| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥
ऐलस्य च उर्वशी-गर्भात् षष् आसन् आत्मजाः नृप । आयुः श्रुतायुः सत्यायुः रयः अथ विजयः जयः ॥ १ ॥
ailasya ca urvaśī-garbhāt ṣaṣ āsan ātmajāḥ nṛpa . āyuḥ śrutāyuḥ satyāyuḥ rayaḥ atha vijayaḥ jayaḥ .. 1 ..
श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः । रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥ २ ॥
श्रुतायोः वसुमान् पुत्रः सत्यायोः च श्रुतञ्जयः । रयस्य सुतः एकः च जयस्य तनयः अमितः ॥ २ ॥
śrutāyoḥ vasumān putraḥ satyāyoḥ ca śrutañjayaḥ . rayasya sutaḥ ekaḥ ca jayasya tanayaḥ amitaḥ .. 2 ..
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः । तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य योऽपिबत् । जह्नोस्तु पूरुस्तस्याथ बलाकश्चात्मजोऽजकः ॥ ३ ॥
भीमः तु विजयस्य अथ काञ्चनः होत्रकः ततस् । तस्य जह्नुः सुतः गंगाम् गण्डूषीकृत्य यः अपिबत् । जह्नोः तु पूरुः तस्य अथ बलाकः च आत्मजः अजकः ॥ ३ ॥
bhīmaḥ tu vijayasya atha kāñcanaḥ hotrakaḥ tatas . tasya jahnuḥ sutaḥ gaṃgām gaṇḍūṣīkṛtya yaḥ apibat . jahnoḥ tu pūruḥ tasya atha balākaḥ ca ātmajaḥ ajakaḥ .. 3 ..
ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ ४ ॥
ततस् कुशः कुशस्य अपि कुशाम्बुः तनयः वसुः । कुशनाभः च चत्वारः गाधिः आसीत् कुशाम्बुजः ॥ ४ ॥
tatas kuśaḥ kuśasya api kuśāmbuḥ tanayaḥ vasuḥ . kuśanābhaḥ ca catvāraḥ gādhiḥ āsīt kuśāmbujaḥ .. 4 ..
तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत द्विजः । वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥
तस्य सत्यवतीम् कन्याम् ऋचीकः अयाचत द्विजः । वरम् विसदृशम् मत्वा गाधिः भार्गवम् अब्रवीत् ॥ ५ ॥
tasya satyavatīm kanyām ṛcīkaḥ ayācata dvijaḥ . varam visadṛśam matvā gādhiḥ bhārgavam abravīt .. 5 ..
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ ६ ॥
एकतस् श्याम-कर्णानाम् हयानाम् चन्द्र-वर्चसाम् । सहस्रम् दीयताम् शुल्कम् कन्यायाः कुशिकाः वयम् ॥ ६ ॥
ekatas śyāma-karṇānām hayānām candra-varcasām . sahasram dīyatām śulkam kanyāyāḥ kuśikāḥ vayam .. 6 ..
इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् । आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ ७ ॥
इति उक्तः तद्-मतम् ज्ञात्वा गतः स वरुण-अन्तिकम् । आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ ७ ॥
iti uktaḥ tad-matam jñātvā gataḥ sa varuṇa-antikam . ānīya dattvā tān aśvān upayeme varānanām .. 7 ..
स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं गतो मुनिः ॥ ८ ॥
सः ऋषिः प्रार्थितः पत्न्या श्वश्र्वा च अपत्य-काम्यया । श्रपयित्वा उभयैः मन्त्रैः चरुम् स्नातुम् गतः मुनिः ॥ ८ ॥
saḥ ṛṣiḥ prārthitaḥ patnyā śvaśrvā ca apatya-kāmyayā . śrapayitvā ubhayaiḥ mantraiḥ carum snātum gataḥ muniḥ .. 8 ..
तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ ९ ॥
तावत् सत्यवती मात्रा स्व-चरुम् याचिता सती । श्रेष्ठम् मत्वा तया अयच्छत् मात्रे मातुः अदत् स्वयम् ॥ ९ ॥
tāvat satyavatī mātrā sva-carum yācitā satī . śreṣṭham matvā tayā ayacchat mātre mātuḥ adat svayam .. 9 ..
तद् विज्ञाय मुनिः प्राह पत्नीं कष्टमकारषीः । घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ १० ॥
तत् विज्ञाय मुनिः प्राह पत्नीम् कष्ट-मकारषीः । घोरः दण्ड-धरः पुत्रः भ्राता ते ब्रह्म-वित्तमः ॥ १० ॥
tat vijñāya muniḥ prāha patnīm kaṣṭa-makāraṣīḥ . ghoraḥ daṇḍa-dharaḥ putraḥ bhrātā te brahma-vittamaḥ .. 10 ..
प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः । अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥
प्रसादितः सत्यवत्या मा एवम् भूः इति भार्गवः । अथ तर्हि भवेत् पौत्रः जमदग्निः ततस् अभवत् ॥ ११ ॥
prasāditaḥ satyavatyā mā evam bhūḥ iti bhārgavaḥ . atha tarhi bhavet pautraḥ jamadagniḥ tatas abhavat .. 11 ..
सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी । रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥
सा च अभूत् सु महत्-पुण्या कौशिकी लोक-पावनी । रेणोः सुताम् रेणुकाम् वै जमदग्निः उवाह याम् ॥ १२ ॥
sā ca abhūt su mahat-puṇyā kauśikī loka-pāvanī . reṇoḥ sutām reṇukām vai jamadagniḥ uvāha yām .. 12 ..
तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ १३ ॥
तस्याम् वै भार्गव-ऋषेः सुताः वसुमत्-आदयः । यवीयान् जज्ञे एतेषाम् रामः इति अभिविश्रुतः ॥ १३ ॥
tasyām vai bhārgava-ṛṣeḥ sutāḥ vasumat-ādayaḥ . yavīyān jajñe eteṣām rāmaḥ iti abhiviśrutaḥ .. 13 ..
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १४ ॥
यम् आहुः वासुदेव-अंशम् हैहयानाम् कुल-अन्तकम् । त्रिस् सप्त-कृत्वस् यः इमाम् चक्रे निःक्षत्रियाम् महीम् ॥ १४ ॥
yam āhuḥ vāsudeva-aṃśam haihayānām kula-antakam . tris sapta-kṛtvas yaḥ imām cakre niḥkṣatriyām mahīm .. 14 ..
दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं अनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि ॥ १५ ॥
दुष्टम् क्षत्रम् भुवः भारम् अ ब्रह्मण्यम् अनीनशत् । रजः-तमः-वृत-महन् फल्गुनी अपि कृते अहसि ॥ १५ ॥
duṣṭam kṣatram bhuvaḥ bhāram a brahmaṇyam anīnaśat . rajaḥ-tamaḥ-vṛta-mahan phalgunī api kṛte ahasi .. 15 ..
श्रीराजोवाच ।
किं तदंहो भगवतो राजन्यैरजितात्मभिः । कृतं येन कुलं नष्टं क्षत्रियाणां अभीक्ष्णशः ॥ १६ ॥
किम् तत् अंहः भगवतः राजन्यैः अजितात्मभिः । कृतम् येन कुलम् नष्टम् क्षत्रियाणाम् अभीक्ष्णशस् ॥ १६ ॥
kim tat aṃhaḥ bhagavataḥ rājanyaiḥ ajitātmabhiḥ . kṛtam yena kulam naṣṭam kṣatriyāṇām abhīkṣṇaśas .. 16 ..
श्रीशुक उवाच ।
हैहयानां अधिपतिः अर्जुनः क्षत्रियर्षभः । दत्तं नारायण अंशांशं आराध्य परिकर्मभिः ॥ १७ ॥
हैहयानाम् अधिपतिः अर्जुनः क्षत्रिय-ऋषभः । दत्तम् नारायण अंशांशम् आराध्य परिकर्मभिः ॥ १७ ॥
haihayānām adhipatiḥ arjunaḥ kṣatriya-ṛṣabhaḥ . dattam nārāyaṇa aṃśāṃśam ārādhya parikarmabhiḥ .. 17 ..
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ १८ ॥
बाहून् दश-शतम् लेभे दुर्धर्ष-त्वम् अरातिषु । ॥ १८ ॥
bāhūn daśa-śatam lebhe durdharṣa-tvam arātiṣu . .. 18 ..
योगेश्वरत्वं ऐश्वर्यं गुणा यत्राणिमादयः । चचार अव्याहतगतिः लोकेषु पवनो यथा ॥ १९ ॥
योग-ईश्वर-त्वम् ऐश्वर्यम् गुणाः यत्र अणिम-आदयः । चचार अव्याहत-गतिः लोकेषु पवनः यथा ॥ १९ ॥
yoga-īśvara-tvam aiśvaryam guṇāḥ yatra aṇima-ādayaḥ . cacāra avyāhata-gatiḥ lokeṣu pavanaḥ yathā .. 19 ..
स्त्रीरत्नैः आवृतः क्रीडन् रेवाम्भसि मदोत्कटः । वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः ॥ २० ॥
स्त्रीरत्नैः आवृतः क्रीडन् रेवा-अम्भसि मद-उत्कटः । वैजयन्तीम् स्रजम् बिभ्रत् रुरोध सरितम् भुजैः ॥ २० ॥
strīratnaiḥ āvṛtaḥ krīḍan revā-ambhasi mada-utkaṭaḥ . vaijayantīm srajam bibhrat rurodha saritam bhujaiḥ .. 20 ..
विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः । नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः ॥ २१ ॥
विप्लावितम् स्व-शिबिरम् प्रतिस्रोतस् सरित्-जलैः । न अमृष्यत् तस्य तत् वीर्यम् वीर-मानी दशाननः ॥ २१ ॥
viplāvitam sva-śibiram pratisrotas sarit-jalaiḥ . na amṛṣyat tasya tat vīryam vīra-mānī daśānanaḥ .. 21 ..
गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥
गृहीतः लीलया स्त्रीणाम् समक्षम् कृत-किल्बिषः । माहिष्मत्याम् सन्निरुद्धः मुक्तः येन कपिः यथा ॥ २२ ॥
gṛhītaḥ līlayā strīṇām samakṣam kṛta-kilbiṣaḥ . māhiṣmatyām sanniruddhaḥ muktaḥ yena kapiḥ yathā .. 22 ..
स एकदा तु मृगयां विचरन् विजने वने । यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥
सः एकदा तु मृगयाम् विचरन् विजने वने । यदृच्छया आश्रम-पदम् जमदग्नेः उपाविशत् ॥ २३ ॥
saḥ ekadā tu mṛgayām vicaran vijane vane . yadṛcchayā āśrama-padam jamadagneḥ upāviśat .. 23 ..
तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ २४ ॥
तस्मै स नरदेवाय मुनिः अर्हणम् आहरत् । स सैन्य-अमात्य-वाहाय हविष्मत्या तपोधनः ॥ २४ ॥
tasmai sa naradevāya muniḥ arhaṇam āharat . sa sainya-amātya-vāhāya haviṣmatyā tapodhanaḥ .. 24 ..
स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः ॥ २५ ॥
स वै रत्नम् तु तत् दृष्ट्वा आत्म-ऐश्वर्य-अतिशायनम् । तत् न अद्रियत अग्निहोत्र्याम् स अभिलाषः स हैहयः ॥ २५ ॥
sa vai ratnam tu tat dṛṣṭvā ātma-aiśvarya-atiśāyanam . tat na adriyata agnihotryām sa abhilāṣaḥ sa haihayaḥ .. 25 ..
हविर्धानीं ऋषेर्दर्पान् नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ २६ ॥
हविर्धानीम् ऋषेः दर्पात् नरान् हर्तुम् अचोदयत् । ते च माहिष्मतीम् निन्युः स वत्साम् क्रन्दतीम् बलात् ॥ २६ ॥
havirdhānīm ṛṣeḥ darpāt narān hartum acodayat . te ca māhiṣmatīm ninyuḥ sa vatsām krandatīm balāt .. 26 ..
अथ राजनि निर्याते राम आश्रम आगतः । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ २७ ॥
अथ राजनि निर्याते रामः आश्रमे आगतः । श्रुत्वा तत् तस्य दौरात्म्यम् चुक्रोध अहिः इव आहतः ॥ २७ ॥
atha rājani niryāte rāmaḥ āśrame āgataḥ . śrutvā tat tasya daurātmyam cukrodha ahiḥ iva āhataḥ .. 27 ..
घोरमादाय परशुं सतूणं चर्म कार्मुकम् । अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥
घोरम् आदाय परशुम् स तूणम् चर्म कार्मुकम् । अन्वधावत दुर्धर्षः मृगेन्द्रः इव यूथपम् ॥ २८ ॥
ghoram ādāya paraśum sa tūṇam carma kārmukam . anvadhāvata durdharṣaḥ mṛgendraḥ iva yūthapam .. 28 ..
तं आपतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभिः युतं जटाभिर्ददृशे पुरीं विशन् ॥ २९ ॥
तम् आपतन्तम् भृगु-वर्यम् ओजसा धनुः-धरम् बाण-परश्वध-आयुधम् । ऐणेय-चर्म-अम्बरम् अर्क-धामभिः युतम् जटाभिः ददृशे पुरीम् विशन् ॥ २९ ॥
tam āpatantam bhṛgu-varyam ojasā dhanuḥ-dharam bāṇa-paraśvadha-āyudham . aiṇeya-carma-ambaram arka-dhāmabhiḥ yutam jaṭābhiḥ dadṛśe purīm viśan .. 29 ..
अचोदयद्धस्तिरथाश्वपत्तिभिः गदासिबाणर्ष्टिशतघ्निशक्तिभिः । अक्षौहिणीः सप्तदशातिभीषणाः ता राम एको भगवानसूदयत् ॥ ३० ॥
अचोदयत् हस्ति-रथ-अश्व-पत्तिभिः गदा-असि-बाण-ऋष्टि-शतघ्नि-शक्तिभिः । अक्षौहिणीः सप्तदश अति भीषणाः ताः रामः एकः भगवान् असूदयत् ॥ ३० ॥
acodayat hasti-ratha-aśva-pattibhiḥ gadā-asi-bāṇa-ṛṣṭi-śataghni-śaktibhiḥ . akṣauhiṇīḥ saptadaśa ati bhīṣaṇāḥ tāḥ rāmaḥ ekaḥ bhagavān asūdayat .. 30 ..
यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः । ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३१ ॥
यतस् यतस् असौ प्रहरत्-परश्वधः मनः-अनिल-ओजाः पर-चक्र-सूदनः । ततस् ततस् छिन्न-भुज-ऊरु-कन्धराः निपेतुः उर्व्याम् हत-सूत-वाहनाः ॥ ३१ ॥
yatas yatas asau praharat-paraśvadhaḥ manaḥ-anila-ojāḥ para-cakra-sūdanaḥ . tatas tatas chinna-bhuja-ūru-kandharāḥ nipetuḥ urvyām hata-sūta-vāhanāḥ .. 31 ..
दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः । विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा ॥ ३२ ॥
दृष्ट्वा स्व-सैन्यम् रुधिर-ओघ-कर्दमे रण-अजिरे राम-कुठार-सायकैः । विवृक्ण-चर्म-ध्वज-चाप-विग्रहम् निपातितम् हैहयः आपतत् रुषा ॥ ३२ ॥
dṛṣṭvā sva-sainyam rudhira-ogha-kardame raṇa-ajire rāma-kuṭhāra-sāyakaiḥ . vivṛkṇa-carma-dhvaja-cāpa-vigraham nipātitam haihayaḥ āpatat ruṣā .. 32 ..
अथार्जुनः पञ्चशतेषु बाहुभिः धनुःषु बाणान् युगपत् स सन्दधे । रामाय रामोऽस्त्रभृतां समग्रणीः तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥
अथ अर्जुनः पञ्चशतेषु बाहुभिः धनुःषु बाणान् युगपद् स सन्दधे । रामाय रामः अस्त्रभृताम् समग्रणीः तानि एक-धन्व-इषुभिः आच्छिनत् समम् ॥ ३३ ॥
atha arjunaḥ pañcaśateṣu bāhubhiḥ dhanuḥṣu bāṇān yugapad sa sandadhe . rāmāya rāmaḥ astrabhṛtām samagraṇīḥ tāni eka-dhanva-iṣubhiḥ ācchinat samam .. 33 ..
पुनः स्वहस्तैरचलान्मृधेङ्घ्रिपान् उत्क्षिप्य वेगाद् अभिधावतो युधि । भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव ॥ ३४ ॥
पुनर् स्व-हस्तैः अचलान् मृध-इङ्घ्रिपान् उत्क्षिप्य वेगात् अभिधावतः युधि । भुजान् कुठारेण कठोर-नेमिना चिच्छेद रामः प्रसभम् तु अहेः इव ॥ ३४ ॥
punar sva-hastaiḥ acalān mṛdha-iṅghripān utkṣipya vegāt abhidhāvataḥ yudhi . bhujān kuṭhāreṇa kaṭhora-neminā ciccheda rāmaḥ prasabham tu aheḥ iva .. 34 ..
कृत्तबाहोः शिरस्तस्य गिरेः श्रृङमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥
कृत्त-बाहोः शिरः तस्य गिरेः श्रृङम् इव अहरत् । हते पितरि तद्-पुत्राः अयुतम् दुद्रुवुः भयात् ॥ ३५ ॥
kṛtta-bāhoḥ śiraḥ tasya gireḥ śrṛṅam iva aharat . hate pitari tad-putrāḥ ayutam dudruvuḥ bhayāt .. 35 ..
अग्निहोत्रीं उपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥
अग्निहोत्रीम् उपावर्त्य स वत्साम् पर-वीर-हा । समुपेत्य आश्रमम् पित्रे परिक्लिष्टाम् समर्पयत् ॥ ३६ ॥
agnihotrīm upāvartya sa vatsām para-vīra-hā . samupetya āśramam pitre parikliṣṭām samarpayat .. 36 ..
स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च । वर्णयामास तत् श्रुत्वा जमदग्निरभाषत ॥ ३७ ॥
स्व-कर्म तत् कृतम् रामः पित्रे भ्रातृभ्यः एव च । वर्णयामास तत् श्रुत्वा जमदग्निः अभाषत ॥ ३७ ॥
sva-karma tat kṛtam rāmaḥ pitre bhrātṛbhyaḥ eva ca . varṇayāmāsa tat śrutvā jamadagniḥ abhāṣata .. 37 ..
राम राम महाबाहो भवान् पापमकारषीत् । अवधीत् नरदेवं यत् सर्वदेवमयं वृथा ॥ ३८ ॥
राम राम महा-बाहो भवान् पापम् अकारषीत् । अवधीत् नरदेवम् यत् सर्व-देव-मयम् वृथा ॥ ३८ ॥
rāma rāma mahā-bāho bhavān pāpam akāraṣīt . avadhīt naradevam yat sarva-deva-mayam vṛthā .. 38 ..
वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः । यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥
वयम् हि ब्राह्मणाः तात क्षमया अर्हण-ताम् गताः । यया लोक-गुरुः देवः पारमेष्ठ्यम् अगात् पदम् ॥ ३९ ॥
vayam hi brāhmaṇāḥ tāta kṣamayā arhaṇa-tām gatāḥ . yayā loka-guruḥ devaḥ pārameṣṭhyam agāt padam .. 39 ..
क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवान् तुष्यते हरिरीश्वरः ॥ ४० ॥
क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा । क्षमिणाम् आशु भगवान् तुष्यते हरिः ईश्वरः ॥ ४० ॥
kṣamayā rocate lakṣmīḥ brāhmī saurī yathā prabhā . kṣamiṇām āśu bhagavān tuṣyate hariḥ īśvaraḥ .. 40 ..
राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ॥ ४१ ॥
राज्ञः मूर्धाभिषिक्तस्य वधः ब्रह्म-वधात् गुरुः । तीर्थ-संसेवया च अंहः जहि अङ्ग अच्युत-चेतनः ॥ ४१ ॥
rājñaḥ mūrdhābhiṣiktasya vadhaḥ brahma-vadhāt guruḥ . tīrtha-saṃsevayā ca aṃhaḥ jahi aṅga acyuta-cetanaḥ .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे पञ्चदशः अध्यायः ॥ १५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe pañcadaśaḥ adhyāyaḥ .. 15 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In