| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥
पूरोः वंशम् प्रवक्ष्यामि यत्र जातः असि भारत । यत्र राजर्षयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥ १ ॥
pūroḥ vaṃśam pravakṣyāmi yatra jātaḥ asi bhārata . yatra rājarṣayaḥ vaṃśyāḥ brahma-vaṃśyāḥ ca jajñire .. 1 ..
जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत् सुतस्ततः । प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥
जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत् सुतः ततस् । प्रवीरः अथ मनुस्युः वै तस्मात् चारुपदः अभवत् ॥ २ ॥
janamejayaḥ hi abhūt pūroḥ pracinvān tat sutaḥ tatas . pravīraḥ atha manusyuḥ vai tasmāt cārupadaḥ abhavat .. 2 ..
तस्य सुद्युरभूत् पुत्रः तस्माद् बहुगवस्ततः । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ ३ ॥
तस्य सुद्युः अभूत् पुत्रः तस्मात् बहुगवः ततस् । संयातिः तस्य अहंयाती रौद्राश्वः तद्-सुतः स्मृतः ॥ ३ ॥
tasya sudyuḥ abhūt putraḥ tasmāt bahugavaḥ tatas . saṃyātiḥ tasya ahaṃyātī raudrāśvaḥ tad-sutaḥ smṛtaḥ .. 3 ..
ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुः च धर्म-सत्य-व्रतेयवः ॥ ४ ॥
ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ . jaleyuḥ sannateyuḥ ca dharma-satya-vrateyavaḥ .. 4 ..
दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ ५ ॥
दशा एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः । घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगदात्मनः ॥ ५ ॥
daśā ete apsarasaḥ putrāḥ vaneyuḥ ca avamaḥ smṛtaḥ . ghṛtācyām indriyāṇi iva mukhyasya jagadātmanaḥ .. 5 ..
ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥ ६ ॥
ऋतेयः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप । सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥ ६ ॥
ṛteyaḥ rantibhāraḥ abhūt trayaḥ tasya ātmajāḥ nṛpa . sumatiḥ dhruvaḥ apratirathaḥ kaṇvaḥ apratiratha-ātmajaḥ .. 6 ..
तस्य मेधातिथिः तस्मात् प्रस्कण्वाद्या द्विजातयः । पुत्रोऽभूत् सुमते रेभ्यो दुष्यन्तः तत्सुतो मतः ॥ ७ ॥
तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः । पुत्रः अभूत् सुमतेः रेभ्यः दुष्यन्तः तद्-सुतः मतः ॥ ७ ॥
tasya medhātithiḥ tasmāt praskaṇva-ādyāḥ dvijātayaḥ . putraḥ abhūt sumateḥ rebhyaḥ duṣyantaḥ tad-sutaḥ mataḥ .. 7 ..
दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥
दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदम् गतः । तत्र आसीनाम् स्व-प्रभया मण्डयन्तीम् रमाम् इव ॥ ८ ॥
duṣyantaḥ mṛgayām yātaḥ kaṇva-āśrama-padam gataḥ . tatra āsīnām sva-prabhayā maṇḍayantīm ramām iva .. 8 ..
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ ९ ॥
विलोक्य सद्यस् मुमुहे देव-मायाम् इव स्त्रियम् । बभाषे ताम् वरारोहाम् भटैः कतिपयैः वृतः ॥ ९ ॥
vilokya sadyas mumuhe deva-māyām iva striyam . babhāṣe tām varārohām bhaṭaiḥ katipayaiḥ vṛtaḥ .. 9 ..
तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ १० ॥
तद्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः । पप्रच्छ काम-सन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ १० ॥
tad-darśana-pramuditaḥ saṃnivṛtta-pariśramaḥ . papraccha kāma-santaptaḥ prahasan ślakṣṇayā girā .. 10 ..
का त्वं कमलपत्राक्षि कस्यासि हृदयंगमे । किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने ॥ ११ ॥
का त्वम् कमल-पत्र-अक्षि कस्य असि हृदयंगमे । किम् वा चिकीर्षितम् तु अत्र भवत्या निर्जने वने ॥ ११ ॥
kā tvam kamala-patra-akṣi kasya asi hṛdayaṃgame . kim vā cikīrṣitam tu atra bhavatyā nirjane vane .. 11 ..
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥ १२ ॥
व्यक्तम् राजन्य-तनयाम् वेद्मि अहम् त्वाम् सुमध्यमे । न हि चेतः पौरवाणाम् अधर्मे रमते क्वचिद् ॥ १२ ॥
vyaktam rājanya-tanayām vedmi aham tvām sumadhyame . na hi cetaḥ pauravāṇām adharme ramate kvacid .. 12 ..
श्रीशकुन्तलोवाच ।
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥
विश्वामित्र-आत्मजा एव अहम् त्यक्ता मेनकया वने । वेद एतत् भगवान् कण्वः वीर किम् करवाम ते ॥ १३ ॥
viśvāmitra-ātmajā eva aham tyaktā menakayā vane . veda etat bhagavān kaṇvaḥ vīra kim karavāma te .. 13 ..
आस्यतां ह्यरविन्दाक्ष गृह्यतां अर्हणं च नः । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥
आस्यताम् हि अरविन्द-अक्ष गृह्यताम् अर्हणम् च नः । भुज्यताम् सन्ति नीवाराः उष्यताम् यदि रोचते ॥ १४ ॥
āsyatām hi aravinda-akṣa gṛhyatām arhaṇam ca naḥ . bhujyatām santi nīvārāḥ uṣyatām yadi rocate .. 14 ..
दुष्यन्त उवाच ।
उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ १५ ॥
उपपन्नम् इदम् सुभ्रु जातायाः कुशिक-अन्वये । स्वयम् हि वृणुते राज्ञाम् कन्यकाः सदृशम् वरम् ॥ १५ ॥
upapannam idam subhru jātāyāḥ kuśika-anvaye . svayam hi vṛṇute rājñām kanyakāḥ sadṛśam varam .. 15 ..
ओमित्युक्ते यथाधर्मं उपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥
ओम् इति उक्ते यथाधर्मम् उपयेमे शकुन्तलाम् । गान्धर्व-विधिना राजा देश-काल-विधान-विद् ॥ १६ ॥
om iti ukte yathādharmam upayeme śakuntalām . gāndharva-vidhinā rājā deśa-kāla-vidhāna-vid .. 16 ..
अमोघवीर्यो राजर्षिः महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ १७ ॥
अमोघवीर्यः राजर्षिः महिष्याम् वीर्यम् आदधे । श्वोभूते स्व-पुरम् यातः कालेन असूत सा सुतम् ॥ १७ ॥
amoghavīryaḥ rājarṣiḥ mahiṣyām vīryam ādadhe . śvobhūte sva-puram yātaḥ kālena asūta sā sutam .. 17 ..
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥ १८ ॥
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥ १८ ॥
kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ . baddhvā mṛgendrān tarasā krīḍati sma sa bālakaḥ .. 18 ..
तं दुरत्ययविक्रान्तं आदाय प्रमदोत्तमा । हरेः अंशांशसंभूतं भर्तुरन्तिकमागमत् ॥ १९ ॥
तम् दुरत्यय-विक्रान्तम् आदाय प्रमदा-उत्तमा । हरेः अंश-अंश-संभूतम् भर्तुः अन्तिकम् आगमत् ॥ १९ ॥
tam duratyaya-vikrāntam ādāya pramadā-uttamā . hareḥ aṃśa-aṃśa-saṃbhūtam bhartuḥ antikam āgamat .. 19 ..
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ । श्रृण्वतां सर्वभूतानां खे वाग् आह अशरीरिणी ॥ २० ॥
यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ । श्रृण्वताम् सर्व-भूतानाम् खे वाच् आह अशरीरिणी ॥ २० ॥
yadā na jagṛhe rājā bhāryā-putrau aninditau . śrṛṇvatām sarva-bhūtānām khe vāc āha aśarīriṇī .. 20 ..
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ २१ ॥
माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः । भरस्व पुत्रम् दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥ २१ ॥
mātā bhastrā pituḥ putraḥ yena jātaḥ saḥ eva saḥ . bharasva putram duṣyanta mā avamaṃsthāḥ śakuntalām .. 21 ..
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥
रेतः-धाः पुत्रः नयति नरदेव यम-क्षयात् । त्वम् च अस्य धाता गर्भस्य सत्यम् आह शकुन्तला ॥ २२ ॥
retaḥ-dhāḥ putraḥ nayati naradeva yama-kṣayāt . tvam ca asya dhātā garbhasya satyam āha śakuntalā .. 22 ..
पितरि उपरते सोऽपि चक्रवर्ती महायशाः । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥
पितरि उपरते सः अपि चक्रवर्ती महा-यशाः । महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥ २३ ॥
pitari uparate saḥ api cakravartī mahā-yaśāḥ . mahimā gīyate tasya hareḥ aṃśa-bhuvaḥ bhuvi .. 23 ..
चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः । ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः ॥ २४ ॥
चक्रम् दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः । ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराज् विभुः ॥ २४ ॥
cakram dakṣiṇa-haste asya padma-kośaḥ asya pādayoḥ . īje mahā-abhiṣekeṇa saḥ abhiṣiktaḥ adhirāj vibhuḥ .. 24 ..
पञ्चपञ्चाशता मेध्यैः गंगायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ २५ ॥
पञ्चपञ्चाशता मेध्यैः गंगायाम् अनु वाजिभिः । मामतेयम् पुरोधाय यमुनाम् अनु च प्रभुः ॥ २५ ॥
pañcapañcāśatā medhyaiḥ gaṃgāyām anu vājibhiḥ . māmateyam purodhāya yamunām anu ca prabhuḥ .. 25 ..
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु । भरतस्य हि दौष्यन्तेः अग्निः साचीगुणे चितः । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥
अष्टसप्तति-मेध्य-अश्वान् बबन्ध प्रददत् वसु । भरतस्य हि दौष्यन्तेः अग्निः साचीगुणे चितः । सहस्रम् बद्वशस् यस्मिन् ब्राह्मणाः गाः विभेजिरे ॥ २६ ॥
aṣṭasaptati-medhya-aśvān babandha pradadat vasu . bharatasya hi dauṣyanteḥ agniḥ sācīguṇe citaḥ . sahasram badvaśas yasmin brāhmaṇāḥ gāḥ vibhejire .. 26 ..
त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥
त्रयस्त्रिंशत्-शतम् हि अश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्यन्तिः अत्यगात् मायाम् देवानाम् गुरुम् आययौ ॥ २७ ॥
trayastriṃśat-śatam hi aśvān baddhvā vismāpayan nṛpān . dauṣyantiḥ atyagāt māyām devānām gurum āyayau .. 27 ..
मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात्कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥
मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥
mṛgān śukladataḥ kṛṣṇān hiraṇyena parīvṛtān . adāt karmaṇi maṣṇāre niyutāni caturdaśa .. 28 ..
भरतस्य महत् कर्म न पूर्वे नापरे नृपाः । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥
भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः । न एव आपुः न एव प्राप्स्यन्ति बाहुभ्याम् त्रिदिवम् यथा ॥ २९ ॥
bharatasya mahat karma na pūrve na apare nṛpāḥ . na eva āpuḥ na eva prāpsyanti bāhubhyām tridivam yathā .. 29 ..
किरातहूणान् यवनान् अंध्रान् कंकान् खगान् शकान् । अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥
किरातहूणान् यवनान् अंध्रान् कंकान् खगान् शकान् । अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥ ३० ॥
kirātahūṇān yavanān aṃdhrān kaṃkān khagān śakān . abrahmaṇyān nṛpān ca ahan mlecchān digvijaye akhilān .. 30 ..
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ ३१ ॥
जित्वा पुरा असुराः देवान् ये रसौकांसि भेजिरे । देव-स्त्रियः रसाम् नीताः प्राणिभिः पुनर् आहरत् ॥ ३१ ॥
jitvā purā asurāḥ devān ye rasaukāṃsi bhejire . deva-striyaḥ rasām nītāḥ prāṇibhiḥ punar āharat .. 31 ..
सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीः दिक्षु चक्रमवर्तयत् ॥ ३२ ॥
सर्वान् कामान् दुदुहतुः प्रजानाम् तस्य रोदसी । समाः त्रिणव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥ ३२ ॥
sarvān kāmān duduhatuḥ prajānām tasya rodasī . samāḥ triṇava-sāhasrīḥ dikṣu cakram avartayat .. 32 ..
स सम्राड् लोकपालाख्यं ऐश्वर्यं अधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृन्मृषेत्युपरराम ह ॥ ३३ ॥
स सम्राज् लोकपाल-आख्यम् ऐश्वर्यम् अधिराज् श्रियम् । चक्रम् च अ स्खलितम् प्राणान् मृद् मृषा इति उपरराम ह ॥ ३३ ॥
sa samrāj lokapāla-ākhyam aiśvaryam adhirāj śriyam . cakram ca a skhalitam prāṇān mṛd mṛṣā iti upararāma ha .. 33 ..
तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥
तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सु सम्मताः । जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥ ३४ ॥
tasya āsan nṛpa vaidarbhyaḥ patnyaḥ tisraḥ su sammatāḥ . jaghnuḥ tyāga-bhayāt putrān na anurūpāḥ iti īrite .. 34 ..
तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ ३५ ॥
तस्य एवम् वितथे वंशे तद्-अर्थम् यजतः सुतम् । मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥ ३५ ॥
tasya evam vitathe vaṃśe tad-artham yajataḥ sutam . marutstomena marutaḥ bharadvājam upādaduḥ .. 35 ..
अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ ३६ ॥
अन्तर्वत्न्याम् भ्रातृ-पत्न्याम् मैथुनाय बृहस्पतिः । प्रवृत्तः वारितः गर्भम् शप्त्वा वीर्यम् उपासृजत् ॥ ३६ ॥
antarvatnyām bhrātṛ-patnyām maithunāya bṛhaspatiḥ . pravṛttaḥ vāritaḥ garbham śaptvā vīryam upāsṛjat .. 36 ..
तं त्यक्तुकामां ममतां भर्तुत्यागविशंकिताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ ३७ ॥
तम् त्यक्तु-कामाम् ममताम् भर्तु-त्याग-विशंकिताम् । नाम-निर्वाचनम् तस्य श्लोकम् एनम् सुराः जगुः ॥ ३७ ॥
tam tyaktu-kāmām mamatām bhartu-tyāga-viśaṃkitām . nāma-nirvācanam tasya ślokam enam surāḥ jaguḥ .. 37 ..
मूढे भर द्वाजं इमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
मूढे भर द्वाजम् इमम् भर द्वाजम् बृहस्पते । यातौ यत् उक्त्वा पितरौ भरद्वाजः ततस् तु अयम् ॥ ३८ ॥
mūḍhe bhara dvājam imam bhara dvājam bṛhaspate . yātau yat uktvā pitarau bharadvājaḥ tatas tu ayam .. 38 ..
चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
चोद्यमाना सुरैः एवम् मत्वा वितथम् आत्मजम् । व्यसृजत् मरुतः अबिभ्रन् दत्तः अयम् वितथे अन्वये ॥ ३९ ॥
codyamānā suraiḥ evam matvā vitatham ātmajam . vyasṛjat marutaḥ abibhran dattaḥ ayam vitathe anvaye .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe viṃśaḥ adhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In