| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
स इत्थं आचरन् कामान् स्त्रैणोऽपह्नवमात्मनः । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ १ ॥
सः इत्थम् आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः । बुद्ध्वा प्रियायै निर्विण्णः गाथाम् एताम् अगायत ॥ १ ॥
saḥ ittham ācaran kāmān straiṇaḥ apahnavam ātmanaḥ . buddhvā priyāyai nirviṇṇaḥ gāthām etām agāyata .. 1 ..
श्रृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ २ ॥
श्रृणु भार्गवि अमूम् गाथाम् मद्विध-आचरिताम् भुवि । धीराः यस्य अनुशोचन्ति वने ग्राम-निवासिनः ॥ २ ॥
śrṛṇu bhārgavi amūm gāthām madvidha-ācaritām bhuvi . dhīrāḥ yasya anuśocanti vane grāma-nivāsinaḥ .. 2 ..
बस्त एको वने कश्चिद् विचिन्वन् प्रियमात्मनः । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ ३ ॥
बस्तः एकः वने कश्चिद् विचिन्वन् प्रियम् आत्मनः । ददर्श कूपे पतिताम् स्व-कर्म-वश-गाम् अजाम् ॥ ३ ॥
bastaḥ ekaḥ vane kaścid vicinvan priyam ātmanaḥ . dadarśa kūpe patitām sva-karma-vaśa-gām ajām .. 3 ..
तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥ ४ ॥
तस्याः उद्धरण-उपायम् बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थम् उद्धृत्य विषाण-अग्रेण रोधसी ॥ ४ ॥
tasyāḥ uddharaṇa-upāyam bastaḥ kāmī vicintayan . vyadhatta tīrtham uddhṛtya viṣāṇa-agreṇa rodhasī .. 4 ..
सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्योऽजाः कान्तकामिनीः ॥ ५ ॥
सा उत्तीर्य कूपात् सुश्रोणी तम् एव चकमे किल । तया वृतम् समुद्वीक्ष्य बह्व्यः अजाः कान्त-कामिनीः ॥ ५ ॥
sā uttīrya kūpāt suśroṇī tam eva cakame kila . tayā vṛtam samudvīkṣya bahvyaḥ ajāḥ kānta-kāminīḥ .. 5 ..
पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् । स एकोऽजवृषस्तासां बह्वीनां रतिवर्धनः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ ६ ॥
पीवानम् श्मश्रुलम् प्रेष्ठम् मीढ्वांसम् याभ-कोविदम् । सः एकः अज-वृषः तासाम् बह्वीनाम् रति-वर्धनः । रेमे काम-ग्रह-ग्रस्तः आत्मानम् न अवबुध्यत ॥ ६ ॥
pīvānam śmaśrulam preṣṭham mīḍhvāṃsam yābha-kovidam . saḥ ekaḥ aja-vṛṣaḥ tāsām bahvīnām rati-vardhanaḥ . reme kāma-graha-grastaḥ ātmānam na avabudhyata .. 6 ..
तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद् बस्तकर्म तत् ॥ ७ ॥
तम् एव प्रेष्ठतमया रममाणम् अजा अन्यया । विलोक्य कूप-संविग्ना ना अमृष्यत् बस्त-कर्म तत् ॥ ७ ॥
tam eva preṣṭhatamayā ramamāṇam ajā anyayā . vilokya kūpa-saṃvignā nā amṛṣyat basta-karma tat .. 7 ..
तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियारामं उत्सृज्य स्वामिनं दुःखिता ययौ ॥ ८ ॥
तम् दुर्हृदम् सुहृद्-रूपम् कामिनम् क्षण-सौहृदम् । इन्द्रिय-आरामम् उत्सृज्य स्वामिनम् दुःखिता ययौ ॥ ८ ॥
tam durhṛdam suhṛd-rūpam kāminam kṣaṇa-sauhṛdam . indriya-ārāmam utsṛjya svāminam duḥkhitā yayau .. 8 ..
सोऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि संधितुम् ॥ ९ ॥
सः अपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम् । कुर्वन् इड-विड-आकारम् न अशक्नोत् पथि संधितुम् ॥ ९ ॥
saḥ api ca anugataḥ straiṇaḥ kṛpaṇaḥ tām prasāditum . kurvan iḍa-viḍa-ākāram na aśaknot pathi saṃdhitum .. 9 ..
तस्य तत्र द्विजः कश्चित् अजास्वाम्यच्छिनद् रुषा । लम्बन्तं वृषणं भूयः सन्दधेऽर्थाय योगवित् ॥ १० ॥
तस्य तत्र द्विजः कश्चिद् अजास्वामी अच्छिनत् रुषा । लम्बन्तम् वृषणम् भूयस् सन्दधे अर्थाय योग-विद् ॥ १० ॥
tasya tatra dvijaḥ kaścid ajāsvāmī acchinat ruṣā . lambantam vṛṣaṇam bhūyas sandadhe arthāya yoga-vid .. 10 ..
संबद्धवृषणः सोऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ ११ ॥
संबद्ध-वृषणः सः अपि हि अजया कूप-लब्धया । कालम् बहुतिथम् भद्रे कामैः न अद्य अपि तुष्यति ॥ ११ ॥
saṃbaddha-vṛṣaṇaḥ saḥ api hi ajayā kūpa-labdhayā . kālam bahutitham bhadre kāmaiḥ na adya api tuṣyati .. 11 ..
तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ १२ ॥
तथा अहम् कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः । आत्मानम् ना अभिजानामि मोहितः तव मायया ॥ १२ ॥
tathā aham kṛpaṇaḥ subhru bhavatyāḥ prema-yantritaḥ . ātmānam nā abhijānāmi mohitaḥ tava māyayā .. 12 ..
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ १३ ॥
यत् पृथिव्याम् व्रीहि-यवम् हिरण्यम् पशवः स्त्रियः । न दुह्यन्ति मनः-प्रीतिम् पुंसः काम-हतस्य ते ॥ १३ ॥
yat pṛthivyām vrīhi-yavam hiraṇyam paśavaḥ striyaḥ . na duhyanti manaḥ-prītim puṃsaḥ kāma-hatasya te .. 13 ..
न जातु कामः कामानां उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १४ ॥
न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मा इव भूयस् एव अभिवर्धते ॥ १४ ॥
na jātu kāmaḥ kāmānām upabhogena śāmyati . haviṣā kṛṣṇavartmā iva bhūyas eva abhivardhate .. 14 ..
यदा न कुरुते भावं सर्वभूतेष्वमंगलम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ १५ ॥
यदा न कुरुते भावम् सर्व-भूतेषु अमंगलम् । सम-दृष्टेः तदा पुंसः सर्वाः सुख-मयाः दिशः ॥ १५ ॥
yadā na kurute bhāvam sarva-bhūteṣu amaṃgalam . sama-dṛṣṭeḥ tadā puṃsaḥ sarvāḥ sukha-mayāḥ diśaḥ .. 15 ..
या दुस्त्यजा दुर्मतिभिः जीर्यतो या न जीर्यते । तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ १६ ॥
या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते । ताम् तृष्णाम् दुःख-निवहाम् शर्म-कामः द्रुतम् त्यजेत् ॥ १६ ॥
yā dustyajā durmatibhiḥ jīryataḥ yā na jīryate . tām tṛṣṇām duḥkha-nivahām śarma-kāmaḥ drutam tyajet .. 16 ..
मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १७ ॥
मात्रा स्वस्रा दुहित्रा वा न अ विविक्त-आसनः भवेत् । बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥ १७ ॥
mātrā svasrā duhitrā vā na a vivikta-āsanaḥ bhavet . balavān indriya-grāmaḥ vidvāṃsam api karṣati .. 17 ..
पूर्णं वर्षसहस्रं मे विषयान् सेवतोऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ १८ ॥
पूर्णम् वर्ष-सहस्रम् मे विषयान् सेवतः असकृत् । तथा अपि च अनुसवनम् तृष्णा तेषु उपजायते ॥ १८ ॥
pūrṇam varṣa-sahasram me viṣayān sevataḥ asakṛt . tathā api ca anusavanam tṛṣṇā teṣu upajāyate .. 18 ..
तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥ १९ ॥
तस्मात् एताम् अहम् त्यक्त्वा ब्रह्मणि अध्याय मानसम् । निर्द्वन्द्वः निरहंकारः चरिष्यामि मृगैः सह ॥ १९ ॥
tasmāt etām aham tyaktvā brahmaṇi adhyāya mānasam . nirdvandvaḥ nirahaṃkāraḥ cariṣyāmi mṛgaiḥ saha .. 19 ..
दृष्टं श्रुतमसद् बुद्ध्वा नानुध्यायेन्न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ २० ॥
दृष्टम् श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न सन्दिशेत् । संसृतिम् च आत्म-नाशम् च तत्र विद्वान् सः आत्म-दृश् ॥ २० ॥
dṛṣṭam śrutam asat buddhvā na anudhyāyet na sandiśet . saṃsṛtim ca ātma-nāśam ca tatra vidvān saḥ ātma-dṛś .. 20 ..
इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः । दत्त्वा स्वां जरसं तस्माद् आददे विगतस्पृहः ॥ २१ ॥
इति उक्त्वा नाहुषः जायाम् तदीयम् पूरवे वयः । दत्त्वा स्वाम् जरसम् तस्मात् आददे विगत-स्पृहः ॥ २१ ॥
iti uktvā nāhuṣaḥ jāyām tadīyam pūrave vayaḥ . dattvā svām jarasam tasmāt ādade vigata-spṛhaḥ .. 21 ..
दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ २२ ॥
दिशि दक्षिण-पूर्वस्याम् द्रुह्युम् दक्षिणतस् यदुम् । प्रतीच्याम् तुर्वसुम् चक्रे उदीच्याम् अनुम् ईश्वरम् ॥ २२ ॥
diśi dakṣiṇa-pūrvasyām druhyum dakṣiṇatas yadum . pratīcyām turvasum cakre udīcyām anum īśvaram .. 22 ..
भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजान् तस्य वशे स्थाप्य वनं ययौ ॥ २३ ॥
भू-मण्डलस्य सर्वस्य पूरुम् अर्हत्तमम् विशाम् । अभिषिच्य अग्रजान् तस्य वशे स्थाप्य वनम् ययौ ॥ २३ ॥
bhū-maṇḍalasya sarvasya pūrum arhattamam viśām . abhiṣicya agrajān tasya vaśe sthāpya vanam yayau .. 23 ..
आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः । क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥ २४ ॥
आसेवितम् वर्ष-पूगान् षड्वर्गम् विषयेषु सः । क्षणेन मुमुचे नीडम् जात-पक्षः इव द्विजः ॥ २४ ॥
āsevitam varṣa-pūgān ṣaḍvargam viṣayeṣu saḥ . kṣaṇena mumuce nīḍam jāta-pakṣaḥ iva dvijaḥ .. 24 ..
स तत्र निर्मुक्तसमस्तसंग आत्मानुभूत्या विधुतत्रिलिंगः । परेऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ २५ ॥
स तत्र निर्मुक्त-समस्त-संगः आत्म-अनुभूत्या विधुत-त्रि-लिंगः । परे अमले ब्रह्मणि वासुदेवे लेभे गतिम् भागवतीम् प्रतीतः ॥ २५ ॥
sa tatra nirmukta-samasta-saṃgaḥ ātma-anubhūtyā vidhuta-tri-liṃgaḥ . pare amale brahmaṇi vāsudeve lebhe gatim bhāgavatīm pratītaḥ .. 25 ..
श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः । स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ २६ ॥ सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वर तन्त्राणां मायाविरचितं प्रभोः ॥ २७ ॥
श्रुत्वा गाथाम् देवयानी मेने प्रस्तोभम् आत्मनः । स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव ईरितम् ॥ २६ ॥ सा सन्निवासम् सुहृदाम् प्रपायाम् इव गच्छताम् । विज्ञाय ईश्वर तन्त्राणाम् माया-विरचितम् प्रभोः ॥ २७ ॥
śrutvā gāthām devayānī mene prastobham ātmanaḥ . strī-puṃsoḥ sneha-vaiklavyāt parihāsam iva īritam .. 26 .. sā sannivāsam suhṛdām prapāyām iva gacchatām . vijñāya īśvara tantrāṇām māyā-viracitam prabhoḥ .. 27 ..
सर्वत्र संगघ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोल्लिंगमात्मनः ॥ २८ ॥
सर्वत्र संगघ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोत् लिंगम् आत्मनः ॥ २८ ॥
sarvatra saṃgaghgam utsṛjya svapna-aupamyena bhārgavī . kṛṣṇe manaḥ samāveśya vyadhunot liṃgam ātmanaḥ .. 28 ..
नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ २९ ॥
नमः तुभ्यम् भगवते वासुदेवाय वेधसे । सर्व-भूत-अधिवासाय शान्ताय बृहते नमः ॥ २९ ॥
namaḥ tubhyam bhagavate vāsudevāya vedhase . sarva-bhūta-adhivāsāya śāntāya bṛhate namaḥ .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe ekonaviṃśaḥ adhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In