| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
यतिर्ययातिः संयातिः आयतिर्वियतिः कृतिः । षडिमे नहुषस्यासन् इन्द्रियाणीव देहिनः ॥ १ ॥
यतिः ययातिः संयातिः आयतिः वियतिः कृतिः । षट् इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः ॥ १ ॥
yatiḥ yayātiḥ saṃyātiḥ āyatiḥ viyatiḥ kṛtiḥ . ṣaṭ ime nahuṣasya āsan indriyāṇi iva dehinaḥ .. 1 ..
राज्यं नैच्छद् यतिः पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ २ ॥
राज्यम् ना ऐच्छत् यतिः पित्रा दत्तम् तद्-परिणाम-विद् । यत्र प्रविष्टः पुरुषः आत्मानम् न अवबुध्यते ॥ २ ॥
rājyam nā aicchat yatiḥ pitrā dattam tad-pariṇāma-vid . yatra praviṣṭaḥ puruṣaḥ ātmānam na avabudhyate .. 2 ..
पितरि भ्रंशिते स्थानाद् इन्द्राण्या धर्षणाद् द्विजैः । प्रापितेऽजगरत्वं वै ययातिरभवन्नृपः ॥ ३ ॥
पितरि भ्रंशिते स्थानात् इन्द्राण्याः धर्षणात् द्विजैः । प्रापिते अजगर-त्वम् वै ययातिः अभवत् नृपः ॥ ३ ॥
pitari bhraṃśite sthānāt indrāṇyāḥ dharṣaṇāt dvijaiḥ . prāpite ajagara-tvam vai yayātiḥ abhavat nṛpaḥ .. 3 ..
चतसृष्वादिशद् दिक्षु भ्रातॄन् भ्राता यवीयसः । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ ४ ॥
चतसृषु आदिशत् दिक्षु भ्रातॄन् भ्राता यवीयसः । कृतदारः जुगोप उर्वीम् काव्यस्य वृषपर्वणः ॥ ४ ॥
catasṛṣu ādiśat dikṣu bhrātṝn bhrātā yavīyasaḥ . kṛtadāraḥ jugopa urvīm kāvyasya vṛṣaparvaṇaḥ .. 4 ..
श्रीराजोवाच ।
ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद् विवाहः प्रतिलोमकः ॥ ५ ॥
ब्रह्मर्षिः भगवान् काव्यः क्षत्रबन्धुः च नाहुषः । राजन्य-विप्रयोः कस्मात् विवाहः प्रतिलोमकः ॥ ५ ॥
brahmarṣiḥ bhagavān kāvyaḥ kṣatrabandhuḥ ca nāhuṣaḥ . rājanya-viprayoḥ kasmāt vivāhaḥ pratilomakaḥ .. 5 ..
श्रीशुक उवाच ।
एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ ६ ॥
एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका । सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥ ६ ॥
ekadā dānava-indrasya śarmiṣṭhā nāma kanyakā . sakhī-sahasra-saṃyuktā guru-putryā ca bhāminī .. 6 ..
देवयान्या पुरोद्याने पुष्पितद्रुमसंकुले । व्यचरत् कलगीतालि नलिनीपुलिनेऽबला ॥ ७ ॥
देवयान्या पुर-उद्याने पुष्पित-द्रुम-संकुले । व्यचरत् कल-गीत-अलि नलिनी-पुलिने अबला ॥ ७ ॥
devayānyā pura-udyāne puṣpita-druma-saṃkule . vyacarat kala-gīta-ali nalinī-puline abalā .. 7 ..
ता जलाशयम आसाद्य कन्याः कमललोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ ८ ॥
ताः जलाशयम् आसाद्य कन्याः कमल-लोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथस् ॥ ८ ॥
tāḥ jalāśayam āsādya kanyāḥ kamala-locanāḥ . tīre nyasya dukūlāni vijahruḥ siñcatīḥ mithas .. 8 ..
वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः ॥ ९ ॥
वीक्ष्य व्रजन्तम् गिरिशम् सह देव्या वृष-स्थितम् । सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः ॥ ९ ॥
vīkṣya vrajantam giriśam saha devyā vṛṣa-sthitam . sahasā uttīrya vāsāṃsi paryadhuḥ vrīḍitāḥ striyaḥ .. 9 ..
शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानी इदमब्रवीत् ॥ १० ॥
शर्मिष्ठा अ जानती वासः गुरु-पुत्र्याः समव्ययत् । स्वीयम् मत्वा प्रकुपिता देवयानी इदम् अब्रवीत् ॥ १० ॥
śarmiṣṭhā a jānatī vāsaḥ guru-putryāḥ samavyayat . svīyam matvā prakupitā devayānī idam abravīt .. 10 ..
अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ ११ ॥
अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम् । अस्मद्-धार्यम् धृतवती शुनी इव हविः-अध्वरे ॥ ११ ॥
aho nirīkṣyatām asyāḥ dāsyāḥ karma hi asāmpratam . asmad-dhāryam dhṛtavatī śunī iva haviḥ-adhvare .. 11 ..
यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये । धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥
यैः इदम् तपसा सृष्टम् मुखम् पुंसः परस्य ये । धार्यते यैः इह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ १२ ॥
yaiḥ idam tapasā sṛṣṭam mukham puṃsaḥ parasya ye . dhāryate yaiḥ iha jyotiḥ śivaḥ panthāḥ pradarśitaḥ .. 12 ..
यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥
यान् वन्दन्ति उपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः ॥ १३ ॥
yān vandanti upatiṣṭhante lokanāthāḥ sureśvarāḥ . bhagavān api viśvātmā pāvanaḥ śrīniketanaḥ .. 13 ..
वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ १४ ॥
वयम् तत्र अपि भृगवः शिष्यः अस्याः नः पिता असुरः । अस्मद्-धार्यम् धृतवती शूद्रः वेदम् इव असती ॥ १४ ॥
vayam tatra api bhṛgavaḥ śiṣyaḥ asyāḥ naḥ pitā asuraḥ . asmad-dhāryam dhṛtavatī śūdraḥ vedam iva asatī .. 14 ..
एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीं अभाषत । रुषा श्वसन्ति उरंगीघ्गीव धर्षिता दष्टदच्छदा ॥ १५ ॥
एवम् क्षिपन्तीम् शर्मिष्ठा गुरु-पुत्रीम् अभाषत । रुषा श्वसन्ति धर्षिताः दष्ट-दच्छदा ॥ १५ ॥
evam kṣipantīm śarmiṣṭhā guru-putrīm abhāṣata . ruṣā śvasanti dharṣitāḥ daṣṭa-dacchadā .. 15 ..
आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसेऽस्माकं गृहान् बलिभुजो यथा ॥ १६ ॥
आत्म-वृत्तम् अ विज्ञाय कत्थसे बहु भिक्षुकि । किम् न प्रतीक्षसे अस्माकम् गृहान् बलिभुजः यथा ॥ १६ ॥
ātma-vṛttam a vijñāya katthase bahu bhikṣuki . kim na pratīkṣase asmākam gṛhān balibhujaḥ yathā .. 16 ..
एवंविधैः सुपरुषैः क्षिप्त्वाऽऽचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥
एवंविधैः सु परुषैः क्षिप्त्वा आचार्य-सुताम् सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासे आदाय मन्युना ॥ १७ ॥
evaṃvidhaiḥ su paruṣaiḥ kṣiptvā ācārya-sutām satīm . śarmiṣṭhā prākṣipat kūpe vāse ādāya manyunā .. 17 ..
तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ १८ ॥
तस्याम् गतायाम् स्व-गृहम् ययातिः मृगयाम् चरन् । प्राप्तः यदृच्छया कूपे जल-अर्थी ताम् ददर्श ह ॥ १८ ॥
tasyām gatāyām sva-gṛham yayātiḥ mṛgayām caran . prāptaḥ yadṛcchayā kūpe jala-arthī tām dadarśa ha .. 18 ..
दत्त्वा स्वमुत्तरं वासः तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिं उज्जहार दयापरः ॥ १९ ॥
दत्त्वा स्वम् उत्तरम् वासः तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिम् उज्जहार दया-परः ॥ १९ ॥
dattvā svam uttaram vāsaḥ tasyai rājā vivāsase . gṛhītvā pāṇinā pāṇim ujjahāra dayā-paraḥ .. 19 ..
तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजन् त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ २० ॥
तम् वीरम् आह औशनसी प्रेम-निर्भरया गिरा । राजन् त्वया गृहीतः मे पाणिः परपुरञ्जय ॥ २० ॥
tam vīram āha auśanasī prema-nirbharayā girā . rājan tvayā gṛhītaḥ me pāṇiḥ parapurañjaya .. 20 ..
हस्तग्राहोऽपरो मा भूद् गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः । यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ २१ ॥
हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे । एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः । यत् इदम् कूप-मग्नायाः भवतः दर्शनम् मम ॥ २१ ॥
hasta-grāhaḥ aparaḥ mā bhūt gṛhītāyāḥ tvayā hi me . eṣaḥ īśa-kṛtaḥ vīra sambandhaḥ nau na pauruṣaḥ . yat idam kūpa-magnāyāḥ bhavataḥ darśanam mama .. 21 ..
न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद् यमशपं पुरा ॥ २२ ॥
न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज । कचस्य बार्हस्पत्यस्य शापात् यम् अशपम् पुरा ॥ २२ ॥
na brāhmaṇaḥ me bhavitā hasta-grāhaḥ mahā-bhuja . kacasya bārhaspatyasya śāpāt yam aśapam purā .. 22 ..
ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ २३ ॥
ययातिः अनभिप्रेतम् दैव-उपहृतम् आत्मनः । मनः तु तद्-गतम् बुद्ध्वा प्रतिजग्राह तत् वचः ॥ २३ ॥
yayātiḥ anabhipretam daiva-upahṛtam ātmanaḥ . manaḥ tu tad-gatam buddhvā pratijagrāha tat vacaḥ .. 23 ..
गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततः सर्वं उक्तं शर्मिष्ठया कृतम् ॥ २४ ॥
गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततस् सर्वम् उक्तम् शर्मिष्ठया कृतम् ॥ २४ ॥
gate rājani sā dhīre tatra sma rudatī pituḥ . nyavedayat tatas sarvam uktam śarmiṣṭhayā kṛtam .. 24 ..
दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ २५ ॥
दुर्मनाः भगवान् काव्यः पौरोहित्यम् विगर्हयन् । स्तुवन् वृत्तिम् च कापोतीम् दुहित्रा स ययौ पुरात् ॥ २५ ॥
durmanāḥ bhagavān kāvyaḥ paurohityam vigarhayan . stuvan vṛttim ca kāpotīm duhitrā sa yayau purāt .. 25 ..
वृषपर्वा तमाज्ञाय प्रत्यनीक विवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥
वृषपर्वा तम् आज्ञाय प्रत्यनीक विवक्षितम् । गुरुम् प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ २६ ॥
vṛṣaparvā tam ājñāya pratyanīka vivakṣitam . gurum prasādayan mūrdhnā pādayoḥ patitaḥ pathi .. 26 ..
क्षणार्ध मन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः । कामोऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ २७ ॥
क्षणार्ध मन्युः भगवान् शिष्यम् व्याचष्ट भार्गवः । कामः अस्याः क्रियताम् राजन् न एनाम् त्यक्तुम् इह उत्सहे ॥ २७ ॥
kṣaṇārdha manyuḥ bhagavān śiṣyam vyācaṣṭa bhārgavaḥ . kāmaḥ asyāḥ kriyatām rājan na enām tyaktum iha utsahe .. 27 ..
तथेति अवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ २८ ॥
तथा इति अवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतस् यास्ये स अनुगा यातु माम् अनु ॥ २८ ॥
tathā iti avasthite prāha devayānī manogatam . pitrā dattā yatas yāsye sa anugā yātu mām anu .. 28 ..
स्वानां तत् संकटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ २९ ॥
स्वानाम् तत् संकटम् वीक्ष्य तद्-अर्थस्य च गौरवम् । देवयानीम् पर्यचरत् स्त्री-सहस्रेण दास-वत् ॥ २९ ॥
svānām tat saṃkaṭam vīkṣya tad-arthasya ca gauravam . devayānīm paryacarat strī-sahasreṇa dāsa-vat .. 29 ..
नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजन् शर्मिष्ठां आधास्तल्पे न कर्हिचित् ॥ ३० ॥
नाहुषाय सुताम् दत्त्वा सह शर्मिष्ठया उशना । तम् आह राजन् शर्मिष्ठाम् आधाः तल्पे न कर्हिचित् ॥ ३० ॥
nāhuṣāya sutām dattvā saha śarmiṣṭhayā uśanā . tam āha rājan śarmiṣṭhām ādhāḥ talpe na karhicit .. 30 ..
विलोक्यौशनसीं राजन् शर्मिष्ठा सप्रजां क्वचित् । तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ ३१ ॥
विलोक्य औशनसीम् राजन् शर्मिष्ठा स प्रजाम् क्वचिद् । तम् एव वव्रे रहसि सख्याः पति-मृतौ सती ॥ ३१ ॥
vilokya auśanasīm rājan śarmiṣṭhā sa prajām kvacid . tam eva vavre rahasi sakhyāḥ pati-mṛtau satī .. 31 ..
राजपुत्र्यार्थितोऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरन् शुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ ३२ ॥
राज-पुत्र्या अर्थितः अपत्ये धर्मम् च अवेक्ष्य धर्म-विद् । स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत ॥ ३२ ॥
rāja-putryā arthitaḥ apatye dharmam ca avekṣya dharma-vid . smaran śukra-vacaḥ kāle diṣṭam eva abhyapadyata .. 32 ..
यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥
यदुम् च तुर्वसुम् च एव देवयानी व्यजायत । द्रुह्युम् च अनुम् च पूरुम् च शर्मिष्ठा वार्षपर्वणी ॥ ३३ ॥
yadum ca turvasum ca eva devayānī vyajāyata . druhyum ca anum ca pūrum ca śarmiṣṭhā vārṣaparvaṇī .. 33 ..
गर्भसंभवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ ३४ ॥
गर्भ-संभवम् आसुः याः भर्तुः विज्ञाय मानिनी । देवयानी पितुः गेहम् ययौ क्रोध-विमूर्छिता ॥ ३४ ॥
garbha-saṃbhavam āsuḥ yāḥ bhartuḥ vijñāya māninī . devayānī pituḥ geham yayau krodha-vimūrchitā .. 34 ..
प्रियां अनुगतः कामी वचोभिः उपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ ३५ ॥
प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन् । न प्रसादयितुम् शेके पाद-संवाहन-आदिभिः ॥ ३५ ॥
priyām anugataḥ kāmī vacobhiḥ upamantrayan . na prasādayitum śeke pāda-saṃvāhana-ādibhiḥ .. 35 ..
शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ ३६ ॥
शुक्रः तम् आह कुपितः स्त्री-काम अनृत-पूरुष । त्वाम् जरा विशताम् मन्द विरूप-करणी नृणाम् ॥ ३६ ॥
śukraḥ tam āha kupitaḥ strī-kāma anṛta-pūruṣa . tvām jarā viśatām manda virūpa-karaṇī nṛṇām .. 36 ..
श्रीययातिरुवाच ।
अतृप्तोऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा योऽभिधास्यति ॥ ३७ ॥
अतृप्तः अस्मि अद्य कामानाम् ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यताम् यथाकामम् वयसा यः अभिधास्यति ॥ ३७ ॥
atṛptaḥ asmi adya kāmānām brahman duhitari sma te . vyatyasyatām yathākāmam vayasā yaḥ abhidhāsyati .. 37 ..
इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ ३८ ॥
इति लब्ध-व्यवस्थानः पुत्रम् ज्येष्ठम् अवोचत । यदो तात प्रतीच्छ इमाम् जराम् देहि निजम् वयः ॥ ३८ ॥
iti labdha-vyavasthānaḥ putram jyeṣṭham avocata . yado tāta pratīccha imām jarām dehi nijam vayaḥ .. 38 ..
मातामहकृतां वत्स न तृप्तो विषयेष्वहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥
मातामह-कृताम् वत्स न तृप्तः विषयेषु अहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ ३९ ॥
mātāmaha-kṛtām vatsa na tṛptaḥ viṣayeṣu aham . vayasā bhavadīyena raṃsye katipayāḥ samāḥ .. 39 ..
श्रीयदुरुवाच ।
नोत्सहे जरसा स्थातुं अन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ ४० ॥
न उत्सहे जरसा स्थातुम् अन्तरा प्राप्तया तव । अ विदित्वा सुखम् ग्राम्यम् वैतृष्ण्यम् न एति पूरुषः ॥ ४० ॥
na utsahe jarasā sthātum antarā prāptayā tava . a viditvā sukham grāmyam vaitṛṣṇyam na eti pūruṣaḥ .. 40 ..
तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ ४१ ॥
तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुः च भारत । प्रत्याचख्युः अधर्म-ज्ञाः हि अनित्ये नित्य-बुद्धयः ॥ ४१ ॥
turvasuḥ coditaḥ pitrā druhyuḥ ca anuḥ ca bhārata . pratyācakhyuḥ adharma-jñāḥ hi anitye nitya-buddhayaḥ .. 41 ..
अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वं अग्रजवद् वत्स मां प्रत्याख्यातुमर्हसि ॥ ४२ ॥
अपृच्छत् तनयम् पूरुम् वयसा ऊनम् गुण-अधिकम् । न त्वम् अग्रज-वत् वत्स माम् प्रत्याख्यातुम् अर्हसि ॥ ४२ ॥
apṛcchat tanayam pūrum vayasā ūnam guṇa-adhikam . na tvam agraja-vat vatsa mām pratyākhyātum arhasi .. 42 ..
श्रीपूरुरुवाच ।
को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद् विन्दते परम् ॥ ४३ ॥
कः नु लोके मनुष्य-इन्द्र पितुः आत्म-कृतः पुमान् । प्रतिकर्तुम् क्षमः यस्य प्रसादात् विन्दते परम् ॥ ४३ ॥
kaḥ nu loke manuṣya-indra pituḥ ātma-kṛtaḥ pumān . pratikartum kṣamaḥ yasya prasādāt vindate param .. 43 ..
उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः । अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितं पितुः ॥ ४४ ॥
उत्तमः चिन्तितम् कुर्यात् प्रोक्त-कारी तु मध्यमः । अधमः अश्रद्धया कुर्यात् अकर्ता उच्चरितम् पितुः ॥ ४४ ॥
uttamaḥ cintitam kuryāt prokta-kārī tu madhyamaḥ . adhamaḥ aśraddhayā kuryāt akartā uccaritam pituḥ .. 44 ..
इति प्रमुदितः पूरुः प्रत्यगृह्णाज्जरां पितुः । सोऽपि तद्वयसा कामान् यथावज्जुजुषे नृप ॥ ४५ ॥
इति प्रमुदितः पूरुः प्रत्यगृह्णात् जराम् पितुः । सः अपि तद्-वयसा कामान् यथावत् जुजुषे नृप ॥ ४५ ॥
iti pramuditaḥ pūruḥ pratyagṛhṇāt jarām pituḥ . saḥ api tad-vayasā kāmān yathāvat jujuṣe nṛpa .. 45 ..
सप्तद्वीपपतिः सम्यक् पितृवत् पालयन् प्रजाः । यथोपजोषं विषयान् जुजुषेऽव्याहतेन्द्रियः ॥ ४६ ॥
सप्त-द्वीप-पतिः सम्यक् पितृ-वत् पालयन् प्रजाः । यथोपजोषम् विषयान् जुजुषे अव्याहत-इन्द्रियः ॥ ४६ ॥
sapta-dvīpa-patiḥ samyak pitṛ-vat pālayan prajāḥ . yathopajoṣam viṣayān jujuṣe avyāhata-indriyaḥ .. 46 ..
देवयान्यप्यनुदिनं मनोवाग् देहवस्तुभिः । प्रेयसः परमां प्रीतिं उवाह प्रेयसी रहः ॥ ४७ ॥
देवयानी अपि अनुदिनम् मनः-वाच् देह-वस्तुभिः । प्रेयसः परमाम् प्रीतिम् उवाह प्रेयसी रहः ॥ ४७ ॥
devayānī api anudinam manaḥ-vāc deha-vastubhiḥ . preyasaḥ paramām prītim uvāha preyasī rahaḥ .. 47 ..
अयजद् यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ ४८ ॥
अयजत् यज्ञपुरुषम् क्रतुभिः भूरि-दक्षिणैः । सर्व-देव-मयम् देवम् सर्व-वेद-मयम् हरिम् ॥ ४८ ॥
ayajat yajñapuruṣam kratubhiḥ bhūri-dakṣiṇaiḥ . sarva-deva-mayam devam sarva-veda-mayam harim .. 48 ..
यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः । नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ ४९ ॥
यस्मिन् इदम् विरचितम् व्योम्नि इव जलद-आवलिः । नाना इव भाति ना आभाति स्वप्न-माया-मनोरथः ॥ ४९ ॥
yasmin idam viracitam vyomni iva jalada-āvaliḥ . nānā iva bhāti nā ābhāti svapna-māyā-manorathaḥ .. 49 ..
तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ ५० ॥
तम् एव हृदि विन्यस्य वासुदेवम् गुहा-आशयम् । नारायणम् अणीयांसम् निराशीः अयजत् प्रभुम् ॥ ५० ॥
tam eva hṛdi vinyasya vāsudevam guhā-āśayam . nārāyaṇam aṇīyāṃsam nirāśīḥ ayajat prabhum .. 50 ..
एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् । विदधानोऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ ५१ ॥
एवम् वर्ष-सहस्राणि मनः-षष्ठैः मनः-सुखम् । विदधानः अपि न अतृप्यत् सार्वभौमः कद् इन्द्रियैः ॥ ५१ ॥
evam varṣa-sahasrāṇi manaḥ-ṣaṣṭhaiḥ manaḥ-sukham . vidadhānaḥ api na atṛpyat sārvabhaumaḥ kad indriyaiḥ .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे अष्टादशः अध्यायः ॥ १८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe aṣṭādaśaḥ adhyāyaḥ .. 18 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In