| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
यः पुरूरवसः पुत्र आयुः तस्याभवन् सुताः । नहुषः क्षत्रवृद्धश्च रजी रंभश्च वीर्यवान् ॥ १ ॥
यः पुरूरवसः पुत्र-आयुः तस्य अभवन् सुताः । नहुषः क्षत्र-वृद्धः च रजी रंभः च वीर्यवान् ॥ १ ॥
yaḥ purūravasaḥ putra-āyuḥ tasya abhavan sutāḥ . nahuṣaḥ kṣatra-vṛddhaḥ ca rajī raṃbhaḥ ca vīryavān .. 1 ..
अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् । क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ २ ॥
अनेनाः इति राज-इन्द्र शृणु क्षत्रवृधः अन्वयम् । क्षत्रवृद्ध-सुतस्य आसन् सुहोत्रस्य आत्मजाः त्रयः ॥ २ ॥
anenāḥ iti rāja-indra śṛṇu kṣatravṛdhaḥ anvayam . kṣatravṛddha-sutasya āsan suhotrasya ātmajāḥ trayaḥ .. 2 ..
काश्यः कुशो गृत्समद इति गृत्समदादभूत् । शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ ३ ॥
काश्यः कुशः गृत्समदः इति गृत्समदात् अभूत् । शुनकः शौनकः यस्य बह्वृच-प्रवरः मुनिः ॥ ३ ॥
kāśyaḥ kuśaḥ gṛtsamadaḥ iti gṛtsamadāt abhūt . śunakaḥ śaunakaḥ yasya bahvṛca-pravaraḥ muniḥ .. 3 ..
काश्यस्य काशिः तत्पुत्रो राष्ट्रो दीर्घतमःपिता । धन्वन्तरिर्दैर्घतम आयुर्वेदप्रवर्तकः ॥ ४ ॥
काश्यस्य काशिः तद्-पुत्रः राष्ट्रः दीर्घतमः-पिता । ॥ ४ ॥
kāśyasya kāśiḥ tad-putraḥ rāṣṭraḥ dīrghatamaḥ-pitā . .. 4 ..
यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः । तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ॥ ५ ॥
। तद्-पुत्रः केतुमानस्य जज्ञे भीमरथः ततस् ॥ ५ ॥
. tad-putraḥ ketumānasya jajñe bhīmarathaḥ tatas .. 5 ..
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः । स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥ ६ ॥
दिवोदासः द्युमान् तस्मात् प्रतर्दनः इति स्मृतः । सः एव शत्रुजित् वत्सः ऋतध्वजः इति ईरितः । तथा कुवलयाश्व-इति प्रोक्तः अलर्क-आदयः ततस् ॥ ६ ॥
divodāsaḥ dyumān tasmāt pratardanaḥ iti smṛtaḥ . saḥ eva śatrujit vatsaḥ ṛtadhvajaḥ iti īritaḥ . tathā kuvalayāśva-iti proktaḥ alarka-ādayaḥ tatas .. 6 ..
षष्टि वर्षसहस्राणि षष्टि वर्षशतानि च । नालर्काद् अपरो राजन् मेदिनीं बुभुजे युवा ॥ ७ ॥
षष्टि वर्ष-सहस्राणि षष्टि वर्ष-शतानि च । न अलर्कात् अपरः राजन् मेदिनीम् बुभुजे युवा ॥ ७ ॥
ṣaṣṭi varṣa-sahasrāṇi ṣaṣṭi varṣa-śatāni ca . na alarkāt aparaḥ rājan medinīm bubhuje yuvā .. 7 ..
अलर्कात् सन्ततिस्तस्मात् सुनीथोऽथ निकेतनः । धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ ८ ॥
अलर्कात् सन्ततिः तस्मात् सुनीथः अथ निकेतनः । धर्मकेतुः सुतः तस्मात् सत्यकेतुः अजायत ॥ ८ ॥
alarkāt santatiḥ tasmāt sunīthaḥ atha niketanaḥ . dharmaketuḥ sutaḥ tasmāt satyaketuḥ ajāyata .. 8 ..
धृष्टकेतुः सुतस्तस्मात् सुकुमारः क्षितीश्वरः । वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥ ९ ॥
धृष्टकेतुः सुतः तस्मात् सु कुमारः क्षितीश्वरः । वीतिहोत्रः अस्य भर्गः अतस् भार्गभूमिः अभूत् नृप ॥ ९ ॥
dhṛṣṭaketuḥ sutaḥ tasmāt su kumāraḥ kṣitīśvaraḥ . vītihotraḥ asya bhargaḥ atas bhārgabhūmiḥ abhūt nṛpa .. 9 ..
इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः । रम्भस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ १० ॥
इति इमे काशयः भूपाः क्षत्र-वृद्ध-अन्वयायिनः । रम्भस्य रभसः पुत्रः गम्भीरः च अक्रियः ततस् ॥ १० ॥
iti ime kāśayaḥ bhūpāḥ kṣatra-vṛddha-anvayāyinaḥ . rambhasya rabhasaḥ putraḥ gambhīraḥ ca akriyaḥ tatas .. 10 ..
तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशमनेनसः । शुद्धस्ततः शुचिस्तस्मात् त्रिककुद् धर्मसारथिः ॥ ११ ॥
तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशम् अनेनसः । शुद्धः ततस् शुचिः तस्मात् त्रिककुद् धर्मसारथिः ॥ ११ ॥
tasya kṣetre brahma jajñe śrṛṇu vaṃśam anenasaḥ . śuddhaḥ tatas śuciḥ tasmāt trikakud dharmasārathiḥ .. 11 ..
ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् । रजेः पञ्चशतान्यासन् पुत्राणां अमितौजसाम् ॥ १२ ॥
ततस् शान्त-रजः जज्ञे कृतकृत्यः सः आत्मवान् । रजेः पञ्च-शतानि आसन् पुत्राणाम् अमित-ओजसाम् ॥ १२ ॥
tatas śānta-rajaḥ jajñe kṛtakṛtyaḥ saḥ ātmavān . rajeḥ pañca-śatāni āsan putrāṇām amita-ojasām .. 12 ..
देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद् दिवम् । इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ १३ ॥
देवैः अभ्यर्थितः दैत्यान् हत्वा इन्द्राय अददात् दिवम् । इन्द्रः तस्मै पुनर् दत्त्वा गृहीत्वा चरणौ रजेः ॥ १३ ॥
devaiḥ abhyarthitaḥ daityān hatvā indrāya adadāt divam . indraḥ tasmai punar dattvā gṛhītvā caraṇau rajeḥ .. 13 ..
आत्मानमर्पयामास प्रह्रादाद्यरिशंकितः । पितरि उपरते पुत्रा याचमानाय नो ददुः ॥ १४ ॥
आत्मानम् अर्पयामास प्रह्राद-आदि-अरि-शंकितः । पितरि उपरते पुत्राः याचमानाय नः ददुः ॥ १४ ॥
ātmānam arpayāmāsa prahrāda-ādi-ari-śaṃkitaḥ . pitari uparate putrāḥ yācamānāya naḥ daduḥ .. 14 ..
त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः । गुरुणा हूयमानेऽग्नौ बलभित् तनयान् रजेः ॥ १५ ॥
त्रिविष्टपम् महा-इन्द्राय यज्ञ-भागान् समाददुः । गुरुणा हूयमाने अग्नौ बलभिद् तनयान् रजेः ॥ १५ ॥
triviṣṭapam mahā-indrāya yajña-bhāgān samādaduḥ . guruṇā hūyamāne agnau balabhid tanayān rajeḥ .. 15 ..
अवधीद् भ्रंशितान् मार्गान् न कश्चित् अवशेषितः । कुशात् प्रतिः क्षात्रवृद्धात् संजयस्तत्सुतो जयः ॥ १६ ॥
अवधीत् भ्रंशितान् मार्गान् न कश्चिद् अवशेषितः । कुशात् प्रतिः क्षात्रवृद्धात् संजयः तद्-सुतः जयः ॥ १६ ॥
avadhīt bhraṃśitān mārgān na kaścid avaśeṣitaḥ . kuśāt pratiḥ kṣātravṛddhāt saṃjayaḥ tad-sutaḥ jayaḥ .. 16 ..
ततः कृतः कृतस्यापि जज्ञे हर्यवनो नृपः । सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ १७ ॥
ततस् कृतः कृतस्य अपि जज्ञे हर्यवनः नृपः । सहदेवः ततस् हीनः जयसेनः तु तद्-सुतः ॥ १७ ॥
tatas kṛtaḥ kṛtasya api jajñe haryavanaḥ nṛpaḥ . sahadevaḥ tatas hīnaḥ jayasenaḥ tu tad-sutaḥ .. 17 ..
सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः । क्षत्रवृद्धान्वया भूपा इमे श्रृणु वंशं च नाहुषात् ॥ १८ ॥
सङ्कृतिः तस्य च जयः क्षत्रधर्मा महा-रथः । क्षत्र-वृद्ध-अन्वयाः भूपाः इमे श्रृणु वंशम् च नाहुषात् ॥ १८ ॥
saṅkṛtiḥ tasya ca jayaḥ kṣatradharmā mahā-rathaḥ . kṣatra-vṛddha-anvayāḥ bhūpāḥ ime śrṛṇu vaṃśam ca nāhuṣāt .. 18 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe saptadaśaḥ adhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In