| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
मित्रेयुश्च दिवोदासात् च्यवनः तत्सुतो नृप । सुदासः सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥
mitreyuśca divodāsāt cyavanaḥ tatsuto nṛpa . sudāsaḥ sahadevo'tha somako jantujanmakṛt .. 1 ..
तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः । द्रुपदो द्रौपदी तस्यजज्ञे धृष्टद्युम्नादयः सुताः ॥ २ ॥
tasya putraśataṃ teṣāṃ yavīyān pṛṣataḥ sutaḥ . drupado draupadī tasyajajñe dhṛṣṭadyumnādayaḥ sutāḥ .. 2 ..
धृष्टद्युम्नात् धृष्टकेतुः भार्म्याः पाञ्चालका इमे । योऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः ॥ ३ ॥
dhṛṣṭadyumnāt dhṛṣṭaketuḥ bhārmyāḥ pāñcālakā ime . yo'jamīḍhasuto hyanya ṛkṣaḥ saṃvaraṇastataḥ .. 3 ..
तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षित् सुधनुर्जह्नुः निषधाश्व कुरोः सुताः ॥ ४ ॥
tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ . parīkṣit sudhanurjahnuḥ niṣadhāśva kuroḥ sutāḥ .. 4 ..
सुहोत्रोऽभूत् सुधनुषः च्यवनोऽथ ततः कृती । वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ ५ ॥
suhotro'bhūt sudhanuṣaḥ cyavano'tha tataḥ kṛtī . vasustasyoparicaro bṛhadrathamukhāstataḥ .. 5 ..
कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः । बृहद्रथात्कुशाग्रोऽभूत् ऋषभस्तस्य तत्सुतः ॥ ६ ॥
kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ . bṛhadrathātkuśāgro'bhūt ṛṣabhastasya tatsutaḥ .. 6 ..
जज्ञे सत्यहितोऽपत्यं पुष्पवान् तत्सुतो जहुः । अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ ७ ॥
jajñe satyahito'patyaṃ puṣpavān tatsuto jahuḥ . anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt .. 7 ..
ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुतः ॥ ८ ॥
ye mātrā bahirutsṛṣṭe jarayā cābhisandhite . jīva jīveti krīḍantyā jarāsandho'bhavat sutaḥ .. 8 ..
ततश्च सहदेवोऽभूत् सोमापिर्यत् श्रुतश्रवाः । परीक्षिद् अनपत्योऽभूत् सुरथो नाम जाह्नवः ॥ ९ ॥
tataśca sahadevo'bhūt somāpiryat śrutaśravāḥ . parīkṣid anapatyo'bhūt suratho nāma jāhnavaḥ .. 9 ..
ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् । जयसेनस्तत् तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥
tato vidūrathastasmāt sārvabhaumastato'bhavat . jayasenastat tanayo rādhiko'to'yutāyvabhūt .. 10 ..
ततश्च क्रोधनस्तस्मात् देवातिथिरमुष्य च । ऋष्यस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ॥ ११ ॥
tataśca krodhanastasmāt devātithiramuṣya ca . ṛṣyastasya dilīpo'bhūt pratīpastasya cātmajaḥ .. 11 ..
देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ १२ ॥
devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ . pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ .. 12 ..
अभवत् शन्तनू राजा प्राङ्महाभिषसंज्ञितः । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ १३ ॥
abhavat śantanū rājā prāṅmahābhiṣasaṃjñitaḥ . yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanameti saḥ .. 13 ..
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शन्तनुः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ १४ ॥
śāntimāpnoti caivāgryāṃ karmaṇā tena śantanuḥ . samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ .. 14 ..
शन्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥
śantanurbrāhmaṇairuktaḥ parivettāyamagrabhuk . rājyaṃ dehyagrajāyāśu purarāṣṭravivṛddhaye .. 15 ..
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् । तन्मंत्रिप्रहितैर्विप्रैः वेदाद् विभ्रंशितो गिरा ॥ १६ ॥
evamukto dvijairjyeṣṭhaṃ chandayāmāsa so'bravīt . tanmaṃtriprahitairvipraiḥ vedād vibhraṃśito girā .. 16 ..
वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ १७ ॥
vedavādātivādān vai tadā devo vavarṣa ha . devāpiryogamāsthāya kalāpagrāmamāśritaḥ .. 17 ..
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्ततः ॥ १८ ॥
somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati . bāhlīkātsomadatto'bhūd bhūrirbhūriśravāstataḥ .. 18 ..
शलश्च शन्तनोरासीद् गंगायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ १९ ॥
śalaśca śantanorāsīd gaṃgāyāṃ bhīṣma ātmavān . sarvadharmavidāṃ śreṣṭho mahābhāgavataḥ kaviḥ .. 19 ..
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषितः । शन्तनोर्दाशकन्यायां जज्ञे चित्रांगदः सुतः ॥ २० ॥
vīrayūthāgraṇīryena rāmo'pi yudhi toṣitaḥ . śantanordāśakanyāyāṃ jajñe citrāṃgadaḥ sutaḥ .. 20 ..
विचित्रवीर्यश्चावरजो नाम्ना चित्रांगदो हतः । यस्यां पराशरात्साक्षाद् अवतीर्णो हरेः कला ॥ २१ ॥
vicitravīryaścāvarajo nāmnā citrāṃgado hataḥ . yasyāṃ parāśarātsākṣād avatīrṇo hareḥ kalā .. 21 ..
वेदगुप्तो मुनिः कृष्णो यतोऽहं इदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ २२ ॥
vedagupto muniḥ kṛṣṇo yato'haṃ idamadhyagām . hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ .. 22 ..
मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥
mahyaṃ putrāya śāntāya paraṃ guhyamidaṃ jagau . vicitravīryo'thovāha kāśīrājasute balāt .. 23 ..
स्वयंवराद् उपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ २४ ॥
svayaṃvarād upānīte ambikāmbālike ubhe . tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ .. 24 ..
क्षेत्रेऽप्रजस्य वै भ्रातुः मात्रोक्तो बादरायणः । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥
kṣetre'prajasya vai bhrātuḥ mātrokto bādarāyaṇaḥ . dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat .. 25 ..
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ २६ ॥
gāndhāryāṃ dhṛtarāṣṭrasya jajñe putraśataṃ nṛpa . tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā .. 26 ..
शापात् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ २७ ॥
śāpāt maithunaruddhasya pāṇḍoḥ kuntyāṃ mahārathāḥ . jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ .. 27 ..
नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः । द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरोऽभवन् ॥ २८ ॥
nakulaḥ sahadevaśca mādryāṃ nāsatyadasrayoḥ . draupadyāṃ pañca pañcabhyaḥ putrāste pitaro'bhavan .. 28 ..
युधिष्ठिरात्प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनात् श्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ २९ ॥
yudhiṣṭhirātprativindhyaḥ śrutaseno vṛkodarāt . arjunāt śrutakīrtistu śatānīkastu nākuliḥ .. 29 ..
सहदेवसुतो राजन् श्रुतकर्मा तथापरे । युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ॥ ३० ॥
sahadevasuto rājan śrutakarmā tathāpare . yudhiṣṭhirāttu pauravyāṃ devako'tha ghaṭotkacaḥ .. 30 ..
भीमसेनाद् हिडिम्बायां काल्यां सर्वगतस्ततः । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥
bhīmasenād hiḍimbāyāṃ kālyāṃ sarvagatastataḥ . sahadevāt suhotraṃ tu vijayāsūta pārvatī .. 31 ..
करेणुमत्यां नकुलो नरमित्रं तथार्जुनः । इरावन्तमुलूप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपतेः सोऽपि तत्पुत्रः पुत्रिकासुतः ॥ ३२ ॥
kareṇumatyāṃ nakulo naramitraṃ tathārjunaḥ . irāvantamulūpyāṃ vai sutāyāṃ babhruvāhanam . maṇipurapateḥ so'pi tatputraḥ putrikāsutaḥ .. 32 ..
तव तातः सुभद्रायां अभिमन्युरजायत । सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥
tava tātaḥ subhadrāyāṃ abhimanyurajāyata . sarvātirathajid vīra uttarāyāṃ tato bhavān .. 33 ..
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥
parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā . tvaṃ ca kṛṣṇānubhāvena sajīvo mocito'ntakāt .. 34 ..
तवेमे तनयास्तात जनमेजयपूर्वकाः । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥
taveme tanayāstāta janamejayapūrvakāḥ . śrutaseno bhīmasena ugrasenaśca vīryavān .. 35 ..
जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ ३६ ॥
janamejayastvāṃ viditvā takṣakānnidhanaṃ gatam . sarpān vai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ .. 36 ..
कावषेयं पुरोधाय तुरं तुरगमेधयाट् । समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ ३७ ॥
kāvaṣeyaṃ purodhāya turaṃ turagamedhayāṭ . samantāt pṛthivīṃ sarvāṃ jitvā yakṣyati cādhvaraiḥ .. 37 ..
तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥
tasya putraḥ śatānīko yājñavalkyāt trayīṃ paṭhan . astrajñānaṃ kriyājñānaṃ śaunakāt parameṣyati .. 38 ..
सहस्रानीकस्तत्पुत्रः ततश्चैवाश्वमेधजः । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ ३९ ॥
sahasrānīkastatputraḥ tataścaivāśvamedhajaḥ . asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ .. 39 ..
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथः तस्मात् कविरथः सुतः ॥ ४० ॥
gajāhvaye hṛte nadyā kauśāmbyāṃ sādhu vatsyati . uktastataścitrarathaḥ tasmāt kavirathaḥ sutaḥ .. 40 ..
तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपतिः । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ ४१ ॥
tasmācca vṛṣṭimāṃstasya suṣeṇo'tha mahīpatiḥ . sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ .. 41 ..
परिप्लवः सुतस्तस्मात् मेधावी सुनयात्मजः । नृपञ्जयस्ततो दूर्वः तिमिः तस्मात् जनिष्यति ॥ ४२ ॥
pariplavaḥ sutastasmāt medhāvī sunayātmajaḥ . nṛpañjayastato dūrvaḥ timiḥ tasmāt janiṣyati .. 42 ..
तिमेर्बृहद्रथः तस्मात् शतानीकः सुदासजः । शतानीकाद् दुर्दमनः तस्यापत्यं बहीनरः ॥ ४३ ॥
timerbṛhadrathaḥ tasmāt śatānīkaḥ sudāsajaḥ . śatānīkād durdamanaḥ tasyāpatyaṃ bahīnaraḥ .. 43 ..
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः । ब्रह्मक्षत्रस्य वै प्रोक्तो वंशो देवर्षिसत्कृतः ॥ ४४ ॥
daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ . brahmakṣatrasya vai prokto vaṃśo devarṣisatkṛtaḥ .. 44 ..
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भवितारो ये वदामि ते ॥ ४५ ॥
kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau . atha māgadharājāno bhavitāro ye vadāmi te .. 45 ..
भविता सहदेवस्य मार्जारिर्यत् श्रुतश्रवाः । ततो युतायुः तस्यापि निरमित्रोऽथ तत्सुतः ॥ ४६ ॥
bhavitā sahadevasya mārjāriryat śrutaśravāḥ . tato yutāyuḥ tasyāpi niramitro'tha tatsutaḥ .. 46 ..
सुनक्षत्रः सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् । ततः सुतञ्जयाद् विप्रः शुचिस्तस्य भविष्यति ॥ ४७ ॥
sunakṣatraḥ sunakṣatrād bṛhatseno'tha karmajit . tataḥ sutañjayād vipraḥ śucistasya bhaviṣyati .. 47 ..
क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्रः शमस्ततः । द्युमत्सेनोऽथ सुमतिः सुबलो जनिता ततः ॥ ४८ ॥
kṣemo'tha suvratastasmād dharmasūtraḥ śamastataḥ . dyumatseno'tha sumatiḥ subalo janitā tataḥ .. 48 ..
सुनीथः सत्यजिदथ विश्वजित् यद् रिपुञ्जयः । बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ ४९ ॥
sunīthaḥ satyajidatha viśvajit yad ripuñjayaḥ . bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ navamaskandhe dvāviṃśo'dhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In