| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥ १ ॥
ailasya ca urvaśīgarbhāt ṣaḍāsannātmajā nṛpa . āyuḥ śrutāyuḥ satyāyū rayo'tha vijayo jayaḥ .. 1 ..
श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः । रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥ २ ॥
śrutāyorvasumānputraḥ satyāyośca śrutañjayaḥ . rayasya suta ekaśca jayasya tanayo'mitaḥ .. 2 ..
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः । तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य योऽपिबत् । जह्नोस्तु पूरुस्तस्याथ बलाकश्चात्मजोऽजकः ॥ ३ ॥
bhīmastu vijayasyātha kāñcano hotrakastataḥ . tasya jahnuḥ suto gaṃgāṃ gaṇḍūṣīkṛtya yo'pibat . jahnostu pūrustasyātha balākaścātmajo'jakaḥ .. 3 ..
ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ ४ ॥
tataḥ kuśaḥ kuśasyāpi kuśāmbustanayo vasuḥ . kuśanābhaśca catvāro gādhirāsīt kuśāmbujaḥ .. 4 ..
तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत द्विजः । वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥
tasya satyavatīṃ kanyāṃ ṛcīko'yācata dvijaḥ . varaṃ visadṛśaṃ matvā gādhirbhārgavamabravīt .. 5 ..
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ ६ ॥
ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām . sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam .. 6 ..
इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् । आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ ७ ॥
ityuktastanmataṃ jñātvā gataḥ sa varuṇāntikam . ānīya dattvā tān aśvān upayeme varānanām .. 7 ..
स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं गतो मुनिः ॥ ८ ॥
sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatyakāmyayā . śrapayitvobhayairmantraiḥ caruṃ snātuṃ gato muniḥ .. 8 ..
तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ ९ ॥
tāvat satyavatī mātrā svacaruṃ yācitā satī . śreṣṭhaṃ matvā tayāyacchan mātre māturadat svayam .. 9 ..
तद् विज्ञाय मुनिः प्राह पत्नीं कष्टमकारषीः । घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ १० ॥
tad vijñāya muniḥ prāha patnīṃ kaṣṭamakāraṣīḥ . ghoro daṇḍadharaḥ putro bhrātā te brahmavittamaḥ .. 10 ..
प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः । अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥
prasāditaḥ satyavatyā maivaṃ bhūriti bhārgavaḥ . atha tarhi bhavet pautro jamadagnistato'bhavat .. 11 ..
सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी । रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥
sā cābhūt sumahapuṇyā kauśikī lokapāvanī . reṇoḥ sutāṃ reṇukāṃ vai jamadagniruvāha yām .. 12 ..
तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ १३ ॥
tasyāṃ vai bhārgavaṛṣeḥ sutā vasumadādayaḥ . yavīyānjajña eteṣāṃ rāma ityabhiviśrutaḥ .. 13 ..
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १४ ॥
yamāhurvāsudevāṃśaṃ haihayānāṃ kulāntakam . triḥsaptakṛtvo ya imāṃ cakre niḥkṣatriyāṃ mahīm .. 14 ..
दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं अनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि ॥ १५ ॥
duṣṭaṃ kṣatraṃ bhuvo bhāraṃ abrahmaṇyaṃ anīnaśat . rajastamovṛtamahan phalgunyapi kṛteṃ'hasi .. 15 ..
श्रीराजोवाच ।
किं तदंहो भगवतो राजन्यैरजितात्मभिः । कृतं येन कुलं नष्टं क्षत्रियाणां अभीक्ष्णशः ॥ १६ ॥
kiṃ tadaṃho bhagavato rājanyairajitātmabhiḥ . kṛtaṃ yena kulaṃ naṣṭaṃ kṣatriyāṇāṃ abhīkṣṇaśaḥ .. 16 ..
श्रीशुक उवाच ।
हैहयानां अधिपतिः अर्जुनः क्षत्रियर्षभः । दत्तं नारायण अंशांशं आराध्य परिकर्मभिः ॥ १७ ॥
haihayānāṃ adhipatiḥ arjunaḥ kṣatriyarṣabhaḥ . dattaṃ nārāyaṇa aṃśāṃśaṃ ārādhya parikarmabhiḥ .. 17 ..
बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ १८ ॥
bāhūn daśaśataṃ lebhe durdharṣatvamarātiṣu . avyāhatendriyaujaḥ śrī tejovīryayaśobalam .. 18 ..
योगेश्वरत्वं ऐश्वर्यं गुणा यत्राणिमादयः । चचार अव्याहतगतिः लोकेषु पवनो यथा ॥ १९ ॥
yogeśvaratvaṃ aiśvaryaṃ guṇā yatrāṇimādayaḥ . cacāra avyāhatagatiḥ lokeṣu pavano yathā .. 19 ..
स्त्रीरत्नैः आवृतः क्रीडन् रेवाम्भसि मदोत्कटः । वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः ॥ २० ॥
strīratnaiḥ āvṛtaḥ krīḍan revāmbhasi madotkaṭaḥ . vaijayantīṃ srajaṃ bibhrad rurodha saritaṃ bhujaiḥ .. 20 ..
विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः । नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः ॥ २१ ॥
viplāvitaṃ svaśibiraṃ pratisrotaḥsarijjalaiḥ . nāmṛṣyat tasya tad vīryaṃ vīramānī daśānanaḥ .. 21 ..
गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥
gṛhīto līlayā strīṇāṃ samakṣaṃ kṛtakilbiṣaḥ . māhiṣmatyāṃ sanniruddho mukto yena kapiryathā .. 22 ..
स एकदा तु मृगयां विचरन् विजने वने । यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥
sa ekadā tu mṛgayāṃ vicaran vijane vane . yadṛcchayā''śramapadaṃ jamadagnerupāviśat .. 23 ..
तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ २४ ॥
tasmai sa naradevāya munirarhaṇamāharat . sasainyāmātyavāhāya haviṣmatyā tapodhanaḥ .. 24 ..
स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः ॥ २५ ॥
sa vai ratnaṃ tu tad dṛṣṭvā ātmaiśvaryātiśāyanam . tannādriyatāgnihotryāṃ sābhilāṣaḥ sa haihayaḥ .. 25 ..
हविर्धानीं ऋषेर्दर्पान् नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ २६ ॥
havirdhānīṃ ṛṣerdarpān narān hartumacodayat . te ca māhiṣmatīṃ ninyuḥ savatsāṃ krandatīṃ balāt .. 26 ..
अथ राजनि निर्याते राम आश्रम आगतः । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ २७ ॥
atha rājani niryāte rāma āśrama āgataḥ . śrutvā tat tasya daurātmyaṃ cukrodhāhirivāhataḥ .. 27 ..
घोरमादाय परशुं सतूणं चर्म कार्मुकम् । अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥
ghoramādāya paraśuṃ satūṇaṃ carma kārmukam . anvadhāvata durdharṣo mṛgendra iva yūthapam .. 28 ..
तं आपतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभिः युतं जटाभिर्ददृशे पुरीं विशन् ॥ २९ ॥
taṃ āpatantaṃ bhṛguvaryamojasā dhanurdharaṃ bāṇaparaśvadhāyudham . aiṇeyacarmāmbaramarkadhāmabhiḥ yutaṃ jaṭābhirdadṛśe purīṃ viśan .. 29 ..
अचोदयद्धस्तिरथाश्वपत्तिभिः गदासिबाणर्ष्टिशतघ्निशक्तिभिः । अक्षौहिणीः सप्तदशातिभीषणाः ता राम एको भगवानसूदयत् ॥ ३० ॥
acodayaddhastirathāśvapattibhiḥ gadāsibāṇarṣṭiśataghniśaktibhiḥ . akṣauhiṇīḥ saptadaśātibhīṣaṇāḥ tā rāma eko bhagavānasūdayat .. 30 ..
यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः । ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ॥ ३१ ॥
yato yato'sau praharatparaśvadho mano'nilaujāḥ paracakrasūdanaḥ . tatastataśchinnabhujorukandharā nipetururvyāṃ hatasūtavāhanāḥ .. 31 ..
दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः । विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा ॥ ३२ ॥
dṛṣṭvā svasainyaṃ rudhiraughakardame raṇājire rāmakuṭhārasāyakaiḥ . vivṛkṇacarmadhvajacāpavigrahaṃ nipātitaṃ haihaya āpatad ruṣā .. 32 ..
अथार्जुनः पञ्चशतेषु बाहुभिः धनुःषु बाणान् युगपत् स सन्दधे । रामाय रामोऽस्त्रभृतां समग्रणीः तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥
athārjunaḥ pañcaśateṣu bāhubhiḥ dhanuḥṣu bāṇān yugapat sa sandadhe . rāmāya rāmo'strabhṛtāṃ samagraṇīḥ tānyekadhanveṣubhirācchinat samam .. 33 ..
पुनः स्वहस्तैरचलान्मृधेङ्घ्रिपान् उत्क्षिप्य वेगाद् अभिधावतो युधि । भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव ॥ ३४ ॥
punaḥ svahastairacalānmṛdheṅghripān utkṣipya vegād abhidhāvato yudhi . bhujān kuṭhāreṇa kaṭhoraneminā ciccheda rāmaḥ prasabhaṃ tvaheriva .. 34 ..
कृत्तबाहोः शिरस्तस्य गिरेः श्रृङमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥
kṛttabāhoḥ śirastasya gireḥ śrṛṅamivāharat . hate pitari tatputrā ayutaṃ dudruvurbhayāt .. 35 ..
अग्निहोत्रीं उपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥
agnihotrīṃ upāvartya savatsāṃ paravīrahā . samupetyāśramaṃ pitre parikliṣṭāṃ samarpayat .. 36 ..
स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च । वर्णयामास तत् श्रुत्वा जमदग्निरभाषत ॥ ३७ ॥
svakarma tatkṛtaṃ rāmaḥ pitre bhrātṛbhya eva ca . varṇayāmāsa tat śrutvā jamadagnirabhāṣata .. 37 ..
राम राम महाबाहो भवान् पापमकारषीत् । अवधीत् नरदेवं यत् सर्वदेवमयं वृथा ॥ ३८ ॥
rāma rāma mahābāho bhavān pāpamakāraṣīt . avadhīt naradevaṃ yat sarvadevamayaṃ vṛthā .. 38 ..
वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः । यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥
vayaṃ hi brāhmaṇāstāta kṣamayārhaṇatāṃ gatāḥ . yayā lokagururdevaḥ pārameṣṭhyamagāt padam .. 39 ..
क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवान् तुष्यते हरिरीश्वरः ॥ ४० ॥
kṣamayā rocate lakṣmīḥ brāhmī saurī yathā prabhā . kṣamiṇāmāśu bhagavān tuṣyate harirīśvaraḥ .. 40 ..
राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ॥ ४१ ॥
rājño mūrdhābhiṣiktasya vadho brahmavadhād guruḥ . tīrthasaṃsevayā cāṃho jahyaṅgācyutacetanaḥ .. 41 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe pañcadaśo'dhyāyaḥ .. 15 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In