāṇaḥ tayā devyā padma-kiñjalka gandhayā . tad-mukha-āmoda-muṣitaḥ mumude ahar-gaṇān bahūn .. 25 ..
अपश्यन् उर्वशीं इन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यं आस्थानं नातिशोभते ॥ २६ ॥
अपश्यन् उर्वशीम् इन्द्रः गन्धर्वान् समचोदयत् । उर्वशी-रहितम् मह्यम् आस्थानम् न अतिशोभते ॥ २६ ॥
apaśyan urvaśīm indraḥ gandharvān samacodayat . urvaśī-rahitam mahyam āsthānam na atiśobhate .. 26 ..
ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥
ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया ॥ २७ ॥
te upetya mahārātre tamasi pratyupasthite . urvaśyā uraṇau jahruḥ nyastau rājani jāyayā .. 27 ..
निशम्याक्रन्दितं देवी पुत्रयोः नीयमानयोः । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ २८ ॥
निशम्य आक्रन्दितम् देवी पुत्रयोः नीयमानयोः । हता अस्मि अहम् कु नाथेन नपुंसा वीर-मानिना ॥ २८ ॥
niśamya ākranditam devī putrayoḥ nīyamānayoḥ . hatā asmi aham ku nāthena napuṃsā vīra-māninā .. 28 ..
यद् विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः । यः शेते निशि संत्रस्तो यथा नारी दिवा पुमान् ॥ २९ ॥
यत् विश्रम्भात् अहम् नष्टा हृत-अपत्या च दस्युभिः । यः शेते निशि संत्रस्तः यथा नारी दिवा पुमान् ॥ २९ ॥
yat viśrambhāt aham naṣṭā hṛta-apatyā ca dasyubhiḥ . yaḥ śete niśi saṃtrastaḥ yathā nārī divā pumān .. 29 ..
इति वाक् सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः । निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा ॥ ३० ॥
इति वाच् सायकैः बिद्धः प्रतोत्त्रैः इव कुञ्जरः । निशि निस्त्रिंशम् आदाय विवस्त्रः अभ्यद्रवत् रुषा ॥ ३० ॥
iti vāc sāyakaiḥ biddhaḥ pratottraiḥ iva kuñjaraḥ . niśi nistriṃśam ādāya vivastraḥ abhyadravat ruṣā .. 30 ..
ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः । आदाय मेषावायान्तं नग्नमैक्षत सा पतिम् ॥ ३१ ॥
ते विसृज्य उरणौ तत्र व्यद्योतन्त स्म विद्युतः । आदाय मेषौ आयान्तम् नग्नम् ऐक्षत सा पतिम् ॥ ३१ ॥
te visṛjya uraṇau tatra vyadyotanta sma vidyutaḥ . ādāya meṣau āyāntam nagnam aikṣata sā patim .. 31 ..
ऐलोऽपि शयने जायां अपश्यन् विमना इव । तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥ ३२ ॥
ऐलः अपि शयने जायाम् अ पश्यन् विमनाः इव । तद्-चित्तः विह्वलः शोचन् बभ्राम उन्मत्त-वत् महीम् ॥ ३२ ॥
ailaḥ api śayane jāyām a paśyan vimanāḥ iva . tad-cittaḥ vihvalaḥ śocan babhrāma unmatta-vat mahīm .. 32 ..
स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः । पञ्च प्रहृष्टवदनाः प्राह सूक्तं पुरूरवाः ॥ ३३ ॥
स ताम् वीक्ष्य कुरुक्षेत्रे सरस्वत्याम् च तद्-सखीः । पञ्च प्रहृष्ट-वदनाः प्राह सूक्तम् पुरूरवाः ॥ ३३ ॥
sa tām vīkṣya kurukṣetre sarasvatyām ca tad-sakhīḥ . pañca prahṛṣṭa-vadanāḥ prāha sūktam purūravāḥ .. 33 ..
[1]अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
[१]अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुम् अर्हसि । माम् त्वम् अद्य अपि अ निर्वृत्य वचांसि कृणवावहै ॥ ३४ ॥
[1]aho jāye tiṣṭha tiṣṭha ghore na tyaktum arhasi . mām tvam adya api a nirvṛtya vacāṃsi kṛṇavāvahai .. 34 ..
सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्राः त्वत्प्रसादस्य नास्पदम् ॥ ३५ ॥
सुदेहः अयम् पतति अत्र देवि दूरम् हृतः त्वया । खादन्ति एनम् वृकाः गृध्राः त्वद्-प्रसादस्य न आस्पदम् ॥ ३५ ॥
sudehaḥ ayam patati atra devi dūram hṛtaḥ tvayā . khādanti enam vṛkāḥ gṛdhrāḥ tvad-prasādasya na āspadam .. 35 ..
उर्वश्युवाच ।
मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ ३६ ॥
मा मृथाः पुरुषः असि त्वम् मा स्म त्वा अद्युः वृकाः इमे । क्वापि सख्यम् न वै स्त्रीणाम् वृकाणाम् हृदयम् यथा ॥ ३६ ॥
mā mṛthāḥ puruṣaḥ asi tvam mā sma tvā adyuḥ vṛkāḥ ime . kvāpi sakhyam na vai strīṇām vṛkāṇām hṛdayam yathā .. 36 ..
स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः । घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ ३७ ॥
स्त्रियः हि अकरुणाः क्रूराः दुर्मर्षाः प्रिय-साहसाः । घ्नन्ति अल्प-अर्थे अपि विश्रब्धम् पतिम् भ्रातरम् अपि उत ॥ ३७ ॥
striyaḥ hi akaruṇāḥ krūrāḥ durmarṣāḥ priya-sāhasāḥ . ghnanti alpa-arthe api viśrabdham patim bhrātaram api uta .. 37 ..
विधायालीकविश्रम्भं अज्ञेषु त्यक्तसौहृदाः । नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ ३८ ॥
विधाय अलीक-विश्रम्भम् अज्ञेषु त्यक्त-सौहृदाः । नवम् नवम् अभीप्सन्त्यः पुंश्चल्यः स्वैर-वृत्तयः ॥ ३८ ॥
vidhāya alīka-viśrambham ajñeṣu tyakta-sauhṛdāḥ . navam navam abhīpsantyaḥ puṃścalyaḥ svaira-vṛttayaḥ .. 38 ..
संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः । वस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ॥ ३९ ॥
संवत्सर-अन्ते हि भवान् एक-रात्रम् मया ईश्वरः । वस्यति अपत्यानि च ते भविष्यन्ति अपराणि भोः ॥ ३९ ॥
saṃvatsara-ante hi bhavān eka-rātram mayā īśvaraḥ . vasyati apatyāni ca te bhaviṣyanti aparāṇi bhoḥ .. 39 ..
अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम् ॥ ४० ॥
अन्तर्वत्नीम् उपालक्ष्य देवीम् स प्रययौ पुरीम् । पुनर् तत्र गतः अब्द-अन्ते उर्वशीम् वीर-मातरम् ॥ ४० ॥
antarvatnīm upālakṣya devīm sa prayayau purīm . punar tatra gataḥ abda-ante urvaśīm vīra-mātaram .. 40 ..
उपलभ्य मुदा युक्तः समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ ४१ ॥
उपलभ्य मुदा युक्तः समुवास तया निशाम् । अथा एनम् उर्वशी प्राह कृपणम् विरह-आतुरम् ॥ ४१ ॥
upalabhya mudā yuktaḥ samuvāsa tayā niśām . athā enam urvaśī prāha kṛpaṇam viraha-āturam .. 41 ..
गन्धर्वान् उपधावेमान् तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने ॥ ४२ ॥
गन्धर्वान् उपधाव इमान् तुभ्यम् दास्यन्ति माम् इति । तस्य संस्तुवतः तुष्टाः अग्नि-स्थालीम् ददुः नृप । उर्वशीम् मन्यमानः ताम् सः अबुध्यत चरन् वने ॥ ४२ ॥
gandharvān upadhāva imān tubhyam dāsyanti mām iti . tasya saṃstuvataḥ tuṣṭāḥ agni-sthālīm daduḥ nṛpa . urvaśīm manyamānaḥ tām saḥ abudhyata caran vane .. 42 ..
स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ ४३ ॥
स्थालीम् न्यस्य वने गत्वा गृहान् आध्यायतः निशि । त्रेतायाम् सम्प्रवृत्तायाम् मनसि त्रयि अवर्तत ॥ ४३ ॥
sthālīm nyasya vane gatvā gṛhān ādhyāyataḥ niśi . tretāyām sampravṛttāyām manasi trayi avartata .. 43 ..
स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ ४४ ॥
स्थाली-स्थानम् गतः अश्वत्थम् शमीगर्भम् विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥ ४४ ॥
sthālī-sthānam gataḥ aśvattham śamīgarbham vilakṣya saḥ . tena dve araṇī kṛtvā urvaśī-loka-kāmyayā .. 44 ..
उर्वशीं मन्त्रतो ध्यायन् अधरारणिमुत्तराम् । आत्मानं उभयोर्मध्ये यत्तत् प्रजननं प्रभुः ॥ ४५ ॥
उर्वशीम् मन्त्रतः ध्यायन् अधरारणिम् उत्तराम् । आत्मानम् उभयोः मध्ये यत् तत् प्रजननम् प्रभुः ॥ ४५ ॥
urvaśīm mantrataḥ dhyāyan adharāraṇim uttarām . ātmānam ubhayoḥ madhye yat tat prajananam prabhuḥ .. 45 ..
तस्य निर्मन्थनात् जातो जातवेदा विभावसुः । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ ४६ ॥
तस्य निर्मन्थनात् जातः जातवेदाः विभावसुः । त्रय्या स विद्यया राज्ञा पुत्र-त्वे कल्पितः त्रिवृत् ॥ ४६ ॥
tasya nirmanthanāt jātaḥ jātavedāḥ vibhāvasuḥ . trayyā sa vidyayā rājñā putra-tve kalpitaḥ trivṛt .. 46 ..
तेनायजत यज्ञेशं भगवन्तं अधोक्षजम् । उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ ४७ ॥
तेन अयजत यज्ञेशम् भगवन्तम् अधोक्षजम् । उर्वशी-लोकम् अन्विच्छन् सर्व-देव-मयम् हरिम् ॥ ४७ ॥
tena ayajata yajñeśam bhagavantam adhokṣajam . urvaśī-lokam anvicchan sarva-deva-mayam harim .. 47 ..
एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः । देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च ॥ ४८ ॥
एकः एव पुरा वेदः प्रणवः सर्व-वाच्-मयः । देवः नारायणः न अन्यः एकः अग्निः वर्णः एव च ॥ ४८ ॥
ekaḥ eva purā vedaḥ praṇavaḥ sarva-vāc-mayaḥ . devaḥ nārāyaṇaḥ na anyaḥ ekaḥ agniḥ varṇaḥ eva ca .. 48 ..
पुरूरवस एवासीत् त्वयी त्रेतामुखे नृप । अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ ४९ ॥
पुरूरवसः एव आसीत् त्वयी त्रेता-मुखे नृप । अग्निना प्रजया राजा लोकम् गान्धर्वम् एयिवान् ॥ ४९ ॥
purūravasaḥ eva āsīt tvayī tretā-mukhe nṛpa . agninā prajayā rājā lokam gāndharvam eyivān .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In