| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ १ ॥
वितथस्य सुतान् मन्योः बृहत्क्षत्रः जयः ततस् । महा-वीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः ॥ १ ॥
vitathasya sutān manyoḥ bṛhatkṣatraḥ jayaḥ tatas . mahā-vīryaḥ naraḥ gargaḥ saṅkṛtiḥ tu nara-ātmajaḥ .. 1 ..
गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥
गुरुः च रन्तिदेवः च सङ्कृतेः पाण्डु-नन्दन । रन्तिदेवस्य महिमा इह अमुत्र च गीयते ॥ २ ॥
guruḥ ca rantidevaḥ ca saṅkṛteḥ pāṇḍu-nandana . rantidevasya mahimā iha amutra ca gīyate .. 2 ..
वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥
वियत्-वित्तस्य ददतः लब्धम् लब्धम् बुभुक्षतः । निष्किञ्चनस्य धीरस्य स कुटुम्बस्य सीदतः ॥ ३ ॥
viyat-vittasya dadataḥ labdham labdham bubhukṣataḥ . niṣkiñcanasya dhīrasya sa kuṭumbasya sīdataḥ .. 3 ..
व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥
व्यतीयुः अष्टचत्वारिंशत्-अहनि अपिबतः किल । घृत-पायस-संयावम् तोयम् प्रातर् उपस्थितम् ॥ ४ ॥
vyatīyuḥ aṣṭacatvāriṃśat-ahani apibataḥ kila . ghṛta-pāyasa-saṃyāvam toyam prātar upasthitam .. 4 ..
कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥
कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुध्-तृड्भ्याम् जात-वेपथोः । अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च अगमत् ॥ ५ ॥
kṛcchra-prāpta-kuṭumbasya kṣudh-tṛḍbhyām jāta-vepathoḥ . atithiḥ brāhmaṇaḥ kāle bhoktu-kāmasya ca agamat .. 5 ..
तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥
तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः । हरिम् सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥
tasmai saṃvyabhajat saḥ annam ādṛtya śraddhayā anvitaḥ . harim sarvatra saṃpaśyan sa bhuktvā prayayau dvijaḥ .. 6 ..
अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥
अथा अन्यः भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तम् व्यभजत् तस्मै वृषलाय हरिम् स्मरन् ॥ ७ ॥
athā anyaḥ bhokṣyamāṇasya vibhaktasya mahīpateḥ . vibhaktam vyabhajat tasmai vṛṣalāya harim smaran .. 7 ..
याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः । राजन्मे दीयतां अन्नं सगणाय बुभुक्षते ॥ ८ ॥
याते शूद्रे तम् अन्यः अगात् अतिथिः श्वभिः आवृतः । राजन् मे दीयताम् अन्नम् स गणाय बुभुक्षते ॥ ८ ॥
yāte śūdre tam anyaḥ agāt atithiḥ śvabhiḥ āvṛtaḥ . rājan me dīyatām annam sa gaṇāya bubhukṣate .. 8 ..
स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥
सः आदृत्य अवशिष्टम् यत् बहु-मान-पुरस्कृतम् । तत् च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥
saḥ ādṛtya avaśiṣṭam yat bahu-māna-puraskṛtam . tat ca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ .. 9 ..
पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यतः पुल्कसोऽभ्यागाद् अपो देह्यशुभस्य मे ॥ १० ॥
पानीय-मात्रम् उच्छेषम् तत् च एक-परितर्पणम् । पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभस्य मे ॥ १० ॥
pānīya-mātram uccheṣam tat ca eka-paritarpaṇam . pāsyataḥ pulkasaḥ abhyāgāt apaḥ dehi aśubhasya me .. 10 ..
तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥
तस्य ताम् करुणाम् वाचम् निशम्य विपुल-श्रमाम् । कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः ॥ ११ ॥
tasya tām karuṇām vācam niśamya vipula-śramām . kṛpayā bhṛśa-santaptaḥ idam āha amṛtam vacaḥ .. 11 ..
न कामयेऽहं गतिमीश्वरात्परां अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजां अन्तःस्थितो येन भवन्त्यदुःखाः ॥ १२ ॥
न कामये अहम् गतिम् ईश्वरात् पराम् अष्ट-ऋद्धि-युक्ताम् अपुनर्भवम् वा । आर्तिम् प्रपद्ये अखिल-देहभाजाम् अन्तर् स्थितः येन भवन्ति अदुःखाः ॥ १२ ॥
na kāmaye aham gatim īśvarāt parām aṣṭa-ṛddhi-yuktām apunarbhavam vā . ārtim prapadye akhila-dehabhājām antar sthitaḥ yena bhavanti aduḥkhāḥ .. 12 ..
क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥
क्षुध्-तृष्-श्रमः गात्र-परिश्रमः च दैन्यम् क्लमः शोक-विषाद-मोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोः जीव-जल-अर्पणात् मे ॥ १३ ॥
kṣudh-tṛṣ-śramaḥ gātra-pariśramaḥ ca dainyam klamaḥ śoka-viṣāda-mohāḥ . sarve nivṛttāḥ kṛpaṇasya jantoḥ jijīviṣoḥ jīva-jala-arpaṇāt me .. 13 ..
इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥
इति प्रभाष्य पानीयम् म्रियमाणः पिपासया । पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः ॥ १४ ॥
iti prabhāṣya pānīyam mriyamāṇaḥ pipāsayā . pulkasāya adadāt dhīraḥ nisarga-karuṇaḥ nṛpaḥ .. 14 ..
तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः ॥ १५ ॥
तस्य त्रिभुवन-अधीशाः फल-दाः फलम् इच्छताम् । आत्मानम् मायाः विष्णु-विनिर्मिताः ॥ १५ ॥
tasya tribhuvana-adhīśāḥ phala-dāḥ phalam icchatām . ātmānam māyāḥ viṣṇu-vinirmitāḥ .. 15 ..
स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥
स वै तेभ्यः नमस्कृत्य निःसङ्गः विगत-स्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥
sa vai tebhyaḥ namaskṛtya niḥsaṅgaḥ vigata-spṛhaḥ . vāsudeve bhagavati bhaktyā cakre manaḥ param .. 16 ..
ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥
ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्यराधसः । माया गुण-मयी राजन् स्वप्न-वत् प्रत्यलीयत ॥ १७ ॥
īśvara-ālambanam cittam kurvataḥ ananyarādhasaḥ . māyā guṇa-mayī rājan svapna-vat pratyalīyata .. 17 ..
तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥
तद्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः । अभवन् योगिनः सर्वे नारायण-परायणाः ॥ १८ ॥
tad-prasaṅga-anubhāvena rantideva-anuvartinaḥ . abhavan yoginaḥ sarve nārāyaṇa-parāyaṇāḥ .. 18 ..
गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥
गर्गात् शिनिः ततस् गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत । दुरित-क्षयः महा-वीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥
gargāt śiniḥ tatas gārgyaḥ kṣatrāt brahma hi avartata . durita-kṣayaḥ mahā-vīryāt tasya trayyāruṇiḥ kaviḥ .. 19 ..
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम् ॥ २० ॥
पुष्करारुणिः इति अत्र ये ब्राह्मण-गतिम् गताः । बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम् ॥ २० ॥
puṣkarāruṇiḥ iti atra ye brāhmaṇa-gatim gatāḥ . bṛhatkṣatrasya putraḥ abhūt hastī yat hastināpuram .. 20 ..
अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥
अजमीढः द्विमीढः च पुरुमीढः च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः ॥ २१ ॥
ajamīḍhaḥ dvimīḍhaḥ ca purumīḍhaḥ ca hastinaḥ . ajamīḍhasya vaṃśyāḥ syuḥ priyamedha-ādayaḥ dvijāḥ .. 21 ..
अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः । बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः ॥ २२ ॥
अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः । बृहत्कायः ततस् तस्य पुत्रः आसीत् जयद्रथः ॥ २२ ॥
ajamīḍhāt bṛhadiṣuḥ tasya putraḥ bṛhaddhanuḥ . bṛhatkāyaḥ tatas tasya putraḥ āsīt jayadrathaḥ .. 22 ..
तत्सुतो विशदस्तस्य सेनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥
तद्-सुतः विशदः तस्य सेनजित् समजायत । रुचिराश्वः दृढहनुः काश्यः वत्सः च तद्-सुताः ॥ २३ ॥
tad-sutaḥ viśadaḥ tasya senajit samajāyata . rucirāśvaḥ dṛḍhahanuḥ kāśyaḥ vatsaḥ ca tad-sutāḥ .. 23 ..
रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः । पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत् ॥ २४ ॥
रुचिराश्व-सुतः पारः पृथुसेनः तद्-आत्मजः । पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत् ॥ २४ ॥
rucirāśva-sutaḥ pāraḥ pṛthusenaḥ tad-ātmajaḥ . pārasya tanayaḥ nīpaḥ tasya putra-śatam tu abhūt .. 24 ..
स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम् ॥ २५ ॥
स कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत् । योगी स गवि भार्यायाम् विष्वक्सेनम् अधात् सुतम् ॥ २५ ॥
sa kṛtvyām śuka-kanyāyām brahmadattam ajījanat . yogī sa gavi bhāryāyām viṣvaksenam adhāt sutam .. 25 ..
जैगीषव्योपदेशेन योगतंत्रं चकार ह । उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः ॥ २६ ॥
जैगीषव्य-उपदेशेन योगतंत्रम् चकार ह । उदक्सेनः ततस् तस्मात् भल्लाटः बार्हदीषवाः ॥ २६ ॥
jaigīṣavya-upadeśena yogataṃtram cakāra ha . udaksenaḥ tatas tasmāt bhallāṭaḥ bārhadīṣavāḥ .. 26 ..
यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥
यवीनरः द्विमीढस्य कृतिमान् तद्-सुतः स्मृतः । नाम्ना सत्यधृतिः तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥
yavīnaraḥ dvimīḍhasya kṛtimān tad-sutaḥ smṛtaḥ . nāmnā satyadhṛtiḥ tasya dṛḍhanemiḥ supārśvakṛt .. 27 ..
सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततस् । कृती हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षष् ॥ २८ ॥
supārśvāt sumatiḥ tasya putraḥ sannatimān tatas . kṛtī hiraṇyanābhāt yaḥ yogam prāpya jagau sma ṣaṣ .. 28 ..
संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः । तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥
संहिताः प्राच्यसाम्नाम् वै नीपः हि उग्रायुधः ततस् । तस्य क्षेम्यः सुवीरः अथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥
saṃhitāḥ prācyasāmnām vai nīpaḥ hi ugrāyudhaḥ tatas . tasya kṣemyaḥ suvīraḥ atha suvīrasya ripuñjayaḥ .. 29 ..
ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः ॥ ३० ॥
ततस् बहुरथः नाम पुरुमीढः अप्रजः अभवत् । नलिन्याम् अजमीढस्य नीलः शान्तिः सुतः ततस् ॥ ३० ॥
tatas bahurathaḥ nāma purumīḍhaḥ aprajaḥ abhavat . nalinyām ajamīḍhasya nīlaḥ śāntiḥ sutaḥ tatas .. 30 ..
शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्गलादयः ॥ ३१ ॥
शान्तेः सुशान्तिः तद्-पुत्रः पुरुजः अर्कः ततस् अभवत् । भर्म्याश्वः तनयः तस्य पञ्च आसन् मुद्गल-आदयः ॥ ३१ ॥
śānteḥ suśāntiḥ tad-putraḥ purujaḥ arkaḥ tatas abhavat . bharmyāśvaḥ tanayaḥ tasya pañca āsan mudgala-ādayaḥ .. 31 ..
यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
यवीनरः बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि ॥ ३२ ॥
yavīnaraḥ bṛhadviśvaḥ kāmpilyaḥ sañjayaḥ sutāḥ . bharmyāśvaḥ prāha putrāḥ me pañcānām rakṣaṇāya hi .. 32 ..
विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥
विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः । मुद्गलात् ब्रह्म-निर्वृत्तम् गोत्रम् मौद्गल्य-संज्ञितम् ॥ ३३ ॥
viṣayāṇām alam ime iti pañcāla-saṃjñitāḥ . mudgalāt brahma-nirvṛttam gotram maudgalya-saṃjñitam .. 33 ..
मिथुनं मुद्गलाद् भार्म्याद् दिवोदासः पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥
मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत् । अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात् ॥ ३४ ॥
mithunam mudgalāt bhārmyāt divodāsaḥ pumān abhūt . ahalyā kanyakā yasyām śatānandaḥ tu gautamāt .. 34 ..
तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल ॥ ३५ ॥
तस्य सत्यधृतिः पुत्रः धनुर्वेद-विशारदः । शरद्वान् तद्-सुतः यस्मात् उर्वशी-दर्शनात् किल ॥ ३५ ॥
tasya satyadhṛtiḥ putraḥ dhanurveda-viśāradaḥ . śaradvān tad-sutaḥ yasmāt urvaśī-darśanāt kila .. 35 ..
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् । तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ ३६ ॥
शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम् । तत् दृष्ट्वा कृपया अगृह्णात् शन्तनुः मृगयाम् चरन् । कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी ॥ ३६ ॥
śara-stambe apatat retaḥ mithunam tat abhūt śubham . tat dṛṣṭvā kṛpayā agṛhṇāt śantanuḥ mṛgayām caran . kṛpaḥ kumāraḥ kanyā ca droṇa-patnī abhavat kṛpī .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे एकविंशः अध्यायः ॥ २१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe ekaviṃśaḥ adhyāyaḥ .. 21 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In