| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
मित्रेयुश्च दिवोदासात् च्यवनः तत्सुतो नृप । सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥
मित्रेयुः च दिवोदासात् च्यवनः तद्-सुतः नृप । सुदासः सहदेवः अथ सोमकः जन्तुजन्मकृत् ॥ १ ॥
mitreyuḥ ca divodāsāt cyavanaḥ tad-sutaḥ nṛpa . sudāsaḥ sahadevaḥ atha somakaḥ jantujanmakṛt .. 1 ..
तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः । द्रुपदो द्रौपदी तस्यजज्ञे धृष्टद्युम्नादयः सुताः ॥ २ ॥
तस्य पुत्र-शतम् तेषाम् यवीयान् पृषतः सुतः । द्रुपदः द्रौपदी धृष्टद्युम्न-आदयः सुताः ॥ २ ॥
tasya putra-śatam teṣām yavīyān pṛṣataḥ sutaḥ . drupadaḥ draupadī dhṛṣṭadyumna-ādayaḥ sutāḥ .. 2 ..
धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालका इमे । योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ ३ ॥
धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालकाः इमे । यः अजमीढ-सुतः हि अन्यः ऋक्षः संवरणः ततस् ॥ ३ ॥
dhṛṣṭadyumnāt dhṛṣṭaketuḥ bhārmyāḥ pāñcālakāḥ ime . yaḥ ajamīḍha-sutaḥ hi anyaḥ ṛkṣaḥ saṃvaraṇaḥ tatas .. 3 ..
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षित् सुधनुर्जह्नुः निषधाश्व कुरोः सुताः ॥ ४ ॥
तपत्याम् सूर्य-कन्यायाम् कुरुक्षेत्र-पतिः कुरुः । परीक्षित् सुधनुः-जह्नुः निषध-अश्व-कुरोः सुताः ॥ ४ ॥
tapatyām sūrya-kanyāyām kurukṣetra-patiḥ kuruḥ . parīkṣit sudhanuḥ-jahnuḥ niṣadha-aśva-kuroḥ sutāḥ .. 4 ..
सुहोत्रोऽभूत् सुधनुषः च्यवनोऽथ ततः कृती । वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ ५ ॥
सुहोत्रः अभूत् सुधनुषः च्यवनः अथ ततस् कृती । वसुः तस्य उपरिचरः बृहद्रथ-मुखाः ततस् ॥ ५ ॥
suhotraḥ abhūt sudhanuṣaḥ cyavanaḥ atha tatas kṛtī . vasuḥ tasya uparicaraḥ bṛhadratha-mukhāḥ tatas .. 5 ..
कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः । बृहद्रथात्कुशाग्रोऽभूत् ऋषभस्तस्य तत्सुतः ॥ ६ ॥
कुशाम्ब-मत्स्य-प्रत्यग्र चेदिप-आद्याः च चेदिपाः । बृहद्रथात् कुशाग्रः अभूत् ऋषभः तस्य तद्-सुतः ॥ ६ ॥
kuśāmba-matsya-pratyagra cedipa-ādyāḥ ca cedipāḥ . bṛhadrathāt kuśāgraḥ abhūt ṛṣabhaḥ tasya tad-sutaḥ .. 6 ..
जज्ञे सत्यहितोऽपत्यं पुष्पवान् तत्सुतो जहुः । अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ ७ ॥
जज्ञे सत्यहितः अपत्यम् पुष्पवान् तद्-सुतः जहुः । अन्यस्याम् अपि भार्यायाम् शकले द्वे बृहद्रथात् ॥ ७ ॥
jajñe satyahitaḥ apatyam puṣpavān tad-sutaḥ jahuḥ . anyasyām api bhāryāyām śakale dve bṛhadrathāt .. 7 ..
ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥ ८ ॥
ये मात्रा बहिस् उत्सृष्टे जरया च अभिसन्धिते । जीव जीव इति क्रीडन्त्या जरासन्धः अभवत् सुतः ॥ ८ ॥
ye mātrā bahis utsṛṣṭe jarayā ca abhisandhite . jīva jīva iti krīḍantyā jarāsandhaḥ abhavat sutaḥ .. 8 ..
ततश्च सहदेवोऽभूत् सोमापिर्यत् श्रुतश्रवाः । परीक्षिद् अनपत्योऽभूत् सुरथो नाम जाह्नवः ॥ ९ ॥
ततस् च सहदेवः अभूत् सोमापिः यत् श्रुतश्रवाः । परीक्षित् अनपत्यः अभूत् सुरथः नाम जाह्नवः ॥ ९ ॥
tatas ca sahadevaḥ abhūt somāpiḥ yat śrutaśravāḥ . parīkṣit anapatyaḥ abhūt surathaḥ nāma jāhnavaḥ .. 9 ..
ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् । जयसेनस्तत् तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥
ततस् विदूरथः तस्मात् सार्वभौमः ततस् अभवत् । जयसेनः तत् तनयः राधिकः अतस् अयुत-अयु अभूत् ॥ १० ॥
tatas vidūrathaḥ tasmāt sārvabhaumaḥ tatas abhavat . jayasenaḥ tat tanayaḥ rādhikaḥ atas ayuta-ayu abhūt .. 10 ..
ततश्च क्रोधनस्तस्मात् देवातिथिरमुष्य च । ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥ ११ ॥
ततस् च क्रोधनः तस्मात् देवातिथिः अमुष्य च । ऋष्यः तस्य दिलीपः अभूत् प्रतीपः तस्य च आत्मजः ॥ ११ ॥
tatas ca krodhanaḥ tasmāt devātithiḥ amuṣya ca . ṛṣyaḥ tasya dilīpaḥ abhūt pratīpaḥ tasya ca ātmajaḥ .. 11 ..
देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ १२ ॥
देवापिः शान्तनुः तस्य वाह्लीकः इति च आत्मजाः । पितृ-राज्यम् परित्यज्य देवापिः तु वनम् गतः ॥ १२ ॥
devāpiḥ śāntanuḥ tasya vāhlīkaḥ iti ca ātmajāḥ . pitṛ-rājyam parityajya devāpiḥ tu vanam gataḥ .. 12 ..
अभवत् शन्तनू राजा प्राङ्महाभिषसंज्ञितः । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ १३ ॥
अभवत् शन्तनुः राजा प्राक् महाभिष-संज्ञितः । यम् यम् कराभ्याम् स्पृशति जीर्णम् यौवनम् एति सः ॥ १३ ॥
abhavat śantanuḥ rājā prāk mahābhiṣa-saṃjñitaḥ . yam yam karābhyām spṛśati jīrṇam yauvanam eti saḥ .. 13 ..
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनुः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ १४ ॥
शान्तिम् आप्नोति च एव अग्र्याम् कर्मणा तेन शन्तनुः । समाः द्वादश तद्-राज्ये न ववर्ष यदा विभुः ॥ १४ ॥
śāntim āpnoti ca eva agryām karmaṇā tena śantanuḥ . samāḥ dvādaśa tad-rājye na vavarṣa yadā vibhuḥ .. 14 ..
शन्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥
शन्तनुः ब्राह्मणैः उक्तः परिवेत्ता अयम् अग्र-भुज् । राज्यम् देहि अग्रजाय आशु पुर-राष्ट्र-विवृद्धये ॥ १५ ॥
śantanuḥ brāhmaṇaiḥ uktaḥ parivettā ayam agra-bhuj . rājyam dehi agrajāya āśu pura-rāṣṭra-vivṛddhaye .. 15 ..
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् । तन्मंत्रिप्रहितैर्विप्रैः वेदाद् विभ्रंशितो गिरा ॥ १६ ॥
एवम् उक्तः द्विजैः ज्येष्ठम् छन्दयामास सः अब्रवीत् । तद्-मंत्रि-प्रहितैः विप्रैः वेदात् विभ्रंशितः गिरा ॥ १६ ॥
evam uktaḥ dvijaiḥ jyeṣṭham chandayāmāsa saḥ abravīt . tad-maṃtri-prahitaiḥ vipraiḥ vedāt vibhraṃśitaḥ girā .. 16 ..
वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ १७ ॥
वेद-वाद-अतिवादान् वै तदा देवः ववर्ष ह । देवापिः योगम् आस्थाय कलाप-ग्रामम् आश्रितः ॥ १७ ॥
veda-vāda-ativādān vai tadā devaḥ vavarṣa ha . devāpiḥ yogam āsthāya kalāpa-grāmam āśritaḥ .. 17 ..
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः ॥ १८ ॥
सोम-वंशे कलौ नष्टे कृत-आदौ स्थापयिष्यति । वाह्लीकात् सोमदत्तः अभूत् भूरिः भूरिश्रवाः ततस् ॥ १८ ॥
soma-vaṃśe kalau naṣṭe kṛta-ādau sthāpayiṣyati . vāhlīkāt somadattaḥ abhūt bhūriḥ bhūriśravāḥ tatas .. 18 ..
शलश्च शन्तनोरासीद् गंगायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ १९ ॥
शलः च शन्तनोः आसीत् गंगायाम् भीष्मः आत्मवान् । सर्व-धर्म-विदाम् श्रेष्ठः महा-भागवतः कविः ॥ १९ ॥
śalaḥ ca śantanoḥ āsīt gaṃgāyām bhīṣmaḥ ātmavān . sarva-dharma-vidām śreṣṭhaḥ mahā-bhāgavataḥ kaviḥ .. 19 ..
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः । शन्तनोर्दाशकन्यायां जज्ञे चित्रांगदः सुतः ॥ २० ॥
वीर-यूथ-अग्रणीः येन रामः अपि युधि तोषितः । शन्तनोः दाश-कन्यायाम् जज्ञे चित्रांगदः सुतः ॥ २० ॥
vīra-yūtha-agraṇīḥ yena rāmaḥ api yudhi toṣitaḥ . śantanoḥ dāśa-kanyāyām jajñe citrāṃgadaḥ sutaḥ .. 20 ..
विचित्रवीर्यश्चावरजो नाम्ना चित्रांगदो हतः । यस्यां पराशरात्साक्षाद् अवतीर्णो हरेः कला ॥ २१ ॥
विचित्रवीर्यः च अवरजः नाम्ना चित्रांगदः हतः । यस्याम् पराशरात् साक्षात् अवतीर्णः हरेः कला ॥ २१ ॥
vicitravīryaḥ ca avarajaḥ nāmnā citrāṃgadaḥ hataḥ . yasyām parāśarāt sākṣāt avatīrṇaḥ hareḥ kalā .. 21 ..
वेदगुप्तो मुनिः कृष्णो यतोऽहं इदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ २२ ॥
वेद-गुप्तः मुनिः कृष्णः यतस् अहम् इदम् अध्यगाम् । हित्वा स्व-शिष्यान् पैल-आदीन् भगवान् बादरायणः ॥ २२ ॥
veda-guptaḥ muniḥ kṛṣṇaḥ yatas aham idam adhyagām . hitvā sva-śiṣyān paila-ādīn bhagavān bādarāyaṇaḥ .. 22 ..
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥
मह्यम् पुत्राय शान्ताय परम् गुह्यम् इदम् जगौ । विचित्रवीर्यः अथा उवाह काशी-राज-सुते बलात् ॥ २३ ॥
mahyam putrāya śāntāya param guhyam idam jagau . vicitravīryaḥ athā uvāha kāśī-rāja-sute balāt .. 23 ..
स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ २४ ॥
स्वयंवरात् उपानीते अम्बिका-अम्बालिके उभे । तयोः आसक्त-हृदयः गृहीतः यक्ष्मणा मृतः ॥ २४ ॥
svayaṃvarāt upānīte ambikā-ambālike ubhe . tayoḥ āsakta-hṛdayaḥ gṛhītaḥ yakṣmaṇā mṛtaḥ .. 24 ..
क्षेत्रेऽप्रजस्य वै भ्रातुः मात्रोक्तो बादरायणः । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥
क्षेत्रे अप्रजस्य वै भ्रातुः मात्रा उक्तः बादरायणः । धृतराष्ट्रम् च पाण्डुम् च विदुरम् च अपि अजीजनत् ॥ २५ ॥
kṣetre aprajasya vai bhrātuḥ mātrā uktaḥ bādarāyaṇaḥ . dhṛtarāṣṭram ca pāṇḍum ca viduram ca api ajījanat .. 25 ..
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ २६ ॥
गान्धार्याम् धृतराष्ट्रस्य जज्ञे पुत्र-शतम् नृप । तत्र दुर्योधनः ज्येष्ठः दुःशला च अपि कन्यका ॥ २६ ॥
gāndhāryām dhṛtarāṣṭrasya jajñe putra-śatam nṛpa . tatra duryodhanaḥ jyeṣṭhaḥ duḥśalā ca api kanyakā .. 26 ..
शापात् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ २७ ॥
शापात् मैथुन-रुद्धस्य पाण्डोः कुन्त्याम् महा-रथाः । जाताः धर्म-अनिल-इन्द्रेभ्यः युधिष्ठिर-मुखाः त्रयः ॥ २७ ॥
śāpāt maithuna-ruddhasya pāṇḍoḥ kuntyām mahā-rathāḥ . jātāḥ dharma-anila-indrebhyaḥ yudhiṣṭhira-mukhāḥ trayaḥ .. 27 ..
नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः । द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् ॥ २८ ॥
नकुलः सहदेवः च माद्र्याम् नासत्य-दस्रयोः । द्रौपद्याम् पञ्च पञ्चभ्यः पुत्राः ते पितरः अभवन् ॥ २८ ॥
nakulaḥ sahadevaḥ ca mādryām nāsatya-dasrayoḥ . draupadyām pañca pañcabhyaḥ putrāḥ te pitaraḥ abhavan .. 28 ..
युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनात् श्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ २९ ॥
युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनः वृकोदरात् । अर्जुनात् श्रुतकीर्तिः तु शतानीकः तु नाकुलिः ॥ २९ ॥
yudhiṣṭhirāt prativindhyaḥ śrutasenaḥ vṛkodarāt . arjunāt śrutakīrtiḥ tu śatānīkaḥ tu nākuliḥ .. 29 ..
सहदेवसुतो राजन् श्रुतकर्मा तथापरे । युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ॥ ३० ॥
सहदेव-सुतः राजन् श्रुतकर्मा तथा अपरे । युधिष्ठिरात् तु पौरव्याम् देवकः अथ घटोत्कचः ॥ ३० ॥
sahadeva-sutaḥ rājan śrutakarmā tathā apare . yudhiṣṭhirāt tu pauravyām devakaḥ atha ghaṭotkacaḥ .. 30 ..
भीमसेनाद् हिडिम्बायां काल्यां सर्वगतस्ततः । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥
भीमसेनात् हिडिम्बायाम् काल्याम् सर्व-गतः ततस् । सहदेवात् सुहोत्रम् तु विजया असूत पार्वती ॥ ३१ ॥
bhīmasenāt hiḍimbāyām kālyām sarva-gataḥ tatas . sahadevāt suhotram tu vijayā asūta pārvatī .. 31 ..
करेणुमत्यां नकुलो नरमित्रं तथार्जुनः । इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः ॥ ३२ ॥
करेणुमत्याम् नकुलः नर-मित्रम् तथा अर्जुनः । इरावन्तम् उलूप्याम् वै सुतायाम् बभ्रुवाहनम् । मणिपुर-पतेः सः अपि तद्-पुत्रः पुत्रिका-सुतः ॥ ३२ ॥
kareṇumatyām nakulaḥ nara-mitram tathā arjunaḥ . irāvantam ulūpyām vai sutāyām babhruvāhanam . maṇipura-pateḥ saḥ api tad-putraḥ putrikā-sutaḥ .. 32 ..
तव तातः सुभद्रायां अभिमन्युरजायत । सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥
तव तातः सुभद्रायाम् अभिमन्युः अजायत । सर्वातिरथजित् वीरः उत्तरायाम् ततस् भवान् ॥ ३३ ॥
tava tātaḥ subhadrāyām abhimanyuḥ ajāyata . sarvātirathajit vīraḥ uttarāyām tatas bhavān .. 33 ..
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥
परिक्षीणेषु कुरुषु द्रौणेः ब्रह्मास्त्र-तेजसा । त्वम् च कृष्ण-अनुभावेन स जीवः मोचितः अन्तकात् ॥ ३४ ॥
parikṣīṇeṣu kuruṣu drauṇeḥ brahmāstra-tejasā . tvam ca kṛṣṇa-anubhāvena sa jīvaḥ mocitaḥ antakāt .. 34 ..
तवेमे तनयास्तात जनमेजयपूर्वकाः । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥
तव इमे तनयाः तात जनमेजय-पूर्वकाः । श्रुतसेनः भीमसेनः उग्रसेनः च वीर्यवान् ॥ ३५ ॥
tava ime tanayāḥ tāta janamejaya-pūrvakāḥ . śrutasenaḥ bhīmasenaḥ ugrasenaḥ ca vīryavān .. 35 ..
जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ ३६ ॥
जनमेजयः त्वाम् विदित्वा तक्षकान् निधनम् गतम् । सर्पान् वै सर्प-याग-अग्नौ स होष्यति रुषा अन्वितः ॥ ३६ ॥
janamejayaḥ tvām viditvā takṣakān nidhanam gatam . sarpān vai sarpa-yāga-agnau sa hoṣyati ruṣā anvitaḥ .. 36 ..
कावषेयं पुरोधाय तुरं तुरगमेधयाट् । समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ ३७ ॥
कावषेयम् पुरोधाय तुरम् तुरग-मेधयाट् याट् । समन्तात् पृथिवीम् सर्वाम् जित्वा यक्ष्यति च अध्वरैः ॥ ३७ ॥
kāvaṣeyam purodhāya turam turaga-medhayāṭ yāṭ . samantāt pṛthivīm sarvām jitvā yakṣyati ca adhvaraiḥ .. 37 ..
तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥
तस्य पुत्रः शतानीकः याज्ञवल्क्यात् त्रयीम् पठन् । अस्त्र-ज्ञानम् क्रिया-ज्ञानम् शौनकात् परमा इष्यति ॥ ३८ ॥
tasya putraḥ śatānīkaḥ yājñavalkyāt trayīm paṭhan . astra-jñānam kriyā-jñānam śaunakāt paramā iṣyati .. 38 ..
सहस्रानीकस्तत्पुत्रः ततश्चैवाश्वमेधजः । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ ३९ ॥
सहस्रानीकः तद्-पुत्रः ततस् च एव अश्वमेध-जः । असीमकृष्णः तस्य अपि नेमिचक्रः तु तद्-सुतः ॥ ३९ ॥
sahasrānīkaḥ tad-putraḥ tatas ca eva aśvamedha-jaḥ . asīmakṛṣṇaḥ tasya api nemicakraḥ tu tad-sutaḥ .. 39 ..
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथः तस्मात् कविरथः सुतः ॥ ४० ॥
गजाह्वये हृते नद्या कौशाम्ब्याम् साधु वत्स्यति । उक्तः ततस् चित्ररथः तस्मात् कविरथः सुतः ॥ ४० ॥
gajāhvaye hṛte nadyā kauśāmbyām sādhu vatsyati . uktaḥ tatas citrarathaḥ tasmāt kavirathaḥ sutaḥ .. 40 ..
तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ ४१ ॥
तस्मात् च वृष्टिमान् तस्य सुषेणः अथ महीपतिः । सुनीथः तस्य भविता नृचक्षुः यत् सुखीनलः ॥ ४१ ॥
tasmāt ca vṛṣṭimān tasya suṣeṇaḥ atha mahīpatiḥ . sunīthaḥ tasya bhavitā nṛcakṣuḥ yat sukhīnalaḥ .. 41 ..
परिप्लवः सुतस्तस्मात् मेधावी सुनयात्मजः । नृपञ्जयस्ततो दूर्वः तिमिः तस्मात् जनिष्यति ॥ ४२ ॥
परिप्लवः सुतः तस्मात् मेधावी सुनय-आत्मजः । नृपञ्जयः ततस् दूर्वः तिमिः तस्मात् जनिष्यति ॥ ४२ ॥
pariplavaḥ sutaḥ tasmāt medhāvī sunaya-ātmajaḥ . nṛpañjayaḥ tatas dūrvaḥ timiḥ tasmāt janiṣyati .. 42 ..
तिमेर्बृहद्रथः तस्मात् शतानीकः सुदासजः । शतानीकाद् दुर्दमनः तस्यापत्यं बहीनरः ॥ ४३ ॥
तिमेः बृहद्रथः तस्मात् शतानीकः सुदास-जः । शतानीकात् दुर्दमनः तस्य अपत्यम् बहीनरः ॥ ४३ ॥
timeḥ bṛhadrathaḥ tasmāt śatānīkaḥ sudāsa-jaḥ . śatānīkāt durdamanaḥ tasya apatyam bahīnaraḥ .. 43 ..
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः । ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृतः ॥ ४४ ॥
दण्डपाणिः निमिः तस्य क्षेमकः भविता यतस् । ब्रह्म-क्षत्रस्य वै प्रोक्तः वंशः देव-ऋषि-सत्कृतः ॥ ४४ ॥
daṇḍapāṇiḥ nimiḥ tasya kṣemakaḥ bhavitā yatas . brahma-kṣatrasya vai proktaḥ vaṃśaḥ deva-ṛṣi-satkṛtaḥ .. 44 ..
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भवितारो ये वदामि ते ॥ ४५ ॥
क्षेमकम् प्राप्य राजानम् संस्थाम् प्राप्स्यति वै कलौ । अथ मागध-राजानः भवितारः ये वदामि ते ॥ ४५ ॥
kṣemakam prāpya rājānam saṃsthām prāpsyati vai kalau . atha māgadha-rājānaḥ bhavitāraḥ ye vadāmi te .. 45 ..
भविता सहदेवस्य मार्जारिर्यत् श्रुतश्रवाः । ततो युतायुः तस्यापि निरमित्रोऽथ तत्सुतः ॥ ४६ ॥
भविता सहदेवस्य मार्जारिः यत् श्रुतश्रवाः । ततस् युतायुः तस्य अपि निरमित्रः अथ तद्-सुतः ॥ ४६ ॥
bhavitā sahadevasya mārjāriḥ yat śrutaśravāḥ . tatas yutāyuḥ tasya api niramitraḥ atha tad-sutaḥ .. 46 ..
सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् । ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति ॥ ४७ ॥
सुनक्षत्रः सुनक्षत्रात् बृहत्सेनः अथ कर्मजित् । ततस् सुतञ्जयात् विप्रः शुचिः तस्य भविष्यति ॥ ४७ ॥
sunakṣatraḥ sunakṣatrāt bṛhatsenaḥ atha karmajit . tatas sutañjayāt vipraḥ śuciḥ tasya bhaviṣyati .. 47 ..
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः शमस्ततः । द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥ ४८ ॥
क्षेमः अथ सुव्रतः तस्मात् धर्मसूत्रः शमः ततस् । द्युमत्सेनः अथ सुमतिः सुबलः जनिता ततस् ॥ ४८ ॥
kṣemaḥ atha suvrataḥ tasmāt dharmasūtraḥ śamaḥ tatas . dyumatsenaḥ atha sumatiḥ subalaḥ janitā tatas .. 48 ..
सुनीथः सत्यजिदथ विश्वजित् यद् रिपुञ्जयः । बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ ४९ ॥
सुनीथः सत्यजित् अथ विश्वजित् यत् रिपुञ्जयः । बार्हद्रथाः च भूपालाः भाव्याः साहस्र-वत्सरम् ॥ ४९ ॥
sunīthaḥ satyajit atha viśvajit yat ripuñjayaḥ . bārhadrathāḥ ca bhūpālāḥ bhāvyāḥ sāhasra-vatsaram .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् नवम-स्कन्धे द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām navama-skandhe dvāviṃśaḥ adhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In