| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥
pūrorvaṃśaṃ pravakṣyāmi yatra jāto'si bhārata . yatra rājarṣayo vaṃśyā brahmavaṃśyāśca jajñire .. 1 ..
जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत् सुतस्ततः । प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥
janamejayo hyabhūt pūroḥ pracinvāṃstat sutastataḥ . pravīro'tha manusyurvai tasmāccārupado'bhavat .. 2 ..
तस्य सुद्युरभूत् पुत्रः तस्माद् बहुगवस्ततः । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ ३ ॥
tasya sudyurabhūt putraḥ tasmād bahugavastataḥ . saṃyātistasyāhaṃyātī raudrāśvastatsutaḥ smṛtaḥ .. 3 ..
ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ ४ ॥
ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ . jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ .. 4 ..
दशैतेऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ ५ ॥
daśaite'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ . ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ .. 5 ..
ऋतेयो रन्तिभारोऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥ ६ ॥
ṛteyo rantibhāro'bhūt trayastasyātmajā nṛpa . sumatirdhruvo'pratirathaḥ kaṇvo'pratirathātmajaḥ .. 6 ..
तस्य मेधातिथिः तस्मात् प्रस्कण्वाद्या द्विजातयः । पुत्रोऽभूत् सुमते रेभ्यो दुष्यन्तः तत्सुतो मतः ॥ ७ ॥
tasya medhātithiḥ tasmāt praskaṇvādyā dvijātayaḥ . putro'bhūt sumate rebhyo duṣyantaḥ tatsuto mataḥ .. 7 ..
दुष्यन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥
duṣyanto mṛgayāṃ yātaḥ kaṇvāśramapadaṃ gataḥ . tatrāsīnāṃ svaprabhayā maṇḍayantīṃ ramāmiva .. 8 ..
विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटैः कतिपयैर्वृतः ॥ ९ ॥
vilokya sadyo mumuhe devamāyāmiva striyam . babhāṣe tāṃ varārohāṃ bhaṭaiḥ katipayairvṛtaḥ .. 9 ..
तद्दर्शनप्रमुदितः संनिवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसन् श्लक्ष्णया गिरा ॥ १० ॥
taddarśanapramuditaḥ saṃnivṛttapariśramaḥ . papraccha kāmasantaptaḥ prahasan ślakṣṇayā girā .. 10 ..
का त्वं कमलपत्राक्षि कस्यासि हृदयंगमे । किं वा चिकीर्षितं त्वत्र भवत्या निर्जने वने ॥ ११ ॥
kā tvaṃ kamalapatrākṣi kasyāsi hṛdayaṃgame . kiṃ vā cikīrṣitaṃ tvatra bhavatyā nirjane vane .. 11 ..
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥ १२ ॥
vyaktaṃ rājanyatanayāṃ vedmyahaṃ tvāṃ sumadhyame . na hi cetaḥ pauravāṇāṃ adharme ramate kvacit .. 12 ..
श्रीशकुन्तलोवाच ।
विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥
viśvāmitrātmajaivāhaṃ tyaktā menakayā vane . vedaitad bhagavān kaṇvo vīra kiṃ karavāma te .. 13 ..
आस्यतां ह्यरविन्दाक्ष गृह्यतां अर्हणं च नः । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥
āsyatāṃ hyaravindākṣa gṛhyatāṃ arhaṇaṃ ca naḥ . bhujyatāṃ santi nīvārā uṣyatāṃ yadi rocate .. 14 ..
दुष्यन्त उवाच ।
उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ १५ ॥
upapannamidaṃ subhru jātāyāḥ kuśikānvaye . svayaṃ hi vṛṇute rājñāṃ kanyakāḥ sadṛśaṃ varam .. 15 ..
ओमित्युक्ते यथाधर्मं उपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥
omityukte yathādharmaṃ upayeme śakuntalām . gāndharvavidhinā rājā deśakālavidhānavit .. 16 ..
अमोघवीर्यो राजर्षिः महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ १७ ॥
amoghavīryo rājarṣiḥ mahiṣyāṃ vīryamādadhe . śvobhūte svapuraṃ yātaḥ kālenāsūta sā sutam .. 17 ..
कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥ १८ ॥
kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ . baddhvā mṛgendrān tarasā krīḍati sma sa bālakaḥ .. 18 ..
तं दुरत्ययविक्रान्तं आदाय प्रमदोत्तमा । हरेः अंशांशसंभूतं भर्तुरन्तिकमागमत् ॥ १९ ॥
taṃ duratyayavikrāntaṃ ādāya pramadottamā . hareḥ aṃśāṃśasaṃbhūtaṃ bharturantikamāgamat .. 19 ..
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ । श्रृण्वतां सर्वभूतानां खे वाग् आह अशरीरिणी ॥ २० ॥
yadā na jagṛhe rājā bhāryāputrāvaninditau . śrṛṇvatāṃ sarvabhūtānāṃ khe vāg āha aśarīriṇī .. 20 ..
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥ २१ ॥
mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ . bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām .. 21 ..
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥
retodhāḥ putro nayati naradeva yamakṣayāt . tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā .. 22 ..
पितरि उपरते सोऽपि चक्रवर्ती महायशाः । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥
pitari uparate so'pi cakravartī mahāyaśāḥ . mahimā gīyate tasya hareraṃśabhuvo bhuvi .. 23 ..
चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयोः । ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभुः ॥ २४ ॥
cakraṃ dakṣiṇahaste'sya padmakośo'sya pādayoḥ . īje mahābhiṣekeṇa so'bhiṣikto'dhirāḍ vibhuḥ .. 24 ..
पञ्चपञ्चाशता मेध्यैः गंगायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ २५ ॥
pañcapañcāśatā medhyaiḥ gaṃgāyāmanu vājibhiḥ . māmateyaṃ purodhāya yamunāmanu ca prabhuḥ .. 25 ..
अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु । भरतस्य हि दौष्यन्तेः अग्निः साचीगुणे चितः । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥
aṣṭasaptatimedhyāśvān babandha pradadad vasu . bharatasya hi dauṣyanteḥ agniḥ sācīguṇe citaḥ . sahasraṃ badvaśo yasmin brāhmaṇā gā vibhejire .. 26 ..
त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्यन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥
trayastriṃśacchataṃ hyaśvān baddhvā vismāpayan nṛpān . dauṣyantiratyagānmāyāṃ devānāṃ gurumāyayau .. 27 ..
मृगान् शुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात्कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥
mṛgān śukladataḥ kṛṣṇān hiraṇyena parīvṛtān . adātkarmaṇi maṣṇāre niyutāni caturdaśa .. 28 ..
भरतस्य महत् कर्म न पूर्वे नापरे नृपाः । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥
bharatasya mahat karma na pūrve nāpare nṛpāḥ . naivāpurnaiva prāpsyanti bāhubhyāṃ tridivaṃ yathā .. 29 ..
किरातहूणान् यवनान् अंध्रान् कंकान् खगान् शकान् । अब्रह्मण्यान् नृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥
kirātahūṇān yavanān aṃdhrān kaṃkān khagān śakān . abrahmaṇyān nṛpāṃścāhan mlecchān digvijaye'khilān .. 30 ..
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ ३१ ॥
jitvā purāsurā devān ye rasaukāṃsi bhejire . devastriyo rasāṃ nītāḥ prāṇibhiḥ punarāharat .. 31 ..
सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीः दिक्षु चक्रमवर्तयत् ॥ ३२ ॥
sarvān kāmān duduhatuḥ prajānāṃ tasya rodasī . samāstriṇavasāhasrīḥ dikṣu cakramavartayat .. 32 ..
स सम्राड् लोकपालाख्यं ऐश्वर्यं अधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृन्मृषेत्युपरराम ह ॥ ३३ ॥
sa samrāḍ lokapālākhyaṃ aiśvaryaṃ adhirāṭ śriyam . cakraṃ cāskhalitaṃ prāṇān mṛnmṛṣetyupararāma ha .. 33 ..
तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥
tasyāsan nṛpa vaidarbhyaḥ patnyastisraḥ susammatāḥ . jaghnustyāgabhayāt putrān nānurūpā itīrite .. 34 ..
तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ ३५ ॥
tasyaivaṃ vitathe vaṃśe tadarthaṃ yajataḥ sutam . marutstomena maruto bharadvājamupādaduḥ .. 35 ..
अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ ३६ ॥
antarvatnyāṃ bhrātṛpatnyāṃ maithunāya bṛhaspatiḥ . pravṛtto vārito garbhaṃ śaptvā vīryamupāsṛjat .. 36 ..
तं त्यक्तुकामां ममतां भर्तुत्यागविशंकिताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ ३७ ॥
taṃ tyaktukāmāṃ mamatāṃ bhartutyāgaviśaṃkitām . nāmanirvācanaṃ tasya ślokamenaṃ surā jaguḥ .. 37 ..
मूढे भर द्वाजं इमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
mūḍhe bhara dvājaṃ imaṃ bhara dvājaṃ bṛhaspate . yātau yaduktvā pitarau bharadvājastatastvayam .. 38 ..
चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
codyamānā surairevaṃ matvā vitathamātmajam . vyasṛjan maruto'bibhran datto'yaṃ vitathe'nvaye .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe viṃśo'dhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In