| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ १ ॥
vitathasya sutān manyoḥ bṛhatkṣatro jayastataḥ . mahāvīryo naro gargaḥ saṅkṛtistu narātmajaḥ .. 1 ..
गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥
guruśca rantidevaśca saṅkṛteḥ pāṇḍunandana . rantidevasya mahimā ihāmutra ca gīyate .. 2 ..
वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ ३ ॥
viyadvittasya dadato labdhaṃ labdhaṃ bubhukṣataḥ . niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ .. 3 ..
व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥
vyatīyuḥ aṣṭacatvāriṃśat ahani apibataḥ kila . ghṛtapāyasasaṃyāvaṃ toyaṃ prātarupasthitam .. 4 ..
कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ ५ ॥
kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṃ jātavepathoḥ . atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat .. 5 ..
तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः ॥ ६ ॥
tasmai saṃvyabhajat so'nnaṃ ādṛtya śraddhayānvitaḥ . hariṃ sarvatra saṃpaśyan sa bhuktvā prayayau dvijaḥ .. 6 ..
अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥
athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ . vibhaktaṃ vyabhajat tasmai vṛṣalāya hariṃ smaran .. 7 ..
याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः । राजन्मे दीयतां अन्नं सगणाय बुभुक्षते ॥ ८ ॥
yāte śūdre tamanyo'gād atithiḥ śvabhirāvṛtaḥ . rājanme dīyatāṃ annaṃ sagaṇāya bubhukṣate .. 8 ..
स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ ९ ॥
sa ādṛtyāvaśiṣṭaṃ yad bahumānapuraskṛtam . tacca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ .. 9 ..
पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यतः पुल्कसोऽभ्यागाद् अपो देह्यशुभस्य मे ॥ १० ॥
pānīyamātramuccheṣaṃ taccaikaparitarpaṇam . pāsyataḥ pulkaso'bhyāgād apo dehyaśubhasya me .. 10 ..
तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ ११ ॥
tasya tāṃ karuṇāṃ vācaṃ niśamya vipulaśramām . kṛpayā bhṛśasantapta idamāhāmṛtaṃ vacaḥ .. 11 ..
न कामयेऽहं गतिमीश्वरात्परां अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजां अन्तःस्थितो येन भवन्त्यदुःखाः ॥ १२ ॥
na kāmaye'haṃ gatimīśvarātparāṃ aṣṭarddhiyuktāmapunarbhavaṃ vā . ārtiṃ prapadye'khiladehabhājāṃ antaḥsthito yena bhavantyaduḥkhāḥ .. 12 ..
क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥
kṣuttṛṭśramo gātrapariśramaśca dainyaṃ klamaḥ śokaviṣādamohāḥ . sarve nivṛttāḥ kṛpaṇasya jantoḥ jijīviṣorjīvajalārpaṇānme .. 13 ..
इति प्रभाष्य पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः ॥ १४ ॥
iti prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā . pulkasāyādadād dhīro nisargakaruṇo nṛpaḥ .. 14 ..
तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः ॥ १५ ॥
tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām . ātmānaṃ darśayāṃ cakruḥ māyā viṣṇuvinirmitāḥ .. 15 ..
स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ १६ ॥
sa vai tebhyo namaskṛtya niḥsaṅgo vigataspṛhaḥ . vāsudeve bhagavati bhaktyā cakre manaḥ param .. 16 ..
ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ १७ ॥
īśvarālambanaṃ cittaṃ kurvato'nanyarādhasaḥ . māyā guṇamayī rājan svapnavat pratyalīyata .. 17 ..
तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ १८ ॥
tatprasaṅgānubhāvena rantidevānuvartinaḥ . abhavan yoginaḥ sarve nārāyaṇaparāyaṇāḥ .. 18 ..
गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ १९ ॥
gargācchinistato gārgyaḥ kṣatrād brahma hyavartata . duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ .. 19 ..
पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम् ॥ २० ॥
puṣkarāruṇirityatra ye brāhmaṇagatiṃ gatāḥ . bṛhatkṣatrasya putro'bhūt hastī yad hastināpuram .. 20 ..
अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः । अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ २१ ॥
ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ . ajamīḍhasya vaṃśyāḥ syuḥ priyamedhādayo dvijāḥ .. 21 ..
अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः । बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः ॥ २२ ॥
ajamīḍhād bṛhadiṣuḥ tasya putro bṛhaddhanuḥ . bṛhatkāyaḥ tatastasya putra āsīt jayadrathaḥ .. 22 ..
तत्सुतो विशदस्तस्य सेनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ २३ ॥
tatsuto viśadastasya senajit samajāyata . rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ .. 23 ..
रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः । पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत् ॥ २४ ॥
rucirāśvasutaḥ pāraḥ pṛthusenaḥ tadātmajaḥ . pārasya tanayo nīpaḥ tasya putraśataṃ tvabhūt .. 24 ..
स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम् ॥ २५ ॥
sa kṛtvyāṃ śukakanyāyāṃ brahmadattamajījanat . yogī sa gavi bhāryāyāṃ viṣvaksenaṃ adhāt sutam .. 25 ..
जैगीषव्योपदेशेन योगतंत्रं चकार ह । उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः ॥ २६ ॥
jaigīṣavyopadeśena yogataṃtraṃ cakāra ha . udaksenaḥ tatastasmād bhallāṭo bārhadīṣavāḥ .. 26 ..
यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ २७ ॥
yavīnaro dvimīḍhasya kṛtimān tatsutaḥ smṛtaḥ . nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt .. 27 ..
सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥
supārśvāt sumatistasya putraḥ sannatimān tataḥ . kṛtī hiraṇyanābhād yo yogaṃ prāpya jagau sma ṣaṭ .. 28 ..
संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः । तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः ॥ २९ ॥
saṃhitāḥ prācyasāmnāṃ vai nīpo hyugrāyudhastataḥ . tasya kṣemyaḥ suvīro'tha suvīrasya ripuñjayaḥ .. 29 ..
ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः ॥ ३० ॥
tato bahuratho nāma purumīḍho'prajo'bhavat . nalinyāṃ ajamīḍhasya nīlaḥ śāntiḥ sutastataḥ .. 30 ..
शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्गलादयः ॥ ३१ ॥
śānteḥ suśāntistatputraḥ purujo'rkastato'bhavat . bharmyāśvaḥ tanayastasya pañcāsan mudgalādayaḥ .. 31 ..
यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥
yavīnaro bṛhadviśvaḥ kāmpilyaḥ sañjayaḥ sutāḥ . bharmyāśvaḥ prāha putrā me pañcānāṃ rakṣaṇāya hi .. 32 ..
विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥
viṣayāṇāmalamime iti pañcālasaṃjñitāḥ . mudgalād brahmanirvṛttaṃ gotraṃ maudgalyasaṃjñitam .. 33 ..
मिथुनं मुद्गलाद् भार्म्याद् दिवोदासः पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥
mithunaṃ mudgalād bhārmyād divodāsaḥ pumānabhūt . ahalyā kanyakā yasyāṃ śatānandastu gautamāt .. 34 ..
तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल ॥ ३५ ॥
tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ . śaradvān tatsuto yasmād urvaśīdarśanāt kila .. 35 ..
शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् । तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ ३६ ॥
śarastambe'patad reto mithunaṃ tadabhūcchubham . taddṛṣṭvā kṛpayāgṛhṇāt śantanurmṛgayāṃ caran . kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavat kṛpī .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe ekaviṃśo'dhyāyaḥ .. 21 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In